विषयः
विदुरोपदेशेन गान्धार्या सह धृतराष्ट्रस्य वनाय प्रस्थानम् ।
॥ १.१३.१ ॥
सूत उवाच—
विदुरस् तीर्थ-यात्रायां मैत्रेयाद् आत्मनो गतिम् ।
ज्ञात्वागाद् धास्तिनापुरं तयावाप्त-विवित्सितः**1** ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
निगमो धृतराष्ट्रस्य विदुरोक्त्या त्रयोदशे । \ उक्तः पौत्राभिषेकेण वक्तुं राज्ञो महापथम् ॥
इदानीं परीक्षितः कलि-निग्रहादि-कर्माणि कथयिष्यन् विदुरागमनेन धृतराष्ट्र-प्रस्थानं ततोऽर्जुनागमनं, ततः श्री-कृष्णान्तर्धानं निशम्य पाण्डव-प्रस्थानं च निरूपयति त्रिभिर् अध्यायैः । गतिं हरिम् । तया आत्म-गत्या अवाप्तं विवित्सितं ज्ञातुम् इष्टं सर्वं येन ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : विदुर इति । सोऽयं तृतीय-स्कन्धानुसारेण युद्धात् पूर्वं दुर्योधनाद् विच्छिद्य गत आसीद् इति ज्ञेयम् । आत्मनो गतिर् हरि-भक्तिः, तया अवाप्त-विवित्सित इति तज्-ज्ञानेनैव सर्वन् ज्ञातवान् इत्य् अर्थः, सर्वाश्रयत्वात् तस्याः ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
परीक्षितो जन्म वक्तुं द्रौण्य्-अस्त्रादि-कथा यथा ।
अभिषेकं तथा वक्तुं विदुरागमनाद्य् अभूत् ॥
विदुरस्योपदेशेन धृतराष्ट्रस्य निर्गमः ।
राज्ञो विषादः शान्तिश् च नारदोक्त्या त्रयोदशे ॥
परीक्षितो जन्म उक्त्वा, कलि-निग्रहादि-कर्माणि कथयिष्यन्, प्रथमं राज्याभिषेकं वक्तुं विदुरस्यागमनं, ततो वैराग्योपदेशेन धृतराष्ट्र-निष्क्रमः, ततोऽर्जुनागमनं, ततः पाण्डव-प्रस्थानं च निरूपयति त्रिभिर् अध्यायैः । गतिं कृष्णम् । तया आत्म-गत्या अवाप्तम् आत्मनो विवित्सितं प्राप्तुम् इष्टं येन सः । विदल् लाभे ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
वने विदुर-वाक्येन धृतराष्ट्रस्य निर्गमः । \ राज्ञो विषाद-शान्तिश् च नारदोक्त्या त्रयोदशे ॥ \
उक्त-जन्मनः परीक्षितः कलि-निग्रहादीनि कर्माणि वक्ष्यन्न् आदौ राज्याभिषेकं वक्तुं विदुरस्यागमनं तेन वैराग्योपदेशं तेन धृतराष्ट्रस्य गृहान् निर्गमं ततोऽर्जुनस्यागमनं ततः पाण्डवानां प्रस्थानं च वर्णयति—विदुर इत्य्-आदिभिस् त्रिभिर् अध्यायैः । मैत्रेयात् श्री-कृष्णाद् इष्टाद् आत्मनः स्वस्य गतिं कृष्णं । तया गत्या अवाप्तम् आत्मनो विवित्सितम् आप्तुम् इष्टं येन सः । विद लाभे धातुः ॥१॥
———————————————————————————————————————
॥ १.१३.२ ॥
यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः ।
जातैक-भक्तिर् गोविन्दे तेभ्यश् चोपरराम ह ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवाह । यावतः कर्म-योग-व्रतादि-विषयान् प्रश्नान् प्रथमं कृतवान् । कौषारवस्य मैत्रेयस्य पुरतः । पश्चात् त्रि-चतुः-प्रश्नार्थ-ज्ञान-मात्रेण गोविन्दे जातैक-भक्तिः कृतार्थः संस् तेभ्यः प्रश्नेभ्यः उपरराम । ततः परं न विजिज्ञासितवान् ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेभ्यः प्रश्नेभ्य उपरराम, तद् उत्तरं श्रोतुं नैच्छत्, भक्तौ जातायाम् अन्यस्य जिज्ञास्यस्य वैयर्थ्याद् इति भावः ॥२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कौशारवो मैत्रेयः, तेभ्यः प्रश्नेभ्यो मुनिना परिहृतेभ्य उपरराम तद्-उत्तराणि श्रोतुं नैच्छत्, तत्र हेतुः—जातैक- इति । भक्तौ जातायाम् अन्य-जिज्ञासाया वैफल्याद् इति भावः ॥२॥
———————————————————————————————————————
॥ १.१३.३-५ ॥
तं बन्धुम् आगतं दृष्ट्वा धर्म-पुत्रः सहानुजः ।
धृतराष्ट्रो युयुत्सुश् च सूतः शारद्वतः पृथा ॥**
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी ।
अन्याश् च जामयः पाण्डोर् ज्ञातयः ससुताः स्त्रियः ॥**
प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् ।
**अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः ॥ **
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **तत्-प्राणे प्रसन्न उदतिष्ठद् इति श्रुतिः ॥५॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूतः सञ्जयः । शारद्वतः कृपः । पृथा कुन्ती ॥३॥ कृपी द्रोण-भार्या । जामयो ज्ञाति-भार्याः । अन्याश् च स्त्रियः ॥४॥ प्राणं तन्व इवेति कुतश्चिन् मूर्च्छादि-दोषतः प्राणेऽवसन्ने सति, तन्वः कराङ्घ्र्य्-आदयोः निश्चेष्टा भवन्ति, पुनस् तस्मिन्न् आविर्भूते यथोत्तिष्ठन्ति, तद्वत् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूतः सञ्जयः, शारद्वतः कृपः, कृपी द्रोण-भार्या । जामयो ज्ञाति-भार्याः । जामि-शब्दश् च वर्गादिर् अन्तस्थादिश् च कोषेषु दृष्टः । प्राणं मूर्च्छादि-दोषेण गत-प्रायं पुनर् आगतं संलक्ष्य तन्वः कर-चरणादिकाः । यथा प्रत्युद्गच्छन्ति धृत-स्व-स्व-चेष्टा भवन्ति ॥३-५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तं विदुरं, सूतः सञ्जयः, शारद्वतः कृपः, जामयो ज्ञाति-भार्याः ॥३-४॥ मूर्च्छादि-दोषेण गत-प्रायं प्राणम् आगतं संलक्ष्य ॥५-७॥
॥ १.१३.६ ॥
मुमुचुः प्रेम-बाष्पौघं विरहौत्कण्ठ्य-कातराः ।
राजा तम् अर्हयां चक्रे कृतासन-परिग्रहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विरहेण यद् औत्कण्ठ्यं तेन **कातरा **विवशाः ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ १.१३.७ ॥
तं भुक्तवन्तं विश्रान्तम् आसीनं सुखम् आसने ।
प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तं विदुरम् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ १.१३.८ ॥
युधिष्ठिर उवाच—
अपि स्मरथ नो युष्मत्-पक्ष-च्छाया-समेधितान् ।
विपद्-गणाद् विषाग्न्य्-आदेर् मोचिता यत् स-मातृकाः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पक्षिणो ह्य् अपत्यानि यथातिस्नेहेन पक्ष-च्छायया वर्धयन्ति, तद्वद् युष्मत्-पक्ष-पात-च्छायया समेधितान् वर्धितान् नोऽस्मान् किं स्मरथ ? समेधितत्वम् एवम् आह । विपद्-गणाद् यस्मान् मोचिताः स्मः ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पक्षिणो ह्य् अपत्यानि यथा अतिस्नेहेन पक्ष-च्छायया वर्धयन्ति, तद्वत् । पक्षे पक्ष-च्छाया पक्ष-पातः । यद् यस्मान् मोचिता वयं त्वयेत्य् अर्थः ॥८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पक्षिणो यथापत्यानि पक्ष-च्छायया वर्धयन्ति, तथा युष्मत्-पक्षच्-छायया वर्धितान् नोऽस्मान् यूयं किं स्मरथ? समेधितत्वम् आह—विपद् इति ॥८॥
———————————————————————————————————————
॥ १.१३.९ ॥
कया वृत्त्या वर्तितं वश् चरद्भिः क्षिति-मण्डलम् ।
तीर्थानि क्षेत्र-मुख्यानि सेवितानीह भूतले ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वो युष्मभिः कया वृत्त्या वर्तितं देह-वृत्तिः कृता । कानि च तीर्थादीनि सेवितानि ? इति ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृत्त्या जीविकया । वो युष्माभिः ॥९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वो युष्माभिः ॥९॥
———————————————————————————————————————
॥ १.१३.१० ॥
भवद्-विधा भागवतास् तीर्थ-भूताः स्वयं विभो ।
तीर्थी-कुर्वन्ति तीर्थानि स्वान्तः-स्थेन गदाभृता ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भवतां च तीर्थाटनं न स्वार्थं, किन्तु तीर्थानुग्रहार्थम् इत्य् आह—भवद्-विधा इति । मलिन-जन-संपर्केण मलिनानि तीर्थानि सन्तः पुनः स्वयं तीर्थी-कुर्वन्ति । स्वान्तं मनस्, तत्-स्थेन, स्वस्यान्तः-स्थितेनेति वा ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तीर्थेषु भक्तिमतां भवतां तीर्थाटनं च तीर्थानाम् एव मङ्गलाय सम्पद्यत इत्य् आह—भवद्-विधा इति ॥१०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भवतां च तीर्थाटनं तीर्थानाम् एव भाग्येनेत्य् आह—भवद्-विधा इति तीर्थीकुर्वन्ति महा-तीर्थीकुर्वन्ति “पावनं पावनानाम्”2 इतिवत् ॥१०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भवतां तीर्थ-यात्रा तीर्थ-भाग्याद् इत्य् आह—भवद् इति । मलिन-जन-प्रसङ्गा त्तीर्थान्य् अपि मलिनानि भवन्ति । भवद्-विधास् तु स्वान्तः-स्थेन गदाभृता कृष्णेन स्वयं तीर्थ-भूतास् तानि तीर्थी-कुर्वन्ति उज्ज्वलानि पावित्र्य-करण-शक्तिमन्ति कुर्वन्तीत्य् अर्थः ॥१०॥
॥ १.१३.११-१२ ॥
अपि नः सुहृदस् तात बान्धवाः कृष्ण-देवताः ।
