विषयः
भगवतः श्री-कृष्णस्य द्वारका-गमनम् ।
॥ १.१०.१ ॥
शौनक उवाच—
हत्वा स्व-रिक्थ-स्पृध आततायिनो
युधिष्ठिरो धर्म-भृतां वरिष्ठः ।
सहानुजैः प्रत्यवरुद्ध-भोजनः
कथं प्रवृत्तः किम् अकारषीत् ततः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
दशमे कृत-कार्यस्य हस्तिनापुरो हरेः ।
स्त्रीभिः संस्तूयमानस्य वर्ण्यते द्वारकागमः ॥
राज्यं च-कारेत्य् उक्तं, ततः पृच्छति—हत्वेति । स्वस्य रिक्थे धने स्पर्धन्ते स्म ये ते तथा । यद् वा, स्व-रिक्थाय स्पृत् सङ्ग्रामो येषाम् एव धनादि-हरणाद् आततायिनः, तान् हत्वा । प्रत्यवरुद्ध-भोजनो बन्धु-वध-दुःखेन सङ्कुचित-भोगो, राज्य-लाभेन प्राप्त-भोगो वा । कथं राज्ये प्रवृत्तः ? प्रवृत्तो वा ततः किम् अकार्षीत्? ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
नास्य निष्कण्टके राज्ये पाण्डवं स्व-पुरीं हरेः ।
गच्छतः कुरु-नारीभिः स्तुतिर् दशम उच्यते ॥
वासुदेवानुमोदेनैव राज्य-प्रवृत्ति-प्रजा-पालनादिकं सामान्यतो ज्ञात्वापि विशेषं जिज्ञासुः पृच्छति—हत्वेति । स्वस्य रिक्थे धने स्पर्धन्ते स्म ये, तान् । शत्रुभिर् अवरुद्धं यदासीति, तत् तेभ्यः सकाशात् प्रत्यवरुद्धं पुनश् च स्व-वशीकृतं भोजनं भोगो येन सः ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
राज्ये युधिष्ठिरं न्यस्य गोविन्दे हत-कण्टके ।
गच्छन् द्वारावतीं स्त्रीभिः संस्तुतो दशमे मुहुः ॥ \
कृष्ण-तद्-भक्तयोः कथास्व वितृप्तः पुनः पृच्छति—हत्वेति । स्वस्य रिक्थे धने ये स्पर्धन्ते स्म, तान् धनापहारित्वाद् आततायिनो दुर्योधनादीन् हत्वा । शत्रुभिर् यद् अवरुद्धं तत् तेभ्यः सकाशात् प्रत्य् अवरुद्धं पुनर् वशीकृतं भोजनं भोगो येन सः ॥१॥
———————————————————————————————————————
॥ १.१०.२ ॥
सूत उवाच—
वंशं कुरोर् वंश-दवाग्नि-निर्हृतं
संरोहयित्वा भव-भावनो हरिः ।
निवेशयित्वा निज-राज्य ईश्वरो
युधिष्ठिरं प्रीत-मना बभूव ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्य-प्रवृत्तौ श्री-कृष्णस्य प्रीतिं पर्यालोच्य प्रवृत्त इत्य् आशयेनोत्तरम् आह । वंशं कुरोः सम्रोहियत्वा परीक्षिद्-रक्षणेन संरोह्य अङ्कुरितं कृत्वा । कथं-भूतम् ?वंश-दवाग्नि-निर्हृतं वंश एव दवो वनं, तस्माद् उद्भूतो यः क्रोध-रूपोऽग्निः, तेन निर्हृतं दग्धम् । निज-राज्ये निवेश्य च ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : वंशम् इत्य् अस्य टीकायां राज्य-प्रवृत्तेर् उत्तरम् आहेत्य् अन्वयः ॥२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-कृष्णस्य प्रीतिं पर्यालोच्यैव प्रवृत्त इत्य् आशयेनोत्तरम् आह—**कुरोर् वंशं वंश-दवाग्निना **इव निर्हृतं निर्दग्धं संरोहयित्वा परीक्षिद्-रक्षणेन संरोह्य, दवो वनं वंशानां वनम्, यथा स्व-सङ्घर्षोत्थेनाग्निना दह्यते, तथैव कुरोर् वंशम् अपि परस्पर-क्रोधोत्थ-युद्धेन हतम् इत्य् अर्थः । भवं महा-देवम् अपि भावयति स्व-लीलां ध्यापयतीति सः ॥२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भगवत्-प्रीतिं विलोक्य राज्ये प्रवृत्त इति भावेनोत्तरम् आह—कुरु-वंशं वंश-दवाग्निन् एव निर्हृतं निर्दग्धं संरोहयित्व परीक्षिद्-रक्षणेन स्फुरितं कृत्वा इत्य् अर्थः । वेणूनां वनं यथा मिथः सङ्घर्षोत्थेनाग्निना दग्धं भवेद् एवं कुरूणां वृन्दम् अपि क्रोधोत्थेन युद्धेन हतम् इत्य् अर्थः । भवं शिवम् अपि भावयति स्व-लीलाम् इति भव-भावनः । हरति स्व-भक्तानां दुःखम् इति हरिः ॥२॥
———————————————————————————————————————
**॥ १.१०.३ ॥ **
निशम्य भीष्मोक्तम् अथाच्युतोक्तं
प्रवृत्त-विज्ञान-विधूत-विभ्रमः ।
शशास गाम् इन्द्र इवाजिताश्रयः
परिध्य्-उपान्ताम् अनुजानुवर्तितः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
अमात्या मन्त्रिणो दूताः श्रेणयश् च पुरोहिताः ।
