विषयः
परीक्षितो जन्मोत्सवः ।
॥ १.१२.१ ॥
शौनक उवाच—
अश्वत्थाम्नोपसृष्टेन ब्रह्म-शीर्ष्णोरु-तेजसा ।
उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
पुरोक्तं यत्-प्रसङ्गाय द्रौणि-दण्डादि विस्तरात् ।
द्वादशे तु तद् एवाथ परीक्षिज्-जन्म वर्ण्यते ॥
परीक्षितोऽथ राजर्षेर् जन्म-कर्म-विलायनम् ।
संस्थां च पाण्डु-पुत्राणां वक्ष्ये कृष्ण-कथोदयम् ॥ [१.७.१२ ]
इति प्रतिज्ञाय पाण्डावानां राज्य-स्थितिर् उपोद्घात-रूपा स-प्रसङ्गं सप्तमाध्यायम् आरभ्य निरूपिता । इदानीम् औपोद्घातिकम् उक्तानुवाद-पूर्वकं पृच्छति—अश्वत्थाम्नेति । उपसृष्टेन विसृष्टेन । तस्य जन्मादि ब्रूहीत्य् उत्तरेणान्वयः ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
कृत्वा जन्मोत्सवं राजा पौत्रस्य श्री-परीक्षितः ।
द्वादशे भावि तद्-वृत्तं विप्रैर् उक्तम् उपाशृणोत् ॥
नैव श्रुत-चरो भक्तो राजा वा तावद् ईदृशः ।
कृष्णं ददर्श यो गर्भे यश् च कालम् अदण्डयत् ॥
परीक्षितो जन्म वक्ष्ये [१.७.१२ ] इति प्रतिज्ञाय द्रौण्य्-अस्त्र-क्षेप-गर्भ-रक्षा-कुन्ती-स्तव-भीष्म-निर्याण-भगवद्-यात्रा-द्वारका-प्रवेश-पट्टमहिषी-रमणादि-कथा-माधुर्येषु तत्-प्रसङ्गोत्थितेषु मज्जन्तं सूतं तद् एव परीक्षिज्-जन्म शुश्रूषुः शौनकः पुनर् विशेषतः पृच्छति—अश्वत्थाम्नेति । उपसृष्टेन निक्षिप्तेन ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
द्वादशे नृपतिर् जन्मोत्सवं कृत्वा परीक्षितः ।
भावि तच्-चरितं विप्रैर् उक्तं श्रुत्वा जहर्ष ह ॥ \
परीक्षितो जन्म वक्ष्ये [भा।पु। १.७.१२] इति प्रतिज्ञाय तत्-प्रसङ्गोखितेषु द्रौण्यस् त्रविक्षेप-गर्भ-संरक्षण-कुन्ती-स्तोत्र-भीष्म-निर्याणोत्सव-भगवद्यात्रा-द्वार्वती-प्रवेश-पट्टमहिषी-रमणेषु निमग्न-चित्तं सूतं तद् एव परीक्षिज्-जन्म विशेषतः श्रोतुं शौनकः पृच्छति—उपसृष्टेन क्षिप्तेन ॥१॥
———————————————————————————————————————
॥ १.१२.२ ॥
तस्य जन्म महा-बुद्धेः कर्माणि च महात्मनः ।
निधनं च यथैवासीत् स प्रेत्य गतवान् यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स परीक्षित् । प्रेत्य देहं त्यक्त्वा ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रेत्य देहं विहाय ॥२॥
———————————————————————————————————————
॥ १.१२.३ ॥
तद् इदं श्रोतुम् इच्छामो गदितुं यदि मन्यसे ।
ब्रूहि नः श्रद्दधानानां यस्य ज्ञानम् अदाच् छुकः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रार्थये न त्व् आज्ञापयामीत्य् आह । “गदितुं यदि मन्यसे, तर्हि ब्रूहि” इति । यस्य ज्ञानम् अदाच् छुक इति श्रवणेच्छायां कारणम् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यदि मन्यसे इति कृपया कथयेत्य् अर्थः ॥३॥
———————————————————————————————————————
॥ १.१२.४ ॥
सूत उवाच—
अपीपलद् धर्म-राजः पितृवद् रञ्जयन् प्रजाः ।
निःस्पृहः सर्व-कामेभ्यः कृष्ण-पादानुसेवया ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निस्पृहस्यापि राज्ञः श्री-कृष्णानुग्रहात् तादृक् पौत्रः समजनीति वक्तुं तस्य श्री-कृष्णे भक्त्य्-उद्रेकम् आह—अपीपलद् इति त्रिभिः । पितृवद् अपीपलत् पालयाम् आस ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तादृश-पौत्र-प्राप्तौ राज्ञः कृष्णानुराग एव कारणम् इत्य् अभ्यूहयंस् तम् एवाह त्रिभिः । अपीपलत् पालयामास ॥४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अपीपलत् पालयामास ॥४-५॥
———————————————————————————————————————
॥ १.१२.५-६ ॥
सम्पदः क्रतवो लोका महिषी भ्रातरो मही ।
जम्बूद्वीपाधिपत्यं च यशश् च त्रि-दिवं गतम् ॥
किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः ।
अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **क्रतवस् तद्-उपार्जिता लोकाश् च ॥५॥ **सुर-स्पार्हाः **सुराणां स्पृहणीयास् ते सम्पद्-आदयः कामा विषया राज्ञः किं मुदं प्रीतिम् अधिजह्रुः कृतवन्तः ? न कृतवन्त इत्य् अर्थः । अत्र हेतुः—मुकुन्दे एव मनो यस्येति । क्षुधितस्य अन्नैक-मनसो यथेतरे स्रक्-चन्दनादयो न कुर्वन्ति, तद्वत् ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सम्पद्-आदयस् तथा सुराणां स्पृहैव स्पार्हः स्वार्थेऽण्, स येषु ते सूर- स्पार्हाः कामाः भोगाः राज्ञः किं मुदम् अधिजह्रुर् नैव कृतवन्त इत्य् अर्थः । तत्र हेतुर् मुकुन्द-मनस इति । इतरे स्रक्-चन्दनादयः ॥६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सुराणां स्पार्हः स्पृहा तेषु ते । स्पृहैव स्वार्थेऽणि स्पार्हः, कामा म्द् अमुभोगाः, किं राज्ञो अधिजह्रुः जनयामासुर् नेत्य् अर्थः, यतो मुकुन्द-मनसः ।** इतरे** स्रक्-चन्दनादयः । मुकुन्द-सेवोपयोगिनी तस्य राज्य-सम्पत्, भुक्तवतस् तृप्त्य्-उपयोगिनीव स्रग् इति भावः ॥६॥
———————————————————————————————————————
॥ १.१२.७ ॥
मातुर् गर्भ-गतो वीरः स तदा भृगु-नन्दन ।
ददर्श पुरुषं कञ्चिद् दह्यमानोऽस्त्र-तेजसा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रस्तुतम् आह—मातुर् इति ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रस्तुतम् आह—मातुर् गर्भ-गतोऽपि वीर इति स्वाभाविक-वीरत्वेनैवास्त्र-तेजसस् तस्माद् अबिभ्यद् इत्य् अर्थः । ददर्श्एति तन्-मनो-नयनाभ्यां भगवद्-रूपे एव स्व-विषय-ग्रहणारम्भः प्रथमतः कृत इति भावः ॥७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रस्तुतम् आह—मातुर् इति । वीर इति स्वाभाविकेन वीरत्वेन तद्-अस्त्राद् अबिभ्यद् इति भावः । ददर्श पुरुषं कञ्चिद् इति गर्भस्थ एव वामदेववत् कृष्ण-निखात-मनो-नेत्रोऽभूद् इति भावः ॥७॥
———————————————————————————————————————
॥ १.१२.८ ॥
अङ्गुष्ठ-मात्रम् अमलं स्फुरत्-पुरट-मौलिनम् ।
अपीव्य-दर्शनं श्यामं तडिद्-वाससम् अच्युतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरटं सुवर्णम् । स्फुरन् पुरट-मौलिर् यस्यास्ति तम् । व्रीह्य्-आदिभ्यश् चेति इनि-प्रत्ययः । अपीच्यम् अतिसुन्दरं दृश्यत इति दर्शणं रूपं यस्यतम् । **तडिद्वद् वाससी **यस्येति श्यामम् इति च पदाभ्यां विद्युद्-युक्त-मेघोपमा सूचिता । अच्युतम् अविकारम् ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अङ्गुष्ठ-मात्रम् इति । आत्मनः सर्वतो दिक्षु गर्भे तावन्-मात्रस्यैवावकाशस्य स्थितत्वात् तत्-प्रमाणम् एव भगवत्य् उपचरितम् । वस्तुतस् तु तावत्य् अपि देशेऽचिन्त्य-शक्त्या यथावत् प्रमाणम् एव भगवन्तं ददर्श, न त्व् अन्यथा । गर्भे दृष्टम् अनुध्यायन् परीक्षेत नरेष्व् इह [१.१२.३०] इत्य् उपरिष्टाद् उक्तेर् नर-लोके तत्-परीक्षणान्यथानुपपत्तेः । अत एव अपीव्यम् अन्यूनातिरिक्तत्वाद् अतिसुन्दरं दृश्यत इति दर्शनं रूपं यस्य त्वम् । पुरट-मौलिनम् इति व्रीह्य्-आदित्वाद् इनिः । श्यंअं तडिद्-वाससम् इति पदाभ्यां विद्युद्-भूषित-मेघो ब्रह्मास्त्र-दावानल-दह्यमान-परीक्षित्-कलभ-त्राणाय सहसैवोत्तरा-कुक्षि-नभसि प्रादुरभूद् इति द्योतितम् ॥८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अङ्गुष्ठ-मात्रम् इति—गर्भं परितस्तावन्-मात्रस्यैवावकाशात्-तत्-परिमाणम् उपचरितं, वस्तुतस् तस्याविचिन्त्य-शक्त्या युधिष्ठिरादि-दृष्टस्यैव तत्र प्रकाशः, अन्यथा परीक्षेत नरेष्विह [भा।पु। १.१२.३०] इति वक्ष्यमाण-परीक्षणानुपपत्तेः । न हि नर-लोकेऽङ्गुष्ठ-मात्रः कश्चिद् अस्ति । पुरटमौलिनम् इति ब्रीह्य्-आदित्वादिनिः, अपीच्यमति-मनोज्ञं दर्शनं रूपं यस्य, अपि-पूर्वादञ्चेः क्विन्नन्ताद्-भवार्थे यच्-छान्दसः । भवे छन्दसीति सूत्रात्, छन्दस् त्वम् अस्य शास्त्रस्य वेद-भागत्वाद् एव । दृश्यते इति दर्शनं कर्मणि ल्युट् । श्यामं विद्युद्-वाससम् इति विद्युत्-सुन्दरो मेघ इव ब्रह्मास्त्र-दावाग्नि-पीड्यमान-परीक्षित्-कलभत्राणायोत्तरोदर-नभस्याविरभूद् इति व्यजते ॥८॥
