११ पुर-प्रवेशः

विषयः

द्वारका-वासिभिः कृतं भगवतोऽभिनन्दनं, पुर-प्रवेश-वर्णनं च ।

॥ १.११.१ ॥

सूत उवाच—

आनर्तान् स उपव्रज्य स्वृद्धाञ्जन-पदान् स्वकान् ।

दध्मौ दर-वरं तेषां विषादं शमयन्न् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

आनर्तैः स्तूयमानस्य पुरीं निर्विश्य बन्धुभिः ।

एकादशे रतिः सम्यग् यादवेन्द्रस्य वर्ण्यते ॥*॥

उत्सवैर् उच्चलत् पौरम् उदञ्चद् ध्वज-तोरणम् ।

उल्लसद्-रत्न-दीपालि स्व-पुरं प्रभुर् आविशत् ॥**॥

स्वृद्धान् समृद्धान् । दर-वरं पाञ्चजन्यं शङ्खम् । दध्मौ वादितवान् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

एकादशे स्तुतः कृष्ण आनर्तैः स्व-पुरं गतः ।

बन्धुभिर् मिलितः कान्ता अधिनोद् इति वर्ण्यते ॥

दर-वरं पाञ्चजन्यं शङ्खम् । इव इति साक्षाद्-दर्शनं विना सम्यग्-विषादस्य शान्त्य्-अनुत्पत्तेः ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

आनर्तैः संस्तुतः प्राप्तो द्वार्वतीं बान्धवैर् युतः ।
हरिर् एकादशे पत्नीर् अतिमान् परिकीर्त्यते ॥ \

दरवरं पाञ्चजन्यम् ॥१॥

———————————————————————————————————————

**॥ १.११.२ ॥ **

**स उच्चकाशे धवलोदरो दरोऽप्य् **

उरुक्रमस्याधर-शोण-शोणिमा ॥

दाध्मायमानः कर-कञ्ज-सम्पुटे ।

यथाब्ज-षण्डे कल-हंस उत्स्वनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स इति । दरः शङ्खो दध्मायमानो भगवता आपुर्यमाण उच्चकाशेऽतिशयेन शुशुभे इत्य् अन्वयः । कथं-भूतो दरः ? धवलम् उदरं यस्य सः । तथाप्य् उरुक्रमस्य कृष्णस्य अधरस्य यः शोण-गुणः, तेन शोणिमा यस्य सः । कर-कञ्जे कर-कमले तयोः संपुटे मध्ये वर्तमानः । कथम् उच्चकाशे ? अब्ज-षण्डे रक्त-कमल-समूहे कल-हंसो राज-हंस उत्स्वन उच्च-शब्दो यथा, तद्वत् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स उच्चकाश इति पद्यं चित्सुखेन व्याख्यातम् अस्ति ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स दरः शङ्खः उच्चकाशे शोभते स्म । अधरस्य शोणेन गुणेन शोणिमा यस्य सः । दाध्मायमानः अतिशयेन वाद्यमानः । अब्ज-षण्डे कमल-समूहे इति चतुर्भिः करैर् धृतत्वात् ॥२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स दरः शङ्खः, उच्चकाशे शुशुभे, अधरस्य शोणेन गुणेन शोणिमा यस्य सः। दध्मायमानः प्रपूर्यमाणः, अब्ज-षण्डे पद्म-वृन्दे, चतुर्भिः करैर् धृतत्वात् । तद्-गुणोऽत्रालङ्कारः, दरेणाधर-करतलारुण्य-ग्रहणात्, तद्-गुणः स्व-गुण-त्यागाद् अन्यदीय-गुण-ग्रहः इति तल्-लक्षणात् ॥२॥

———————————————————————————————————————

**॥ १.११.३ ॥ **

तम् उपश्रुत्य निनदं जगद्-भय-भयावहम्1** ।**

प्रत्युद्ययुः प्रजाः सर्वा भर्तृ-दर्शन-लालसाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जगतो यद् भयं तस्य भयावहम्प्रत्युद्ययुः प्रत्युज्जग्मुः । भर्तुर् दर्शने लालसउत्सुक्यं यासां ताः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जगतो यद् भयं तस्य भयम् आवहति तम् ॥३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : जगतो यद् भयं तस्य भयम् आवहतीति ॥३॥

———————————————————————————————————————

**॥ १.११.४-५ ॥ **

तत्रोपनीत-बलयो रवेर् दीपम् इवादृताः ।

आत्मारामं पूर्ण-कामं निज-लाभेन नित्यदा ॥

प्रीत्य्-उत्फुल्ल-मुखाः प्रोचुर् हर्ष-गद्गदया गिरा ।

पितरं सर्व-सुहृदम् अवितारम् इवार्भकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तस्मिन् श्री-कृष्णो उपनीताः समर्पिता बलय उपायनानि याभिस् ताः । निरपेक्षेऽपि तस्मिन्न् आदरेण समर्पणे दृष्टान्तः—**रवेर् दीपम् इव **इति । पितरम् अर्भका इव तं सर्व-सुहृदम् अवितारं प्रोचुर् इत्य् उत्तरेणान्वयः । सुहृत्त्वेनैवितारं, न तु कामेन । अत्र हेतुः—आत्मारामम् । तत्रापि हेतुः—परमानन्द-निज-स्वरूप-लाभेनैव पूर्ण-कामम् ॥४-५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र श्री-द्वारकायां रवेर् उपहार-रूपं दीपम् आदृतवन्तो जना इवेत्य् अर्थः ॥४॥ एवं स्तुत्य्-आदिकम् अपि तत्-प्रीणनताम् अर्हतीत्य् आह—**प्रीत्या **इति । पितरम् अर्भका इव इति दृष्टान्तः । तस्य प्रीताव् असाधारण-गुण-विशेषम् अप्य् आह—सर्व-सुहृदम् इति । सर्व-सुहृत्त्वे लिङ्गम्—अवितारम् इति । तथापि तादृशस्य राज्ञः2 स्व-सम्बन्धाभिमानि-प्रीतिमत्-पुत्रादिषु प्रीति-विशेषोदयो यथा दृश्यते, तथा तेषु तं प्रीतिमन्तम् इत्य् अर्थः । एवं कल्पतरु-दृष्टान्तेऽपि भगवतो भक्ति-विषयिका कृपा यथार्थम् एवोपपद्यते । ये खलु सहज-तत्-प्रीतिम् एवात्मनि प्रार्थयमाना भजन्ते, तेभ्यस् तद्-दान-याथार्थ्यस्यावश्यकत्वात् । तस्माद् अस्त्य् एवानन्द-स्वरूपस्यापि भक्ताव् आनन्दोल्लास इति ॥५॥ [भक्ति-सन्दर्भ १४३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपनीताः समर्पिता बलय उपायनानि याभिस् तथा-भूताः सत्यः । निरपेक्षेऽपि तस्मिन्न् आदरेण समर्पणे दृष्टान्तः—रवेर् दीपम् इव रवौ दीपम् उपनीय रवि-पूजिका इवेत्य् अर्थः । पितरम् अर्भका इव तम् अवितारं रक्षितारम् ऊचुः । उपायनानपेक्षत्वम् आह—आत्मारामम् इति ॥४-५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्र भर्तरि कृष्णे उपनीताः समर्पिता बलय उपायनानि याभिस् तादृश्यः सत्यः, निरपेक्षेपि तस्मिन्न् आदरेणार्पणे दृष्टान्तः—रवेर् दीपम् इव इति दीपम् उपनीय रवि-पूजका इव। आत्मारामं विभु-विज्ञानानन्द-स्वरूपानुभविनं निज-लाभेन पराख्य-शक्ति-प्राप्त्या पूर्ण-कामम् ॥४॥ अर्भकाः पितरम् इव प्रजास् तम् अवितारं पालकम् ऊचुः ॥५॥

———————————————————————————————————————

**॥ १.११.६ ॥ **

नताः स्म ते नाथ सदाङ्घ्रि-पङ्कजं

विरिञ्च-वैरिञ्च्य-सुरेन्द्र-वन्दितम् ।

परायणं क्षेमम् इहेच्छतां परं

न यत्र कालः प्रभवेत् परः प्रभुः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किम् उचुर् इति तद् आह—नताः स्म इति । विरिञ्चो ब्रह्मा । वैरिञ्च्याः सनकादयः । इह संसारे परं क्षेमम् इच्छतां परायणं परमं शरणम् । कुतः ? परेषां ब्रह्मादीनां प्रभुर् अपि कालो यत्र प्रभुर् न भवेत् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैरिञ्च्याः सनकादयः । परं परायणं परमाश्रयम् । यत्र अङ्घ्रि-पङ्कजे परेषां ब्रह्मादीनां प्रभुर् अपि कालो न प्रभवेत् ॥६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वैरिञ्च्याः सनकादयः, परं परायणं परमाश्रयः, **यत्राङ्घ्रि-पङ्कजे **परेषां ब्रह्मादीनां प्रभुर् अपि कालो न प्रभवेत् ॥६॥

———————————————————————————————————————

**॥ १.११.७ ॥ **

भवाय नस् त्वं भव विश्व-भावन

त्वम् एव माताथ सुहृत्-पतिः पिता ।

त्वं सद्-गुरुर् नः परमं च दैवतं

यस्यानुवृत्त्या कृतिनो बभूविम ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अतो भवाय उद्भवाय नोऽस्माकं त्वं भव । हे विश्व-भावन ! कृतिनः कृतार्था बभूविम जाता वयम् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भवाय सन्तत-निज-दर्शन-समृद्धये ॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवाय क्षेमाय । भवः क्षेमे च संसारे इति मेदिनी ॥७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नोऽस्माकं भवाय कल्याणाय त्वं भव । भवः क्षेमे च संसारे इति मेदिनी । यस्य तव अनुवृत्त्या वयं कृतिनः कृतार्था बभूविम जाताः ॥७॥

