विषयः
अपशकुन-दर्शनेन युधिष्ठिरस्य चिन्ता, द्वारकातोऽर्जुनस्यागमनं च ।
॥ १.१४.१-२ ॥
सूत उवाच—
सम्प्रस्थिते द्वारकायां जिष्णौ बन्धु-दिदृक्षया ।
ज्ञातुं च पुण्य-श्लोकस्य कृष्णस्य च विचेष्टितम् ॥
व्यतीताः कतिचिन् मासास् तदा नायात् ततोऽर्जुनः ।
ददर्श घोर-रूपाणि निमित्तानि कुरूद्वहः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **मास-शब्देनाहान्य् उच्यन्ते । तथा हि महाभारते—
अहं तु मास-शब्दोक्तं यत्र चिन्त्यायुतं व्रजेत् ।
एवं वत्सरताद्यं च विपरीते विपर्ययः ॥ इति नाम-महोदधौ ॥२॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चतुर्दशो त्व् अरिष्टानि दृष्ट्वा राजा विशङ्कितः ।
अशृणोद् अर्जुनात् कृष्ण-तिरोधानम् अतीर्यते ॥
कृष्णस्य चेति च-कारेणाभिप्रायं च ज्ञातुम् ॥१॥ कतिचित् सप्त । तदा कालातिक्रमेऽपि ततो द्वारकातो नायात् नागतः । निमित्तान्य् उत्पातान् । कुरूद्वहो युधिष्ठिरः ॥२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सम्प्रस्थित इति । अश्वमेधार्थं श्री-कृष्णस्य पुनर् आगमनान्तरम् इति ज्ञेयम् ॥१॥ ददर्शेति । विदुरागमनात् पूर्वं परं च वृत्तम् इति ज्ञेयम् ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
चतुर्दशे नृपोऽपश्यद् अरिष्टानि बहूनि यत् ।
विवेद तत्-फलं दृष्ट्वैवार्जुनं खिन्नम् आगतम् ॥
कृष्णस्य चेति च-कारेणाभिप्रायं च ज्ञातुम् ॥१॥ कतिचित् सप्त । निमित्तानि दुःख-कारणानि ॥२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
बह्वर् इष्टेक्षणाद्-राजा शङ्कितोऽभूच्-चतुर्दशे ।
तत्-फलं ज्ञातवान् दृष्ट्वैवागतं खिन्नम् अर्जुनम् ॥ \
जिष्णौ अर्जुने, कृष्णस्य चेति चात्तद् अभिप्रायं च ॥१॥ कतिचित् सप्त, निमित्तानि दुःख-कारणानि ॥२॥
———————————————————————————————————————
**॥ १.१४.३ ॥ **
कालस्य च गतिं रौद्रां विपर्यस्त-र्तु-धर्मिणः ।
पापीयसीं नृणां वार्तां क्रोध-लोभानृतात्मनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रौद्रां घोराम् । तद् एवाह । विपर्यस्ता ऋतु-धर्मा यस्मिंस् तस्य । वार्तां जीविकाम् । क्रोध-लोभानृतैर् युक्त आत्मा येषाम् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विपर्यस्ता ऋतु-धर्मा यस्मिन् तस्य । वार्तां जीविकाम् । पापीयसीम् अतिपापवतीम् ॥३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विपर्यस्ता ऋतु-धर्मा यस्मिन् । पापीयसीम् अतिपाप-युक्तां वार्तां जीविकाम् ॥३॥
———————————————————————————————————————
॥ १.१४.४ ॥
जिह्म-प्रायं व्यवहृतं शाठ्य-मिश्रं च सौहृदम् ।
पितृ-मातृ-सुहृद्-भ्रातृ- दम्-पतीनां च कल्कनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जिह्म-प्रायं कपट-बहुलम् । व्यवहृतं व्यवहारम् । शाठ्यं वञ्चनं तन्-मिश्रं सौहृदं सख्यम् । **पित्र् **आदीनां स्व-प्रतियोगिभिः कल्कनं कलहादि ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कल्कनं कलहादि ॥४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **जिह्म-प्रायं कौटिल्य-प्रचुरं, शाठ्यं वञ्चनं तन्-मिश्रं । पित्रादीनां पुत्रादिभिः कल्कनं कलहादि ॥४॥
———————————————————————————————————————
1॥ १.१४.५ ॥
निमित्तान्य् अत्यरिष्टानि काले त्व् अनुगते नृणाम् ।
लोभाद्य्-अधर्म-प्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत्यरिष्टान्य् अत्यन्तम् अशुभानि दृष्ट्वा । नृणां लोभाद्य्-अधर्म-प्रकृतिं च दृष्ट्वा । अनुजं भीमम् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्वत्र हेतुः अनुगते काले स्व-समये अनुप्राप्ते सति लोभाद्य्-अधर्म-रूपां प्रकृतिं स्वभावम् । अनुजं भीमम् ॥५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सर्वत्र हेतुः—अनुगते काले स्वसम् अयेऽसुप्त लोभाद्य् अधर्म-रूपां प्रकृतिं स्वभावं दृष्ट्वा, अनुजं भीमम् ॥५॥
———————————————————————————————————————
॥ १.१४.६ ॥
युधिष्ठिर उवाच—
सम्प्रेषितो द्वारकायां जिष्णुर् बन्धु-दिदृक्षयाज् ।