———————————————————————————————————————
॥ १.१२.९ ॥
श्रीमद्-दीर्घ-चतुर् बाहुं तप्त-काञ्चन-कुण्डलम् ।
क्षतजाक्षं गदा-पाणिम् आत्मनः सर्वतो दिशम् ।
परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तप्तं दाहोत्तीर्णं यत् कञ्चनं, तन्-मये कुण्डले यस्य । क्षतजाक्षं संरम्भाद् अत्यारक्त-नेत्रम् । “अहो मद्-भक्तस्यापि गर्भेऽस्त्र-पीडा !” इति क्रोधाद् इति भावः ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षतजाक्षं ब्रह्मास्त्रं प्रति क्रोधाद् अत्यारक्त-नेत्रम् ॥९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **क्षत-जाक्षम् इति ब्रह्मास्त्रं प्रति कोपोदयादत्य् अरुण-नेत्रम् इत्य् अर्थः । नीहारं हिमं गोपतिर् आदित्य इवास्त्रतेजो विधमन्तं विनाशयन्तं पर्यैक्षतेति पर-श्लोकस्थेनान्वयः । कोऽयं वीरासनस्थो नियुक्तोऽपि मां रक्षतीति वितर्कितवानित्य् अर्थः ॥९-१०॥
———————————————————————————————————————
॥ १.१२.१० ॥
अस्त्र-तेजः स्व-गदया नीहारम् इव गोपतिः ।
विधमन्तं सन्निकर्षे पर्यैक्षत क इत्य् असौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्त्र-तेजोविधमन्तं विनाशयन्तम् । नीहारं हिमं गोपतिः सूर्य इव । [एवं-विधं गर्भ-गतो बालः] सन्निकर्षे समीपे ददर्श । दृष्ट्वा चासौ क इति पर्यैक्षत वितर्कितवान् ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : “**नीहारं विधयन् सूर्य इवासौ कः ?” इति पर्यैक्षत इत्य् अन्वयः, विभक्ति-विपरिणामात् ॥१०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नीहारं हिमं गोपतिः सूर्य इव सूर्यो यथा विधमति, तथा अस्त्र-तेजोविधमन्तं विनाशयन्तं पर्यैक्षत—“कोऽसौ वीरासनेन माम् अयुक्तोऽपि रक्षति ?” इति वितर्कितवान् ॥१०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
———————————————————————————————————————
॥ १.१२.११ ॥
विधूय तद् अमेयात्मा भगवान् धर्म-गुब् विभुः ।
मिषतो दश-मासस्य1** तत्रैवान्तर्दधे हरिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अमेयात्मा कथं तद् विधूतवान् इत्य् अवितर्क्य-रूपः । धर्मं गोपायतीति धर्म-गुप् । यद् वा, धर्मं गोपायन्तीति धर्म-गुपो राजानस् तत्-प्रभुः, तेषाम् अपि पालकत्वात् । दशमास-परिच्छेद्यस्य तस्य मिषतः पश्यतो यत्र दृष्टस् तत्रैवान्तर्हितो, न त्व् अन्यत्र गतः । यतो विभुः सर्व-गतः ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्मं भक्त-वात्सल्य-रूपं स्व-धर्मं गोपायति धर्म-गुप्दशमास्यस्य दशमास-परिच्छेद्यस्य तस्य मिषतः पश्यतः । यत्र दृष्टः तत्रैवान्तर्दधे, न त्व् अन्यत्र गतः, यतो विभुः । हरिर् इति तस्य मनोऽपहृत्य तस्मिन्न् अवदधाने सत्य् अन्तर्दधे । चौरस्य लक्षणम् इदम् एव यद् धनवत्य् अवदधानेऽन्तर्धत्ते इति कूट-यामिकवत् तन्-मनो हर्तुम् एव तत्र प्रविष्ट आसीद् इत्य् उत्प्रेक्षा च द्योतिता ॥११॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : धर्म-गुप् स्व-भक्त-वात्सल्य-धर्म-पालकः, दश मासाः परिच्छेदका यस्य, तस्य मिषतः पश्यतः, तत्रैवान्तर्दधे न त्व् अन्यत्र, यतो विभुः, **हरिस् **तच्-चित्तापहर्ता ॥११॥
———————————————————————————————————————
॥ १.१२.१२ ॥
ततः सर्व-गुणोदर्के सानुकूल-ग्रहोदये ।