दृष्टाः श्रुता वा यदवः स्व-पुर्यां सुखम् आसते ॥**
इत्य् उक्तो धर्म-राजेन सर्वं तत् समवर्णयत् ।
यथानुभूतं क्रमशो विना यदु-कुल-क्षयम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : यदु-कुल-क्षयम् एष्यत् ।
शापं श्रुत्वा ब्राह्मणानाम् उद्धवः खिन्न-मानसः ।
उदासीनं तथा कृष्णम् इव सुप्रीतम् एव च ॥
न शिष्यमाणं स्व-कुलं स्वर्षियासुं च केशवम् ।
ज्ञात्वा पप्रच्छ भगवान् स्वरूपं तम् उपह्वरे ॥
मैत्रेयोऽपि तदैवागाज् जिज्ञासुस् तत्त्वम् उत्तमम् ।
तयोर् अदात् स भगवान् ज्ञानं निर्मलम् अञ्जसा ॥
षड्-विंश-वत्सरात् पूर्वं स्वर्गतेः पुरुषोत्तमः ।
प्रेषयामास च हरिर् उद्धवं बदरीम् अनु ॥
कलापग्रामिणां वक्तुम् एतत् तत्त्वम् अशेषतः ।
विदुरं तीर्थ-यात्रास्थम् अन्तराले स उद्धवः ॥
दृष्टानशिष्यमाणं च कुलं जिगमिषुं हरिम् ।
कथयित्वा बदर्यें च कलाप-ग्राम-वासिनाम् ॥
प्रोच्य तत्त्वम् अशेषेण वासुदेव-मुखोद्गतम् ।
षड्विंशद्-वर्ष-गमने पुनर् आगतिम् आत्मनः ॥
तेषाम् उक्त्वा पुनः कृष्ण-सन्निधौ विचचार ह ।
मैत्रेय-विदुरायैतद् ऊचिवान् कृष्ण-चोदितः ॥
विदुरः पाण्डवानां च विना यदु-विनाशनम् ।
षट्-त्रिंशद्-वर्षतः पूर्वं ज्ञात्वाप्य् अप्रियम् एव तत् ॥
नावोचद् विदुरो धीमान् तस्मान् नापिर्यम् आवदेत् ॥ इति पाद्मे ।
तावच् छशास क्षितिम् एक-चक्राम् एकातपत्राम् अजितेन पार्थ इति चोपरि विदुरं चागतं पुनर् इति च । भारते चैक-विंशद् वर्षात् पूर्वं विदुरस्य युधिष्ठिर-भाव उक्तः ॥१२॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि किं सुखम् आसते भवद्भिः ? क्वापि दृष्टाः श्रुता वा ? ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अपि किं सुखम् आसते? ॥११-१२॥
———————————————————————————————————————
॥ १.१३.१३ ॥
नन्व् अप्रियं दुर्विषहं नृणां स्वयम् उपस्थितम् ।
नावेदयत् स-करुणो दुःखितान् द्रष्टुम् अक्षमः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यदु-कुल-क्षयावर्णने कारणम् आह—नन्व् इति ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् इति । अत्रान्योऽपि दुःख-शङ्कया नाकथयद् इति ज्ञेयम् ॥१३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यदु-कुल-क्षयावर्णने कारण-भूतं नीति-शास्त्र-विधिम् आह—नन्व् इति ॥१३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यदुकुल-क्षयावर्णने हेतुं नीति-शास्त्र-विधिम् आह—नन्व् इति ॥१३॥
———————————————————————————————————————
॥ १.१३.१४ ॥
कञ्चित् कालम् अथावात्सीत् सत्-कृतो देववत् सुखम्3** ।**
भ्रातुर् ज्येष्ठस्य श्रेयस्-कृत् सर्वेषां सुखम् आवहन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रेयस्-कृत् तत्त्वम् उपदिशन् ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रेयस्-कृत् हितोपदेष्टा ॥१४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : श्रेयस्-कृत् श्रेयः कर्तुम् ॥१३॥
———————————————————————————————————————
॥ १.१३.१५ ॥
अबिभ्रद् अर्यमा दण्डं यथावद् अघ-कारिषु ।
यावद् दधार शूद्रत्वं शापाद् वर्ष-शतं यमः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : योऽर्यमा दण्डम् अबिभ्रत्, स वर्ष-शतं यावच् छूद्रत्वं बभार ।
न देवानां न देवीनां सामस्त्येन जनिर् भुवि ।
अंशांशेनैव जायन्ते सर्वे त्व् आजानजादयः ॥१५॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु शूद्रोऽसौ कथम् उपदिशेत् ? न ह्य् असौ शूद्रः, किन्तु यमस् तद्-रूपेणासीत् । किं तत्र कारणं ? यमे चात्रागतेऽमुत्र को दण्ड-धरः ? इत्य् अपेक्षायाम् आह—अबिभ्रद् इति । धृतवान् इत्य् अर्थः । माण्डव्यस्य शापात् । तथा हि—क्वचिच् चोरान् अनु धावन्तो राज-भटा माण्डव्यस्य ऋषेस् तपश् चरतः समीपे तान् संप्राप्य, तेन सह निबद्ध्यानीय, राज्ञे निवेद्य, तद्-आज्ञया सर्वान् शूलम् आरोपयामासुः । ततो राजा तम् ऋषिं ज्ञात्वा शूलाद् अवतार्य प्रसादयामास । ततो मुनिर् यमं गत्वा कुपित उवाच, “कस्माद् अहं शूलम् आरोपितः ?” इति । तेनोक्तं “त्वं बाल्ये शलभं कुशाग्रेणाविध्य क्रीडितवान्” इति । तच् छ्रुत्वा माण्डव्यस् तं शशाप । “बाल्येऽजानतो मे महान्तं दण्डं यतस् त्वं कारितवान्, अतः शूद्रो भव” इति ॥१५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नन्व् असौ यम एव विदुरत्वेन जातः, तस्य चास्य लोकेऽस्मिन् श्रेयस्कृत्त्वम् एव श्रूयते, न तु यम-लोके यम-रूपेण दण्डकृत्त्वम् अपि । तर्हि तत्र दण्डः कथम् आसीत् ? तत्राह—अबिभ्रद् इति । वर्षाणि कतिचिद् अधिकानि शतं च वर्ष-शतम् ॥१५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न च धृतराष्ट्राद् अयं कनिष्ठत्वान् न्यूनो मन्तव्यः, साक्षाद् धर्म-राजस्यैव माण्डव्य-शापेन शूद्रतयावतीर्णत्वात् । ननु तावद् अमुत्र को दण्ड-धरः ? तत्राह—अबिभ्रत् आर्ष-प्रयोगः, धृतवान् इत्य् अर्थः । तथा हि क्वचिच् चोरान् अनुधावन्तो राज-भटा माण्डव्यस्य तपश् चरतः समीपे तान् सम्प्राप्य तेन सह निबद्ध्यानीय राज्ञे निवेद्य तद्-आज्ञया सर्वान् एव शूलम् आरोपयामासुः । ततो राजा तम् ऋषिं ज्ञात्वा शूलाद् अवतार्य प्रसादयामास । ततो मुनिर् यमं गत्वा कुपित उवाच । “कस्मड् अहं शूलम् आरोपितः ?” इति । तेनोक्तं—“त्वं बाल्ये कुशाग्रेण शलभम् आविध्य क्रीडितवान्” इति । तत् श्रुत्व माण्डव्यस् तं शशाप । “बाल्ये अजानतो मे महान्तं दण्डं कारितवान्, अतस् त्वं शूद्रो भव” इति ॥१५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **न विदुरस्य कनिष्ठत्वाच् छूद्रत्वाच् च कथं तद् उपदेष्टृत्वम् ? तत्राह—अर्यमा पितृदेव-मुख्यो भगवद्-विभूतिः, पितॄणाम् अर्यमा चास्मि [गीता १०.२९] इत्य् उक्तोऽघ-कारिषु पापिषु यथावत् स-न्यायं दण्डम् अबिभ्रत् धृतवान् । यावन्-माण्डव्य-शापात् यमः वर्ष-शतं व्याप्य शूद्रत्वं दधार । भारते कथास्ति—कदाचित् तस्करान् अनुधावन्तो राज-पुरुषास् तपस्यतो माण्डव्य-र्षेर् अन्तिके तान् प्राप्य तेन सह निबद्ध्यानीय राज्ञे निवेद्य तद्-आज्ञया सर्वान् शूलम् आरोपयामासुः । ततो राजा तम् ऋषिं विज्ञाय शूलाद् अवतार्य प्रसादं याच्ञाञ्चकार । ततः स ऋषिर् यमम् एव राजाविष्टं दण्ड-धरं विमृष्य तम् आसाद्य चुकोप । “त्वं बाल्ये कुशाग्रेण शलभम् आविध्य क्रीडाम् अकार्षीः” इति तद् उक्तं निशम्य शशाप—“तदा ज्ञान-हीनस्य मम महान्तं दण्डं कृतवान् अतत्त्वं शूद्रो भव” इति । तथा च विदुरः कनिष्ठोऽपि शूद्रोऽपि साक्षाद्-धर्म-राजत्वेन प्रत्यक्षीकृत-परेशत्वात् तस्य तद्-उपदेष्टृत्वम् इति । अत एव भारद्वाज-संहितायां स्त्री-शूद्रादीनां तन् निषिध्य साक्षात्-कृत-पर-तत्त्वानां तेषां तद् आह—
न जातु मन्त्र-दातारो न शूद्रो नान्तरोद्भवः ।
नाभिशप्तो न पतितः काम-कामोऽप्य् अकामितः ॥
स्त्रियः शूद्रादयश् चैव बोधयेयुर् हिताहितम् ।
यथार्हं माननीयाश् च नार्हन्त्य् आचार्यतां क्वचित् ।
किम् अप्य् अत्राभिजायन्ते योगिनः सर्व-योनिषु ।
प्रत्यक्षितात्मनार्थानां नैषां चिन्त्यं कुलादिकम् ॥ इति ॥१५॥
———————————————————————————————————————
॥ १.१३.१६ ॥
युधिष्ठिरो लब्ध-राज्यो दृष्ट्वा पौत्रं कुलन्धरम् ।
भ्रातृभिर् लोक-पालाभैर् मुमुदे परया श्रिया ॥**4
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं राज्यस्यापकर्षं निरूपयितुम् उत्कर्षं निगमयति—युधिष्ठिर इति । कुलं-धरं वंश-धरम् ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कुलन्धरं वंश-धारकम् ॥१६॥
———————————————————————————————————————
॥ १.१३.१७ ॥
एवं गृहेषु सक्तानां प्रमत्तानां तद्-ईहया ।
अत्यक्रामद् अविज्ञातः कालः परम-दुस्तरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-ईहया गृह-व्यापारेण प्रमत्तानाम् । अत्यक्रामद् आयुः-कालोऽतिक्रान्तः । यद् वा, तान् अभ्यभवद् इत्य् अर्थः ॥१७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एवं श्री-युधिष्ठिरस्य पालन-लब्ध-सुख-प्रकारेण गृहेषु सक्तानां प्रमत्तानां जनानाम्, न तु पाण्डवानाम् ।
किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः ।
अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भा।पु। १.१२.६] इत्य्-आदेः ।