ञातुं च पुण्य-श्लोकस्य कृष्णस्य च विचेष्टितम् ॥
न केनापि व्याख्यातम्।
———————————————————————————————————————
**॥ १.१४.७ ॥ **
गताः सप्ताधुना मासा भीमसेन तवानुजः ।
नायाति कस्य वा हेतोर् नाहं वेदेदम् अञ्जसा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वेति वितर्के । कस्माद् धेतोर् नायातीत्य् आह न वेद्मि ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
**॥ १.१४.८ ॥ **
अपि देवर्षिणादिष्टः स कालोऽयम् उपस्थितः ।
यदात्मनोऽङ्गम् आक्रीडं भगवान् उत्सिसृक्षति ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अङ्ग-पृथिवीम् ।
यदा त्यागादिर् उच्येत पृथिव्याद्य्-अङ्ग-कल्पना ।
तदा ज्ञेया न हि स्वाङ्गं कदाचिद् विष्णुर् उत्सृजेत् ॥ इति ब्रह्म-तर्के ॥८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अपि किम् । यदा आत्मन आक्रीडं क्रीडा-साधनम् अङ्गं मनुष्य-नाट्यम् उत्स्रष्टुम् इच्छति स कालः प्राप्तः ॥८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अपीति । अङ्गं स्वधाम-गमनेन विराद्-रूपं त्यक्ष्यतीत्य् अर्थः _॥_८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यद् आत्मनोऽङ्गम् इति युधिष्ठिरस्य बन्धु-शोकानुरूपैवोक्तिर् न तु सिद्धण्त-स्पर्शिनी । सरस्वती तु तन्-मुखे समुचितम् एवाह यद् आत्मनोऽङ्गम् अंश-रूपं नारायणम् उत्सिसृक्षति ऊर्ध्वं वैकुण्ठं प्रति सिसृक्षति प्रस्थापयितुम् इच्छति । कीदृशम् अङ्गम् आ ईषद् एव क्रीडा यस्मिंस् तम् ॥८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अपि किं यूयं तावद् अवेक्षध्वम् इति देवर्षिणाद् इष्टः स काल उपस्थितः, यद्-यत्रात्मनः क्रीडा-स्थान-मङ्गं भूमि-रूपं भगवान् उत्स्रष्टुं त्यक्तुम् इच्छति? यस्य पृथिवी शरीरम् [बृ।आ।उ। ३.७.३] इति श्रवणात् ॥८-९॥
———————————————————————————————————————
**॥ १.१४.९ ॥ **
यस्मान् नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः ।
आसन् सपत्न-विजयो लोकाश् च यद्-अनुग्रहात् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अस्माकं सर्व-पुरुषार्थत्वे हेतुः श्री-कृष्णोऽतस् तद्-वियोगं विनानिष्टं न स्याद् इत्य् आशयेनाह । यस्माद् श्री-कृष्णाद् धेतोः । एतच् चोपरिष्टाद् अर्जुनः स्पष्टी-करिष्यति । लोकाश् च यज्ञ-करणानुरूपा यस्यानुग्रहात् ॥९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस्माद् इति । यस्यानुग्रह-मात्राल् लोकाश् च वशीकृता आसन् ॥९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-कृष्णावियोगं विनैतादृशम् अरिष्टं न स्याद् इत्य् आशयेनाह यस्माद् इत्य्-आदि । लोकाः यज्ञादि-प्राप्याः ॥९॥
———————————————————————————————————————
**॥ १.१४.१० ॥ **
पश्योत्पातान् नर-व्याघ्र दिव्यान् भौमान् सदैहिकान् ।
दारुणान् शंसतोऽदूराद् भयं नो बुद्धि-मोहनम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अदूरात् संनिहितम् । नोऽस्माकम् । आशंसत उत्पातान् ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भयं शंसतः कथयत उत्पातान् ।_।_१०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भयं शंसतः सूचयतः ॥१०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नोऽस्माकं भयम् अदूरात् शंसतः कथयतः ॥१०॥
———————————————————————————————————————
**॥ १.१४.११ ॥ **
ऊर्व्-अक्षि-बाहवो मह्यं स्फुरन्त्य् अङ्ग पुनः पुनः ।
वेपथुश् चापि हृदये आराद् दास्यन्ति विप्रियम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दैहिकान् आह—ऊर्व् इति । ऊर्व्-आदयो वामाः स्फुरन्ति । वेपथुः कम्पश् च हृदये वर्तते । एते मह्यम् आरात् सन्निहितं विप्रियं दास्यन्ति ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **दैहिकानुत्पातान् आह ऊर्व् इति । वामा इत्य् अर्थः, बहु-वचनम् आर्षम् ॥११॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **वामा ऊर्वादयः स्फुरन्ति, वेपथुः कम्पश् च हृदये भवति, एते मह्यं विप्रियम् आराद् दास्यन्ति ॥११॥