पुरञ्जन-पदं चेति सप्त-प्रणिधयः स्मृताः ॥ इति ब्राह्मे ॥३॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवृत्तौ हेतुम् उक्त्वा किम् अकार्षीत् ? इत्य् अस्योत्तरम् आह । प्रवृत्तं यद् विज्ञानं पर्मेश्वराधीनं जगन् न स्वतन्त्रम् इत्य् एवं-भूतं तेन विधूतो विभ्रमोऽहङ्कार्तेत्य् एवं-भूतो मोहो यस्य सः । अनुजैर् अनुवर्तितः सेवतः सन् । अजितः श्री-कृष्ण एव्आश्रयो यस्य सः । परिधिः समुद्रस् तत्-पर्यन्तां गां पृथिवीं पालयाम् आस ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निशम्य **इति । प्रवृत्तं यद् विज्ञानं परमेश्वराधीनं जगन् न स्वतन्त्रम् इत्य् एवं-भूतं तेन विधूतो विभ्रमोऽहं कर्तेत्य् एवं-भूतो मोहो यस्य सः । **गां **पृथ्वीं स्वर्गं च । अजितः श्री-कृष्णः उपेन्द्रश् च परिधयः समुद्राद् ऊर्ध्वगं दिङ्-मण्डलं च अनुजानाम् अनुवर्तिता अनुवृत्तिर् यस्मिन् । पक्षे, अनुजेनोपेन्द्रेणानुवृत्तिं प्रापिताः ॥३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **किम् अकार्षीत् ? इत्य् अस्योत्तरम् आह—निशम्य इति । प्रवृत्तं यद्-विज्ञानं परेशाधीनो लोको न स्वतन्त्र इत्य् एवं-भूतेन विधूतो विभ्रमः स्वतन्त्र-कर्तृत्वाभिमानो यस्य सः । गां पृथिवीं स्वर्गं च । अजिताश्रयः कृष्ण-सहायश् च परिधयोऽर्णवा उर्ध्वग-दिशश् च । अनुजानां भीमादीनाम् अनुवर्तिता यस्मिन् सः । पक्षे, अनुजेनोपेन्द्रणानुवृत्तिं प्रापितः ॥३॥
**॥ १.१०.४ ॥ **
कामं ववर्ष पर्जन्यः सर्व-काम-दुघा मही ।
सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर् मुदा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य राज्यम् अनुवर्णयति—कामम् इति त्रिभिः । मही सर्व-काम-दोग्ध्री बभूव । व्रजान् गोष्ठानि । ऊधस्वतीर् ऊधस्वत्यः ऊधः क्षीराशयः, तद्वत्यः स्थूलोधस इत्य् अर्थः । सिषिचुर् अभ्यषिञ्चन् ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्। **
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऊधस्वतीः स्थूलाः पीनवत्यः ॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **राज्ये सुख-समृद्धिम् आह—कामम् इति । ऊधस्वतीः स्थूल-पीनवत्यः ॥४॥
———————————————————————————————————————
**॥ १.१०.५ ॥ **
नद्यः समुद्रा गिरयः स-वनस्पति-वीरुधः ।
फलन्त्य् ओषधयः सर्वाः कामम् अन्वृतु तस्य वै ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्वृतु ऋताव् ऋतौ ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अन्वृतु सर्वेषु ऋतुषु । तस्य युधिष्ठिरस्य ॥५॥
———————————————————————————————————————
**॥ १.१०.६ ॥ **
नाधयो व्याधयः क्लेशा दैव-भूतात्म-हेतवः ।
अजात-शत्राव् अभवन् जन्तूनां राज्ञि कर्हिचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आधयो मनो-व्यथाः । व्याधयो रोगाः । क्लेशाः शीतोष्णादि-कृताः । दैवं भूतानि चात्मा हेतुर् येषाम् आधिदैविकादीनां ते जन्तूनां नाभवन् ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आधयो मानस-पीडाः, व्याधयो ज्वरादयो रोगाः । क्लेशाः काम-क्रोध-लोभ-मोहादयः । दैवादयो हेतवो येषां ते । दैव-हेतुर् अनावृष्ट्य्-आदिः, भूत-हेतुर् उन्मादादिः, आत्म-हेतुः कुष्ठादिः ॥६॥
———————————————————————————————————————
**॥ १.१०.७ ॥ **
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः ।
सुहृदां च विशोकाय स्वसुश् च प्रिय-काम्यया ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं द्वारका-गमनं निरूपयितुम् आह—उषित्वा इति । स्वसुः सुभद्रायाः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वसुः सुभद्रायाः ॥७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ द्वार्वती-प्रयाणं वर्णयितुम् आह—उषित्वा इति । स्वसुर् भगिन्याः सुभद्रायाः॥७॥
———————————————————————————————————————
**॥ १.१०.८ ॥ **
आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।
आरुरोह रथं कैश्चित् परिष्वक्तोऽभिवादितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं युधिष्ठिरम् ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तं युधिष्ठिरम् आमन्त्र्य पृथया अभिवाद्य प्रणम्य तेन परिष्वज्य अभ्यनुज्ञातो दत्त-सम्मतिकः कृष्णो रथम् आरुरोह ॥८॥
———————————————————————————————————————
**॥ १.१०.९ ॥ **
सुभद्रा द्रौपदी कुन्ती विराट-तनया तथा ।
गान्धारी धृतराष्ट्रश् च युयुत्सुर् गौतमो यमौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : युयुत्सुर् धृतराष्ट्राद् वैश्यायां जातः । गौतमः कृपः । यमौ नकुल-सहदेवौ ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युयुत्सुर् धृतराष्ट्राद् वैश्यायां जातः । गौतमः कृपः ॥९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : युयुत्सुर् धृतराष्ट्राद् वैश्यायां पत्न्यां जातः पाण्डवानुयायी महावीरः, गौतमः कृपाचार्यः ॥९॥