जज्ञे वंश-धरः पाण्डोर् भूयः पाण्डुर् इवौजसा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उदर्कम् उत्तर-फलम् । सर्व-गुणानाम् उत्तरोत्तराधिक्य-सूचके लग्ने । तत्र हेतुः—अनुकूलैर् अन्यैर् ग्रहैःसहितानां शुभ-ग्रहाणाम् उदयो यस्मिन् ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-गुणा एव उदर्कः उत्तर-काल-भवं फलं यत्र तस्मिन् । अनुकूलैर् ग्रहैः सह वर्तमाने उदये लग्ने ॥१२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सर्व-गुणानाम् उदर्के उत्तर-काल-भवं फलं यत्र तस्मिन् । अनुकुलैर् ग्रहैः सहिते उदये लग्ने ॥१२॥
———————————————————————————————————————
॥ १.१२.१३ ॥
तस्य प्रीत-मना राजा विप्रैर् धौम्य-कृपादिभिः ।
जातकं कारयाम् आस वाचयित्वा च मङ्गलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जातकं जात-कर्म । मङ्गलं पुण्याहम् ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जातकं जात-कर्म ॥१३॥
———————————————————————————————————————
॥ १.१२.१४ ॥
हिरण्यं गां महीं ग्रामान् हस्त्य्-अश्वान् नृपतिर् वरान् ।
प्रादात् स्वन्नं च विप्रेभ्यः प्रजा-तीर्थे स तीर्थवित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वरान् श्रेष्ठान् । स्वन्नं शोभनम् अन्नं च । तीर्थविद् दान-काल-ज्ञः ।
यावन् न च्छिद्यते नालं तावन् नाप्नोति सूतकम् । \
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ॥
इति वचनात् ततः पूर्वं प्रादात्, आमान्नं वा । प्रजा-तीर्थे पुत्रोत्पत्ति-पुण्य-काले,पुत्रे जाते व्यतीपाते दत्तं भवति चाक्षयम् इति स्मृतेः ।
देवाश् च पितरश् चैव पुत्रे जाते द्वि-जन्मनाम् ।
आयन्ति हि नृप-श्रेष्ठ पुण्याहम् इति चाब्रुवन्न्॥ इति च ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रजा-तीर्थे पुत्रोत्पत्ति-पुण्य-काले, पुत्रे जाते व्यतीपाते दत्तं भवति चाक्षयम् इति स्मृतेः ॥१४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रजा-तीर्थे पुत्र-जन्म-पुण्य-काले, पुत्रे जाते व्यतीपाते दत्ते भवति चाक्षयम् इति स्मरणात् । तीर्थवित्—
यावन् न छिद्यते नालं तावन्-नाप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ॥
इति-स्मृत्य्-उक्त-दान-कालज्ञ इत्य् अर्थः ॥१४॥
———————————————————————————————————————
॥ १.१२.१५-१७ ॥
तम् ऊचुर् ब्राह्मणास् तुष्टा राजानं प्रश्रयान्वितम् ।
एष ह्य् अस्मिन् प्रजा-तन्तौ पुरूणां पौरवर्षभ ॥
दैवेनाप्रतिघातेन शुक्ले संस्थाम् उपेयुषि ।
रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥
तस्मान् नाम्ना विष्णु-रात इति लोके भविष्यति ।
न सन्देहो महा-भाग महा-भागवतो महान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे पौरवर्षभ ! कुरूणां कुरु-वंश्यानां शुक्ले शुद्धेऽस्मिन्प्रजा-तन्तौ । दैवेन कथंभूतेन ? अप्रतिघातेन दुर्वारेण । संस्थां नाशम् उपेयुषि गते सति वा युष्माकम् अनुग्रहार्थाय यस्मात् प्रभवन-शीलेन श्री-विष्णुना रातो दत्तः, तस्माल् लोके विष्णु-रात इति नाम्ना भविष्यति महाभागवतश् च । गुनैश् च महान् भविष्यति नात्र सन्देह इति तं राजानं ब्राह्मणा ऊचुर् इति त्रयाणाम् अन्वयः ॥१५-१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरूणां पुरु-वंश्यानां प्रजा-तन्तौसंस्थां नाशम् उपेयुषि प्राप्ते सति । शुक्ले शुद्धे रातो दत्तः । बालस्य तादृश-योग्यतायाम् अश्रद्दधानं राजानं प्रत्य् आह—न सन्देह इति ॥१५-१७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पुरूणां पुरु-वंश्यानां प्रजा-तन्तौ कुले दैवेन संस्थां विनाशम् उपेयुषि सति वोऽनुग्रहार्थाय विष्णुनैष रातो दत्त इत्य् उत्तरेण सम्बन्धः ॥१५॥
शुक्ले विशुद्धे ॥१६॥ \
\
विष्णुना दत्तत्वान्-नाम्ना विष्णुरातो भविष्यति । अत्र **सन्देहस् **ते माभूद् इत्य् ऊचुः ॥१७॥
———————————————————————————————————————
॥ १.१२.१८ ॥
श्री-राजोवाच—
अप्य् एष वंश्यान् राजर्षीन् पुण्य-श्लोकान् महात्मनः ।