———————————————————————————————————————
॥ १.१४.१२ ॥
शिवैषोद्यन्तम् आदित्यम् अभिरौत्य् अनलानना ।
माम् अङ्ग सारमेयोऽयम् अभिरेभत्य् अभीरुवत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भौमान् आह सार्धैस् त्रिभिः । शिवा क्रोष्ट्री उद्यन्तमादित्यम् अभिरौत्य् उद्यत्-सूर्याभिमुखं क्रोशति । अनलानना अग्निं मुखेन वमन्ती । अङ्ग हे भीम । माम् अभिलक्ष्य सारमेयः श्वाभिरौति प्लुतं भषति । अभीरुवन् निःशङ्कम् ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भौमान् आह—शिवा क्रोष्ट्री आदित्यम् अभि उद्यत्-सूर्याभिमुखं क्रोशति । अनलानना अग्निं मुखेन वमन्ती । अङ्ग हे मीम! माम् अभिवीक्ष्य सारमेयः श्वा प्लुतं रौति रोदिति ॥१२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **शिवा शृगाली उद्यन्तम् आदित्यम् अभिरौति क्रोशति । अनलानना मुखाद् अग्निम् उद्वमन्ती । सारमेयः श्वा । अभीरुवत् निःशङ्कः ॥१२॥
———————————————————————————————————————
॥ १.१४.१३ ॥
शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।
वाहांश् च पुरुष-व्याघ्र लक्षये रुदतो मम ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शस्ता गवादयो मां स्वयं वामं कुर्वन्ति । अपरे गर्दभाद्याः प्रदक्षिणं कुर्वन्ति । वाहान् अश्वान् ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **शस्ता इति । मम वाहान् इत्य् अन्वयः ॥१३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शस्ताः गवादयः । सव्यं वामम् । अपरे गर्दभाद्याः प्रदक्षिणम् । वाहान् अश्वान् ॥१३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **शस्ताः शुभा गवाद्याः सव्यं वामं कूर्वन्ति । अपरेऽशुभा गर्दभाष्या दक्षिणं, वाहानश्वान् ॥१३॥
———————————————————————————————————————
॥ १.१४.१४ ॥
मृत्यु-दूतः कपोतोऽयम् उलूकः कम्पयन् मनः ।
प्रत्युलूकश् च कुह्वानैर्2** विश्वं वै शून्यम् इच्छतः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अग्नौ पदं करोति । यद् उलूको वदति । मोघम् एतद् यतः कपोतः पदम् अग्ने कृपोति इति श्रुतिः ॥१४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अयं कपोतो मृत्य्-दूतो मृत्यु-सूचकः । उलूको घूकः । प्रत्यूलुकस् तत्-प्रतिपक्षो धूकः काको वा । कुह्वानैः कुत्सित-शब्दैर् विश्वं शून्यं कर्तुम् इच्छतः ॥१४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उलूकस् तथा तत्-प्रतिपक्षोऽन्य उलूकश् च यो यो मनः कम्पयन् वर्तते, तौ द्वाव् अनिद्रौ सन्तौ ॥१४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रत्युलूकः उलूक-प्रतिपक्षो घूकः काको वा ॥१४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रत्युलूकः प्रतिपक्षो घूकश् चैतौ कुह्वानैः कुत्सित-शब्दैः जगच्-छून्यम् इच्छतः ॥१४॥
———————————————————————————————————————
॥ १.१४.१५ ॥
धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः ।
निर्घातश् च महांस् तात साकं च स्तनयित्नुभिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धूम्रा धूमरा दिशः परिधयोऽग्निम् एव लोकम् आवृण्वन्ति । दिव्यान् आह सार्धाभ्याम् । निर्घातो निरभ्र-वज्र-पातः । स्तनयित्नवोऽत्र गर्जितानि तैः सह ॥१५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **दिशः, सूर्यादि-परिधयश् च, धूम्राः ॥१५।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धूम्रा धूम्र-वर्णा दिशः परिधयः परिधि-तुल्याः । निर्घातः आकस्मिक-घोर-शब्दः । स्तनयित्नवो निरभ्र-गर्जितानि ॥१५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **धूम्रा धूसरा दिशः, परिधयः इव लोकम् आवृत्ण्वन्ति । दिव्यान् आह—निर्घातश् चाकस्मिको घोरः शब्दः । स्तनयित्नुभिर् निरभ्रर् गर्जितैः सह ॥१५॥
———————————————————————————————————————
॥ १.१४.१६ ॥
वायुर् वाति खर-स्पर्शो रजसा विसृजंस् तमः ।
असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तमो विशेषेण सृजन् । असृग् रक्तम् ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **बीभत्सं बीभत्सितव्यं यथा स्यात् तथा । इवेति वाक्यालङ्कारः ॥१६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तमोऽन्धम् । विशेषेण सृजन् । असृक् रक्तम् ॥१६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अस्रग् रुधिरं ग्रहमर्दं ग्रह-युद्धं ॥१६॥
———————————————————————————————————————
॥ १.१४.१७ ॥
सूर्यं हत-प्रभं पश्य ग्रह-मर्दं मिथो दिवि ।
ससङ्कुलैर् भूत-गणैर् ज्वलिते इव रोदसी ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ग्रहाणां मर्दं युद्धम् । भूता रुद्रानुचरास् तेषां गणैः सङ्कुलैर् व्यामिश्रैः प्राणिभिः सहितैः । रोदसी द्यावापृथिव्यौ ज्वलिते प्रदीप्ते इव च पश्यति ॥१७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स-सङ्कुलैर् इत्य् अत्र स इति । स एव त्वम् इत्य् अर्थः ॥१७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स-सङ्कुलैः प्राण्य्-अन्तर-सहितैः रोदसी द्यावापृथिव्यौ ॥१७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स-सङ्कुलैः प्राण्यन्तर-सहितैः । भूत-गणै-रुद्रानुचर-समूहैः रोदसी द्यावाभूमी । ज्वलिते दीप्ते इव ॥१७॥
———————————————————————————————————————
॥ १.१४.१८ ॥
नद्यो नदाश् च क्षुभिताः सरांसि च मनांसि च ।
न ज्वलत्य् अग्निर् आज्येन कालोऽयं किं विधास्यति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुनर् भौमान् आह—नद्य इति सार्धैस् त्रिभिः । प्राणिनां मनांसि च ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पुनर् भौमान् आह नद्य इति ॥१८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पुनर् भौमानाह—नद्य इति । मनात्सि प्राणिनाम् ॥१८॥
———————————————————————————————————————
॥ १.१४.१९ ॥
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः ।
रुदन्त्य् अश्रु-मुखा गावो न हृष्यन्त्य् ऋषभा व्रजे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दुह्यन्तीति कर्म-कर्तर्य् आर्षम् । न प्रस्नुवन्तीत्य् अर्थः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न दुह्यन्तीति कर्म-कर्तर्य् आर्षम्, न प्रस्नुवन्तीत्य् अर्थः ॥१९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **न दुह्यन्तीति कर्म-कर्तरि प्रयोग आर्षः, न प्रस्नुरन्तीत्य् अर्थः ॥१९॥
———————————————————————————————————————
॥ १.१४.२० ॥
दैवतानि रुदन्तीव स्विद्यन्ति ह्य् उच्चलन्ति च ।
इमे जन-पदा ग्रामाः पुरोद्यानाकराश्रमाः ।
मन्य एतैर् महोत्पातैर् नूनं भगवतः पदैः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दैवतानि प्रतिमाः । अघं दुःखम् ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **दैवतानि प्रतिमाः ॥२०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **दैवतानि प्रतिमाः, अघं दुःखम् ॥२०॥
———————————————————————————————————————
॥ १.१४.२१ ॥
भ्रष्ट-श्रियो निरानन्दाः किम् अघं दर्शयन्ति नः ।
अनन्य-पुरुष-श्रीभिर्3** हीना भूर् हत-सौभगा ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतैर् महोत्पातैः का । न विद्यतेऽन्येषु पुरुषेषु श्रीर् व्ज्राङ्कुशादि-शोभा येषां तैर् भगवतः पदैर् हीना भूर् इत्य् अहं मन्ये ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतैः कृत्वा न विद्यते अन्येषु पुरुषेषु श्रीर् वज्राङ्कुशादि-शोभा येषां तैर् भगवतः पदैर् हीना भूर् इत्य् अहं मन्ये ॥२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एतैर् महोत्पातैर् अहं मन्ये नूनं निश्चये भगवतः पदैर् हीना भूर-भूद् इति । कीदृशैः न विद्यतेऽन्येषु पुरुषेषु श्रीर् ध्वज-वज्राङ्कुशादि-शोभा येषां तैः ॥२१॥
———————————————————————————————————————
॥ १.१४.२२ ॥
इति चिन्तयतस् तस्य दृष्टारिष्टेन चेतसा ।