———————————————————————————————————————

**॥ १.११.८ ॥ **

अहो सनाथा भवता स्म यद् वयं

त्रैविष्टपानाम् अपि दूर-दर्शनम् ।

प्रेम-स्मित-स्निग्ध-निरीक्षणाननं

पश्येम रूपं तव सर्व-सौभगम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कृतार्थत्वम् एवाहुः । अहो भवता वयं स-नाथाः स्मःयद् यस्मात् तव रूपं पश्येमत्रैविष्टपानाम् अपि दूरे दर्शनं यस्य तत् । देवानाम् अपि दुर्लभ-दर्शनम् इत्य् अर्थः । प्रेम्णा यत् स्मितं तद्-युक्तं स्निग्धं निरीक्षणं यस्मिंस् तद् आननं यस्मिंस् तद् रूपम् । सर्वेषु चाङ्गेषु सौभगं यस्मिंस् तत् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : त्रैविष्टपानां देवानाम् ॥८॥

———————————————————————————————————————

**॥ १.११.९ ॥ **

यर्ह्य् अम्बुजाक्षापससार भो भवान्

कुरून् मधून् वाथ सुहृद्-दिदृक्षया ।

तत्राब्द-कोटि-प्रतिमः क्षणो भवेद्

रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कुरूणां मधूनां च नः ॥९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्भका इव स-करुणम् आहुः । यर्हि यदा । भो अम्बुजाक्ष ! नो भवान् इति पाठे न इत्य् अनादरे षष्ठी । अस्मान् अनादृत्य अपससार अपहाय जगाम । कुरून् हस्तिनापुरम् । मधून् मथुरां वा । तत्र तदा । रविं विना आन्ध्याद् अक्ष्णोर् यथैकोऽपि क्षणोऽब्द-कोटि-प्रतिमो भवेत् । एवं तव नः त्वदीयानाम् अस्माकम् अपीत्य् अर्थः ॥९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : यर्हि **इति । यदा यदेत्य् अर्थः । तत्र तदा तदा क्षणोऽपि **अब्द-कोटि-प्रतिमो **भवति । तथा रविं विनाक्ष्णोर् याद्र्श्य् आन्ध्यावस्था, ताद्र्श्य् अपि भवतीत्य् अर्थः । “नो भवान्” इति पाठे नोऽस्माकं स्वामी यो भवान्, स त्वम् इत्य् अर्थः ।

अत्र मधून् मथुरां वा इति व्याख्याय तदानीं तन्-मण्डले सुहृदो व्रजस्था एव प्रकटा इति तैर् अप्य् अभिमतम् । तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः [भा।पु। १०.५०.५८] इत्य् अत्र सर्व-शब्दात् ।

बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः ।
सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ [भा।पु। १०.६५.१]

इत्य् अत्र प्रसिद्धत्वाच् च ॥९॥ [कृष्ण-सन्दर्भ १७४]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भो अम्बुजाक्ष ! “नो भवान्” इति पाठे नोऽस्मान् अनादृत्य । कुरून् हस्तिनापुरम् । मधून् मथुरा-मण्डलं नन्द-व्रजम् इत्य् अर्थः, न तु मथुरा-पुरीं तदानीं तस्यां सुहृदाम् अभावात् । तत्र योग-प्रभावेण नीत्वा सर्व-जनं हरिः [भा।पु। १०.५०.५७] इत्य् अत्र सर्व-शब्दात् । तेन आयास्य इति दौत्यकैर् इति ज्ञातीन् वो द्रष्टुम् एष्याम [भा।पु। १०.४५.२३] इत्य्-आदि यद् भगवता उक्तं व्रजं प्रत्यागमनं तत् पाद्मादि-पुराणेषु स्पष्टं सद् अपि तद् अपि श्री-भागवते त्व् अस्मिन्न् अत्रैव ज्ञापितम् । तदा नस् तव त्वदीयानाम् अस्माकम् ॥९-१०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यर्हि यदा भो अम्बुजाक्ष! अस्मान् विहाय भवान् कुरून् गजसाह्वयं मधून् माथुर-मन्डलं वा ससार सुहृदां पाण्डवानां नन्दादीनां च दिदृक्षया, तदा नः क्षणोऽब्द-कोटि-तुल्यो भवेत्, रविं विना यथा अक्ष्नोर् आन्ध्यम् । अत्र मधून् इति नन्द-व्रज एव गृहीतः । मथुरायां सुहृदाम् अभावात् तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः [भा।पु। १०.५०.५७] इति माथुराणां सर्वेषां द्वार्वत्यां नयनात् । आयास्य इति दौत्यकैः [भा।पु। १०.३९.३५], ज्ञातीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.२३] इत्य्-आदि स्व-प्रतिज्ञा-पुरणाय तस्यैवार् गन्तव्यत्वाद् एवं पाद्मोत्तर-खण्डेऽभिधानात् बलदेवेनापि तस्मिन्न् एवागतत्वाच् च ॥९॥

———————————————————————————————————————

॥ १.११.१० ॥3

कथं वयं नाथ चिरोषिते त्वयि

प्रसन्न-दृष्ट्याखिल4-ताप-शोषणम् ।

जीवेम ते सुन्दर-हास-शोभितम्

अपश्यमाना वदनं मनोहरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् इति । हे नाठ ! प्रपन्नानां तृष्णा-रूपोऽखिलो यस् तापः, तस्य शोषणं नाशकम्, त्वां प्रपन्नानां तृष्णासम्भवात् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।

———————————————————————————————————————

॥ १.११.११ ॥

इति चोदीरिता वाचः प्रजानां भक्त-वत्सलः ।

शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत् पुरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इति एवं-विधा अन्याश् चोच्चारिता वाचः शृण्वन् दृष्ट्या साभिनन्दनावलोकेन अनुग्रहं कुर्वन् पुरीं द्वारकां प्राविशत् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृष्ट्या तान् प्रति दृष्टि-क्षेपेण ॥११॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : दृष्ट्या तान् प्रति कृपावलोकेन ॥११॥

———————————————————————————————————————

॥ १.११.१२ ॥

मधु-भोज-दशार्हार्ह-कुकुरान्धक-वृष्णिभिः ।

आत्म-तुल्य-बलैर् गुप्तां नागैर् भोगवतीम् इव ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तां द्वारकां स्तौति पञ्चभिः । स्व-तुल्य-बलैर् मधु-भोजादिभिर् गुप्तां रक्षिताम् ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तां द्वारकां वर्णयति पञ्चभिः ॥१२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पुरीं वर्णयति मधु-भोजेति पञ्चभिः । आत्म-तुल्येति—तेषां नित्य-पार्षदत्वम् उक्तम् ।

एते हि यादवाः सर्वे मद्-गणा एव भामिनि! [प।पु। ६.८९.२१]
सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥ इति पाद्मात् ॥१२॥
———————————————————————————————————————

**॥ १.११.१३ ॥ **

सर्वर्तु-सर्व-विभव-पुण्य-वृक्ष-लताश्रमैः ।

उद्यानोपवनारामैर् वृत-पद्माकर-श्रियम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वेष्व् ऋतुषु सर्वे विभवाः पुष्पादि-सम्पदो येषां, ते पुण्य-वृक्षा लताश्रमा लता-मण्डपाश् च येषु, तैर् उद्यानादिभिर् वृता ये पद्माकराः सरांसि, तैः श्रीः शोभा यस्यां ताम् । उद्यानं फल-प्रधानम् । उपवनं पुष्प-प्रधानम् । आरामः क्रीडार्थं वनम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषु ऋतुषु सर्व-विभवाः पुष्पादि-सम्पदो येषां ते पुण्य-रूपा वृक्षाश्लताश्आश्रमाश् च, तैः । उद्यानं फल-प्रधानम् उपवनं पुष्प-प्रधानम् आरामः क्रीडार्थं वनं, तैर् वृता । ये पद्माकराः सरांसि, तैः श्रीः शोभा यस्यां, ताम् ॥१३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सर्वेषु ऋतुषु विभवाः पुष्प-फलादि-सम्पदो येषां ते, पुण्य-रूपा वृक्षाश्लताश्आश्रमाश् च येषु, तैर् उद्यानादिभिर् वृता ये पद्माकराः सरांसि, तैः श्रीः शोभा यस्यां ताम् । फल-प्रधानम् उद्यानं, पुष्प-प्रधानम् उपवनम्, क्रीडार्थं वनम् आरामः ॥१३॥

———————————————————————————————————————

**॥ १.११.१४ ॥ **

गोपुर-द्वार-मार्गेषु कृत-कौतुक-तोरणाम् ।

चित्र-ध्वज-पताकाग्रैर् अन्तः प्रतिहतातपाम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गोपुरं पुर-द्वारम् । द्वारं गृह-द्वारम् । कृतानि कौतुकेनोत्सवेन तोरणानि यस्यां ताम् । गरुडादि-चिह्नाङ्किता ध्वजाः । जय-प्रद-यन्त्राङ्किताः पताकाः । चित्राणां ध्वज-पताकानाम् अग्रैर् अन्तः प्रतिहत आतपो यस्यां ताम् ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गोपुरं पुर-द्वारम् । द्वारं गृह-द्वारम् । अन्तर् मध्ये मध्ये प्रतिहत आतपः सूर्य-ज्वाला यस्याम् ॥१४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गोपुराणि पुर-द्वाराणि, द्वाराणि मन्दिराणां, कृतानि रचितानि कौतुकेनोत्सवेन तोरणानि मुक्तादि-मनोज्ञा वन्दन-माला यस्यां ताम् । चित्राणां ध्वज-पताकानाम् अग्रैर् अन्तः प्रतिहतः सूर्षातपो यस्यां ताम् । वैनतेयादि-चिह्न-विशिष्टा ध्वजाः, विजय-पत्राञ्चिताः पताकाः ॥१४॥