अनुवर्तिता स्विद् यशसा साधु-वादेन सत्तमाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **महा-भागवतो भविष्यतीत्य् उक्ते हृष्टः पृच्छति । अपि स्वित् किं स्वित् । साधु-वादेन यशसा सत्कीर्त्या च अनुवर्तिता भविष्यतीति पूर्वस्यैवातः परम् अप्य् अनुषङ्गः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अप्य् एष वंश्यान् इत्य् अत्र “हृष्ट” इति टीकायां हर्षेणैव पुनः प्रश्नोऽयम्, न त्व् अपूर्त्येति भावः । वस्तुतस् तु तथात्वेऽपि राज-श्रेष्ठता-ज्ञानार्थं पुनः प्रश्नः ॥१८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **महा-भागवतो भविष्यतीत्य् उक्ते राजैव सान्तश् चमत्कारं स-गाम्भीर्यं पृच्छति । अपि स्वित् प्रश्ने । अनु लक्ष्यीकृत्य वर्तिता । तेषां सदृशो भविष्यति न वेत्य् अर्थः ॥१८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **महा-भागवतो भविष्यतीति निशम्यातिहृष्टः पृच्छति—अपि सम्भावनायां, तान् अनु लक्षीकृत्य वर्तिता, तादृशो भविष्यति न वा ? इत्य् अर्थः । स्वित् प्रश्ने ॥१८॥
———————————————————————————————————————
॥ १.१२.१९ ॥
ब्राह्मणा ऊचुः—
पार्थ प्रजाविता साक्षाद् इक्ष्वाकुर् इव मानवः ।
ब्रह्मण्यः सत्य-सन्धश् च रामो दाशरथिर् यथा ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **रामो दाशरथिर् यथा अधिक-दृष्टान्तः ।
ऊर्णनाभ्याधिको विष्णोर् विष्णुर् विष्णोस् तथैव च ।
विष्णुर् जीवस्य दृष्टान्तो ऊन-साम्याधिक-क्रमात् ॥ इति ब्राह्मे ॥१९॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हे पार्थ, प्रजानाम् अविता रक्षकः । मानवो मनोः पुत्रः । ब्राह्मण्येभ्यो हितः । सत्य-प्रतिज्ञश् च श्री-रामो यथा ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तेषां सदृशो यशसेति किं पृच्छ्यते ? यैर् एव एकैकैर् गुणैः, ते सर्वे यशस्विनः आसन्, ते सर्वे एव गुणा अस्मिन् बालकेऽधुनैव सन्ति, यथावसरम् आविर्भविष्यन्ति । तस्माद् एतत्-तुल्यास् ते न बभूवुर् इति प्रतीयताम् इत्य् आशयेनाहुः—पार्थेति । प्रजानाम् अविता रक्षकः । सत्य-सन्धः सत्य-प्रतिज्ञः ॥१९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पार्थ! हे युधिष्ठिर! प्रजानामविता पालकः, साक्षाद् इति सेनां विनैवेत्य् अर्थः । मानवो मनु-पुत्रः । सत्य-सन्धः सत्य-प्रतिज्ञः ॥१९॥
———————————————————————————————————————
॥ १.१२.२० ॥
एष दाता शरण्यश् च यथा ह्य् औशीनरः शिबिः ।
यशो वितनिता स्वानां दौष्यन्तिर् इव यज्वनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उशीनर-देशाधिपतिः शिबिः । येन स्व-मांसं श्येनाय दत्त्वा शरणागतः कपोतो रक्षितः । स्वानां ज्ञातीनां यज्वनां च यशो-विस्तारको दौष्यन्तिर् भरत इव ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उशीनर-देशाधिपतिः शिबिः, येन स्व-मांसं श्येनाय दत्त्वा शरणागतः कपोतो रक्षितः । दुष्यन्त-पुत्रो भरतः ॥२०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उशीनर-देशाधिपतिः औशीनरः शिबिः यः स्व-मांसं श्येनाय दत्त्वा शरणागतं कपोतं रक्षितवान् । स्वानां ज्ञातीनां यज्वनां विप्राणां च यशो वितनिता । **दौष्यन्तिर् **भरतः ॥२०॥
———————————————————————————————————————
॥ १.१२.२१ ॥
धन्विनाम् अग्रणीर् एष तुल्यश् चार्जुनयोर् द्वयोः ।
हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्जुनयोः पार्थ-कार्तवीर्ययोः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : द्वयोर् अर्जुनयोः पार्थ-कार्तवीर्ययोः ॥२१॥
———————————————————————————————————————
॥ १.१२.२२ ॥
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवान् इव ।