राज्ञः प्रत्यागमद् ब्रह्मन् यदु-पुर्याः कपि-ध्वजः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य राज्ञ इत्य् एवं दृष्टान्य् अरिष्टानि येन तेन चेतसा चिन्तयन्तः सतः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ १.१४.२३ ॥
तं पादयोर् निपतितम् अयथा-पूर्वम् आतुरम् ।
अधो-वदनम् अब्-बिन्दून् सृजन्तं नयनाब्जयोः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अयथापूर्वं निपतितम् । तद् एवाह—आतुरम् इत्य्-आदि । अपां बिन्दून् अश्रूणि नेत्रेभ्यां विसृजन्तम् इत्य् अर्थः ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अव्विन्दून् अश्रूणि ॥२३॥
———————————————————————————————————————
॥ १.१४.२४ ॥
विलोक्योद्विग्न-हृदयो विच्छायम् अनुजं नृपः ।
पृच्छति स्म सुहृन् मध्ये संस्मरन् नारदेरितम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उद्विगनं कम्पितं हृदयं यस्य सः । विच्छायं विगत-कान्तिम् ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विच्छायं विगत-कान्तिम् ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विच्छायं कान्ति-हीनम् ॥२४॥
———————————————————————————————————————
॥ १.१४.२५ ॥
युधिष्ठिर उवाच—
कच्चिद् आनर्त-पुर्यां नः स्व-जनाः सुखम् आसते ।
मधु-भोज-दशार्हार्ह- सात्वतान्धक-वृष्णयः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्वजना बान्धवाः ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ १.१४.२६ ॥
शूरो मातामहः कच्चित् स्वस्त्य् आस्ते वाथ मारिषः ।
मातुलः सानुजः कच्चित् कुशल्य् आनकदुन्दुभिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं वक्ष्यतीति शङ्क्या व्यवहित-क्रमेण पृच्छति—शूर इत्य्-आदिना । मारिषो मन्यो मातामहःशूरो नाम यादवः कुन्त्याः पिता । आनक-दुन्दुभिर् वसुदेवः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मारिषो मान्यः ॥२६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **किं वक्ष्यतीत्य् अनिष्टाशङ्कया व्युत्क्रमेण पृच्छति—शूर इति । मारियषो मान्यः, मातुल आनकदुन्दुभिर् वसुदेवः ॥२६॥
———————————————————————————————————————
॥ १.१४.२७ ॥
सप्त स्व-सारस् तत्-पत्न्यो मातुलान्यः सहात्मजाः ।
आसते सस्नुषाः क्षेमंदेवकी-प्रमुखाः स्वयम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्वसारः परस्परम् । वसुदेव-क्षमेण तासाम् अपि क्षेमं पृष्टम् एव, तथापि पृथक् पृच्छति—स्वयम् इति ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्वसारः परस्परं भगिन्यः ॥२७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्वसारो मिथो भगिन्यः ॥२७॥
———————————————————————————————————————
॥ १.१४.२८ ॥
कच्चिद् राजाहुको जीवत्य् असत्-पुत्रोऽस्य चानुजः ।
हृदीकः ससुतोऽक्रूरो जयन्त-गद-सारणाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आहुक उग्रसेनः । असन् पुत्रो यस्य । अत एव जीव-मात्रम् एव पृष्टम् । अनुजश् च देवकः । हृदीकः सुतः कृतवर्मा । जयन्तादयः कृष्ण-भ्रातरः ॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **असन् कृष्ण-द्वेषी पुत्रो यस्य सः । तादृश-पुत्रत्वाद् अद्यापि लज्जितोऽसौ कदाचिद् देहं वा त्यक्तवान् इत्य् अभिप्रायेण जीवतीत्य् उक्तम् ॥।२८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आहुकः उग्रसेनः । असन् पुत्रो यस्य अत एव जीवन-मात्रं पृष्टम् । अनुजो देवकः । हृदीक-सुतः कृतवर्मा । जयन्तादयः कृष्ण-भ्रातरः ॥२८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आहूक उग्रसेनः । असत् कत्सः पुत्रो यस्य सः, अनुजो देवकः, हृदीकस्य सुतः कृतवर्मा, जयन्तादयः कृष्णस्य भ्रातरः ॥२८॥
———————————————————————————————————————
॥ १.१४.२९ ॥
आसते कुशलं कच्चिद् ये च शत्रुजिद्-आदयः ।
कच्चिद् आस्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥
न कतमे_न व्याख्यातम्।_
॥ १.१४.३० ॥
प्रद्युम्नः सर्व-वृष्णीनां सुखम् आस्ते महा-रथः ।