———————————————————————————————————————
**॥ १.१०.१० ॥ **
वृकोदरश् च धौम्यश् च स्त्रियो मत्स्य-सुतादयः ।
न सेहिरे विमुह्यन्तो विरहं शार्ङ्ग-धन्वनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मत्स्य-सुता उत्तरा । तस्याः पुनर् ग्रहणं गर्भ-रक्षक-कृष्ण-विरहे मोहाधिक्यात् । यद् वा, मत्स्य-सुता सत्यवती ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मत्स्य-सुता उत्तरा । तस्याः पुनर् ग्रहणं गर्भ-रक्षण-कृते मोहाधिक्यात् । यद् वा, मत्स्य-सुता सत्यवती ॥१०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मत्स्य-सुता सत्यवती ॥१०॥
———————————————————————————————————————
**॥ १.१०.११-१२ ॥ **
सत्-सङ्गान् मुक्त-दुःसङ्गो हातुं नोत्सहते बुधः ।
कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् ॥
तस्मिन् न्यस्त-धियः पार्थाः सहेरन् विरहं कथम् ।
दर्शन-स्पर्श-संलाप- शयनासन-भोजनैः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तेषां कृष्ण-विरहासहनं कैमुत्य-न्यायेनाह—सत्-सङ्गाद् इति द्वाभ्याम् । सतां सङ्गाद् हेतोर् मुक्तः पुत्रादि-विषयो दुःसङ्गो येन सः । सद्भिः कीर्त्यमानं रुचि-करं यस्य यशः सकृद् अप्य् आकर्ण्य सत्-सङ्गं त्यक्तुं न शक्नोति । दर्शनादिभिस् तस्मिन् श्री-कृष्णे न्यस्ता अध्यस्ता धीर् येषां ते ॥११-१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
प्रीति-सन्दर्भः ८८ : स्नेह-स्थायि-भावम् आह—सत्सङ्गाद् इत्य्-आदि-चतुर्भिः । विचेलुः (१३) अर्हणाद्य्-आनयनार्थम् इतस् ततश् चलन्ति स्म । अभद्रं (१४) यात्रा-समये दुःशकुनं प्राभूद् इति न्यरुन्धन् (१४) आच्छादितवत्यः ॥११-१४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य यशोऽपि हातुं बुधो नोत्सहते, तस्य विरहं पार्थाः कथं सहेरन्? इत्य् अन्वयः । रोचनं रोचकम् । बुधः कीदृशः? सत्-सङ्गान् मुक्तो दुःसङ्गो येन सः, तेन सत्-सङ्गं विना दुःसङ्गो मद-मत्सरादि-हेतुर् नापयाति, तद्-अपगमेन विना भगवद्-यशो रोचकं दुस्त्यजं च न भवतीति सिद्धान्ते ध्वनितः । पार्थाः कीदृशाः ? दर्शनादिभिस् तस्मिन् कृष्णे एव न्यस्त-धियः ॥११-१२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यस्य यशोऽपि बुधो हातुं न सहते, तस्य विरहं पार्थाः कथं सहेरन्? इति सम्बन्धः । रोचनं रोचकं । बुधः कीदृशः? इत्य् आह–सद् इति । सत्-सङ्गं विना मद-मत्सरादि-हेतुर् दुःसङ्गो नापगच्छति । तद्-अपगमं विना तद् यशो रोचकं दुस्त्यजं च न स्याद् इति भावः ॥ पार्थाः कीदृशाः? दर्शनादिभिस् तस्मिन् न्यस्त-धियः ॥११-१२॥
———————————————————————————————————————
**॥ १.१०.१३ ॥ **
सर्वे तेऽनिमिषैर् अक्षैस् तम् अनु द्रुत-चेतसः ।
वीक्षन्तः स्नेह-सम्बद्धा विचेलुस् तत्र तत्र ह ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत एव अनिमिषैर् नेत्रैस् तत्र तत्र अर्हणानयनाद्य्-अर्थं चलन्ति स्म । यतः स्नेहेन सम्यग् बद्धाः । अत एव तम् अनु द्रुतानि गतानि चेतंसि येषां, ते ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अत एव अनिमिषैर् अक्षैस् तम् एव वीक्षमाणाः । अनु वीक्षणानन्तरं विक्लिन्न-चेतसः ततः स्नेहेन सम्यग् बद्धाः । अत एव तत्र तत्र विचेलुः, यत्र यत्र स चलति स्मेत्य् अर्थः ॥१३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अत एव अनिमिषैर् अक्षैस् तम् एव वीक्षमाणाः । अनु वीक्षणानन्तरं तत्र तत्र विचेलुः, यत्र यत्र स चचाल ॥१३॥
———————————————————————————————————————
**॥ १.१०.१४ ॥ **
न्यरुन्धन्न् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते ।