येऽध्यासनं राज-किरीट-जुष्टं सद्यो जहुर् भगवत्-पार्श्व-कामाः [भा।पु। १.१९.२०] इत्य्-आदेश् च । अत एव विदुरोऽपि धृतराष्ट्रं प्रत्य् एव तथोपदिदेश, न तु तान् प्रतीति ॥१७॥
**प्रीति-सन्दर्भः (७): **श्री-यादव-पाण्डवानां स्वार्थ इवापि तत्-सम्बन्धस् तद्-आभास एव । यथोक्तम्—
शय्यासनाटनालाप- क्रीडा-स्नानाशनादिषु ।
न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥ [भा।पु। १०.९०.४६] इति ।
किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः ।
अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भा।पु। १.१२.६] इति ।
अतः, एवं गृहेषु सक्तानां प्रमत्तानां तद्-ईहया [भा।पु। १.१३.१७] इत्य्-आदिकं जहल्-लक्षणया तद्-उपलक्षितान् धृतराष्ट्रादीन् अपेक्ष्योक्तम् । अत एवानन्तरं विदुरस् तद् अभिप्रेत्य [भा।पु। १.१३.१८] इत्य्-आदौ । तेन धृतराष्ट्रस्यैव शिक्षा, न तु तेषाम् अपि ॥१७-१८॥ \
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहेषु सक्तानाम् इति युधिष्ठिरादिभ्योऽन्येषाम् एव निन्देयं तात्कालिक-जनानां ज्ञेया । तेषां क्षुधितस्य यथेतरे [भा।पु। १.१२.६] इति दृष्टान्तेन तादृश-सम्पद्-आदिष्व् अपि अनासक्तिः प्रपञ्चिता ॥१७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गृहेष्व् इति अत्यक्रामद् आयुर् इति शेषः । इयं निन्दा तदानीन्तनानाम् अन्येषां, न तु युधिष्ठिरादीनां, तेषां तु क्षुधितस्य यथेतरे [भा।पु। १.१२.६] इति मुकुन्दाद् अन्यत्रानसक्तेर् अभिधानात् ॥१७-१८॥
———————————————————————————————————————
॥ १.१३.१८ ॥
विदुरस् तद्5** अभिप्रेत्य धृतराष्ट्रम् अभाषत ।**
राजन् निर्गम्यतां शीघ्रं पश्येदं भयम् आगतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिप्रेत्य ज्ञात्वा ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ १.१३.१९ ॥
प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो ।
स एष भगवान् कालः सर्वेषां नः समागतः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
संहर्ता भगवान् विष्णुः काल इत्य् अभिधीयते ।
अथवा गुण-सर्वस्वं काल-शब्दो व्यनक्ति हि ॥ इति स्कान्दे ॥१९॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु तद्-प्रतीकारः क्रियतां ? किं निर्गमनेन ? तत्राह—प्रतिक्रिया इति । सर्वेषाम् इति यैः प्रतिकर्तव्यं, तेषाम् अपीत्य् अर्थः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषाम् इति यैः प्रतिकर्तव्यं, तेषाम् अपीत्य् अर्थः ॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु गृह एव स्थित्वा भयं प्रतिकर्तव्यं ? तत्राह—प्रतीति । सर्वेषां प्रतिकर्तृणाम् अपीत्य् अर्थः । तथा च विरज्य परेश-भजनात् तन्-निवृत्तिर् इति भावः ॥१९॥
———————————————————————————————————————
॥ १.१३.२० ॥
येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैर् अपि ।
जनः सद्यो वियुज्येत ं किम् उतान्यैर् धनादिभिः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कथं धनादि-वियोगः सोढुं शक्योऽत आह—येन चेति । अभिपन्नो ऽभिग्रस्तः ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येन मृत्यु-रूपेण कालेन अभिपन्नो ग्रस्तः ॥२०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : येन मृत्यु-रूपेण कालेन अभिपन्नो ग्रस्तो जनः ॥२०॥
———————————————————————————————————————
॥ १.१३.२१ ॥
पितृ-भ्रातृ-सुहृत्-पुत्रा हतास् ते विगतं वयम् ।
आत्मा च जरया ग्रस्तः पर-गेहम् उपाससे ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत्रावस्थानम् अतिदैन्यम् इति दर्शयन् वैराग्यम् उत्पादयति—पितृ-भ्रात्र् इति सप्तभिः । आत्मा च देहः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वैराग्यम् उत्पादयति—पित्र् इति सप्तभिः ॥२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विरागं जनयन्न् आह—पित्र् इति सप्तभिः ॥२१॥
———————————————————————————————————————
॥ १.१३.२२ ॥
अन्धः पुरैव वधिरो मन्द-प्रज्ञाश् च साम्प्रतम् ।
विशीर्ण-दन्तो मन्दाग्निः सरागः कफम् उद्वहन् ॥**
एष श्लोकः न पठ्यते सर्वैः।
———————————————————————————————————————
॥ १.१३.२३ ॥
अहो महीयसी जन्तोर् जीविताशा यथा भवान् ।
भीमापवर्जितं**6** पिण्डम् आदत्ते गृह-पालवत् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **येन पुत्रा हताः, तेन भीमेन दत्तं पिण्डं गृह-पाल इव । गृह-पालः श्वा ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपवर्जितं दत्तम् । गृह-पालः श्वा ॥२३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आवर्जितं दत्तं, गृह-पालः श्वा ॥२३॥
———————————————————————————————————————
॥ १.१३.२४ ॥
अग्निर् निसृष्टो दत्तश् च गरो दाराश् च दूषिताः ।
हृतं क्षेत्रं धनं येषां तद्-दत्तैर् असुभिः कियत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : निसृष्टः प्रक्षिप्तः । गरो विषम् । दूषिता अवमताः । तद्-दत्तैर् अन्नादिभिर् लब्धैर् असुभिः कियत् प्रयोजनम् ? न किंचिद् इत्य् अर्थः ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-दत्तैर् अन्नादिभिर् लब्धैर् असुभिः कियत् ? किं प्रयोजनम् ? इत्य् अर्थः ॥२४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गरो विषं तद्-दत्तैः पिण्डैर् लब्धैर् असुभिः प्राणैः कियत् किं-फलम् इत्य् अर्थः ॥२४॥
———————————————————————————————————————
॥ १.१३.२५ ॥
तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः ।
परैत्य् अनिच्छतो जीर्णो जरया वाससी इव ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्यापि तव एवं दैन्यम् अनुभवतोऽपि परैति क्षीयते । अत एव भवेति ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परैति क्षीयते । वाससी अन्तरीयोत्तरीये इति दृष्टान्तस्य द्वि-वचन-दृष्ट्या दार्ष्टान्तिकस्य देहस्यापि सूक्ष्म-स्थूल-भेदेन द्वितयात्मकस्य जीर्णत्वम् । आन्ध्य-वाधिर्यादिकं सूक्ष्म-देहस्य जीर्णत्वं लक्षणं, वली-पालितादिकं स्थूल-देहस्य च ॥२५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : देहः स्थूल-सूक्ष्म-रूपः, वाससी इव इति दृष्टान्तात्, परैति क्षीयते । वलि-पलितादिकं स्थूलस्य, आन्ध्य-वाधिर्यादिकं सूक्ष्मस्य च जीर्णत्वं बोध्यम् ॥२५॥
———————————————————————————————————————
॥ १.१३.२६ ॥
गत-स्वार्थम् इमं देहं विरक्तो मुक्त-बन्धनः ।
अविज्ञात-गतिर् जह्यात् स वै धीर उदाहृतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : “**किं-लक्षणो धीरः ?” इत्य् अपेक्षायाम् आह । गत-स्वार्थं यशो-धर्मादि-शून्यम्। मुक्त-बन्धनस् त्यक्ताभिमानः । क्व गतः ? इत्य् अविज्ञाता गतिर् यस्य, स धीरः, प्राप्त-दुःखस्य स्वयं सहनेन मुक्ति-प्राप्तेः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : गत-स्वार्थम् इमं देहम् इत्य्-आदि-द्वये पूर्व आतुर-सन्न्यासी । परस् तु सद्-विवेकेन भगवच्-छरणतया सन्न्यासीति तारतम्यं ज्ञेयम् ॥२६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गत-स्वार्थम् अकृत-कृष्ण-भजनत्वेन शोक-मोह-जरादि-व्याकुलम् । मुक्त-बन्धनः त्यक्त-धन-पुत्रादिः । क्व गतः ? इत्य् अविज्ञाता गतिर् यस्य सः । जह्यात् क्वापि तीर्थे देहं, भक्त्यैव यस् त्यजेत्, स धीरः ॥२६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गत-स्वार्थम् अकृत-भगवद्-भक्तित्वेनानिष्पादित-देह-फलम् । मुक्त-बन्धनस् त्यक्त-धनात्मजादिः । क्व गतः ? इति जनैर् अविज्ञाता गतिर् यस्य सः, जह्यात् कुत्रचित् पुण्य-क्षेत्रे भगवन्तं स्मरन् देहं यस् त्यजेत्, स धीरः ॥२६॥
———————————————————————————————————————
॥ १.१३.२७ ॥
यः स्वकात् परतो वेह जात-निर्वेद आत्मवान् ।
हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नरोत्तमस् तु ततः प्राग् एव कृत-प्रतीकारः । स्वकात् स्वत एव । परतः परोपदेशतो वा ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नरोत्तमस् तु प्राग् एव कृत-प्रतीकारः । तल्-लक्षणम् आह—स्वकात् स्वत एव परतः परोपदेशतो व आत्मवान् विवेकी । धनं हृदि कृत्व वणिक् यातीतिवत् **हरिं हृदि कृत्वा **हरिं प्राप्तुम् इति भावः । स नरोत्तमः । तत्रातुर-सन्न्यासी धीरः, भक्ति-विवेकी नरोत्तम इति भेदः ॥२७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नरोत्तमस् तु पूर्वम् एव कृत-प्रतीकारस् तल्-लक्षणम् आह—य इति । परतः परोपदेशद् वा । आत्मवान् विविक्तात्म-निष्ठः, त्वं तु प्रायो नरोत्तमो नासीति भावः ॥२७॥
———————————————————————————————————————
॥ १.१३.२८ ॥
अथोदीचीं दिशं यातु स्वैर् अज्ञात-गतिर् भवान् ।
इतोऽर्वाक् प्रायशः कालः पुंसां गुण-विकर्षणः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वैर् अज्ञात-गतिः विविक्त-गतिः ॥२८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्वं तु नरोत्तमो नाभूः, अत इदानीं धीरो भवेत्य् आह—अथेति । अर्वाग् अर्वाचीनः । एष्यन्न् इत्य् अर्थः । गुणान् धैर्य-दयादीन् विकर्षत्य् आच्छिनत्तीति तथा ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्वं तु नरोत्तमो नाभूर् एवातो धीरो भवेत्य् आह—अथ इति । अर्वाक् अर्वाचीनः एष्यन् काल इत्य् अर्थः । गुणण् धैर्य-दयादीन् विकर्षति आच्छिनत्तीत्य् अर्थः ॥२८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इदानीं नरोत्तमस् त्वं भवेत्य् आह—भवान् स्वैः पाण्डवैर् अज्ञात-गतिः सन्न् उदीचीं दिशं यातु यस्माद् इतोऽर्वाचीनः कालः कलिर् एष्यति, गुणान् धैर्य-दयादीन् विकर्षत्य् अपनयतीत्य् अर्थः ॥२८॥
———————————————————————————————————————
॥ १.१३.२९ ॥
एवं राजा विदुरेणानुजेन
प्रज्ञाचक्षुर् बोधित आजमीढः ।
छित्त्वा स्वेषु स्नेह-पाशान् द्रढिम्नो
निश्चक्राम भ्रातृ-सन्दर्शिताध्वा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आजमीढोऽजमीढ-वंशजः । प्रज्ञाचक्षुर् अन्धः, एवं बोधितः सन् । द्रढिम्नश् चित्त-दार्ढ्यात् । भ्रात्रा सन्दर्शितोऽध्वा बन्ध-मोक्षयोर् मार्गो यस्य सः ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बोधितः मुक्त्य्-अर्थः भक्ति-मिश्र-ज्ञानोपदेशेनेत्य् अर्थः । आजमीढः अजमीढ-वंशजः । द्रढिम्नश् चित्त-दार्ढ्याद् धेतोः । भ्रात्रा सन्दर्शितः अध्वा बन्ध-मोक्षयोर् मार्गो यस्य सः ॥२९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रज्ञा-चक्षु-रन्धः, बोधितो मुक्ति-फलां हरि-भक्तिं ग्राहितः । आजमीढोऽजमीढ-वंशोद्भवः, द्रढिम्नश् चित्त-दार्ढ्याद् धेतोर् निश्चक्राम, भ्रात्रा विदुरेण । सन्दार्शितो बन्ध-मुक्त्योर् अध्वा पन्था यस्य सः ॥२९॥
———————————————————————————————————————
॥ १.१३.३० ॥
पतिं प्रयान्तं सुबलस्य पुत्री
पति-व्रता चानुजगाम साध्वी ।
हिमालयं न्यस्त-दण्ड-प्रहर्षं
मनस्विनाम् इव सत् सम्प्रहारः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुबलस्य पुत्री गान्धारी साध्वी सुशीला हिमालयं प्रयान्तं पतिम् अनुजगाम । ननु कथं सा सुकुमारी हिमादि-दुःख-बहुलं हिमवन्तं गता ? अत आह—न्यस्त-दण्डानां प्रहर्षो यस्मिंस् तम् । दुःखम् अपि केषांचित् प्रहर्ष-हेतुर् भवतीत्य् अत्र दृष्टान्तः । मनस्विनां शूराणां युद्धे संस् तीव्रः संप्रहारो यथा । पाठान्तरे सत्-संप्रहारं युद्धं यथेति ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुबलस्य पुत्री गान्धारी । साध्वी सुशीला । ननु सा सुकुमारी हिमाद्रिं दुःख-बहुलं कथं गता ? इत्य् अत आह—न्यस्त-दण्डानां प्रहर्षो यत्र तं दुःखकम् अपि केषाञ्चिद् उत्साहवतां प्रहर्ष-हेतुर् भवतीति । अत्र दृष्टान्तः—मनस्विनां शूराणां परम-सुकुमाराणाम् अपि युद्ध-वीराणां सद् उत्कृष्टः सम्प्रहारो युद्धम् इव । “सत्-सम्प्रहारम्” इति पाठे क्लीबत्वम् आर्षम् । सम्प्रहाराभिसम्पात-कलि-संस्फोट-संयुगाः इत्य् अमरः ॥३०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सुबलस्य पुत्री गान्धारा हिमालयं प्रयातं पतिम् अनुजगाम । ननु सा सुकुमारी हिमालयं कथं गता? तत्राह—न्यस्त-दण्डानां प्रहर्षो यत्र तम्, तत्र दृष्टान्तः—मनस्विनां शूराणां सुकुमाराणाम् अपि सत् संप्रहारम् आहवम् इव । यथाहवे स्वर्गानन्दानुरागस् तथा मोक्षानन्दानुरागो हिमालये प्रवर्तक इति भावः ॥३०॥
———————————————————————————————————————
॥ १.१३.३१ ॥
अजात-शत्रुः कृत-मैत्रो हुताग्निर्
विप्रान् नत्वा तिल-गो-भूमि-रुक्मैः ।
गृहं प्रविष्टो गुरु-वन्दनाय
न चापश्यत् पितरौ सौबलीं च ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : पितरौ कुन्ती-धृतराष्ट्रौ । न चाप्य् अपश्यतः । तस्य मनसि तेषां विपद्-भावो बभूव । अन्यथा महाभारत-विरोधात् । स्कान्दे च—
भीम-सन्तर्जितो राज्ञस् त्व् अनुज्ञां प्राप्य यत्नतः ।
धृतराष्ट्रो वने वासम् अकरोद् वत्सर-त्रयम् ॥
विदुरस् तद्-दिदृक्षार्थम् आगतेषु वनं पुरा ।
पाण्डवेषु तु राजानं प्रविश्यैकत्वम् आगतः ॥
ततो दावाग्निना दग्धं धृतराष्ट्रं च सौबलीम् ।
श्रुत्वा कुन्ती-चर्चितान्ते प्रापुः पाण्डु-सुतस् तदा ॥
तांस् तदा नारदो विद्वान् शमयामास धर्मवित् ।
उक्तोत्तमां पतिं तेषां निष्ठां तात्कालिकीं तथा ॥ इति ॥३१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्र्तं मैत्रं मित्र-दैवत्यं सन्ध्या-वन्दनं येन । नत्वा संपूज्य । पितरौ विदुर-धृतराष्ट्रौ ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृतं मैत्रं मित्र-दैवत्यं सन्ध्या-वन्दनादिकं येन सः । नत्वा तिलादिभिः सम्पूज्येति “प्रविश पिण्डीम्” इतिवद् आक्षेप-लब्धम् । नापश्यत् च-कारात् न ज्ञातवांश् च । पितरौ धृतराष्ट्र-विदुरौ ॥३१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कृतं मैत्रं मित्र-देवताकं सन्ध्योपासनं येन सः । नत्व तिलादिभिर् अभ्यर्च्येति प्रविश पिण्डीम् इति वदाक्षेपात् प्राप्तं । पितरौ धृतराष्ट्र-विदुरौ ॥३१॥
———————————————————————————————————————
॥ १.१३.३२ ॥
तत्र सञ्जयम् आसीनं पप्रच्छोद्विग्न-मानसः ।
गावल्गणे क्व नस् तातो वृद्धो हीनश् च नेत्रयोः ।
अम्बा च हत-पुत्रार्ता पितृव्यः क्व गतः सुहृत् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **ब्रह्माण्डे—
धृतराष्ट्रे मृते सूतः सञ्जयः पाण्डु-सूनवे ।
गतिं शशंस कुन्त्याश् च गान्धारी-धृतराष्ट्रयोः ॥ इत्य्-आदि ।
पितृव्योऽपि धृतराष्ट्र एव । द्विरुक्तिस् तात्पर्यार्था ।
यत्राधिकं तत्परता बहु-वारम् अपि ध्रुवम् ।
तद् वदन्ति महा-प्राज्ञो लोक-वेदानुसारतः ॥ इति च ब्रह्म-तर्के ॥३२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हे गावल्गणे गवल्गणस्य पुत्र सञ्जय ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **हे गावल्गने ! गवल्गनस्य पुत्र सञ्जय ! नेत्रयोर् हीनो नेत्राभ्यां रहितः । पितृव्यो विदुरः ॥३२॥
———————————————————————————————————————
॥ १.१३.३३ ॥
अपि मय्य् अकृत-प्रज्ञे हत-बन्धुः स भार्यया ।
आशंसमानः शमलं गङ्गायां दुःखितोऽपतत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अकृत-प्रज्ञे मन्द-मतौ । शमलम् अपराधम् आशंसमान आशङ्कमानः । भार्यया सह ॥३३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अपीति । शमलम् अस्य मद्-वधात्मकम् अपि पापं भवत्व् इति वाञ्छयेत्य् अर्थः ॥३३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धृतराष्ट्रः शमलं मत्-कर्तृकम् अपराधम् आशंसमानं युधिष्ठिरेण मम एकोऽपि पुत्रो न रक्षितस् तत् किं मे जीवितेन ? इति मनसानुलपन् निर्विद्यमान इत्य् अर्थः । यद् वा, अस्य मद्-वधात्मकम् अपि पापं भवत्व् इति वाञ्छन्न् इत्य् अर्थः ॥३३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अकृत-प्रज्ञे मन्द-मतौ मयि हत-बन्धुर् धृतराष्ट्रः **शमलम् **अपराधम् आशंसमानः । ममैक-पुत्रो न रक्षितस् तत् किं जीवितेनेति दुःखितो भार्यया सह गङ्गायां न्यपतत् । यद् वा, अस्य मद्-वधात्मकं पापं भवत्व् इति मयि शमलम् आशंसमानो वाञ्छन् ॥३३॥
———————————————————————————————————————
॥ १.१३.३४ ॥
पितर्य् उपरते पाण्डौ सर्वान् नः सुहृदः शिशून् ।
अरक्षतां व्यसनतः पितृव्यौ क्व गताव् इतः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : पितृव्यौ गान्धारी-धृतराष्ट्रौ ॥३४॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : याव् अरक्षतां, तौ । इतः स्थानात् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद् उपकारान् स्मरन्न् अनुतपति—पितरीति । पितृव्यौ विदुर-धृतराष्ट्रौ ॥३४॥