गम्भीर-रयोऽनिरुद्धो वर्धते भगवान् उत ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्व-वृष्णीनां मध्ये महारथः । गम्भीर-रयो युद्धे महा-वेगः । वर्धते मोदत इत्य् अर्थः ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गम्भीरयः युद्धे महावेगः ॥३०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गम्भीरो रयो युद्ध-वेगो यस्य सः ॥३०॥
———————————————————————————————————————
॥ १.१४.३१ ॥
सुषेणश् चारुदेष्णश् च साम्बो जाम्बवती-सुतः ।
अन्ये च कार्ष्णि-प्रवराः सपुत्रा ऋषभादयः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कृष्णस्यापत्यानि कार्ष्णयस् तेषां प्रवराः ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **श्री-कृष्णस्यापत्यानि कार्ष्ण यस् तेषु प्रवराः ॥३१॥
———————————————————————————————————————
॥ १.१४.३२ ॥
तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः ।
सुनन्द-नन्द-शीर्षण्या ये चान्ये सात्वतर्षभाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सुनन्द-नन्दनौ शीर्ष्ण्यौ मुख्यौ येषां ते ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सुनन्द-नन्दौ शीर्षण्यौ मुख्यो येषां ते ॥३२॥
॥ १.१४.३३ ॥
अपि स्वस्त्य् आसते सर्वे राम-कृष्ण-भुजाश्रयाः ।
अपि स्मरन्ति कुशलम् अस्माकं बद्ध-सौहृदाः ॥
न कतमे_न व्याख्यातम्।_
———————————————————————————————————————
॥ १.१४.३४ ॥
भगवान् अपि गोविन्दो ब्रह्मण्यो भक्त-वत्सलः ।
कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद्-वृतः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यथान्येषां सुखं भविष्यति तथा । नित्य-सुखत्वाद् धरेः ।
अत्युत्तमानां कुशल-प्रश्नो लोक-सुखेच्छया ।
नित्यदाप्त-सुखत्वात् तु न तेषां युज्यते क्वचित् ॥ इति नारदीये ॥३४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भगवति सुखम् आस्त इति प्रश्नस्यानौचित्यम् आशङ्क्याह—पुर इत्य्-आदि ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भगवति कुशल-प्रश्नस्यानौचित्यम् आशङ्क्याह—पुर इति ॥३४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मङ्गल-स्वरूपे भगवति मङ्गल-प्रश्नस्यानौचित्याद् आह—कच्चिद् इति ॥३४॥
———————————————————————————————————————
॥ १.१४.३५ ॥
मङ्गलाय च लोकानां क्षेमाय च भवाय च ।
आस्ते यदु-कुलाम्भोधाव् आद्योऽनन्त-सखः पुमान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भगवतोऽत्रावस्थाने हि लोकानां मङ्गलं नान्यथेत्य् आशयेनाह चतुर्भिः । मङ्गलाय शुभाय । क्षेमाय लब्ध-पालनाय । भवायोद्भवाय । अनन्त-सखो बल-भद्र-सहायः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मङ्गलाय प्रेमप्-रदानाय । क्षेमाय केषाञ्चित् मुक्ति-दानाय । भवाय सम्पदे च । अनन्त-सखः बलभद्र-सहायः ॥३५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मङ्गलाय केषाञ्चित् प्रेमानन्द-दानाय, क्षेमाय केषाञ्चिन्-मोक्ष-दानाय, भवाय केषाञ्चित् सम्पत्-प्रदानाय । अनन्त-सखः सङ्कर्षण-सहायः ॥३५॥
———————————————————————————————————————
॥ १.१४.३६ ॥
यद् बाहु-दण्ड-गुप्तायां स्व-पुर्यां यदवोऽर्चिताः ।
क्रीडन्ति परमानन्दं महा-पौरुषिका इव ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अर्चिताः सर्वैः पूजिताः । परमानन्दं यथा भवति तथा । महा-पुरुषो विष्णुस् तदीया महापौरुषिका वैकुण्ठ-नाथानुचरा इव ॥३६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यद् इति । इवेति लौकिक-दृष्ट्या । एव अग्रेऽपि ॥३६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अर्चिता देवैर् अपि । महा-पौरुषिकाः वैकुण्ठनाथानुचरा इव महद्भिः पौरुषैर् विजयिन इवेति वा ॥३६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **महा-पौरुषिका महद्भिः पौरुषैर् जयिनः । तेन दीव्यति खनति जयति जितम् इति सूत्राढ्ढक् । इवेति वाक्यालङ्कारे ॥३६॥
———————————————————————————————————————
॥ १.१४.३७ ॥
यत्-पाद-शुश्रूषण-मुख्य-कर्मणा
सत्यादयो द्व्य्-अष्ट-सहस्र-योषितः ।