———————————————————————————————————————

**॥ १.११.१५ ॥ **

सम्मार्जित-महा-मार्ग- रथ्यापणक-चत्वराम् ।

सिक्तां गन्ध-जलैर् उप्तां फल-पुष्पाक्षताङ्कुरैः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संमार्जितानि निःसारित-रजस्कानि महा-मार्गादीनि यस्यां ताम् । महा-मार्गा राज-मार्गाः । रथ्या इति अमार्गाः । आपणकाः पण्य-वीथयः । चत्वराण्य् अङ्गानि । फलादिभिर् उप्ताम् अवकीर्णाम् ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **महा-मार्गा राज-मार्गाः । रथ्या इतर-मार्गाः । आपणकाः पण्य-वीथयः । चत्वराणि अङ्गणानि । उप्ताम् अवकीर्णाम् ॥१५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **महा-मार्गा राज-पथाः, रथ्या इतर-मार्गाः, आपणकाः पण्यवीथयः, चत्वराण्य् अङ्गनानि एतानि संमार्जितानि यस्यां तां फलादिभिर् उप्ताम् अवकीर्णाम् ॥१५॥

———————————————————————————————————————

**॥ १.११.१६-१७ ॥ **

द्वारि द्वारि गृहाणां च दध्य्-अक्षत-फलेक्षुभिः ।

अलङ्कृतां पूर्ण-कुम्भैर् बलिभिर् धूप-दीपकैः ॥

निशम्य प्रेष्ठम् आयान्तं वसुदेवो महा-मनाः ।

अक्रूरश् चोग्रसेनश् च रामश् चाद्भुत-विक्रमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेष्ठम् अन्तरात्मानम् आयान्तं निशम्य श्रुत्वा वसुदेवादयः प्रत्युज्जग्मुर् इति चतुर्थेनान्वयः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेष्ठम् आयण्तं निशम्य **इति वन्दि-पर्यन्तम् अनुवर्तनीयम् । अतः प्रेष्ठ-पदं क्वचिद् योगार्थेन, क्वचन रूढ्या च सङ्गमनीयम् ॥१७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : बलिभिर् उपहारैः ॥१६॥ प्रेष्ठम् आत्मनेऽप्य् अतिप्रियं, वसुदेवादयः प्रत्युज्जग्मुर् इति चतुर्थेनान्वयः ॥१७॥

———————————————————————————————————————

**॥ १.११.१८ ॥ **

**प्रद्युम्नश् चारुदेष्णश् च **5साम्बो जाम्बवती-सुतः ।

प्रहर्ष-वेगोच्छशित6- शयनासन-भोजनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रहर्ष-वेगेन उच्छशितान्य् उल्लङ्घितानि शयनादीनि यैस् ते । शश प्लुत-गतौ ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रहर्ष-वेगेन उच्छशितानि उल्लङ्घितानि शयनादीनि यैः । शश प्लुत-गतौ ॥१८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : प्रहर्ष-वेगेन उच्छशितानि उल्लङ्घितानि शयनादीनि यैः । शश प्लुत-गतौ धातुः ॥१८॥

———————————————————————————————————————

**॥ १.११.१९ ॥ **

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः स-सुमङ्गलैः ।

शङ्ख-तूर्य-निनादेन ब्रह्म-घोषेण चादृताः ॥

प्रत्युज्जग्मू रथैर् हृष्टाः प्रणयागत-साध्वसाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वारणेन्द्रं मङ्गलार्थं पुरतः कृत्वास-सुमङ्गलैः सुमङ्गलं पुष्पादि तद्-युक्त-पाणिभिः । ब्रह्म-घोषो मन्त्र-पाठः । प्रणयेन स्नेहेन आगतं साध्वसं संभ्रमो येषां ते ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साध्वसं सम्भ्रमः ॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वारणेन्द्रं गज-राजं, स-सुमङ्गलैर् मङ्गल-वस्तु-हस्तैर् इत्य् अर्थः । ब्रह्म-घोषेण वेद-ध्वनिना, साध्वासं सम्भ्रमः ॥१९॥

———————————————————————————————————————

**॥ १.११.२० ॥ **

वार-मुख्याश् च शतशो यानैस् तद्-दर्शनोत्सुकाः ।

लसत्-कुण्डल-निर्भात-कपोल-वदन-श्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वार-मुख्या नटादयश् च प्रत्युज्जग्मुः । लसत्-कुण्डलैर् निर्भातानि यानि कपोलानि, तैर् वदनेषु श्रीः शोभा यासां, ताः । **वार-मुख्या **नर्तक्यः, वेश्या इति यावत् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वार-मुख्या नटादयश् च प्रत्युज्-जग्मुः ॥२०॥

———————————————————————————————————————

॥ १.११.२१ ॥

नट-नर्तक-गन्धर्वाः सूत-मागध-वन्दिनः ।

गायन्ति चोत्तमश्लोक-चरितान्य् अद्भुतानि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्भुतानि चेति -कारस्य वन्दिनश् चेत्य् अन्वयः । नटा नव-रसाभिनय-चतुराः । तालाद्य्-अनुसारेण नृत्यन्तो नर्तकाःगन्धर्वा गायकाः ।

सूताः पौराणिकाः प्रोक्ता मागधा वंश-शंसकाः ।
वन्दिनस् त्व् अमल-प्रज्ञाः प्रस्ताव-सदृशोक्तयः ॥

ते सर्वे गायन्तिच इत्य् अन्वयः । उत्तम-श्लोकस्य अद्भुतानि चरित्राणि भक्त-वात्सल्यादीनि ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नटा रसाभिनय-निपुणाः, नर्तकाः सङ्गीतोक्तविधिना नृत्यन्तः, गन्धर्वा गायकाः, सुतादीनां लक्षणानि—

सुताः पौराणिकाः प्रोक्ता मागधा वंश-शंसकाः ।
वन्दिनस् त्व् अमल-प्रज्ञाः प्रस्ताव-सदृशोक्तयः इति ॥२१॥
———————————————————————————————————————

॥ १.११.२२ ॥

भगवांस् तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् ।

यथा-विध्य् उपसङ्गम्य सर्वेषां मानम् आदधे ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यथाविधि यैः सह यथोचितं तैस् तथा समागमं कृत्वा । सर्वेषां मानम् आदधे कृतवान् इत्य् अर्थः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यथाविधि यथोचितम् ॥२२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यथाविधि यथोचितम् । उपसङ्गम्य प्रत्युद्गतान् प्राप्य, मानं सत्कारम् ॥२२॥

———————————————————————————————————————

॥ १.११.२३ ॥

प्रह्वाभिवादनाश्लेष-कर-स्पर्श-स्मितेक्षणैः ।

आश्वास्य चाश्वपाकेभ्यो वरैश् चाभिमतैर् विभुः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तदाह —प्रह्वेति । प्रह्वं प्रह्वत्वं शिरसा नतिः । अभिवादनं वाचा नतिः । आश्वास्याभयं दत्त्वा । श्व-पाकान् अभिव्याप्य वरैर् अभीष्ट-दानैश् च मानं कृतवान् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवाह—प्रह्वत्वं शिरसा नतिः पित्रादिषु गर्गादिषु च । अभिवादनं वाचा नतिः यदु-वंश्येषु स्थविरेषु । आश्व्-अपाकेभ्यः श्वपाक-पर्यन्तान् अपि जनान् आश्वास्य अभयं दत्त्वा । वरैर् अभीष्ट-दानैश् च ॥२३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रह्वत्वं शिरसा नतिः वसुदेवादिषु गर्गादिषु च, अभिवादनं वाचा नतिः यदुवंश्येषु वृद्धेषु, आश्लेष-करस्पर्शौ समेषु । इतरेषु स्मितेक्षणानि, आश्वपाकेभ्यः श्व-पाक-पर्यन्तं तान् अपि जनानाश्वास्याभयं दत्त्वा, वरैर् अभीष्ट-प्रदानैश् च ॥२३॥

———————————————————————————————————————

॥ १.११.२४ ॥

स्वयं च गुरुभिर् विप्रैः सदारैः स्थविरैर् अपि ।

आशीर्भिर् युज्यमानोऽन्यैर् वन्दिभिश् चाविशत् पुरम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्यैश् च बन्दिभिश् च ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गुरुभिः पितामहादिभिः ॥२४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्वयं च गुर्वादिभिर् आशीर्भि-युज्यमानो वन्दिभिः सह स्व-पुरम् अविशत् ॥२४॥

———————————————————————————————————————

**॥ १.११.२५ ॥ **

राज-मार्गं गते कृष्णे द्वारकायाः कुल-स्त्रियः ।

हर्म्याण्य् आरुरुहुर् विप्रास्7** तद्-ईक्षण-महोत्सवाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हे विप्र शौनक ! तस्येक्षणेन महान् उत्सवो यासां ताः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हे विप्राः! ॥२५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **हे विप्राः ! ॥२५॥