निर्यात्य् अगारान् नोऽभद्रम् इति स्याद् बान्धव-स्त्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अगारान् निर्याति निर्गच्छति सति । औत्कण्ठ्याद् आसक्त्य्-अतिशयाद् धेतोर् उद्गलत् स्रवद् बाष्पम् अश्रु न्यरुन्धन् नेत्रेष्व् एव स्तम्भितवत्यः । तत्र हेतुः—अभद्रं नो स्याद् अमङ्गलं मा भूद् इत्य् एतद्-अर्थम् ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्याति इत्य् अश्रु-शोषकेण भयेनेत्य् अर्थः ॥१४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अगारान् निर्याति निर्गच्छति सति औत्कण्ठ्याद् धेतोर् उद्गलन्तं स्रवन्तं बाष्पम् अश्रु न्यरुन्धन् स्तम्भितवत्यः । तत्र हेतुः—अभद्रं नो स्याद् अमङ्गलं मा भूद् इत्य् एतद्-अर्थम् । अत्र उद्गलद् इति शतृ-प्रत्ययेन उद्-उपसर्गेण च यत्नतो निरुद्धान्य् अप्य् अश्रूणि सस्रुर् एव केवलम् अङ्ग-निवारणार्थं पटाञ्चलेन गोपयाञ्चक्रुर् इति लभ्यते ॥१४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अगारान् निर्याति सति औत्कण्ठ्याद् उद्गलन्तं बाष्पं न्यरुन्धन् स्तम्भयाञ्चक्रुः । अभद्रं मा भूद् इत्य् एतद्-अर्थम् । अत्र बाष्प-स्रवोऽभूद् एव, तं चावगुण्ठनेनावव्रुर् इत्य् अर्थः ॥१४॥
———————————————————————————————————————
**॥ १.१०.१५ ॥ **
मृदङ्ग-शङ्ख-भेर्यश् च वीणा-पणव-गोमुखाः ।
धुन्धुर्य्-आनक-घण्टाद्या नेदुर् दुन्दुभयस् तथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मृदङ्गादयो दश वाद्य-भेदाः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृदङ्गादयो वाद्य-भेदाः ॥१५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मृदङ्गादयो वादित्र-भेदाः ॥१५॥
———————————————————————————————————————
**॥ १.१०.१६ ॥ **
प्रासाद-शिखरारूढाः कुरु-नार्यो दिदृक्षया ।
ववृषुः कुसुमैः कृष्णं प्रेम-व्रीडा-स्मितेक्षणाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेम-व्रीडा-स्मित-पूर्वकम् ईक्षणं यासां ताः ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रेम-युक्ताभ्यां व्रीडा-स्मिताभ्याम् ईक्षणं यासां क्रमेण शृङ्गार-मय-शान्त-मय-स्त्रीणाम्, ताः । वियोगारम्भे पूर्वासां स्मितासम्भवात् विच्छिद्य व्याख्यातम् ॥१६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुसुमैः कुसुमानि प्रेम-व्रीडा-स्मितानि ईक्षणेषु व्यञ्जितानि यासां ताः ॥१६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कुसुमैः कुसुमानि प्रेमादी-वीक्षणेषु व्यञ्जितानि यासां ताः ॥१६॥
———————————————————————————————————————
**॥ १.१०.१७ ॥ **
सितातपत्रं जग्राह मुक्तादाम-विभूषितम् ।
रत्न-दण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुडाका निद्रा तस्या ईशो जित-निद्रोऽर्जुनः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गुडाकाया निद्राया ईशो जित-निद्रोऽर्जुनः । प्रियतमस्य कृष्णस्य सख्युर् आतपत्रं जग्राह ॥१७॥
———————————————————————————————————————
॥ १.१०.१८ ॥
उद्धवः सात्यकिश् चैव व्यजने परमाद्भुते ।
विकीर्यमाणः कुसुमै रेजे मधु-पतिः पथि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यजने चामरे जगृहतुः । मधु-पतिः श्री-कृष्णः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : मधुपतिर् माधवः ॥१८॥
———————————————————————————————————————
**॥ १.१०.१९ ॥ **
अश्रूयन्ताशिषः सत्यास् तत्र तत्र द्विजेरिताः ।
नानुरूपानुरूपाश् च निर्गुणस्य गुणात्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्याः श्री-कृष्णो तासाम् अव्यभिचारात्, किं तु नानुरूपाश् चानुरूपाश् च । निर्गुणस्य परमानन्दस्य “सुखी भव” इत्य्-आदयो नानुरूपाः, गुणात्मनो मानुष्य-नाट्यावतारेऽनुरूपाश् चेत्य् अर्थः । सन्धिर् आर्षः ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यद्यप्य् एषां गुणानां सर्वेषाम् अपि भगवति नित्यत्वम् एव, तथापि तत्-तल्-लीला-सिद्ध्य्-अर्थं तेषां क्वचित् कस्यचित् प्रकाशः कस्यचिद् अप्रकाशश् च भवति । अत एवाह—अश्रूयन्त इति । निर्गुणस्य मध्य-पद-लोपेन निर्गता गुणेभ्यो गुणा यस्य तस्य, प्राकृत-गुणातीत-नित्य-गुणस्य नानुरूपाः नित्य-तत्-परिपूर्णत्वेन लाभान्तरायोगात् । गुणात्मनः तद्-आशीर्वादाङ्गीकार-द्वारा तत्-तद्-गुण-विशेष-प्रवर्तक-निवर्तकस्य अनुरूपाश् च । तद्-अङ्गीकारे हेतुः—सत्या इति । तद् एवं प्रकाशनाप्रकाशन-हेतोर् एव श्री-भगवतश् चन्द्र-पर-परार्धोज्ज्वलतादिके सत्य् अपि तल्-लीला-माधुर्य-विस्तारकस् तमिस्रादि-व्यवहारः सिध्यति ॥१९॥ [प्रीति-सन्दर्भ १४९]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्याः कृष्णे तासाम् अव्यभिचारात्, किन्तु ता नानुरूपा अनुरूपाश् च । सन्धिर् आर्षः। ऐश्वर्य-दृष्ट्या निर्गुणस्य परमानन्दस्य “सुखी भव” इत्य्-आदयो नानुरूपाः, माधुर्य-दृष्ट्या गुणात्मनो ब्रह्मण्यत्व-प्रेम-वश्यत्वाद्य्-अप्राकृत-गुण-मयस्य तस्य अनुरूपश् च, “युष्माकम् आशीर्भिर् एव मम सदा सुखम्” इति तत्-प्रतिवचनस्य मिथ्यात्वानर्हत्वात् । तस्य दास्य-सख्य-वात्सल्यादि-रस-विषयाश्रयत्वे सति तद्-भक्त-जन-संयोग-विरहाद्य्-अलौकिक-सुख-दुःखादिमयत्वाच् च ॥१९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्र तत्र पथि पथि, सत्या यथार्थाः, आशीर्-विषयाणां, धर्माणां तस्मिन् सदैव सत्त्वात् । किन्तु नानुरूपा अनुरूपाश् च आसन् । सन्धिर् आर्षः । निर्गुणस्य माया-गुणैर् अस्पृष्टस्य चिद्-आनन्द-मूर्तेः कूटस्थस्य नानुरूपाः, मायोपाधेः सुख-दुःख-भाजो नृपादेर् जीवस्य ताः “सर्वदैव सुखी भव” इत्य्-आदयोऽप्राप्त-प्रार्थना-रूपास् ता अनुरूपाः स्युः। गुणात्मनो ब्रह्मण्यत्व-वृद्ध-सेवकत्व-प्रेम-वश्यत्वादि-स्वानुबन्धि-गुण-खनेर् अनुरूपास् तद्-आशिषाम् अतिप्रीत्य्-आङ्गीकारात् ॥१९॥
———————————————————————————————————————
**॥ १.१०.२० ॥ **
अन्योन्यम् आसीत् सञ्जल्प उत्तम-श्लोक-चेतसाम् ।
कौरवेन्द्र-पुर-स्त्रीणां सर्व-श्रुति-मनो-हरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वासां श्रुतीनां मनोहरः । उपनिषदोऽपि मूर्तिमत्यः सत्यस् तं सञ्जल्पम् अभ्यनन्दन्न् इत्य् अर्थः ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषाम् एव श्रुति-मनसी हरति इति सः । श्लेषेण सर्वासां श्रुतीनाम् अपि मनोहरः । उपनिषदोऽपि मूर्तिमत्यः सत्यः तं सञ्जल्पम् अभ्यनन्दन्न् इत्य् अर्थः ॥२०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सर्वासां श्रुतीनां मनोहरः, उपनिषद्-देव्योऽपि यं सञ्जल्पम् अभ्यनन्दन्न् इत्य् अर्थः । यद् वा, सर्वेषां श्रुतिं मनश् च हरतीति सः ॥२०॥
———————————————————————————————————————
**॥ १.१०.२१ ॥ **
स वै किलायं पुरुषः पुरातनो
य एक आसीद् अविशेष आत्मनि ।
अग्रे गुणेभ्यो जगद्-आत्मनीश्वरे
निमीलितात्मन् निशि सुप्त-शक्तिषु ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सत्त्वादि-शक्तिषु ।
श्री-भू-दुर्गेति याभिन्ना जीव-माया महात्मनः ।
आत्म-माया तद्-इच्छा सा गुण-माया जडात्मिका ॥ इति महा-संहितायाम् ॥२१॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र तेजः-सौन्दर्याद्य्-अतिशयेन विस्मिताभ्यः सखीभ्योऽन्याः स्त्रियः कथयन्ति । नात्र विस्मयः कार्यः, साक्षाद् ईश्वरत्वाद् अस्येति । स वा इति चतुर्भिः । वै स्मरणे । किल इति प्रसिद्ध्या प्रमाण-द्योतकम् । य एक एवाद्वितीयः पुरुष आसीत्, स एव अयं श्री-कृष्णः । कुत्रासीत् ? पूर्व-विशेषे आत्मनि निष्प्रपञ्चे निज-स्वरूपे । कदा ? अग्रे गुणेभ्यो गुण-क्षोभात् पूर्वम् । तथा निशि प्रलये च । तस्य लक्षणम्—जगताम् आत्मनि जीवे । निमीलितात्मनि निमीलितात्मन्न् इति लुप्त-सप्तम्य्-अन्तं पदम्, जाताव् एक-वचनम् । ईश्वरे लीन-रूपेषु जीवेषु सत्स्व् इत्य् अर्थः । ननु जीवानां ब्रह्मत्वात् कथं लयः ? तत्राह—सुप्तासु शक्तिषु सतीषु, जीवोपाधि-भूत-सत्त्वादि-शक्ति-लय एव जीव-लय इत्य् अर्थः ॥२१॥
———————————————————————————————————————
कैवल्य-दीपिका : शृङ्गार-रसो द्विविधः, सम्भोगो विप्रलम्भश् च । तत्र सम्भोग-शृङ्गारे कौरवेन्द्र-पुर-स्त्रियः—
अथ रति-स्थायिनम् उज्ज्वल-वेषात्मकम् उक्तम् युव-प्रकृतिकं स्त्री-पुंस-हेतुकं माल्य-ऋतु-शैल-पुर-हर्म्य-नदी-चन्द्रोपवन-दीर्घिका-जल-क्रीडादि-श्रूयमानानुभूयमान-विभावं जुगुप्सालस्यौष्ट-वर्ज-सञ्चारिणं गुणं दीर्घापाङ्ग-स्मिताद्य्-अनुभावं शृङ्गारं स-प्रभेदम् आह—शृङ्गार- इति ।
स्त्री-पुंसयोः सम्बन्धतया भोगः सम्भोगः । स च सम्बन्धश् चतुर्धा । परस्पर-दर्शन-स्पर्शन-संजल्प-सम्प्रयोग-भेदात् । भेदान्तराणां तत्रैवान्तर्-भावः । तथा हि—कुसुमावचयो दर्शने । चुम्बनालिङ्गन-केश-ग्रहादयो हि स्पर्शने । चन्द्रोदय-वर्णनादयस् तु संजल्पे । संसक्ततयापानं संस्पर्शने । एवम् अक्ष-जल-क्रीडादीनां सम्प्रयोगस्य तु स्पर्श-रूपत्वेऽपि प्राधान्यात् पार्थक्यम् ।