निर्जित्य सङ्ख्ये त्रि-दशांस् तद्-आशिषो
हरन्ति वज्रायुध-वल्लभोचिताः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यस्य पाद-शुश्रूषणम् एव मुख्यं तप-आदिभ्यः श्रेष्ठं यत् कर्म तेन । सत्यभामादयः सङ्ख्ये युद्धे श्री-कृष्ण-बलेन त्रि-दशा देवान् निर्जित्य । तद्-आशिषो देव-भोग्यान् पारिजातादीन् । वज्रायुधस्य वल्लभा शची तस्या उचिताः ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **निर्जित्य कृष्ण-बलेनैवेत्य् अर्थः । त्रिदशान् देवान् । तद्-आशिषः पारिजातादीन् । वज्रायुध-वल्लभा शची ॥३७ ॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **निर्जित्येति पत्युर् वलेनेति बोध्यं, त्रिदशान् देवान्, तदाशिषस् तद्-भोग्यान् पारिजातादीन् वज्रायुध-वल्लभा शची ॥३७॥
———————————————————————————————————————
॥ १.१४.३८ ॥
यद् बाहु-दण्डाभ्युदयानुजीविनो
यदु-प्रवीरा ह्य् अकुतोभया मुहुः ।
अधिक्रमन्त्य् अङ्घ्रिभिर् आहृतां बलात्
सभां सुधर्मां सुर-सत्तमोचिताम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद्-बाहु-दण्ड-प्रभावोपजीविनः सुधर्माम् अङ्घ्रिभिर् अधिक्रमन्ति स गोविन्दः सुखम् आस्ते इति गत-पञ्चम-श्लोकेनान्वयः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अभ्युदयं प्रभावम् अनुजीवितुं शीलं येषां ते । आहृतां स्वर्ग-लोकाद् इत्य् अर्थः ॥३८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अभ्युदयं प्रभावम् ॥३८॥
———————————————————————————————————————
॥ १.१४.३९ ॥
कच्चित् तेऽनामयं तात भ्रष्ट-तेजा विभासि मे ।
अलब्ध-मानोऽवज्ञातः किं वा तात चिरोषितः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **पूर्वं चिरोषितः ॥३९॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं तस्यैव कुशलं पृच्छति—कच्चिद् इति षड्भिः । अनामयम् आरोग्यम् । न लब्धो मानो येन बन्धुभ्यः सकाशात् । किं वा, तैः प्रत्युत अवज्ञातस् तिरस्-कृतः । यतश् चिरोषितो बहु-कालं तत्र स्थितः ॥३९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कच्चिद् इति । तेषां मा भवत्व् अमङ्गलं किञ्चिद् अस्यैव भवत्व् इत्य् अपेक्षायां प्रकरणम् इदम् ॥३९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इदानीं किञ्चिद् अप्य् अवदतस् तस्यैव कुशलं पृच्छति—कच्चिद् इति षड्भिः । अनामयम् आरोग्यम् । बन्धुब्यः सकाशाद् अलब्धादरः प्रत्युतावज्ञातः चिरोषितः बहु-कालं तत्र स्थितः ॥३९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इदानीं तूष्णीम्-भूतस्यार्जुनस्यैव कुशलं पृच्छति—कच्चिद् इति षड्भिः ।
अनामयम् आरोग्यं बन्धुभ्योऽलव्धमानः प्रत्युत तैरवज्ञातः, चिरोषितस् तत्र बहुकालं स्थितः ॥३९॥
———————————————————————————————————————
॥ १.१४.४० ॥
कच्चिन् नाभिहतोऽभावैः शब्दादिभिर् अमङ्गलैः ।
न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभावैर् इति छेदः, प्रेम-शून्यैः । अमङ्गलैः पुरुषैः शब्दादिभिर्नाभिहतो न ताडितोऽस्ति किम् । यद् वा, अर्थिभ्यः किम् अपि दास्यामीति नोक्तङ्किम्? यद् वा, आशया सह यथा आशा भवति, तथा दास्यामीति प्रतिश्रुतं यत्, तन् न दत्तं किम् ? ॥४०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नाभिहतः किम् ? अपि त्व् अभिहत एवेत्य् अर्थः ॥४०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभावैः प्रेम-शून्यैः नाभिहतः न ताडितोऽसि किम् ?अर्थिभ्य आशया प्राप्त्य्-आशया वर्तमानेभ्यो यद् दातुं प्रतिश्रुतं, तन् नदत्तं,न च उक्तं किम् अपि, मौनं कृतम् इति भावः ॥४०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अमङ्गलैः कठोरैः शब्दादिभिर् भावैर् अर्थैर् नाभि-हतस् ताडितो नासि किम्? अथवार्थिभ्यः प्राप्ताशया स्थितेभ्यो यद्-द्यतुं प्रतिश्रुतं तन् न दत्तं न चोक्तं किञ्चिं किम्? ॥४०॥
———————————————————————————————————————
॥ १.१४.४१ ॥
कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।