———————————————————————————————————————
॥ १.१३.३५ ॥
सूत उवाच—
कृपया स्नेह-वैक्लव्यात् सूतो विरह-कर्शितः ।
आत्मेश्वरम् अचक्षाणो न प्रत्याहातिपीडितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृपया स्नेह-वैक्लव्याच् चातिपीडित आत्मेश्वरं धृतराष्ट्रम् अपश्यन् । विरह-कर्शितश् च सूतः सञ्जयो न प्रत्य् उत्तरम् आह ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृपया हा वृद्धयोर् अनाथयोः किं भविष्यतीति चेतो-द्रवेण सम्बन्ध-हेतुको यः स्नेहः, तेन वैक्लव्याच् च ॥३५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सूतः सञ्जय आत्मेश्वरं धृतराष्टम् अचक्षाणोऽपश्यम् कृपया वृद्धयोर् अनाथयोः किं भावीति चित्त-द्रवेण, स्व-स्वामि-भाव-हेतुकेन स्नेहेन वैक्लव्याच् च विरह-कर्षितो दुर्बलोऽतिपीडितः सन् ॥३५॥
———————————————————————————————————————
॥ १.१३.३६ ॥
विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानम् आत्मना ।
अजात-शत्रुं प्रत्यूचे प्रभोः पादाव् अनुस्मरन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मना बुद्ध्या आत्मनं मनो विष्टभ्य धैर्य-युक्तं कृत्वा । प्रभोर् धृतराष्ट्रस्य ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मना बुद्ध्या आत्मानं मनो विष्टभ्य धैर्य-युक्तं कृत्वा ॥३६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आत्मना बुद्ध्या आत्मानं मनो विष्टभ्य स्थिरं कृत्वा । प्रभोर् धृतराष्ट्रस्य ॥३६॥
———————————————————————————————————————
॥ १.१३.३७ ॥
सञ्जय उवाच—
नाहं वेद व्यवसितं पित्रोर् वः कुल-नन्दन ।
गान्धार्या वा महा-बाहो मुषितोऽस्मि महात्मभिः ॥**7
**मध्वाचार्यः (भागवत-तात्पर्यम्) : मुषितोऽस्मि **इति प्रलापः ॥३७॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : गान्धार्याश् च । व्यवसितं निश्चितम् । यतो मुषितो वञ्चितोऽस्मि इति ॥३७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सञ्जय उवाचेति । क्वचिन् नास्ति । नाहं वेद्मीत्य् आदौ,
अहं व्यवसितं राजन् पित्रोस् ते कुल-नन्दन ।
न वेद साध्व्या गान्धार्या मुषितोऽस्मि महात्मभिः ॥ इति क्वचित् पाठः ॥३७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेद वेद्मि । मुषितो वञ्चितः । मन्-निद्रा-समये ते गता इति भावः ॥३७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : व्यवसितं निश्चयं, मुषितो वञ्चितः, मयि निद्राणे गता इति भावः ॥३७॥
———————————————————————————————————————
॥ १.१३.३८ ॥
अथाजगाम भगवान् नारदः सह-तुम्बुरुः ।
प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन् मुनिम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं किंचित् कालं शोचति तस्मिन्न् अथ नारद आजगाम । अत्रास्ति क्वचित् पुस्तके पाठान्तरं8 तद् उल्लङ्घ्य यथा-सम्प्रदायं व्याख्यायते । शोक-वेगाद् अभ्यर्चयन्न् इवाह राजा, न त्व् अभ्यर्चयत् ।
शोकाक्रान्तः कृपाविष्टः श्रद्धया रहितः पुमान् । \
गुरु-देव-द्विजातीनां पूजनं न समाचरेत् ॥ इति स्मृतेः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथाजगाम इत्य् आदौ,
एतस्मिन्न् अन्तरे विप्रा नारदः प्रत्यदृश्यत ।
वीणां त्रितन्त्रीं ध्वनयन् भगवान् सह-तुम्बुरुः ।
राज-दत्तोपनीतार्ध्यं प्रत्युत्थञाभिनन्दितम् ।
परमासन आसीनं पौरवेन्द्रः स्म भाषते ॥
इति पुण्यारण्य-चित्सुखयोः सम्मतः पाठः ॥३८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शोक-वेगाद् अभ्यर्चयन्न् इवाह—न त्व् अभ्यर्च्य ॥३८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **शोक-व्याकुलत्वाद् अभ्यर्चयन्न् इवेति ॥३८॥
———————————————————————————————————————
॥ १.१३.३९ ॥
युधिष्ठिर उवाच—
नाहं वेद गतिं पित्रोर् भगवन् क्व गताव् इतः ।
अम्बा वा हत-पुत्रार्ता क्व गता च तपस्विनी ।
कर्णधार इवापारे भगवान् पार-दर्शकः ॥**
अथाबभाषे भगवान् नारदो मुनि-सत्तमः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : क्व गतौ ? इत्य् अदृष्टापेक्षया ॥३९-४०॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : नाहं वेद वेद्मि । तपस्विनी दुःख-युक्ता । अपारे शोकार्णवे भगवांस् तम् एव पार-दर्शकः । अतो ब्रूहीति शेषः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपारे शोकार्णवे । भगवान् सर्वज्ञस् त्वम् । अतो ब्रूहीति भावः ॥३९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नाहं वेद न वेद्मि । तपस्विनी नियमवती शोक-तप्ता च ॥३९॥
———————————————————————————————————————
॥ १.१३.४१ ॥
नारद उवाच—
मा कञ्चन शुचो राजन् यद् ईश्वर-वशं जगत् ।
लोकाः सपाला यस्येमे वहन्ति बलिम् ईशितुः ।
स संयुनक्ति भूतानि स एव वियुनक्ति च ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आदाव् एव यथा-वृत्त-कथने शोकेन मूर्च्छितः पतेद् इति प्रथमं तावच् छोकम् उपशमयति । कञ्चन मा शुचो मा शोच । न केवलं तान् एव । यद् यस्माद् ईश्वराधीनं जगत् । तद् एवाह—लोका इति । संयुनक्ति संयोजयति । वियुनक्ति वियोजयति च ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : मा कञ्चन इत्य्-आदौ हि पारतन्त्र्य-मात्रम् उक्तम् । ततश् चेदं विना प्रवृत्तौ पारतन्त्र्यम् उक्त्वेति पारतन्त्र्य-विशेषोक्तिर् न घटते । स संयुनक्ति इत्य् अर्धं च क्वचिन् नास्ति । किन्तु वहन्ति बलिम् ईशितुर् इति स्थान-द्वये पाठेनैव प्रथम-लेखक-भ्रमोऽयं क्वचित् सम्प्रदायेऽनुवृत्त इति लक्ष्यते ॥४१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आदाव् एव यथा-वृत्त-कथने शोकेन मूर्च्छितः पतेद् इति प्रथमं तावत् शोकम् उपशमयति । मा शुचः मा शोच । तयोर् विच्छेदेन सीदामीति चेद् अप्रतिकार्यम् एतत् संयोग-वियोगयोर् ईश्वराधीनत्वाद् इत्य् आह—स इति ॥४१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आदौ यथा वृत्तार्थ-कथने शोक-मूर्च्छितो नृपतिर् निपतेद् अतः पूर्वं शोकं निवर्तयन्न् आह—मा कञ्चन इति । मा शुचः मा शोच । तत्र हेतुः—यद् इति ॥४१॥
———————————————————————————————————————
॥ १.१३.४२ ॥
यथा गावो नसि प्रोतास् तन्त्र्यां बद्धाश् च दामभिः ॥
वाक्-तन्त्र्यां नामभिर् बद्धा वहन्ति बलिम् ईशितुः ॥४२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गवो बलीवर्दा नसि नासिकायां प्रोतास् तन्त्र्यां दीर्घ-तन्त्यां दामभिर् बद्धाः स्वामिनो बलिं वहन्ति यथा । एवं वाक्-तन्त्यां कर्तव्याकर्तव्य-विधायक-वेद-लक्षणायां नामभिर् ब्रह्मचारीत्य्-आदि-वर्णाश्राम-लक्षणैर् बद्धाः परमेश्वरस्य बलिं तेन प्रेरिताः सर्वे वहन्तीत्य् अर्थः ॥४२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यथा गाव इति पद्यं क्वचिन् नास्ति । यथा क्रीडेत्य् आदेर् अवतारिकानुसारेण तु स्वामि-सम्मतम् इति लक्ष्यते ॥४२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स एव संयुनक्तीत्य् उक्तम् अर्थ-द्वयम् उक्त-पोष-न्यायेन स-दृष्टान्तं क्रमेणाह—गावस् तन्त्र्याम् एकस्याम् एव दीर्घायां रज्ज्वां सर्व एव बद्धाः तत्र पृथक् दामभिर् नसि प्रोताः । ननु प्रकृते का वा तन्त्री दामानि वा कानीत्य् अपेक्षायाम् आह—वाक् वेद एव तन्त्री तस्यां नामभिर् ब्राह्मण-क्षत्रिय इति ब्रह्मचारी गृहस्थ इत्य्-आदिभिर् एव दामभिर् बद्धा बलिम् अहरहः सन्ध्याम् उपासीतेत्य् आदि-लक्षणं शासनम् ॥४२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद्-वियोगेन विषीदामि इति चेत्, तत्राह—स इति सार्धाभ्यां, संयोग-वियोगयोर् ईशाधीनत्वाद् वियोगस् त्वया प्रतिकार्यो नेत्य् अर्थः । उक्तम् अर्थ-द्वयं दृष्टान्तेन पुष्णन्न् आह—यथेति द्वाभ्यां । गावो बलीवर्दा यथा एकस्याम् एव दीर्घ रज्ज्वां बद्धाः पृथक् पृथक् दामभिर्नसि नासिकायां प्रोता ग्रथिताः,
ननु प्रकृते का तन्त्री, कानि च दामानि? तत्राह—वाक् वेद-लक्षणा तन्त्री । तस्यां ब्राह्मण-क्षत्रियादिभिर् ब्रह्मचारि-गृहस्थादिभिश् च दामभिर् बद्धा ईशितुर् बलिं हरन्ति, स्व-स्वर्णाश्रम-विहित-कर्मानुष्ठान-लक्षणं निवेदयन्तीत्य् अर्थः ॥४२॥