———————————————————————————————————————

**॥ १.११.२६ ॥ **

नित्यं निरीक्षमाणानां यद् अपि द्वारकौकसाम् ।

न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद्य् अस्मान् नित्यं सदाच्युतं निरीक्षमाणानाम् अपि दृशो नैव तृप्यन्त्य् अत आरुरुहुः । कथं-भूतम् ? श्रियः शोभाया धाम स्थान-मङ्गलं यस्य तम् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् **यस्मान् नित्यं निरीक्षमाणानाम् अपि दृशो नैव तृप्यन्ति, अत आरुरुहुः [२५] । अच्युतं कीदृशं ? श्रियः शोभाया धाम स्थानम् अङ्गं यस्य तम् ॥२६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यतोऽच्युतं नित्यं निरीक्षमाणानाम् अपि दृशो नैव तृप्यन्ति, अतो हर्म्याण्य् आरुरुहुः [२५] । अच्युतं कीदृशं? श्रियः शोभाया धामान्य् अङ्गानि यस्य तम् ॥२६॥

———————————————————————————————————————

**॥ १.११.२७ ॥ **

श्रियो निवासो यस्योरः पान-पात्रं मुखं दृशाम् ।

बाहवो लोक-पालानां सारङ्गाणां पदाम्बुजम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतद् एवाभिनयेनाह । श्रियो लक्ष्म्याः यस्य उरो वक्षो निवासः । यस्य मुखं सर्व-प्राणिनां दृशां सौन्दर्यामृत-पानाय पात्रम् । यस्य बाहवो लोक-पालानां निवासः । सारं श्री-कृष्णं गायन्तीति सारङ्गा भक्ताः, तेषां यस्य पदाम्बुजं निवासः, तं निरीक्षमाणानां दृश इति पूर्वेणान्वयः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रियः प्रेयस्याः । याः सर्वेषाम् एव तत्-प्रिय-वर्गाणां दृशश् चक्षूंषि, तासाम् । लोक-पालानां पाल्यानाम् । सारङ्गाणां सर्वेषाम् एव भक्तानाम् । निवास आश्रयः । यथा-स्वं भावोद्दीपनत्वात् ॥२७॥ [प्रीति-सन्दर्भ १५६]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यस्य मुखं पान-पात्रं सौन्दर्यामृत-पूर्णं दृशां निवासः । इन्द्रादीनां लोक-पालानां यस्य बाहवो निवासः, तद्-बलम् आश्रित्यैव असुरेभ्यो निर्भयास् ते सुखं वसन्तीति भावः । सारं तद्-यशो गायन्तीति सारङ्गा भक्ताः, तेषां, श्लेषेण भ्रमराणां पदाम्बुजं निवासः । तं निरीक्षमाणानां दृशः [२६] इति पूर्वेणान्वयः ॥२७॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यस्य उरः श्रियो निवासः, यस्य मुखं पान-पात्रं लावन्य-सुधा-पूर्णं दृशां निवासः, यस्य बाहवो लोक-पालानाम् इन्द्रादीनां निवासः, तान् आश्रित्यैव ते निर्भया निवसन्ति । यस्य पदाम्बुजं सरङ्गाणां तद्-यशो-गायकानां भक्तानां निवासः । तं निरीक्षमाणानां दृशः [२६] इति पूर्वेणानुषङ्गः ॥२७॥

———————————————————————————————————————

**॥ १.११.२८ ॥ **

सितातपत्र-व्यजनैर् उपस्कृतः

प्रसून-वर्षैर् अभिवर्षितः पथि ।

पिशङ्ग-वासा वन-मालया बभौ

घनो यथार्कोडुप-चाप-वैद्युतैः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सितैर् आतपत्र-व्यजनैर् उपस्कृतो मण्डितः । अर्कश् चोडुपो नक्षत्र-सहितश् चन्द्रश् च चापम् इन्द्र-धनुश् च वैद्युतं विद्युत् तेजश् च तैः । अर्कश्-छत्रस्योपमानम् । नक्षत्राणि पुष्प-वृष्टेः । चन्द्रः परिभ्रम-कृत-मण्डलाकारयोश् चामर-व्यजनयोः । चापं वन-मालायाः विद्युत् तेजः पिशङ्ग-वाससोः । अभूतोपमेयम् । यदि घनस्योपरि सूर्य-बिम्बम् उभयतश् चन्द्रौ सर्वतो नक्षत्राणि मध्ये च मिलितं चाप-द्वयं स्थिरं विद्युत्-तेजश् च श्रीअदि भवेत् तर्हि स घनो यथा भाति तथा हरिर् बभाव् इत्य् अर्थः ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वैद्युतं विद्युत्-तेजः । घनः कृष्णस्योपमानम् । अर्कश् छत्रस्य उडुपौ परिभ्रम-कृत-मण्डलाकारयोश् चामर-व्यजनयोः । उडवः पुष्प-वृष्टेः । चापौ वन-मालायाः विद्युत्-तेजः पिशङ्ग-वाससोः । अद्भुतोपमेयं यदि घनस्योपरि सूर्य-बिम्बम् उभयतश् चन्द्रौ सर्वतो नक्षत्राणि मध्ये च मिलितं चाप-द्वयं स्थिरं विद्युत्-तेजो भवेत् तर्हि स घनो यथा भाति तथा हरिर् बभाव् इति भावः ॥२८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सितैर् आतपत्रादिभिर् उपस्कृतोऽलन्कृतः, पुष्पैर् विकीर्णश् च कृष्णो वभौ । अर्कश् च उडुपः सनक्षत्रश् चन्द्रश् च चापं शत्रुधनुश् च वैद्युतं विद्युत्-तेजश् च । उपर्यर्क-विम्बेन उभयतश् चन्द्र-विम्बाभ्यां सर्वतो नक्षत्रैर् मध्ये मिलिताभ्यां शत्रु-चापाभ्यां स्थिरेण विद्युत्-तेजसा च विशिष्टो यथा घनस् तथा कृष्णः शुशुभ इत्य् अभूतोपमेयम्, असम्भाव्यमानोपमान-समुद्भावनात्, विम्बानुविम्बोपमा चेत्य् एके, कृष्णादि-दृष्टान्तवद् घनादेः प्रतिपादनात् ॥२८॥

———————————————————————————————————————

॥ १.११.२९ ॥

प्रविष्टस् तु गृहं पित्रोः परिष्वक्तः स्व-मातृभिः ।

ववन्दे शिरसा सप्त देवकी-प्रमुखा मुदा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **देवकी-प्रमुखाः सप्त ववन्द इति मातृ-सौन्दर्याद् आदर-विशेष-ज्ञापनार्थम् उक्तम् । अष्टादशापि वसुदेव-भार्या मातृ-तुल्यत्वान् नमस्कृता एव ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सप्त ववन्द इति मातृ-सोदर्याद् आदर-विशेष-ज्ञापनार्थम् उक्तम् । अष्टादशापि पितुर् वसुदेवस्य भार्या मातृ-तुल्यत्वान् नमस्कृता एव ॥२९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सप्तेत्य् उपलक्षणम्, अष्टादशापि वसुदेवपत्नीः शिरसा ववन्दे, देवकी-तुल्यत्वाद् इत्य् अर्थः । सप्तानाम् उक्तिर् देवकी-सौन्दर्येण तास्वादराधिक्यात् ॥२९॥

———————————————————————————————————————

॥ १.११.३० ॥

ताः पुत्रम् अङ्कम् आरोप्य स्नेह-स्नुत-पयोधराः ।

हर्ष-विह्वलितात्मानः सिषिचुर् नेत्रजैर् जलैः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नेत्रजैर् जलैर् हर्षाश्रुभिः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्व-भुवनं स्व-पुरं, सर्वे कामा भोगा यत्र तत् । अनुत्तमं सर्वोत्कृष्टं, सहस्राणि चेति—च शब्दाद् अष्टोत्तर-शतोत्तराणीति ज्ञेयम् ॥३०॥

———————————————————————————————————————

॥ १.११.३१ ॥

अथाविशत् स्व-भवनं सर्व-कामम् अनुत्तमम् ।

प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्व-गृह-प्रवेशम् आह—अथेति । सहस्राणि च षोडश इति -काराद् अष्टोत्तर-शताधिकानीति ज्ञेयम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-भवनं स्व-पुरम् । सहस्राणि च षोडश इति -काराद् अष्टोत्तर-शताधिकानीति ज्ञेयम् ॥३१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।

———————————————————————————————————————

**॥ १.११.३२ ॥ **

पत्न्यः पतिं प्रोष्य गृहान् उपागतं

विलोक्य सञ्जात-मनो-महोत्सवाः ।

उत्तस्थुर् आरात् सहसासनाशयात्

साकं व्रतैर् व्रीडित-लोचनाननाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रोष्य देशान्तरे उषित्वा । आराद् दूराद् एव विलोक्य सञ्जातो मनसि महोत्सवो यासां ताः। आसनाद् देहेन उत्तस्थुःआशयोऽन्तःकरणं, तस्माद् अप्य् आत्मनोत्तसथुः । श्री-कृष्णेनात्मनः संश्लेषेऽन्तःकरण-व्यवधानम् अपि ता नासहन्तेत्य् अर्थः । व्रीडितानि लोचनान्य् आननानि च यासां ताः । अपाङ्गैर् एव वीक्षणाद् व्रीडित-लोचनाः, अवनत-मुखत्वाद् व्रीडिताननाः । साकं व्रतैर् इति हास्य-क्रीडा-वर्जनादि-नियमा आपि ताभ्य उत्तस्थुर् इति वा । व्रतानि च याज्ञवल्क्येनोक्तानि—