तितिक्षुर् वसुधेवासौ सहिष्णुः पितराव् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हिमवान् इव सतां निषेव्योऽनन्य-गतिकत्वेन । वसुधेव तितिक्षुः क्षन्ता । प्रीत्या माता-पितराव् इव सहिष्णुः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्वंसहापि वसुधा परेषां वाक्-शर-ज्वालां नानुभवति । अयं तु ताम् अनुभवन्न् अपि न प्रतिकरिष्यतीति । अत्र दृष्टान्तः पितराव् इवेति ॥२२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मृगेन्द्रः सिंहः । **हिमवान् **इव मुनीनां निषेव्यः । माता च पिता च पितरौ ताविव सहिष्णुः, तौ यथा पुत्रापराधं सहेते, तद्वद्यः प्रजापराधम् इत्य् अर्थः ॥२२॥
———————————————————————————————————————
॥ १.१२.२३ ॥
पितामह-समः साम्ये प्रसादे गिरिशोपमः ।
आश्रयः सर्व-भूतानां यथा देवो रमाश्रयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पितामहो ब्रह्मा तेन समः । साम्ये समत्वे । **रमाश्रयो **हरिः ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पितामहो युधिष्ठिरः । साम्ये सर्वत्र द्वेषाभवे । रमाश्रयो नारायणः ॥२३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : पितामहो ब्रह्मा युधिष्ठिरो वा । साम्ये सर्वत्र द्वेषाभावे । रमाश्रयो नारायणः ॥२३॥
———————————————————————————————————————
॥ १.१२.२४ ॥
सर्व-सद्-गुण-माहात्म्ये एष कृष्णम् अनुव्रतः ।
रन्तिदेव इवोदारो ययातिर् इव धार्मिकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वैः सद्-गुणैर् माहात्म्यं यत् तस्मिन् । श्री-कृष्ण-तुल्यः ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथापि साधारण-जन-चमत्कारार्थं पूर्ववद् अन्यद् अपि किञ्चिद् ब्रूम इत्य् आहुः—रन्तीति । किं वा, बहुभिर् यथा स्वज्ञान-मुक्तत्वात् पाठ-क्रमो नात्र विवक्षितः । औदार्यम् अत्र दातृत्वम्, तेन कारुण्यं लक्ष्यते ॥२४।।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एकस्यैवोपमेयस्यास्य सर्वैर् गुणैर् एकम् एवोपमानीकुर्वन्न् आह—सर्वैः सद्गुणैर् यन् माहात्म्यं, तस्मिन् एष कृष्णम् अनुव्रतः श्री-कृष्ण-तुल्यः ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सर्वैः सद्-गुणैर् **यन्-माहात्म्यं महिमा, तस्मिन्न् **एष कृष्णम् अनुव्रतः, **तन्-महिमांशेन गोविन्द-सम इत्य् अर्थः ॥२४॥
———————————————————————————————————————
॥ १.१२.२५-२६ ॥
धृत्या बलि-समः कृष्णे प्रह्राद इव सद्-ग्रहः ।
आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥
राजर्षीणां जनयिता शास्ता चोत्पथ-गामिनाम् ।
निग्रहीता कलेर् एष भुवो धर्मस्य कारणात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धृत्या धैर्येण । सद्-ग्रहः सन् भद्रो रगोऽभिनिवेशो यस्य सः । आहर्ता कर्ता ॥२५॥ राजर्षीणां जनमेजयादीनाम् ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सद्-ग्रहः सन् उत्कृष्ट एव ग्रहो यस्य सः । गुणान् उक्त्वा कर्माण्य् आह—आहर्तेति ॥२५-२६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सन् समीचीनो **ग्रहो **ऽभिनिवेशो यस्य सः । इक्ष्वाक्व्-आदयः प्रकृष्टैकैक-गुणाः, परीक्षित् तु प्रकृष्ट-सर्व-गुणक इति प्रकरणार्थो बोध्यः । गुणान् उक्त्वा कर्माण्य् आहुः—आहर्तेति ॥२५॥ भूवो धर्मस्य च क्लेशार्पणात् कारणाद् एष कलेर् निग्रहीता भावी ॥२६॥
॥ १.१२.२७ ॥
तक्षकाद् आत्मनो मृत्युं द्विज-पुत्रोपसर्जितात् ।
प्रपत्स्यत उपश्रुत्य मुक्त-सङ्गः पदं हरेः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्विज-पुत्रेण प्रेरितात् तक्षकाद् आत्मनो मृत्युम् उपश्रुत्य विरक्तः सन् हरेः पदं प्रपत्स्यते भजिष्यति ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : हरेः श्री-कृष्णस्य पदं चरणारविन्दं—ज्ञानेन वैयासकि-शब्दितेन भेजे खगेन्द्र-ध्वज-पाद-मूलं [भा।पु। १.१८.१६] इत्य्-उक्तेः ।_।_२७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसर्जितात् प्रेरितात् ॥२७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : द्विज-पुत्रेण उपसर्जितात् प्रेरितात् तक्षकाद् आत्मनो मृत्युम् उपश्रुत्य मुक्त-राज्यादि-सङ्गः सन् हरेः पदं प्रपत्स्यते ॥२७॥