———————————————————————————————————————
॥ १.१३.४३ ॥
यथा क्रीडोपस्कराणां संयोग-विगमाव् इह ।
इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रवृत्तौ पारतन्त्र्यम् उक्त्वा संयोग-वियोगयोर् अप्य् आह—यथेति । क्रीडोपस्काराणां क्रीडा-साधनानां (दारु-रचित-मेषादीनाम्) ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **क्रीडोपस्कराणां क्रीडा-साधनानाम् अक्षादीनाम् ॥४३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **क्रीडोपस्कराणां क्रीडा-साधनानाम् ॥४३॥
———————————————————————————————————————
॥ १.१३.४४ ॥
यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् ।
सर्वथा न हि शोच्यास् ते स्नेहाद् अन्यत्र मोहजात् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ईश्वराधीनत्वान् न शोकः कार्य इत्य् उक्तम् । शोक-तत्त्वे च विचार्यमाणो निर्विषयोऽयं शोक इत्य् आह । यद्यपि लोकं जनं ध्रुवं जीव-रूपेण । अध्रुवं देह-रूपेण । न चेति । न ध्रुवं नाप्य् अध्रुवम् । शुद्ध-ब्रह्मरूपेणानिर्वचनीयत्वेन वा उभयं चिज्-जडांशतः । सर्वथा चतुर्ष्व् अपि पक्षेषु ते पित्रादयो न शोच्याः । स्नेहाद् अन्यत्र । स्नेह एव केवलं शोक-हेतुः स चाज्ञान-मूल इत्य् अर्थः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ईश्वराधीनत्वान् न शोकः कार्य इत्य् उक्तम्, लोकतत्त्वे तु विचार्यमाणे निर्विषयोऽयं शोक इत्य् आह—यद् यदि लोकं जनं ध्रुवं जीव-रूपेण अध्रुवं देह-रूपेण न उभयं न ध्रुवं नाप्य् अध्रुवं ब्रह्म-रूपेण वा शब्दाद् उभयं च चिज्-जडांश-रूपेण । सर्वथा चतुर्ष्व् अपि पक्षेषु ते पित्रादयो न शोच्याः स्नेहाद् अन्यत्र विवेकादौ सति । स्नेह एव केवलं शोक-हेतुः स चाज्ञान-मूल इत्य् अर्थः । मोहजाद् इत्य् अनेन भगवद्-भक्ति-सम्बन्धी स्नेहो व्यावृत्तः । तद्-उत्थं शोकं तु करुण-रस-स्थायि-भावं परमोपादेयं मन्यते ॥४४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्राणि-संयोग-वियोगयोर् ईशाधीनत्वाच्-छोको न योग्य इत्य् उक्तम् । इदानीं वस्तु-स्वरूपे परीक्ष्यमाणे न शोकावकाश इत्य् आह—य यदि लोकं जीव-रूपेण ध्रुवं देह-रूपेणाध्रुवं मन्यसे, न चोभयं ध्रुवाध्रुव-भिन्नम् इत्य् अर्थः । सर्वर्था प्रकारत्रयेऽपि ते पित्रादयः शोच्या न भवन्ति । ध्रुव-पक्षे कूटस्थत्वान् न शोकः अध्रुव-पक्षे नित्य-विनश्वरत्वान् न सः, ध्रुवाध्रुव-भिन्न-पक्षे तादृशस्यैकस्या-सत्त्वेन शोकस्य निर्विषयत्वात्-तथा । तर्हि किं-निमित्तोऽयं लोके शोकस् तत्राह —स्नेहाद् अन्यत्र मोहजाद् इति । देह-गेहादावहंममेति विपरीत ज्ञानं-मोहः, तज्-जातात् स्नेहाद् अन्यत्रेति तादृशः स्नेहः शोकस्थानम् इत्य् अर्थः । तथा च भ्रान्ति-जन्यः स्नेहः शोक-हेतुर् न हरि-तद्-भक्त-स्नेहस् तथेति ॥४४॥
———————————————————————————————————————
॥ १.१३.४५ ॥
तस्माज् जह्य् अङ्ग वैक्लव्यम् अज्ञान-कृतम् आत्मनः ।
कथं त्व् अनाथाः कृपणा वर्तेरंस् ते च मां विना**9** ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्मान् मां विना कथं ते वर्तेरन्न् इत्य् आत्मनो मनसो वैक्लव्यं व्याकौलतां त्यज ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्मान् मां विना कथं ते वर्तेरन्न् इति मनसो वैक्लव्यं त्यज ॥४४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्मान्-मां विनानाथास् ते कथं वर्तेरन्न् इत्य् आत्मनो मनसे वैक्लव्यं जहि त्यज्येर्थः ॥४५॥
———————————————————————————————————————
॥ १.१३.४६ ॥
काल-कर्म-गुणाधीनो देहोऽयं पाञ्च-भौतिकः ।
कथम् अन्यांस् तु गोपायेत् सर्प-ग्रस्तो यथा परम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र त्वद्-देहतस् तेषां वृत्तिर् एतत् तावन् नास्तीत्य् आह । कालो गुण-क्षोभकः । कर्म जन्म-निमित्तम् । गुणा उपादानम् । तद्-अधीनः पाञ्चभौतिको जडस् तद्-विभागे नाशवांश् च । सर्प-ग्रस्तोऽजगर-गिलितो यथान्यं न रक्षति तद्वत् ॥४६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ममायं पित्रादिर् मया रक्ष्य इत्य् अभिमानो न कर्तव्य इत्य् आह—कालेति ॥४६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नहि कश्चिद् अपि कम् अपि वृत्ति-दानादिना रक्षितुं प्रभवतीत्य् आह—कालः सामान्यतो निमित्तम् । कर्म जन्म-निमित्तम् । गुणा उपादानं तद्-अधीनः पाञ्चभौतिक इति तद्-विभागे सद्य एव नाशवान् इत्य् अर्थः । एकः सर्प-दष्टं गोपायितुं नैव शक्नोतीत्य् अर्थः ॥४६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **न खलु कोऽपि कञ्चिज्-जीविकार्पणादिना रक्षितुं प्रभवतीत्य् आह—कालः साधारण-निमित्तं, कर्म जन्म-निमित्तं, गुणस्तूपादानं तद् अधीनोऽयं पाञ्च-भौतिको देहः । तद्-विभागे सद्य एव विनष्येत् । ईदृशः कथम् अन्यान् गोपायेत्? नेत्य् अर्थः । तत्र दृष्टान्तः—सर्पेति । यथैकः सर्पदष्टोऽन्यं सर्प-दष्टं गोपायितुं न शक्नोति, तद्वद् इत्य् अर्थः ॥४६॥
———————————————————————————————————————
॥ १.१३.४७ ॥
अहस्तानि सहस्तानाम् अपदानि चतुष्-पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ईश्वरेण वृत्तिश् च सर्वतः सुलभैवेत्य् आह । अहस्तानि पश्व्-आदीनि । उपदानि तृणादीनि । तत्र तेष्व् अहस्तादिष्व् अपि फल्गून्य् अल्पानि । एवं जीवः सर्वोऽपि जीवस्य सर्वस्य जीवनं जीविका । एतेनैव सर्वतो मृत्यु-ग्रासत्वं चोक्तम् ॥४७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **व्याघ्रादिभिर् भक्षिते च तस्मिन् दुःखं न कर्तव्यम् इत्य् आह—अहस्तानीति _॥_४७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अतो जीविकाम् अपि ईश्वर एव सर्वेषाम् एव प्रथमम् एव व्यवस्थापितवान् इत्य् आह—अहस् तानि मृगादीनि । अपदानि तृणादीनि । तत्रापि महतां मत्स्यादीनां फल्गूनि मत्स्यादीनि । अतो जीवस्य जीव एव जीविका साहजिकी । तेन तपस्विनां पत्र-पुष्प-फलादिर् ईश्वर-कल्पितैवानिषिद्धा जीविकास्ति । किम्-अर्थं त्वं विषीदसीति भावः ॥४७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ईश्वरस् तु सर्वेषां जीविकां सम्पादितवान् अस्तीत्य् आह—अहस्तानि मृगादीनि अपदानि तृणादीनि, तत्रापि महतां मत्स्यादीनां फल्गूनि मत्स्यादीनि, एवं जीव एव जीवस्य जीवनं परेशेन निमितं, तथा च पत्र-फलादिकं जीवनं । तेन निर्मितम् अनिषिद्धम् अस्तीति विषादस् तव न योग्य इति ॥४७॥
———————————————————————————————————————
॥ १.१३.४८ ॥
तद् इदं भगवान् राजन्न् एक आत्मात्मनां स्व-दृक् ।
अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मोह-निवृत्त्य्-अर्थं द्वैतस्यावस्तुत्वम् आह । तद् इदम् अहस्त-सहस्तादि-रूपं जगत् । स्व-दृग् भगवान् एव न ततः पृथक् । स चैक एव न तु नाना । ननु सजातीय-विजातीय-भेदे प्रत्यक्षे कुत एतत् तत्राह । आत्मनां भोक्तॄणाम् आत्मा स्वरूपम् । अतो न सजातीय-भेदः । अन्तरोऽनन्तरश् च अन्तर् बहिश् च भोक्तृ-भोग्य-रूपश् च भाति । अतो न विजातीय-भेदोऽपि । नन्व् एकः कथं तथा प्रतीयतेऽत आह । मायया बहुधा भाति तं पश्येति ॥४८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एतच् च जगत् भगवद्-दुर्वितर्क्य-शक्ति-मय-कार्यत्वात् तद्-अधीनम् एवेत्य् आह—तद् इदम् इति । मायया दुर्वितर्क्य-शक्त्या भगवान् एवेदं भाति । एतद्-रूपेण परिणमते । स्वयं तु स्वरूपेणैव तिष्ठति, चिन्तामणिवत् ॥४८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु यदीश्वर-वशं जगद् इत्य्-आदिना त्वयोक्तं भगवद्-अधीनं सर्वं चेत् कथं काल-कर्म-गुणाधीनो देह इत्य् उच्यते । सत्यम् । काल-कर्मादिकस्य सर्वस्य जगतो भगवच्-छक्ति-कार्यत्वात् सर्वं भगवान् एवेत्य् आह—तद् इदम् इति । स्वरूप-शक्त्या आत्मनां जीवानाम् आत्मा अन्तर्यामि-रूपेण । स्व-दृक् स्व-प्रकाशः । अन्तरो भोक्तृ-रूपेण जीवः । अनन्तरो बहिर् भोग्य-रूपेण सुख-दुःखादि । माययेति । भगवान् एव शक्ति-त्रय-रूपेण भाति । अतस् तम् एवैकं मायया शक्त्या उरुधा देव-तिर्यग्-आदि-देह-रूपेण बहुधा ॥४८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु चेद् ईश्वर-वशं जगत्वयोक्तं, तर्हि काल-कर्म-गुणाधीनो देहः कथम् उच्यते? तत्राह—एक एव भगवान् इदं जगत्, ननु विज्ञानानन्दः कथञ्चिज्-जडात्मकं जगत्? तत्राह—माययोर् उधेति । स्वशक्त्या जगद्-रूप इत्य् अर्थः । त्रिगुणात्मिकाथ ज्ञानं च तथा चिच्-छक्तिर् एव च । माया-शब्देन भण्यन्ते शब्द-तत्त्वार्थवेदिभिः इति शब्द-महोदधेः । चिच्छक्तिर् अत्र पराख्या क्षेत्रज्ञाख्या च गृह्यते, द्वयोश् चिद्-रूप-विशेषात्, कालोऽपि तच्-छक्तिः स्वकाल-शक्त्या क्षपयन् [भा।पु। १०.१.२२] इति वक्ष्यमाणात् । तथा च पराख्ययात्मनां जीवानाम् आत्मान्तर्यामी । अन्तरोऽप्रत्यक्षः । त्रिगुणया क्षेत्रज्ञाख्यया कालाख्यया चानन्तरो जगद्-रूप इत्य् अर्थः । तद् इदं त्वं विवेक-दृष्ट्या पश्यति ॥४८॥