क्रीडां शरीर-संस्कारं समाजोत्सव-दर्शनम् ।
हास्यं पर-गृहे यानं त्यजेत् प्रोषित-भर्तृका ॥ इति ॥३२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पत्न्य इति । विलोक्य एव आसनात् तद्-आवेशेनैक-चेष्टतावस्थानात् । आशयात् तत्-समाधि-लक्षणाच् च उत्तस्थुस् तौ तत्यजुर् इत्य् अर्थः । अत एव व्रीडित- इति ॥३२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यावत्यो महिष्यस् तावद्भिर् एव प्रकाशैर् युगपद् एव पृथक् तत्-तन्-मन्दिर-प्रविष्टं कृष्णम् आलोकमानानां माम् एव प्रथमम् अयं प्राप्त इत्य् अभिमन्यमानानां तासां तात्कालिकीं चेष्टाम् आह—सञ्जातो मनसो महोत्सवः परिरम्भ-स्पृहा यासां ताः । अत एव आसनात् अन्तः-करणाच् च उत्तस्थुः । ततश् च व्रीडित-लोचनाननाः अपाङ्गैर् एव वीक्षणात् व्रीडित-लोचनाः अवनत-मुखत्वात् व्रीडिताननाः ।

अयम् अर्थः—आसनं परित्यज्य प्रथमं देहेनैव परिरब्धुम् उत्थिताः, मध्ये लज्जया कृतं विघ्नम् आलक्ष्य, लज्जोत्पत्ति-स्थानम् अन्तः-करणं च त्यक्त्वा केवलम् आत्मनैव परिरेभिरे इति केवलम् उत्प्रेक्षैव । कान्तम् आलोक्य सहसैव स्पर्शौत्सुक्य-पूर्ण-प्रेमानन्द-मूर्च्छितास् ता बभूवुर् इति तत्त्वम् । मूर्च्छायां सत्याम् एव सुषुप्ति-प्रलययोर् इवान्तः-करण-व्यवधानाभाव-सिद्धेः । साकं व्रतैर् इति व्रतानि याज्ञवल्क्येनोक्तानि—

क्रीडां शरीर-संस्कारं समाजोत्सव-दर्शनम् ।
हास्यं पर-गृहे यानं त्यजेत् प्रोषित-भर्तृका ॥ इति ।

व्रतैः सहिता एव उत्तस्थुर् इति तेषां व्रतानां पतिं दर्शयितुम् अनुचितानाम् अपि सहसा त्यक्तुम् अशक्यत्वात् तैः साकम् एवोत्तस्थुः । ततश् च तेन दृष्टाः, तासाम् असंस्कृत-शारीर-परिच्छदता स्नेह-वर्धनायैवाभूद् इति ॥३२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सर्वेषु मन्दिरेषु युगपत् प्राविशद् इति भावेनाह—पत्न्य इति । तदा सञ्जातो मनो-महोत्सवः परिरम्भ-वाञ्छा यासां ताः । आराद् दूराद् एव सहसा त्वरया आसनाद् आशयाद् अन्तः-करनाच् च उत्तस्थुः, ततोऽपाङ्गैर् एव वीक्षणाद् व्रीडित-लोचनाः, अवनत-मुखत्वाद् व्रीडिताननाश् च । आदाव् आसनं विहाय ततो लज्जायां सत्यां तत्-स्थानां चित्तं च विहायेत्य् अर्थः । व्रतैः साकम् इति तैः सहिता एव उत्तस्थुः, तानि चोक्तानि याज्ञवल्क्येन—

क्रीडां शरीर-संस्कारं समाजोत्सव-दर्शनम् ।
हास्यं पर-गृहे यानं त्यजेत् प्रोषित-भर्तृका ॥ इति ।

यद्यप्य् आगते पत्यौ तेषां [व्रतानां] दर्शनम् अनुचितं, तथापि सहसा त्यक्तुम् अशक्यत्वात् तत्-सहितानाम् उत्थानम् । ततश् च तद्-दर्शनेन तासु स्नेह-वृद्धिर् एव तस्याभूद् इति बोध्यम् ॥३२॥

———————————————————————————————————————

**॥ १.११.३३ ॥ **

तम् आत्मजैर् दृष्टिभिर् अन्तर् आत्मना

दुरन्त-भावाः परिरेभिरे पतिम् ।

निरुद्धम् अप्य् आस्रवद् अम्बु नेत्रयोर्

विलज्जतीनां भृगु-वर्य वैक्लवात् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आयान्तं तं पतिं दर्शनात् पूर्वम् आत्मना बुद्ध्या अन्तर् हृदये परिरेभिरे, ततो दृष्टिभिः, ततः समीपम् आगतम् आत्मजैः8 पुत्रैर् गृहीत-कण्ठम् आलिङ्गयन्त्य इव स्वयम् आलिङ्गितवत्य इत्य् अर्थः । अत्र हेतुः—दुरन्त-भावा गम्भीराभिप्रायाः । तदा च तासां नेत्रयोर् निरुद्धम् अप्य् अम्बु बाष्पं वैक्लवाद् वैवश्याद् आस्रवद् ईषत् सुस्राव । अत एव धैर्य-हान्या विलज्जतीनाम् । हे भृगु-वर्य ! चित्रं शृण्व् इति ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् इति तैः । तत्र स्वयम् आलिङ्गितवता इवेति योज्यम् । दुरन्त-भावा उद्भट-भावा, अत एव निरुद्धम् अप्य् आस्रवत् । अत्र आत्मज-द्वारालिङ्गनेन कान्त-भाव आभास्यते, तद्-द्वारा तत्-सम्भोगायोग्यत्वात् । समाधानं च प्रीति-सामान्य-परिपोषायैव तथाचरितम्, न तु कान्त-भाव-पोषाय । तत्-परिपोषस् तु दृष्ट्य्-आदि-द्वारैव । तस्मान् न दोष इति ॥३३॥ [प्रीति-सन्दर्भ १८७]9

जीव-गोस्वामी (लोचन-रोचनी २.४.१२६) : तम् आत्मजैर् इत्य्-आदौ विलज्जा हेतुःदुरन्त-भावोऽत्र सम्भोगाख्यो रसो गोप्यः । गोपनस् त्व् अश्रु-निरोधेन प्रत्यायितो धृत्य्-आभासः । तथाप्य् अश्रु-स्रवो गोपन आत्मज-द्वारा परिरम्भणेन सम्भोग-रसावरकः पत्य्-उचित-मैत्री-मात्रात्मकः । तत्र पाठ-व्युत्क्रमेणार्थ-क्रमश् चायं—प्रथमं दृष्टिभिः, ततोऽन्तर्-आत्मना, तत आत्मजैः परिरेभिरे इति ॥३३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **लज्जया कृत-विघ्नानाम् अपि तासां तत्-परिरम्भे प्रकारम् आह—तम् इति । आत्मजैर् मनोभवैस् तद्-दर्शनोद्दीपितैः कामैर् हेतुभिर् इत्य् अर्थः । मकरध्वज आत्म-भूर् इत्य् अमरः । दृष्टिभिः परिरेभिरे इति प्रथमं चक्षुषः सम्भोग उक्तः । ततो दृष्टिभिर् एव नेत्र-रन्ध्रैर् एव अन्तः प्रवेश्य आत्मना अन्तर् देहेनापि यतो दुरन्त-भावा दुर्ज्ञेयाभिप्रायाः । अत एव वक्ष्यते चायम् एव प्रकारो भाववतीनाम् ।

तं काचिन् नेत्र-रन्ध्रेण हृदि कृत्वा निमील्य च ।
पुलकाङ्ग्य् उपगुह्यास्ते योगीवानन्द-सम्प्लुता ॥ [भा।पु। १०.३२.८] इति ।

तद् अपि सूक्ष्म-धिया प्रेयसा स्वाभिप्राय-ज्ञातम् आलक्ष्य विलज्जमानानां तासां नेत्रयोर् अम्बु निरुद्धम् अपि वैक्लवात् वैवश्यात् ईषत् अस्रवत् सुस्राव । हे भृगु-वर्य ! ॥३३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : त्यक्ताशयत्वान् मूर्छितास् ततो लब्धाशयाः पतिं परिरेभिरे इत्य् आह—तम् इति । आत्मजैर् मनोभवैः पतिर् दर्शनोद्दीपितैः कामैर् हेतुभिर् इत्य् अर्थः । मकरध्वज आत्म-भूर् इत्य् अमरःततो दृष्टिभिस् ततोऽन्तरात्मना मनसा चेति चाक्षुषो मानसश् च सम्भोगः । दुरन्त-भावा दुर्बोधाभिप्रायाः, तम् अभिप्रायं पत्या लक्षितं विज्ञाय लज्जमानानां तासां नेत्रयोर् अम्बु निरुद्धम् अपि वैक्लवाद् वैवश्याद् आस्रवत् ईषत् सुस्राव, हे भ्र्गु-वर्य ! ॥३३॥