———————————————————————————————————————
॥ १.१२.२८ ॥
जिज्ञासितात्म-याथार्थ्यो मुनेर् व्यास-सुताद् असौ ।
हित्वेदं नृप गङ्गायां यास्यत्य् अद्धाकुतोभयम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततश् च जिज्ञासितम् आत्मनो याथात्म्यं येन सः । इदं शरीरं गङ्गायां हित्वाकुतोभयं पदं यास्यति । अद्धा निश्चयेन ॥२८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एव खल्व् अकुतोभयम्—
मर्त्यो मृत्यु-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं नाध्यगच्छत् ।
त्वत्-पादाब्जं प्राप्य यदृच्छयाद्य
सुस्थः शेते मृत्युर् अस्माद् अपैति ॥ [भा।पु। १०.३.२७] इत्य्-आदेः ।
ततो जिज्ञासित इत्य् अत्र आत्मा हरिर् एव ॥२८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जिज्ञासितं विचारितम् आत्मनो याथार्थ्यं वास्तवं तत्त्वं येन सः । इदं शरीरम् ॥२८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जिज्ञासितम् आत्मनो हरेः स्वस्य च याथात्म्यं येन सः । इदं शरीरम्, अकुतोभयं कृष्णम् ॥२८॥
———————————————————————————————————————
॥ १.१२.२९ ॥
इति राज्ञ उपादिश्य विप्रा जातक-कोविदाः ।
लब्धापचितयः2** सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : लब्धा अपचितिः पूजा यैस् ते ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लब्धा अपचितिः पूजा यैः ॥२९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : लब्धा उपचितिः पूजा यैस् ते ॥२९॥
———————————————————————————————————————
॥ १.१२.३० ॥
स एष लोके विख्यातः परीक्षिद् इति यत् प्रभुः ।
पूर्वं3** दृष्टम् अनुध्यायन् परीक्षेत नरेष्व् इह ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परीक्षिद् इति नाम निर्वक्ति—स एष इति । यद् यस्मात् प्रभुः समर्थः सन् गर्भे दृष्टं पुरुषम् अनुध्यायन्निह दृश्यमानेषु नरेषु मध्ये सर्वम् अपि नरं परीक्षिता “अयम् असौ भवेन् नो वा ?” इति विचारयेत्, अतः परीक्षिद् इति विख्यातः । “पूर्व-दृष्टम्” इति वा पाठः । तदा मातृ-गर्भे पूर्वं दृष्टम् इत्य् अर्थः ॥३०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स एष इति । श्री-कृष्ण-दर्शनात् पूर्वम् अतिबाल्यावस्थायाम् एव ज्ञेयम् ॥३०।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परीक्षिद् इति नाम निर्वक्ति—स एषा इति । इह दृश्यमानेषु नरेषु मध्ये गर्भे दृष्टं पुरुषम् अनुस्मरन् “अयं स भवेन् न वा” इति विचारयेत्, अतः परीक्षिद् इति विख्यातः । “पूर्वं दृष्टम्” इति च पाठः ॥३०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : परीक्षिद् इति नाम सूतो निर्वक्ति—स इति । इह दृश्यमानेषु नरेषु मध्ये गर्भे दृष्टं पुरुषम् अनुस्मरन् । अयं स भवेन् नवेति परीक्षेत विचारयेद् अतः परीक्षिद् इति लोके विख्यातः ॥३०॥
———————————————————————————————————————
॥ १.१२.३१ ॥
स राज-पुत्रो ववृधे आशु शुक्ल इवोडुपः ।
आपूर्यमाणः पितृभिः काष्ठाभिर् इव सोऽन्वहम् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **पूरयन्ति दिशः सोमं देवा गावः सरस्वती इति गारुडे ॥३१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : शुक्ले शुक्ल-पक्षे स प्रसिद्ध उडुपोऽन्वहं यथा काष्ठाभिः पञ्चदश-कलाभिर् आपूर्यमाणो वर्धते, एवं पितृभिर् युधिष्ठिरादिभिर् कामैश् चातुःषष्टि-कलाभिश् चापुर्यमाणो ववृधे ॥३१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **[?] बाल एवेति पद्यं चित्सुख-सम्मतम् ॥३१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुक्ले शुक्ल-पक्षे उडुपश् चन्द्र इव ववृधे । आपूर्यमाण इति कलाभिः लालनैश् चेति ज्ञेयम् । काष्ठाभिर् दिग्भिर् इवपितृभिर् युधिष्ठिरादिभिर् आवृत इति शेषः ॥३१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शुक्ले पक्षे यथोडुपः काष्ठाभिः कलाभिर् आपूर्यमाणो वर्धते, तथा पितृभिः युधिष्ठिराद्यैर् लालनाभिर् अन्वहम् आपूर्यमाणो ववृधे ॥३१॥