शरणोपसृतं सत्त्वं नात्याक्षीः शरण-प्रदः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्यद् वा, शरणागतं सत्त्वं प्राणि-मात्रं न त्यक्तवान् असि किम् ? यतस् त्वं पूर्वं शरण-प्रद आश्रय-प्रदः ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शरणोपसृतं शरणागतं सत्त्वं प्राणिनम् ॥४१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **शरणोपसृतं शरणागतं सत्त्वं प्राणिनम् ॥४१॥
———————————————————————————————————————
॥ १.१४.४२ ॥
कच्चित् त्वं नागमोऽगम्यां गम्यां वासत्-कृतां स्त्रियम् ।
पराजितो वाथ भवान् नोत्तमैर् नासमैः पथि ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अगम्याम् इति छेदः । निन्दितां स्त्रियं नागमः किं न गतवान् असि । असत्-कृतां मलैन-वस्त्रादिना नागमः किम् । नोत्त्मैर् अनुतम्मैर् समैर् इत्य् अर्थः । असमैर् अधमैर् वा किं न पराजितोऽसीत्य् अर्थः ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अगम्याम् इति छेदः । असत्कृतां मलिन-वस्त्रादिकाम् । असमैर् बलेनातुल्यैर् न्यूनैर् इत्य् अर्थः । तत्रापि नोत्तमैर् जात्यापि न श्रेष्ठैर् नीच-जातिभिर् इत्य् अर्थः ॥४२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अगम्याम् इति छेदः । असंस्कृतां मलिनाम्बरादिकाम् । असमैर् बलेनातुल्यैः । तत्रापि नोत्तमैर् अधम-जातिभिः ॥४२॥
———————————————————————————————————————
॥ १.१४.४३ ॥
अपि स्वित् पर्य-भुङ्क्थास् त्वं सम्भोज्यान् वृद्ध-बालकान् ।4
जुगुप्सितं कर्म किञ्चित् कृतवान् न यद् अक्षमम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संभोजनार्हान् वृद्धान् बालकांश् च किंस्वित् पर्यभुङ्क्थाः त्यक्त्वा भुक्तवान् असि किम् । अक्षमं कर्तुम् अयोग्यं यत् तन् न कृतवान् असि किम् ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परिर्वर्जने, वृद्धादीन् वर्जयित्वा भूक्तवान् असि । अक्षमम् अनुचितम् ॥४३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **वृद्धादीन् परिवर्जयित्वाभुङ्था भुक्तवानसि किम्? अक्षमम् अनुचितम् ॥४३॥
———————————————————————————————————————
॥ १.१४.४४ ॥
कच्चित् प्रेष्ठतमेनाथ हृदयेनात्म-बन्धुना ।
शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नित्यं सदा प्रेष्ठतम् एव हृदये नान्तर् अङ्गेण स्व-बन्धुना श्री-कृष्णेन रहितः शून्योऽस्मीति मन्यसे । अन्यथा ते रुक् मनः-पीडा न घटेत ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, इता आशङ्कास् त्वयि न सम्भवन्ति । सम्भवति चेदम् इति नारदोक्तं स्मरन्न् आह कच्चिद् इति । नित्यं सदा प्रेष्ठतमेनात्मनो बन्धुन कृष्णेन रहितोऽहं हृदयेन चेतसा शून्यो मूर्च्छितोऽस्मीति मन्यसे आत्मानम् इति शेषः । सत्यं सत्यम् एतद् एव कारणं सत्यम् इति भावः । अन्यथा ते रुक् मनः-पीडा न घटते ॥४४॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्दशश् च प्रथमे सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एतास् त्वया शङ्का नैव सम्भवन्ति, किन्त्व् इदं सम्भवेद् इति नारदोक्तिं स्मरन्न् आह—कच्चिद् इति । नित्यं सर्वदैव प्रेष्ठतमेनात्मनो बन्धुना कृष्णेन रहितोऽहं हृदयेन चेतसा शून्येऽस्मीत्य् आत्मानं मन्यसे किम्? अन्यथा ते रुक् मनःपीडा न सम्भवेत् ॥४४॥
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां चतुर्दशोऽध्यायः ॥१४॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
युधिष्ठिर-वितर्को नाम
चतुर्दशोऽध्यायः
॥१.१४॥
(१.१५)
-
अस्माच् छ्लोकात् पूर्वम् अयं पाठोऽधिको वीरराघव-सिद्धान्तदीपिकयोः, यथा— कन्या-विक्रयिणां तातं सुतं पित्रोर् अपोषकम् । ब्राह्मणान् वेद-विमुखान् शूद्रान् वै ब्रह्म-वादिनः ॥ ↩︎
-
‘द्राक् शून्यम् इच्छतःऽ इति पाठे विश्वम् इत्य् अध्याहारः ।ऽकुह्वानैर् विश्वं वै शून्यम् इच्छतःऽ इत्य् अयं पाठः साधुर् एव । ↩︎
-
‘ अनन्य-पुरुष-स्त्रीभिर्ऽ इति पाठः । ↩︎
-
अत्रऽउपदेक्षातिथि-वृद्धांश् च गर्भिण्य् आतुर-कन्यकाःऽ इत्य् अर्धम् अधिकं क्वचित् । ↩︎