विप्रकर्षेण लम्भः प्राप्तिर् विप्रलम्भः । स च विप्रकर्षश् चतुर्धेति वक्ष्यते । तत्रापि सम्भोग-पूर्वको विप्रलम्भ इति सम्प्रयोगस्य प्राग् उक्तिः । स च सुखमय-धृति-स्मृति-मति-हर्षादि सञ्चारी । रोमाञ्च-स्वेद-कम्पाश्रु-मेखला-स्खलन-श्वसित-साध्वस-केश-बन्धन-वस्त्र-संयमन-वस्त्राभरण-माल्यादि-सम्यङ्-निवेशन-विचित्रेक्षण-गुण-वर्णन-चाटु-प्रभृति-वाचिक-कायिक-व्यापारानुभावाः । विभावास् तु प्राग्-उक्ताः । तत्र नायक-प्रयुक्ताद् अपि सम्भोगाद् अनुराग-प्राचूर्येण नायिका-प्रयुक्त एव प्रकृष्यत इति तं दर्शयन् दर्शन-सम्भोगम् अवतारयति—तत्र1 इति । कौरवेन्द्र-पुरं हस्तिनापुरम् ॥
स वै इत्य्-आदि । वै-शब्दः स्मरणे । किल-शब्दस् तत्-प्रेक्षायाम् । उत्प्रेक्षा च दुर्निरूप्यत्वात् य एकोऽद्वितीयः पुरुषः, सोऽयं कृष्णः पुरातनः । आद्यः कदा ? एकः । आत्मन्य् अविशेषे भेद-हेतूपाधि-रहिते स्वरूपे तद् अपि कदा अग्रे गुणेभ्यः गुण-स्वीकारात् पूर्वं तथा निशि गुणस्यागाद् अनन्तरम् । कदा गुण-त्यागः ?—जगद् इत्य्-आदि । प्रपञ्चाकारेण दर्शितम् आत्मानं यदा न दर्शयति । तथा सुप्त-शक्तिषु चिच्-छक्त्य्-आदयः शक्तयो यदा सुप्ता भवन्ति । आत्मन्न् इत्य् अत्र सुपां सुलुक् पूर्व-सवर्णेति सप्तम्य् आलुक् ॥२१॥ [मु।फ। ११.७]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अविवेश निष्प्रपञ्चे । आत्मनि स्व-स्वरूपे वैकुण्ठे _॥_२१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अत्र प्रथमं शान्ति-रतिमत्यः स-विस्मयं परस्परम् आहुः । यः पुरातनः पुरुषः अविशेषो निष्प्रपञ्चः । यद् वा, न विद्यते विशेषः वैशिष्ट्यम् उत्कर्षो यस्मात् तथाभूतः एक एव आसीत् । व्यासादि-मुखाद् अस्माभिः श्रुतोऽभूद् इत्य् अर्थः । स वै निश्चितम् अयम् एवेति तर्जनीभिर् दर्शयामासुः । कदा ? गुणेभ्योऽग्रे गुण-क्षोभात् पूर्वं, तथा निशि प्रलये महा-प्रलये च आत्मनि प्रकृत्य्-अन्तर्यामिनि ईश्वरेऽधिकरणे जगद्-आत्मनि सर्व-जगज्-जीवे निमीलितात्मनि लीन-स्वरूपे सति जात्या एक-वचनम् । सर्व-जीवेष्व् ईश्वरे लीनेषु सत्स्व् इत्य् अर्थः ।
ननु प्राकृतिक-प्रलये जीवानाम् अविद्यालयाभावात् लयोऽप्रसिद्धस् तत्राह—सुप्तासु शक्तिषु सतीषु जीवोपाधीनां लय एव जीव-लयोपचारः ।
यद् वा, स एव पुरातनः पूरुषोऽयं यो गुणेभ्योऽग्रे निशि प्रलये च आत्मनि स्व-स्वरूपे अविशेष एव आसीत्, यथा अधुना सपरिकरत्वेन विविधाद्भुत-लीलस् तथैव तदापीत्य् अर्थः । एकः अयम् एव न अन्यो ब्रह्मादिर् अपीत्य् अर्थः । अन्यत् समानम् ॥२१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वै निश्चये, किल प्रसिद्धौ, स एव पुरुषोऽयं देवकी-पुत्रः, यो गुणेभ्यो महद्-आदिभ्योऽग्रे प्राक् निशि महा-प्रलये च जगद्-आत्मनि प्रपञ्चस्थ-जीवे ईश्वरे प्रकृत्य्-अन्तर्यामिण्य् एतत्-स्वांशे निमीलितात्मनि विलीने सति य एकः स्वतन्त्रः सन्न् आत्मनि निज-स्वरूपे आसीद् इति श्रुतम् अस्माभिर् द्वैपायनादिभ्य इति शेषः ।
ननु तदा कीदृश आसीत्? तत्राह–अविशेष इति नास्ति विशेषो यस्माद् इति सर्वोत्कृष्टः सन् । यद् वा, इदानीम् इव तदापि स-परिकर-लील इत्य् अर्थः । जगद्-आत्मनि इति जात्यैक-वचनम्, जगज्-जीवेष्व् इत्य् अर्थः । ननु जीवानां नित्यत्व-श्रवणात् तल्-लयः कथं? तत्राह—सुप्ताः शक्तयो देहाद्य्-उपाधयो येषाम् इति देहादि-लयो जीवलय उपचरितः, ते किल प्रकृतौ सुप्ताः सन्तीति ॥२१॥
**॥ १.१०.२२ ॥ **
स एव भूयो निज-वीर्य-चोदितां
स्व-जीव-मायां प्रकृतिं सिसृक्षतीम् ।
अनाम-रूपात्मनि रूप-नामनी
विधित्समानोऽनुससार शास्त्र-कृत् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
अप्रसिद्धेस् तद्-गुणानाम् अनामासौ प्रकीर्तितः ।
अप्राकृतत्वाद् रूपस्याप्य् अरूपोऽसाव् उदीर्यतः ॥ इति वासुदेवाध्यात्मे ॥२२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं सृष्टेर् आदौ प्रलयानन्तरं च निष्प्रपञ्चाव् अवस्थानम् उक्त्वा सृष्टि-प्रलययोर् मध्ये स-प्रपञ्चावस्थानम् आहुः । स एव अप्रच्युत-स्वरूप-स्थितिर् एव प्रकृतिम् **अनुससार **अधिष्ठितवान् । भूयः पुनः, सृष्टि-प्रवाहस्यानादितत्वात् । कीदृशीम् ? **निज-वीर्य-चोदितां **स्व-काल-शक्ति-प्रेरिताम् । स्वांश-भूतानां जीवानां मायां मोहिनीम् । अत एव सिसृक्षतीं स्रष्टुम् इच्छन्तीम् । किम्-अर्थम् अनुससार ? अनाम-रूपे आत्मनि जीवे रूप-नामनी विधातुम् इच्छन्, उपाधि-सृष्ट्या जीवानां भोगायेत्य् अर्थः । कर्माणि च विधातुं वेदान् कृतवान् इत्य् आहुः—शास्त्र-कृद् इति ॥२२॥