———————————————————————————————————————
॥ १.१३.४९ ॥
सोऽयम् अद्य महाराज भगवान् भूत-भावनः ।
काल-रूपोऽवतीर्णोऽस्याम् अभावाय सुर-द्विषाम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **क्वासाव् अस्तीदृशो महा-मायावी, द्वारकायाम् इत्य् आह—सोऽयम् इति । अस्यां भूम्याम् । अभवाय नाशाय ॥४९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सोऽयम् अद्येति । वर्तमान-सामीप्ये वर्तमानवद् वा इति न्यायेन सुर-द्विषाम् अभवायैव काल-रूपः । स्वयं तु परमानन्द-रूप एवेत्य् अर्थः ॥४९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **क्वासाव् अस्तीदृशो मायावी ? द्वारकायाम् इत्य् आह—सोऽयम् इति । अस्यां भूमौ सुर-द्विषाम् अभावाय नाशाय काल-रूपस् तैर् एव काल-रूपत्वेनानुभूयमानः स्वयं तु परमानन्द-रूप एवेत्य् अर्थः ॥४९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नन्व् ईदृशोऽसौ क्वास्ते? तत्राह–सोऽयम् इति । अस्यां भुवि सुरद्विषामभवाय विनाशायावतीर्णः, कालो रूपं शक्तिर् यस्य सः । तैः काल-रूपत्वेन प्रतीयमानः स्वयं विज्ञानानन्द-वपुर् द्वारवत्याम् अस्तीति ॥४९॥
———————————————————————————————————————
॥ १.१३.५० ॥
निष्पादितं देव-कृत्यम् अवशेषं प्रतीक्षते ।
तावद् यूयम् अवेक्षध्वं भवेद् यावद् इहेश्वरः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तर्हि श्री-कृष्णोऽत्रास्तीत्य् अत्रैवास्थां मा कृथा इत्य् आह । तच् च देवानां कार्यं तेन निष्पादितम्, केवलम् अशेषं प्रतीक्ष्यते । यदु-कुल-क्षयम् इति हृदि-स्थम् । ततो निजं धाम यास्यति ततो यूयम् अपि गच्छतेत्य् अर्थः । तच् च भूतम् अपि विदुरवद् एव नावर्णयत् ॥५०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अवशेषं भवताम् आकर्षण-पूर्वम् इति हृत्-स्थम् ॥५०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **केवलम् अवशेषं प्रतिक्षत इति यदु-कुलानाम् अन्तर्धापनम् इति हृदि-स्थम् । तच् च भूतम् अपि विदुरवद् एव नावर्णयत् । अवेक्षध्वम् इत्य् अस्य कर्माप्रयोगाद् अहन्तास्पदं च सर्वम् एव लभ्यते । तद्-अन्तर्धाने श्रुते सति सर्वम् एवोपेक्षध्वम् इति भावः ॥५०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अवशेषं यदुवंशान्तर्धापनम् इति हृद्गतं, तच् च जातम् अपि विदुरवन्-नोक्तवान् । तावद् यूयम् इति अवशेषे तेन निष्पादिते सर्वम् उपेक्षध्वम् इति भावः ॥५०॥
———————————————————————————————————————
॥ १.१३.५१ ॥
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्व-भार्यया ।
दक्षिणेन हिमवत ऋषीणाम् आश्रमं गतः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **गमन-काले सह-भ्राता ॥५१॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एव शोकम् आस्थां च निवार्य जिज्ञासवे तस्मै यथा-वृत्तं कथयति—धृतराष्ट्र इति षड्भिः । हिमवतो दक्षिणे भागे ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवं शोकं निवार्य जिज्ञासवे तस्मै यथा-वृत्तं कथयति—धृतराष्ट्र इति षड्भिः । दक्षिणेन दक्षिणस्यां दिशि ॥५१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद् एवं तत्त्वोपदेशेन शोकं निवार्य यथावृत्तम् आह षड्भिः । दक्षिणेन दक्षिणस्यां दिशि ॥५१॥
———————————————————————————————————————
॥ १.१३.५२ ॥
स्रोतोभिः सप्तभिर् या वै स्वर्धुनी सप्तधा व्यधात् ।
सप्तानां प्रीतये नाना**10** सप्त-स्रोतः प्रचक्षते ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् अपि कुत्रेत्य् आह—स्रोतोभिर् इति । या वै प्रसिद्धा स्वर्धुनी सा आत्मानं यत्र सप्तधा व्यधात् । किम् अर्थम् । नाना पृथक् सप्तभिः स्रोतोभिः प्रवाहैः सप्तानाम् ऋषीणां प्रतीयते । अतएव तत् तीर्थं सप्त-स्रोतो वदन्ति ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **या वै प्रसिद्धा स्वर्धुनी गङ्गा सा आत्मानं सप्तधा व्यधात् । किम्-अर्थम् ? सप्तानाम् ऋषीणां प्रीतये । अतस् तत् तीर्थं सप्त-स्रोत एव नाम मरीचि-गङ्गा अत्रि-गङ्गेत्य् आदि नाना-नाम्ना वदन्ति ॥५२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **या वै प्रसिद्धा स्वर्धुनी गङ्गा सा यत्रात्मानं सप्तधा व्यधात्, किम् अर्थं? सप्तानाम् ऋषीणां प्रीतये, अतस् तत्-तीर्थं तत्-तन्-नाम्ना सप्त-स्रोतः प्रचक्षते । मरीचि-गङ्गात्रिगङ्गेत्य्-आदीनि नामानि ॥५२॥
———————————————————————————————————————
॥ १.१३.५३-५४ ॥
स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथा-विधि ।
अब्-भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥**
जितासनो जित-श्वासः प्रत्याहृत-षड्-इन्द्रियः ।
हरि-भावनया ध्वस्त-रजः-सत्त्व-तमो-मलः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अस्ति इत्य् आद्य् अतीतार्थे स एष एतर्ह्य् अध्यास्तः आसनं पार्थिवोचितम् इत्य्-आदिवत् । सुप्तिङ्-पद-ग्रह-लिङ्ग-नराणां काल-हलच् स्वर-कर्तृ-षङां च । व्यत्ययम् इच्छति शास्त्र-कृद् एषां सोऽपि च सिध्यति बाहुलकेन इति महा-व्याकरणे ।
व्यासादयो वर्तमानम् अतीतान् आगते तथा ।
व्यत्यस्यापि वदन्त्य् अद्धा मोहनार्थं दुरात्मनाम् ॥
पौर्वापर्यं यतो नैव सदैव परिवर्तनात् ।
अतश् च व्यत्याद् एतद् वदन्ति ज्ञान-चक्षुषः ॥ इति ब्राह्मे ॥५३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र तेन कृतम् अष्टाङ्ग-योगम् आह —स्नात्वेति चतुर्भिः । तत्र स्नानं होमोऽब्-भक्षणं चेति नियमा उक्ताः । भक्ष-स्थाने अपां स्वीकाराद् अब्-भक्षः । उपशान्त आत्मा यस्य सः । विगताः पुत्राद्य्-एषणा यस्माद् इति यमा उक्ताः ॥५३॥
जितासन इत्य्-आदिना आसन-प्राणायाम-प्रत्याहारा उक्ताः । हरि-भावनयेति धारणोक्ता । ध्वस्ता रजः-सत्त्व-तमो-रूपा मला यस्येति फलतो ध्यानम् उक्तम् ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तेन कृतम् अष्टाङ्ग-योगम् आह—स्नात्वेति चतुर्भिः । तत्र स्नानं होमोऽब्-भक्षणं च नियमा उक्ताः । उपशान्तात्मा विगतैषण इति यमः । जितासन इत्य्-आदिना आसन-प्राणायाम-प्रत्याहाराः । हरि-भावनयेति धारणा-ध्याने उक्ते ॥५४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तेनानुष्ठितम् अष्टाङ्गं योगम् आहा—स्नात्वेति चतुर्भिः । स्नान-होमाव्-भक्षणानि नियमाः ॥५३॥ \
\
जितासनेत्य्-आदिनासन-प्राणायाम-प्रत्याहाराः, हरि-भावनयेति धारणाध्याने ॥५४॥
———————————————————————————————————————
॥ १.१३.५५-५६ ॥
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
ब्रह्मण्य् आत्मानम् आधारे घटाम्बरम् इवाम्बरे ॥**
ध्वस्त-माया-गुणोदर्को निरुद्ध-करणाशयः ।
निवर्तिताखिलाहार आस्ते स्थाणुर्**11** इवाचलः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
विज्ञानात्मा विरिञ्चोऽयं यस् तस्मिं लीयते जगत् ।
यादांसि सागरे यद्वत् स-क्षेत्रज्ञे जनार्दने ॥
हृदिस्थे च स च व्याप्ते स्वात्मन्य् एकीभवत्य् उत ।+++
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **समाधिम् आह—विज्ञानेति द्वाभ्याम् । आत्मानं मनोऽहङ्कारास्पदं स्थूल-देहाद् वियोज्य विज्ञानात्मन्य् बुद्धौ संयोज्यैकी-कृत्य तं च विज्ञानात्मानं दृष्यांशाद् वियोज्य क्षेत्र-ज्ञे द्रष्टरि प्रविलाप्य तं च क्षेत्र-ज्ञं द्रष्ट्र् अंशाद् वियोज्याधारे आश्रय-सञ्ज्ञे ब्रह्मणि प्रविलाप्य । घटाम्बरं घटोपाधेर् वियोज्य यथा महाकाशे प्रविलाप्यते तद्वत् ॥५५॥