———————————————————————————————————————

**॥ १.११.३४ ॥ **

यद्यप्य् असौ पार्श्व-गतो रहो-गतस्

तथापि तस्याङ्घ्रि-युगं नवं नवम् ।

पदे पदे का विरमेत तत्-पदाच्

चलापि यच् छ्रीर् न जहाति कर्हिचित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पार्श्व-गतः समीप-स्थः, तत्रापि रहो-गत एकान्ते प्रवर्तते स्म । **पदे पदे **प्रतिक्षणं नवं नवम् एव । अत्र कैमुत्य-न्यायः । **का विरमेत **? इति । चला चञ्चल-स्वभावापि ॥३४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **चिर-विरहानन्तरम् एतादृशानुरागोदय-योग्यतायां तासाम् एवावस्थान्तरं कैमुत्येन दृष्टान्तयति—यदि इति । असौ श्री-कृष्णः । तासां श्री-पट्ट-महिषीणाम् । नवं नवम् इति10, तच् च तासां स्वाभाविकानुरागवतीनां नाश्चर्यम् । यतः का वा अन्यापि तत्-पदाद् विरमेत, तत्-पदास्वादेन तृप्ता भवेत् ? तत्र कैमुत्येनोदाहरणं चलापि इति । जगति चञ्चल-स्वभावत्वेन दृष्ट्यापि11 ।_।_३४॥ [प्रीति-सन्दर्भः ९०]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पदे पदे क्षणे क्षणे तासां नव-नवम् एव भवति । तत्र कैमुत्यं **का विरमेत **इति । चला चञ्चल-स्वभावा श्रीः सम्पत्ति-रूपेति नित्य-नूतनत्वं तस्योक्तम् ॥३४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु बहु-कृत्वोऽनुभूते नेदृशी तृष्णेति चेत् नित्य-नूतनत्वात् सेत्य् आह—यद्यपि इति । पदे पदे क्षणे क्षणे, तस्याङ्घ्रि-युगं तासां नवं नवं भवति । अत्र कैमुत्यं—का विरमेत इति । श्रीः सम्पद्-रुपा ॥३४॥

———————————————————————————————————————

**॥ १.११.३५ ॥ **

एवं नृपाणां क्षिति-भार-जन्मनाम्

अक्षौहिणीभिः परिवृत्त-तेजसाम् ।

विधाय वैरं श्वसनो यथानलं

मिथो वधेनोपरतो निरायुधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तं श्री-कृष्ण-चरितं सङ्क्षिप्याह—एवम् इति द्वाभ्याम् । क्षितेर् भारायजन्म येषाम् । अक्षौहिणीभिः कृत्वा परिवृतं सर्वतः प्रसृतं तेजः प्रभावो येषाम् । श्वसनो वायुर् वेणूनाम् अन्योन्य-सङ्घर्षेण्आनलं विधायमिथो दाहेन यथोपशाम्यति, तद्वत् ॥३५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ तथागतस्य तस्य तादृश-गार्हस्थ्य-लीला-सुखोत्कर्ष-दर्शनार्थं निश्चिन्तता-पूर्वकं ताभी रमणम् एवाह—एवम् इति द्वाभ्याम् ॥३५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ताभिः सह रमणं निष्प्रत्यूहं वक्तुं तस्य कार्यान्तर-व्यग्रत्वाभावम् आह—एवम् इति । अक्षौहिणीभिः सह परिवृत्तं विस्तीर्णं तेजो येषां श्वसनो वायुर् वेणूनाम् अन्योन्य-सङ्घर्षेण अनलंविधायमिथो दाहेन यथोपशाम्यति तद्वत् ॥३५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ताभिः सार्द्ध्वं निर्विघ्नतया रमणं वक्तुं तस्य कार्यान्तराभावम् आह—एवम् इति अक्षौहिणीभिः करणैः परिवृतं सर्वत्र प्रसृतं तेजो येषां तेषां नृपानां वैरं विधाय मिथो वधेन प्रहारेण तान् हत्वा निरायुधः सन्न् उपरतः । श्वसनो वायुर् यथा वेणूनां परस्पर-सङ्घर्षेणानलमुत्पाद्य तेन तान् सन्दह्य उपशाम्यति तद्वत् ॥३५॥

———————————————————————————————————————

॥ १.११.३६ ॥

स एष नर-लोकेऽस्मिन्न् अवतीर्णः स्व-मायया ।

रेमे स्त्री-रत्न-कूटस्थो भगवान् प्राकृतो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्त्री-रत्न-कूट-स्थ उत्तम-स्त्री-कदम्ब-स्थः ॥३६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **य एवम् उपरतः, स एव रेम इति योज्यम् । स्वेषु निज-जनेषु या माया कृपा तत्-सुख-चिकीर्षा-मय-प्रेमा, तया लोकेऽवतीर्ण इति तस्या एव सर्वावतार-प्रयोजन-निमित्तत्वात् स्त्री-रत्न-कूटस्थोऽपि तादृश-रमण-वश12-कारि-प्रेम-विशेष-रूपया तयैव रेमे, न तु प्रसिद्ध-कामेनेत्य् अर्थः । अत्र रत्न-पदेन तासाम् अपि तद्-योग्यत्वं बोधयित्वा तादृश-प्रेम-विशेष-मयत्वं बोधितम् । एवं भाव-वैलक्षण्येऽपि क्रियया साम्यम् इत्य् आह—प्राकृतो यथा इति । अत्र श्री-भगवतोऽप्य् अप्राकृतत्वं दर्शयित्वा तद्वत् काम-विषयत्वं निराकृतम् ॥३६॥ [प्रीति-सन्दर्भ १३५]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-मायया योग-माययैव स्त्री-रत्न-समूहे प्रकाश-बाहुल्येन प्रत्येकम् एव तिष्ठति इति सः । प्राकृतो यथा इत्य् अनेन तस्य तथा रमण-कारणस्य कामस्य रमणस्य चाप्राकृतत्वान् निर्गुणत्वम् उक्तम् ॥३६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्व-मायया स्वात्म-भूतया पराख्य-शक्त्या स्त्री-रत्नानां कूटे समूहे युगपद् अवस्थितो रेमेप्राकृतो यथा इत्य् अनेन तद्-रतेर् अप्राकृतत्वं, तस्य तद्-आसक्तत्वम् । रत्नेत्य् अनेन तासां च परावतार-रमात्वं सूचितम् ॥३६॥

———————————————————————————————————————

॥ १.११.३७ ॥

उद्दाम-भाव-पिशुनामल-वल्गु-हास-

व्रीडावलोक-निहतो मदनोऽपि यासाम् ।

सम्मुह्य चापम् अजहात् प्रमदोत्तमास् ता

यस्येन्द्रियं विमथितुं कुहकैर् न शेकुः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु एवं स्त्री-सङ्गादिभिः संसार-प्रतीतेः कथं भगवान् अवतीर्णः इत्य् उच्यते ? तत्राह—उद्दामेति द्वाभ्याम् । यासाम् उद्दामो गम्भीरो यो भावोऽभिप्रायः, तस्य पिशुनः सूचकोऽमलो वल्गुः **सुन्दरो हासो व्रीडावलोकश् च, ताभ्यां निहतः अमदनः श्री-महादेवोऽपि संमुह्य लज्जया चापं पिनाकम् अजहात् । एवं-प्रभावा याह् स्त्रिय इत्य् एतावद् विवक्षितम् ।

यद् वा, भगवतो मोहिनी-रूपेण महेशोऽपि मोहितः, एवम् एताश् च तादृग्-विलासा एवेति तथोक्तम् । ताः कुहकैः कपटैर् विभ्रमैर् यस्येन्द्रियं मनो विमथितुं क्षोभयितुं न शेकुर् न शक्ताः ।

अथवा, निहतस् ताडितो मदनोऽपि जगद्-विजयी सम्ंउह्य तत्-तत्-कर्तव्यता-मूढः संश् चापं धनुर् लज्जया अजहाज् जहौ । ताश् च प्रमदोत्तमाः काम-विजयिन्योऽपीत्य् आदि पूर्ववत् ॥३७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पुनर् अपि तद् एव स्थापयति13—उद्दामेति । मदनश् च प्राकृतः कामः । उद्भट-भाव-सूचक-निर्मल-मनोहराभ्यां हास-व्रीडावलोकनाभ्यां निहतस् तन्-महिम-दर्शनेन स्वयम् एवोक्तार्थीकृत-स्वास्त्रादि-बलोऽभूत् । अत एव संमुह्य चापम् अजहात्

भ्रू-पल्लवं धनुर् अपाङ्ग-तरङ्गितानि
बाणा गुणाः श्रवण-पालिर् इति स्मरेण ।
तस्याम् अनङ्ग-जय-जङ्गम-देवतायाम्
अस्त्राणि निर्जित-जगन्ति किम् अर्पिताणि ॥ [गीत-गोविन्द ३.१३]14 इत्य्-आदिवत् ।

तत्र निजास्त्र-प्रयोगं न कुरुत एवेत्य् अर्थः । तथाभूता अपि प्रमदोत्तमाः प्रमदेन प्रकृष्ट-प्रेमानन्द-विशेषेण परमोत्कृष्टास् ताः स्व-वृन्द एव याः स्वतोऽप्य् उत्कृष्ट-प्रेमवत्यस् तासां साम्येच्छया कुहकैस् तादृश-प्रेमाभावेन कपटांश-प्रयुक्तैः सद्भिः कटाक्षादिभिर् यस्येन्द्रियं विमथितुं तद्वद् विशेषेण मथितुं न शेकुः, किन्तु स्व-प्रेमानुरूपम् एव शेकुर् इति । तस्मात् प्रेम-मात्रोत्थायि-विकारत्वात्15 तस्य कामुक-वैलक्षण्यम् इति भावः ॥३७॥ [प्रीति-सन्दर्भ १३६]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् इन्द्रियैर् विषयान् भुञ्जानस्य तस्य कथम् अप्राकृतत्वम् ? तत्राह—यासाम् उद्दामः गम्भीरो यो भावः प्रेमा, तस्य पिशुनः सूचकोऽमलो वल्गुः सुन्दरो हासो व्रीडा-सहितोऽवलोकश् च, ताभ्यां कृष्ण-विषयकाभ्यां स्वरूप-भूत-कन्दर्प-पीडोत्थाभ्यां निहतः । अहो एता मच्-छराघातं विनैव स-स्पृहं कान्तम् आलोकयन्त इति विचारयन्न् एव तद्-अतिमाधुर्यावलोकोत्थ-विस्मय-विवशी-कृतः सन् मदनः प्राकृत-कन्दर्पस् तन्-मोहनार्थम् आगतोऽपि स्वयं संमुह्य चापम् अजहात् । तासां भ्रू-चापाकृष्टानां व्रीडावलोक-शराणाम् अग्रे किं मे चापेन स-शरेणेति तं तत्याज ।