———————————————————————————————————————
कैवल्य-दीपिका : स वै इत्य्-आदि । वै-शब्दः स्मरणे । किल-शब्दस् तत्-प्रेक्षायाम् । उत्प्रेक्षा च दुर्निरूप्यत्वात् य एकोऽद्वितीयः पुरुषः, सोऽयं कृष्णः पुरातनः । आद्यः कदा ? एकः । आत्मन्य् अविशेषे भेद-हेतूपाधि-रहिते स्वरूपे तद् अपि कदा अग्रे गुणेभ्यः गुण-स्वीकारात् पूर्वं तथा निशि गुणस्यागाद् अनन्तरम् । कदा गुण-त्यागः ?—जगद् इत्य्-आदि । प्रपञ्चाकारेण दर्शितम् आत्मानं यदा न दर्शयति । तथा सुप्त-शक्तिषु चिच्-छक्त्य्-आदयः शक्तयो यदा सुप्ता भवन्ति । आत्मन्न् इत्य् अत्र सुपां सुलुक् पूर्व-सवर्णेति सप्तम्य् आलुक् ॥२२॥ [मु।फ। ११.८]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं सृष्टेः पूर्वं प्रलयानन्तरं चाप्रच्युत-रूप-गुण-लीलात्वेनैवावस्थानम् उक्त्वा तन्-मध्येऽपि तथैव नित्यावस्थितिं वक्तुं सृष्ट्य्-आरम्भे स्वांशान्तरेण लीलान्तरम् अप्य् आहुः—स एवेति । शास्त्र-कृत् शास्त्र-निष्क्रम-प्रथम-क्षण एव वेदादि-शास्त्राविर्भाव-कारी महा-विष्णुः सन् प्रकृतिं अनुससार ।
ननु प्रकृत्य्-अनुगतत्वं नाम प्रकृत्य्-अधीनत्वं तच् च दोष एव ? मैवं । निज-वीर्येण निज-बलेन प्रेरितां स्व-वशीकृत्य कस्मिंश्चन कृत्ये नियुक्तां स्व-शक्ति-रूपाणां जीवानां मायां मोहिनीं वशयित्रीम् । किम्-अर्थम् अनुससार ? अनाम-रूपे आत्मनि जीवे **रूप-नामनी **देव-तिर्यङ्-मनुष्यादि-लक्षणे विधित्समानः विधातुम् इच्छन् स्थूल-सूक्ष्मोपाधि-सृष्ट्या जीवानां तद्-अध्यासेनेत्य् अर्थः । कर्म-ज्ञान-योग-भक्ति-साधन-सिद्ध्य्-अर्थं तु प्रकृत्य्-अनुगमनात् पूर्वम् एव वेद-शास्त्राणि कृतवान् एवेति शास्त्र-कृत् ॥२२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **देवकी-पुत्रस्य जगत्-कर्तृत्वम् आहुः—स एव इति । यः सृष्टेः पूर्वम् आत्मन्य् अविशेष आसीत्, स एव कृष्णो भूयः पुनः सङ्कर्षणेन स्वांशेन प्रकृतिम् अनुससार । कादृशीं? निज-वीर्येण स ऐक्षत लोकान् नु सृजा इति स्व-कटाक्षेण चोदितां प्रेरितां स्व-शक्ति-भूतानां जीवानां मायां मोहयित्रीम् इति स्वातन्त्र्येणैव तद्-अनुसृतिर् इत्य् अर्थः । सिसृक्षतीं तद्-वीक्षणाप्त-सामर्थ्यान्-महद्-आदि-तत्त्व-स्रष्ट्रूम् इत्य् अर्थः । किम्-अर्थम् अनुससार ? अनाम-रूपे नाम-रूप-शून्ये आत्मनि जीवे रूप-नामनी देव-मानवादि-लक्षणे **विधित्समानश् **चिकीर्षन् । भोग-व्याकुलस्य जीवस्य तद्-योगेन भोग-सिद्ध्य्-अर्थम् इति भावः । कीदृशः सन्न् अनुससार ? तत्राह—शास्त्र-कृद् इति । प्रकृति-वीक्षणात् पूर्वम् एव कर्म-योग-भक्ति-तत्त्व-बोधकं वेदं यः स्व-निश्वसित-रूपं प्रकटितवान् इत्य् अर्थः ॥२२॥
॥ १.१०.२३ ॥
स वा अयं यत्-पदम् अत्र सूरयो
जितेन्द्रिया निर्जित-मातरिश्वनः ।
पश्यन्ति भक्त्य्-उत्कलितामलात्मना
नन्व् एष सत्त्वं परिमार्ष्टुम् अर्हति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य दर्शनम् अतिदुर्लभम् अस्माभिर् लब्धम् इत्य् आहुः—स वै अयम् । यस्य पदं स्वरूपम् अङ्घ्रिं वा । निर्जितो मातरिश्वा प्राणो यैः, ह्रस्वत्वम् आर्षम् । ते सूरय एव पश्यन्ति । केन ? भक्त्या उत्कलित उत्कण्ठितोऽमलो य आत्मा बुद्धिः, तेन । दृश्यते त्व् अग्र्यया बुद्ध्या इति श्रुतेः । बुद्धि-वैमल्यस्याप्य् अयम् एव हेतुर् इत्य् आहुः ।
ननु हे सखि, एष एव सत्त्वं बुद्धिं परिमार्ष्टुं सम्यक् शोधयितुम् अर्हति, न तु योगादाय इत्य् अर्थः । यद् वा, अहो एषसत्त्वं ज्ञानं परिमार्ष्टुं नाशयितुं दूर-गमनेनाप्रत्यक्षी-भवितुं नार्हति, किन्त्व् अनेन सहैव गन्तव्यम् इत्य् अर्थः ॥२३॥
———————————————————————————————————————