व्युत्थानाभावम् आह—ध्वस्तेति । अन्तर् गुण-क्षोभाद् वा बहिर् इन्द्रिय-विक्षेपाद् वा व्युत्थानं भवेत्, तद् उभयं तस्य नास्ति । यतो ध्वस्तो माया-गुणानाम् उदर्क उत्तर-फलं वासना यस्य सः । निरुद्धानि करणानि चक्षुर् आदीन्य् आशयो मनश् च यस्य सः । अतएव निवर्तितोऽखिल आहारो भोज्यम् इन्द्रियैर् विषयाहरणं वा येन सः । स्थाणुर् इव निश्चल आस्ते ॥५६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आत्मानम् अहङ्कारास्पदं सूक्ष्म-देहं स्थूल-देहाद् वियोज्य क्षेत्रज्ञे देह-द्वयाभिमान्य्-अवस्थ-जीवे प्रविलाप्य तं च क्षेत्रज्ञं विज्ञानात्मनि शुद्ध-जीव-स्वरूपे प्रविलाप्य तं च ब्रह्मणि संयोज्य । घटाम्बरम् इति चिद्-रूपत्वेनैवाभेदांशे दृष्टान्त इति ज्ञेयम् ॥५५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विज्ञानेति । स्व-देह-गतानि भूतानि क्रमेण कारणेषु प्रवेश्य आत्मानम् अहङ्कारं विज्ञानात्मनि महत्-तत्त्वे संयोज्य संयुक्तं भावयित्वा तं च विज्ञानात्मानं क्षेत्रज्ञे जीवे प्रविलाप्य संयुक्तं विभाव्येत्य् अर्थः । तं च क्षेत्रज्ञं ब्रह्मणि संयोज्य आत्मानं स्व-देह-स्थम् अन्तर्यामिनम् आधारे आश्रय-तत्त्वे भगवत्य् अंशिनि संयुक्तं विभाव्य । नन्व् अन्तर्यामि-भगवतोर् ऐक्यम् एव प्रसिद्धम् । सत्यम् ऐक्येऽपि औपचारिको भेदो विवक्षित एवेति स-दृष्टान्तम् आह—घटाम्बरम् इवाम्बर इति । उपाधिस्थम् आकाशं निरुपाधाव् आकाशे इव । तयोश् च घाताकाश-महाकाशयोः वस्तुतः सर्व-व्यापकत्वाद् ऐक्यम् एवेत्य् अर्थः । व्युत्थानाभावम् आह ध्वस्तेति । अन्तर्गुण-क्षोभाद् वा बहिर् इन्द्रिय-विक्षेपाद् वा व्युत्थानं भवेत् । तद् उभयं तस्य नास्ति यतो ध्वस्ता मायाया गुणानाम् उदर्क उत्तर-फलं वासना यस्य सः । अत एव निरुध्येत्य् आदि ॥५५-५६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विज्ञानेति—स्व-देह-गतादीनि पृथिव्यादीनि क्रमेण कारणेऽहङ्कारे संयोज्य तं च विज्ञानात्मनि महत्तत्वे संयोज्य तं च क्षेत्रज्ञे जीवे प्रविलाप्य संयोज्य, तं च ब्रह्मण्यन्तर्यामिणि संयोज्य तं च तद् आधारे आश्रय-तत्त्वे तद् अंशिनि संयोज्य । नन्व् अन्तर्यामि-भगवतोरद्वैतात् कथम् अत्र द्वैतम् उक्तम्? तत्र दृष्टान्तेन द्वैतं परिहरति—घटे नष्टे यथा घटाम्बरं महाम्बरे लीयते, तथा प्रलयादौ नियम्ये लीने सति नियामको व्यापके स्वांशिनि लीयते । अनाविष्कृत-नियमन-शक्तिकः सन् तस्मिन्न् ऐक्यम् एतीति ॥५५॥ \
\
अव्युत्थानमाह—ध्वस्तो मायागुणानामुदर्क उत्तरफलं वासना यस्य सः । अतेव निरुद्धेत्यादि । अन्तर्गुण-विक्षोभाद्वहिरिन्द्रियविक्षेपाद्वा व्युत्थानं स्यत्तदुभयं तस्य नास्तीत्यव्युत्थान-सिद्धिः ॥५६॥
———————————————————————————————————————
॥ १.१३.५७ ॥
तस्यान्तरायो मैवाभूः सन्न्यस्ताखिल-कर्मणः ।
स वा अद्यतनाद् राजन् परतः पञ्चमेऽहनि ।
कलेवरं हास्यति स्वं तच् च भस्मी-भविष्यति ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तथा-भूतम् अप्य् आनेतुम् उद्यतं प्रत्य् आह—तस्येति । अन्तरायो विघ्नः । मैवाभूर् इत्य् अड्-आगमश् छान्दसः । दर्शनम् अपि तावत् कुर्याम् इत्य् उद्यतं प्रत्य् आह । स वै अद्यतमाद् अह्नः परत उत्तरत्र । स्वं स्वाधीनम् । तर्हि तद्-दाहार्थं गमिष्यामि नेत्य् आह तच् चेति ॥५७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तथाभूतम् अप्य् आनेतुम् उद्यतं प्रत्याह—तस्येति । अन्तरायो विध्नो मैवाभूः । अड्-आगमश् छान्दसः । तद्-दर्शनम् अपि तावत् कुर्याम् इत्य् उद्यतं प्रत्याह—स वा इति । तर्हि तद्-दाहार्थं गमिष्यंइ नेत्य् आह—तच् चेति ॥५७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु तादृशम् अप्य् आनयामीति चेत्-तत्राह-तस्येति । अडागमच्-छान्दसः । ननु स मया द्रष्टव्य इति चेत्-तत्राह–स वा इति । ननु तद्-दाहार्थं यास्यामि, तत्राह—तच्-चेति ॥५७॥
———————————————————————————————————————
॥ १.१३.५८ ॥
दह्यमानेऽग्निभिर् देहे पत्युः पत्नी सहोटजे ।
बहिः स्थिता पतिं साध्वी तम् अग्निम् अनु वेक्ष्यति ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तर्हि गान्धार्य्-आनयनाय गमिष्यामि नेत्य् आह । पत्युर् देहे सहोटजे पर्ण-शाला-सहिते योगाग्निना सह गार्हपत्यादिभिर् दह्यमाने तस्य पत्नीबहिः स्थिता सती तं पतिम् अन्व् अग्निं वेक्ष्यति प्रवेक्ष्यति ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तर्हि गान्धार्यानयनाय गमिष्यामि नेत्याह—पत्युर् देहे सहोटजे पर्णशाला-सहिते अग्निभिः योगाग्नि-गार्हपत्यादिभिर् दह्यमाने तस्य पत्नी बहिः-स्थिता पतिम् अनु अग्निं वेक्ष्यति प्रवेक्ष्यति ॥५८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु गान्धारीमानेतुं यास्यामीति तत्राह—–पत्युर् देहे सहोटजे पर्णशाला-सहिते योगाग्निना गार्हपत्यादिभिश् चाग्निभिर् दह्यमाने सति तस्य पत्नी वहिःस्थिता तं पतिमन्व् अग्निं प्रवेक्ष्यति ॥५८॥
———————————————————————————————————————
॥ १.१३.५९ ॥
विदुरस् तु तद् आश्चर्यं निशाम्य कुरु-नन्दन ।
हर्ष-शोक-युतस् तस्माद् गन्ता तीर्थ-निषेवकः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तर्हि विदुरानयनार्थं गन्तव्यम् एव नेत्य् आह । विदुरस् तु तन् निशाम्य दृष्ट्वा भ्रातुः सुगत्या हर्षस् तन्-मृत्युना शोकश् च ताभ्यां युक्तस् तस्मात् स्थानात् तीर्थानि सेवितुं गन्ता गमिष्यति ॥५९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विदुर इति । हर्षोऽयं धृतराष्ट्रस्य सद्-गति-प्राप्तेर् हर्ष-प्राय एव ज्ञेयः । शोकस् तु मूलतो यः, स एव ज्ञेयः ॥५९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तर्हि विदुरानयनार्थं गन्तव्यम् एव नेत्य् आह—विदुरस् तु तन् निशाम्य दृष्ट्वा । तन्-मुक्त्या हर्षः लोक-व्यवहारेण शोकश् च । तस्मात् स्थानात् तीर्थानि निषेवितुं गन्ता गमिष्यति । अत्र भक्तापराधिनि धृतराष्ट्रे विदुरस्य तादृश-कृपाभावान् मुक्तिर् एवाभून् न तु प्रेम-भक्तिर् इति ज्ञेयम् ॥५९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विदुरमानेष्यामीति चेत्-तत्राह—विदुर इति । निशाम्य दृष्ट्वा, भ्रातुर् उत्कृष्ट-गति-दर्शनाद्-धर्षः, स्नेहाच्-छोकश् च ताभ्यां युक्तं, तीर्थ-निषेवकः तीर्थानि निषेवितुं ततः स्थानाद्-गन्ता गमिष्यति ॥५९–६०॥
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां त्रयोदशोऽध्यायः ॥१३॥
———————————————————————————————————————
॥ १.१३.६० ॥
इत्य् उक्त्वाथारुहत् स्वर्गं नारदः सह-तुम्बुरुः ।
युधिष्ठिरो वचस् तस्य हृदि कृत्वाजहाच् छुचः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शुचः शोकान् ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इत्य् उक्त्वा समादधे । अथ रुहत् शुचः शोकान् ॥६०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रयोदशोऽपि प्रथमे सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
श्री-नारद-वाक्यं नाम
त्रयोदशोऽध्यायः ।
॥१.१३॥
(१.१४)
-
कृत-कृत्य-विवित्सित इति पाठे विदितव्येद्य इत्य् अर्थः । ↩︎
-
कल्याणानां निधानं कलि-मल-मथनं पावनं पावनानां पाथेयं यन् मुमुक्षोः सपदि परपदप्राप्तये प्रोच्यमानम् । विश्राम-स्थानम् एकं कवि-वर-वचसां जीवनं सज्जनानां बीजं धर्म-द्रुमस्य प्रभवतु भवतां भूतये कृष्ण-नाम ॥ (पद्यावलि १९) ↩︎
-
देववत् स्वकैर् इति पाठः । ↩︎
-
अत्र विजयध्वज्यां षोडशं पद्यम्— अथामन्त्र्याच्युतो बन्धून् निर्वर्त्यानुगतान् विभुः । अर्जुनोद्धव-शैनेयैर् ययौ द्वारवतीं हयैः ॥ इति विद्यते ॥ ↩︎
-
तम् अभिप्रेत्येति पाठे तं विनाश-कालन् इत्य् अर्थो ज्ञेयः । ↩︎
-
भीमापवर्जितम् इति पाठः । स एव पाठो युक्तः, टीकायां दत्तम् इत्य् अर्थ-करणात् । ↩︎
-
विजयध्वज्यां त्व् अत्र—अहं च व्यंसिनो राजन् पित्रोर् वः कुल-ननदन । न वेद साध्व्या गान्धर्व्या भुषितोऽस्मि महात्मभिः ॥ इति पाठः । ↩︎
-
पाठान्तरम् अभ्यर्चयन् मुनिम् इति एवं-रूपम् इति ज्ञेयम् । ↩︎
-
‘वर्तेरन् वनम् आश्रिताःऽ‘वर्तेरन् माम् अनाश्रिताःऽ इति पाठौ । ↩︎
-
‘नाम्नाऽ इति पाठः स चासंबद्ध एव । ↩︎
-
‘स्थाणुर् इवाधुनाऽ इति पाठः । ↩︎