ताः प्रमदोत्तमा अपि यस्येन्द्रियं मथितुं स्व-वशीकर्तुं कुहकैः कपट-प्रयुक्तैर् वल्गु-हासादिभिर् न शेकुः, किन्तु प्रेम-प्रयुक्तैः शेकुर् इति तासां समञ्जस-रतिमत्त्वात् प्रेम-मया काम-मया अपि कटाक्षादयः सम्भवन्ति । तत्राद्याः भाव-पिशुन-शब्देनोच्यते, द्वितीयाः कुहक-शब्देन । तत्राद्यैर् वशीकृतेन्द्रियत्वेऽपि भगवतोऽप्राकृतत्व-लक्षणं नैर्गुण्यम् एव तस्य प्रेम-वश्यत्वात्, प्रेम्णश् च चिच्-छक्ति-विलास-विशेषत्वात् तन्-मयानां कटाक्षादीनां च तद्-उत्थितस्य कामस्य च त्वत्-कारणकस्य रमणस्य च चिन्-मयत्वाद् विषय-भोग-शब्देन वक्तुम् अशक्यत्वान् मायिकानाम् एव शब्द-स्पर्शादीनां विषय-शब्देनाभिधानाद् इति । द्वितीयैः प्रेम-रहितैर् वशीकारासम्भवात् यस्येन्द्रियं विमथितुं कुहकैर् न शेकुर् इत्य् उक्तं सर्वथैव तद्-इन्द्रिय-विमथनाभावे व्याख्याते, रेमे स्त्री-रत्न-कूट-स्थो भगवान् प्राकृतो यथा [भा।पु। १.११.३६] इत्य् अनेन व्यञ्जिता रमणासक्तिश् च नोपपद्यते ।

किं च, अत्र कादाचित्कैस् तदीय-काम-मय-कटाक्षादिभिर् वशीकाराभावेऽपि तेषां प्राकृतत्वं न वाच्यम् । पट्ट-महिषीणां सर्वासां चिच्-छक्तित्वात् तदीयेषु कटाक्षादिषु प्राकृतत्व-प्रवेशाशक्तेः। न च स्वरूप-भूतत्वेऽपि चिच्-छक्ति-सामान्यस्यैव वशो भगवान्, किन्तु चिच्-छक्ति-विशेषस्य प्रेम्ण एवेति सिद्धान्ताद् इति सर्वम् अनवद्यम् ॥३७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इदम् एव स्फुटीर् कर्तुम् आह—उद्दामेति । उद्भट-भाव-सूचकाभ्यां निर्मल-मनोहराभ्यां यासां हास-व्रीडावलोकाभ्यां निहतस् तन्-महिम-वीक्षणेन स्वयम् एव व्यर्थीकृतास्त्र-बलो मदनोऽभूत्, अत एव संमुह्य चापम् अजहात्, तथा-भूता अपि प्रमदोत्तमाः प्रमदेन प्रेयसी-जातीयेन प्रेम्णोत्कृष्टास् ताः कुहकैः स्वोत्कृष्ट-तत्-प्रेयसी-तुल्येच्छया तादृश-प्रेम-भावेन कपटांश-प्रयुक्तैः सद्भिः कटाक्षादिभिर् यस्य कृष्णस्य इन्द्रियं विमथितुं तद्-वद्-विशेषेण मथितुं न शेकुः, स्व-प्रेमानुरूपं तु शेकुर् एव, यासां गृहात् प्राकृतो यथा [भा।पु। १.११.३५] इति तद्-रमणावेशोक्तेः ॥३७॥

———————————————————————————————————————

॥ १.११.३८ ॥

तम् अयं मन्यते लोको ह्य् असङ्गम् अपि सङ्गिनम् ।

आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं श्री-कृष्णम् अयं प्राकृतो लोक आत्मौपम्येन स्व-सादृश्येन सङ्गिनं मनुजं मन्यते । अत्र हेतुः—व्यापृण्वानं व्याप्रियमाणम् । यतोऽयम् अबुधोऽतत्त्व-ज्ञः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् एतत् तत्त्वम् अविज्ञायैव—तम् अयम् इति । अयं साधारणो लोकोसक्तम् अपि प्राकृत-गुणेष्व् अनासक्तम् अपि । यत आत्मौपम्येन मनुजं व्यापृण्वानं कामादि-व्यापार-युक्तं च मन्यते । यथात्मनः प्राकृत-मनुष्यत्वादि, तथैव मन्यत इत्य् अर्थः । अत एव अबुधः एवासौ लोक इति ॥३७॥ [प्रीति-सन्दर्भ १३७]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं वस्तुतो विषय-सङ्ग-रहितम् अपि तम् अनभिज्ञो बहिर्-दर्शी लोको विषय-सङ्गिनम् एव मन्यत इत्य् आह—तम् अयम् इति । आत्मौपम्येन स्व-सादृश्येन । तत्र हेतुः— व्यापृण्वाणं व्याप्रियमाणं सत्यभामायाम् आसक्तेर् एव पारिजातार्थ-बहु-व्यापार-दर्शनाद् इत्य् अर्थः । अतोऽबुधः सद्-असद्-विवेचन-शून्यः नीलमणिं काचम् इव प्रेमाणम् एव विषयासक्तिं निश्चिनोतीत्य् अर्थः ॥३८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तं विशुद्ध-प्रेम-सङ्गिनं कुहकांशासङ्गं कृष्णमयं तत्-स्वरूप-गुणानभिज्ञः साधारणो लोकः सङ्गिनं विषयिणं मन्यते, आत्मौपम्येन स्व-तौल्येन मनुजं च । तत्र हेतुः—व्यापृण्वानं भामार्थ-पारिजातार्थ-बहु-व्यापार-शालित्वाद् इत्य् अर्थः । अतोऽबुधः वस्तु-स्वरुपानभिज्ञः विशुद्धस्य प्रेम्णो विषयावेशत्वेन ग्रहणात् महेन्द्र-मणेर् इव काचत्वेनेति भावः ॥३८॥

———————————————————————————————————————

**॥ १.११.३९ ॥ **

एतद् ईशनम् ईशस्य प्रकृति-स्थोऽपि तद्-गुणैः ।

न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कुतः ? इत्य् अपेक्षायाम् ऐश्वर्य-लक्षणम् आह—एतद् इति । ईशस्य ईशनम् ऐश्वर्यं नाम **एतद् **एव । किं तत् ? प्रकृति-स्थोऽपि तस्या गुणैः सुख-दुःखादिभिः सदा न युज्यत इति यत् । यथा आत्म-स्थैर् आनन्दादिभिर् आत्माश्रया अपि बुद्धिर् न युज्यते, तद्वत् । वैधर्म्ये दृष्टान्तो वा—आत्म-स्थैः सत्ता-प्रकाशादिभिर् यथा बुद्धिर् युज्यत इत्य् एवं वा । असद् आत्मा देहः, तत्र-स्थैर् गुणैः, तद्-आश्रया अबुद्धिः, तद्-उपाधिर् जीवो यथा युज्यते । एवं प्रकृति-स्थोऽपि तद्-गुणैर् न युज्यत इति यद् एतद् ईशनम् ईशस्येति ॥३९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्राकृत-गुणेष्व् असक्तत्वे हेतुः—एतद् इति । अवतारादौ प्रकृति-गुण-मये प्रपञ्चे तिष्ठन्न् अपि सदा एव तद्-गुणैर् न युज्यत इति यद्, एतद् ईशस्य ईशनम् ऐश्वर्यम् । तत्र व्यतिरेके दृष्टान्तः—यथेति । तद्-आश्रया प्रकृत्याश्रया बुद्धिर् जीव-ज्ञानं यथा युज्यते, तथा इति । अन्वये वा तद्-आश्रया श्री-भगवद्-आश्रया परम-भागवतानां बुद्धिर् यथा प्रकृति-स्था कथञ्चित् तत्र पतितापि न युज्यते, तद्वत् । एवम् एवोक्तं श्रीमद्-उद्धवेन तृतीये—

भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः ।
कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः ॥ [भा।पु। ३.३.१९] इति

॥३९॥ [प्रीति-सन्दर्भ १३८]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु भवतु नाम तासां चिच्-छक्तित्वात् तद्-रमणादेर् निर्गुणत्वम् । तद् अपि प्राकृत-प्रपञ्च-मध्ये प्राकृते एव यदु-वंशे अवतीर्णस्य प्राकृतानाम् एव जरासन्धादीनाम् असुराणां रूप-शब्दादीन् विषयान् स्व-चक्षुः-श्रोत्रादीन्द्रियैर् आददानस्य गुण-सङ्गः खलु दुर्वार एव इत्य् अत आह—एतद् इति । ईशस्य ईशनम् ऐश्वर्यं नामैतद् इति यत् प्रकृतौ स्थितोऽपि तस्या गुणैः न युज्यते । गुणैः कीदृशैः ? आत्मस्थैः