———————————————————————————————————————
॥ १.१२.३२ ॥
यक्ष्यमाणोऽश्वमेधेन ज्ञाति-द्रोह-जिहासया ।
राजा लब्ध-धनो दध्यौ नान्यत्र कर-दण्डयोः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पूर्वम् अपकृष्योक्तान् अश्वमेधान् स्वावसरे स-प्रकारं कथयति । ज्ञाति-द्रोहस्यहानेच्छया यक्ष्यमाणः कर-दण्डयोर् अन्यत्र ताभ्यां विना लब्ध-धनो4दध्यौ चिन्तयाम् आस । कर-दण्ड-जस्य परिजन-भरण-मात्रोपक्षीणत्वात् ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यक्ष्यमाण इति । तत्-परितोषार्थं श्री-भीष्मोपदेशेनैवेति ज्ञेयम् । अन्यथा भीष्मेऽप्य् अनास्था स्यात् ॥३२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर-दण्डयोर् अन्यत्र ताभ्यां विना धनालाभात् धन-प्राचुर्यस्य अपेक्षणीयत्वात् दध्यौ चिन्तयामास ॥३२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सङ्क्षेपाद् उक्तान् अश्वमेधान् विस्तरेणाह—यक्ष्यमाण इति । राजा युधिष्ठिरः करदण्डयोर् अन्यत्र अलब्ध-धनोऽश्वमेधार्थक-बहु-धनापेक्षया दध्यौ । कर-दण्ड-लब्धानां धनानां पोष्य-वर्ग-भरणेनोपक्षीणत्वात् अधिक-धनार्थ-चिन्ताभूद् इत्य् अर्थः ॥३२॥
———————————————————————————————————————
॥ १.१२.३३ ॥
तद् अभिप्रेतम् आलक्ष्य भ्रातरोऽच्युत-चोदिताः ।
धनं प्रहीणम् आजह्रुर् उदीच्यां दिशि भूरिशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रहीणं मरुत्, तस्य यज्ञे ब्राह्मणैस् त्यक्तं सुवर्ण-पात्रादिकम् आनीतवन्तः ॥३३॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रहीणं मरुत्, तस्य यज्ञे त्यक्त-स्वर्ण-पात्रादिकम् आनीतवन्तः ॥३४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तद् अभिप्रेतं राज्ञोऽभिप्रायम् आलक्ष्य भ्रातरो भीमादयः प्रहीणं मरुत्-तस्य राज्ञो यज्ञे त्यक्तं बहु धनम् आजह्रुर् आनिन्युः, अस्वामिकस्य धनस्य राजकीयत्वात् ॥३३॥
———————————————————————————————————————
॥ १.१२.३४ ॥
तेन सम्भृत-सम्भारो धर्म-पुत्रो युधिष्ठिरः ।
वाजि-मेधैस् त्रिभिर् भीतो यज्ञैः समयजद्5** धरिम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संभृत-संभारः संपादित-यज्ञोपकरणः । भीतो ज्ञाति-द्रोहात् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : संभृतः संपादितः सम्भारोऽश्वमेधोपकरणं येन सः । भीतो ज्ञाति-द्रोहात् ॥३४-३५॥
———————————————————————————————————————
॥ १.१२.३५-३६ ॥
आहूतो भगवान् राज्ञा याजयित्वा द्विजैर् नृपम् ।
उवास कतिचिन् मासान् सुहृदां प्रिय-काम्यया ॥
ततो राज्ञाभ्यनुज्ञातः कृष्णया सह-बन्धुभिः ।
ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर् वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्र आहूतो भगवान् राज्ञा इति क्वाचित्कं पद्य-द्वयं सम्बन्धोक्ति-कारेण व्याख्यातम् अस्ति ॥३५-३६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
प्रथमे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कृष्णया बन्धुभिः सहितेन राज्ञा च ॥३६॥
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां द्वादशोऽध्यायः ॥१२॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां
दशम-स्कन्धे परीक्षिज्-जन्म नाम
द्वादशोऽध्यायः ।
॥१.१२॥
(१.१३)