अयम् अर्थः—स्वयं गुणेषु तिष्ठति, गुणा अपि तस्मिंस् तिष्ठन्ति । तद् अपि तस्य गुणैर् असम्पर्क इति वस्तुतो भगवत एव सर्व-प्रपञ्चस्याधिष्ठानत्वे चाधिष्ठातृत्वे चापि निर्गुणत्वम् एवोक्तम् । साक्षी चेता केवलो निर्गुणश् च [श्वे।उ। ६.११] इति, सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः [वि।पु। १.९.४४], हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः [भा।पु। १०.८८.५] इत्य्-आदि-श्रुति-स्मृतिभिः । यथा तद्-आश्रयः स एवाश्रयो विषयो यस्याः, सा तत्-स्मरणवती परम-भागवतानां बुद्धिः प्रकृति-स्थापि सन्तुष्टि-स्तुति-निन्दादिषु तृप्ति-क्षुत्-पिपासा-पीडादिषु जागर-स्वप्न-सुषुप्तिषु सत्त्वादि-गुणेषु स्थितापि तेष्व् औदासीन्यात् न तैर् युज्यते इति । तथैव प्राकृतान् विषयान् आददानस्यापि तस्य तेष्व् आसक्ति-शून्यत्वात् न तैर् योगः ॥३९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु कुहकांशासङ्गित्वं न सम्भवेत्, प्राकृतेऽस्मिन् लोके स्थितस्य तत्-सङ्गापत्तेर् इति चेत्, तत्राह—एतद् इति । प्रकृति-विकारे जगत्य् अन्तर्यामित्वेन स्थितोऽपि तद्-गुणैर् न युज्यते इति यतः, अत एव ईशस्येशनम् ऐश्वर्यम् । कीदृशैः ? इत्य् आह—असद्-आत्म-स्थैर् विमुख-जीवाधिकारिभिर् इत्य् अर्थः । तत्र दृष्टान्तं कैमूत्यापादकम् आह—तद्-आश्रया भगवद्-विषया यथा भागवतानां बुद्धिर् इति ॥३९॥

———————————————————————————————————————

**॥ १.११.४० ॥ **

तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।

अप्रमाण-विदो भर्तुर् ईश्वरं मतयो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-पत्न्योऽपि तस्य तत्त्वं न जानन्तीत्य् आह—तं स्त्रैणम् आत्म-वश्यं रह एकान्तोऽनुव्रतम् अनुसृतं च मेनिरेभर्तुर् **अप्रमाण-विदः **प्रमाणम् इयत्तां महिमानम् अजानन्त्य इत्य् अर्थः । ईश्वरं क्षेत्रज्ञं मतयोऽहं-वृत्तयो यथा स्वाधीनं स्व-धर्म-योगिनं मन्यन्ते, तद्वत् । यद् वा, यथा यथा तासां मतयः कल्पनाः, तथा तथा तम् ईश्वरं स्त्रैणादि-रूपं मेनिर इत्य् अर्थः ॥४०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु तादृशम् ऐश्वर्यं तस्य ताः किं जानन्ति ? यदि जानन्ति, तदा रहो-लीलायां त्रुट्यत्य् एव तादृश-प्रेमेत्य् आशङ्क्याह—तम् इति । ईश्वरम् अपि तं रह एकान्त-लीलायां मौढ्यात् तादृश-प्रेम-मोहाद् भर्तुर् अप्रमाण-विदस् तादृशैश्वर्य-ज्ञान-रहिताः स्त्रैणम् आत्म-वश्यम् अनुव्रतम् अनुसृतं च मेनिरे । तच् च नायुक्तम् इत्य् आह—यथा तासां मतयः प्रेम-वासनाः, तथैव स इति । ये यथा मां [गीता ४.११] इत्य्-आदेः, स्वेच्छामयस्य [भा।पु। १०.१४.२] इत्य्-आदेश् च प्रामाण्याद् इति भावः ॥४०॥ [प्रीति-सन्दर्भ १३९]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु तर्हि यासु तस्य सदैवासक्तिः, ताः पट्ट-महिष्य एवाभिज्ञाः, तस्य तत्त्वं सामस्त्येन जानन्ति ? मैवम् । रस-पुष्टि-सिद्ध्य्-अर्थं तासां स्वरूप-भूतानाम् अपि योग-मायया भगवतैव स्व-सम्पूर्ण-ज्ञानावरणात् ता अपि तं न जानन्तीत्य् आह—तम् इति । तं स्व-भर्तारं रहोऽनुव्रतं स्व-प्रेम-वश्यम् अपि स्त्रैणं स्त्री-मात्र-भाव-वश्यं मेनिरे । यतो मूढा भगवतैवादि-रस-पुष्ट्य्-अर्थं मूढीकृताः । अतः समुद्रे विहरन्तोऽपि यथा समुद्रस्येयत्तां न जानन्ति, तथा भर्तुः प्रमाणं न विदन्ति । मतयः शास्त्र-कृतां बुद्धि-वृत्तयः ईश्वर-निरूपणे प्रवृत्ताः जगद्-उपादानत्वम् ईश्वरत्वं जगन्-नियन्तृत्वं तथा जगन्-निमित्तत्वम् ईश्वरत्वम् इति मत-वैविध्यट् किञ्चित् किञ्चिज् जानन्त्योऽपि वस्तुतो मूढा एवेति । याश् च सम्पर्यचरन् प्रेम्णा [भा।पु। १०.९०.२७]16 इत्य्-आद्य्-उक्तेस् तासां प्रेमवत्त्वाद् भगवतश् च प्रेम-वश्यत्वात् तासां प्राकृतत्वं न व्याख्येयम् ॥४०॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशोऽपि प्रथमे सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तम् अयं मन्यते लोकः [३७] इति साधारणानां पुंसां तत्र यथा भावस् तथा साधारणीनां स्त्रीणाम् आह—तं मेनिरे इति । मूढास् तत्-स्वरूप-ज्ञान-हीनाः अबलास् तं स्त्रैणं स्त्री-वश्यम् अतो रहो विजनेऽनुव्रतम् अनुगतं मेनिरेभर्तुर् जगत्-स्वामिनस् तस्य अप्रमाण-विदः तद्-ऐश्वर्येयत्तां न जानन्तीति । यथा समुद्रे स्थिता मीनास् तस्येयत्तां, यथा वैशेषिकादीनां मतयोऽपरिमित-गुणम् ईश्वरं परिमित-गुणं मन्यन्ते, तद्वत् ॥४०॥

इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्याम् एकादशमोऽध्यायः ॥११॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे

श्री-कृष्ण-द्वारका-गमनं नाम

एकादशोऽध्यायः ।

॥१.११॥


(१.१२)


  1. ‘जगद्-भव-भयापहम्ऽ इत्य् अपि पाठः । ↩︎

  2. तथा आत्माराम-पूर्ण-कामत्वेऽपि तादृशस्य**॥।** [भक्ति-सन्दर्भ] ↩︎

  3. थिस् वेर्से इस् नोत् फ़ोउन्द् इन् अल्ल् एदितिओन्स् ओफ़् स्रिधर्ऽस् तिक। ↩︎

  4. प्रपन्न-तृष्णाखिल- इति श्रीधरानुसृत-पाठः। ↩︎

  5. “ये च साम्ब-गदादयः” इति पाठः । ↩︎

  6. “उच्छ्वसितः” इति पाठो यद्यपि बहुत्र दृश्यते, तथापि स प्रामादिकः, टीकायां “शश प्लुत-गतौ” इति धातु-निर्देशात् । ↩︎

  7. विप्र ↩︎

  8. ‘पुत्रान् उद्गृह्य तत्-कण्ठम् आलिङ्गयन्त्य इवऽ इति पाठः । टीकान्तरेष्व् आत्मजैर् अन्तरात्मना मनसा च त्व् आत्मजैर् देहजै रोमञ्चादिभिः सहेत्य् अर्थः कृतः । ↩︎

  9. अयं श्लोकः ह्रियोत्थ-व्रीडाया दृष्टान्त इति रसामृते सञ्चारि-भाव-प्रसङ्गे उदाहृतः (२.४.१२३)। ↩︎

  10. तासां पार्श्व-गतः समीपस्थः । तत्रापि रहो-गतः एकान्ते वर्तते । पदे पदे प्रतिक्षणम् । इति प्रीति-सन्दर्भेऽत्राधिकः पाठः । ↩︎

  11. अत्रोदाहरण-पोषार्थं प्राकृताप्राकृत-श्रियोर् अभेद-विवक्षा इति प्रीति-सन्दर्भेऽत्राधिकः पाठः । ↩︎

  12. रमणावेश इति क्रम-सन्दर्भः । ↩︎

  13. “अथ पुनर् अपि तादृश-प्रेमवतीषु तास्व् अपि प्राकृत-कामाधिकारो नास्तीति दर्शनेन तस्यापि कामुक-वैलक्षण्येन तद् एव स्थापयति” (प्रीति-सन्दर्भ↩︎

  14. थिस् वेर्से इस् इन्चोम्प्लेते इन् बोथ् क्रम-सन्दर्भ अन्द् प्रीति-सन्दर्भ। इत् हस् बेएन् चोर्रेच्तेद् अगैन्स्त् थे ओरिगिनल्। ↩︎

  15. विकारित्वात्। ↩︎

  16. याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ↩︎