**कैवल्य-दीपिका : **निराकारम् उक्त्वा साकारं निरूपयति—स एव इति । स एव निराकार एव । प्रकृतिम् अनुससार, अधिष्ठितत्वात् । भूयः सृष्टि-प्रवाहास्यानादित्वात् । निज-वीर्य-चोदितां काल-प्रेरिताम् । अत एव स्व-जीव-मायां सिसृक्षतीं स्वस्मिन्न् ईश्वरे जीव-मायाम् असत्यं जीव-सत्त्वं स्रष्टुम् इच्छन्तीम् । अरूपस्य रूपाणि, अनाम्नो नामानि, सञ्चित्यानुससार । तानि चान्ये जानन्त्व् इति । शास्त्रकृत् शास्त्रं वेदः ॥२३॥ [मु।फ। ११.९]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु सृष्ट्य्-आरम्भे पुरुषादयोऽवतारा लक्ष्यन्ते, न त्व् एष ईदृश-प्रकारः, किन्तु वैवस्वत-मन्वन्तरीयाष्टाविंशति-चतुर्थ-युग-स्थ-द्वापरे सम्प्रत्य् एवैष उपलभ्यते ? सत्यम्, असौ भक्ति-गम्यो नित्य-स्वरूपो नित्य-लीलोऽस्मिन् द्वापर एवावतीर्णोऽप्य् अस्य भक्तिमद्भिः सदैवायम् उपलभ्यते इत्य् आह—स वा इति ।
निर्जितो मातरिश्वा प्राणो यैः, ह्रस्वत्वम् आर्षम् । यद् वा, निर्जितात् मातरिश्वनः प्राणाद् धेतोर् निर्जितेन्द्रियाः सर्वेन्द्रियाणां प्राणाधीन-वृत्तित्वात्, प्राण-जयाद् एव निर्जितेन्द्रिया इत्य् अर्थः । तथा-भूता अपि भक्त्या उत्कण्ठितोऽमलो य आत्मा बुद्धिः, तेनैव यस्यपदं स्वरूपं चरणारविन्दं वा पश्यन्ति । दृश्यते त्व् अग्र्यया बुद्ध्या इतिश्रुतेः । बुद्धि-वैमल्यस्याप्य् अयम् एव हेतुर् इत्य् आहुः ।
नन्व् इति । ननु निश्चितम् एष एव सत्त्वं बुद्धिं परिमार्ष्टुं सम्यक् शोधयितुम् अर्हति, न तु योगादयः, तेन सूरित्वं जितेन्द्रियत्वं जित-प्राणत्वं च तेषां भक्त्यैव, न तु प्राणायामादिभिर् इति भावः । अत्र सूरयो भक्त्य्-उत्कण्ठत्वे सत्य् एव पश्यन्ति इति वर्तमान-निर्देशेन सार्वकालिक-दृष्टि-गोचरत्वात् तस्य सार्वदिक-लीलत्वम् । अतः परार्धान्ते सोऽबुध्यत गोप-वेशो मे पूरुषः पुरस्ताद् आविर्बभूव [गो।ता।उ। १.२६] इति गोपाल-तापनी-श्रुतौ ब्रह्म-वाक्यम् । तथा ब्रह्म-संहितायां सृष्ट्य्-आरम्भेऽपि गोप-वेशः कृष्ण एव दृष्टः स्तुतश् च ॥२३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न चायं द्वापरान्ते एवाधुनावतीर्णः, पुरेदृशो नासीद् इति मन्तव्यः, परार्धान्ते विरिञ्चाय स्रष्टृत्वं दत्तवान् इति श्रवणाद् इति भावेनाहुः—यो विरिञ्चस्यापि पुरोपदेष्टा, स एव अयम् अधुनावतीर्णः । सूरयः सनकादयोऽत्र जगति निर्जितान् मातरिश्वनः प्राणाद् धेतोर् जितेन्द्रियाः सन्तो भक्त्य्-उत्कलितेन भक्त्य्-उत्कन्ठितेन अमलेनात्मना बुद्ध्या यं पदं पश्यन्ति यच् चरणं वीक्षन्ते, श्रद्धा-भक्ति-ध्यान-योगाद् अवैति [?] इत्य्-आदि-श्रवणात् । बुद्धि-वैमल्यम् अप्य् एतत् कृपा-हेतुकम् एव, न तु केवलेन योगेनेत्य् आह—ननु निश्चये । सत्त्वं चित्तं, यद् उक्तं स्वयम् एव—युक्त आसीत मत्-परः [गीता २.६१] इत्य्-आदि ॥२३॥
———————————————————————————————————————
**॥ १.१०.२४ ॥ **
स वा अयं सख्य् अनुगीत-सत्-कथो
वेदेषु गुह्येषु च गुह्य-वादिभिः ।
य एक ईशो जगद्-आत्म-लीलया
सृजत्य् अवत्य् अत्ति न तत्र सज्जते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुण्य-श्लोकताम् आहुः । हे सखि, यो वेदेषु रहस्य् आगमेषु च रहस्य-निरूपकैर् अनुगीत-सत्-कथः, अनुगीताः सत्य-कथा यस्य स एवायम् । गान-प्रकारम् आहुः—य एक ईश इत्य्-आदि ॥२४॥
———————————————————————————————————————
**कैवल्य-दीपिका : **निराकारम् उक्त्वा साकारं निरूपयति—स एव इति । स एव निराकार एव । प्रकृतिम् अनुससार, अधिष्ठितत्वात् । भूयः सृष्टि-प्रवाहास्यानादित्वात् । निज-वीर्य-चोदितां काल-प्रेरिताम् । अत एव स्व-जीव-मायां सिसृक्षतीं स्वस्मिन्न् ईश्वरे जीव-मायाम् असत्यं जीव-सत्त्वं स्रष्टुम् इच्छन्तीम् । अरूपस्य रूपाणि, अनाम्नो नामानि, सञ्चित्यानुससार । तानि चान्ये जानन्त्व् इति । शास्त्रकृत् शास्त्रं वेदः ॥२४॥ [मु।फ। ११.१०]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, अस्य लीला-कथातिरहस्या रहस्य-लोकैर् एव वेदेत्य् आह—स वा इति । अयम् अर्जुनस्य सखा नराकृतिः वेदेषु गुह्येषु शास्त्रेषु च गुह्य-वादिभिर् अतिरहस्यस्य रूपकैर् अस्यैव कैर् अपि लोकैर् अन्गीताः सत्यः कथा यस्य सः । यः खलु एक एव ईशः ईश्वरः सन्, न तु साक्षाद् एतद्-रूप इत्य् अर्थः ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नन्व् एवम् एनं सर्वे न वदन्ति? तत्राहुः—इति । हे सखि! स एवायं गुह्येषु वेदेषु गोपाल-तापन्य्-आदिषु गुह्य-वादिभिर् एतद्-रहस्य-वक्तृभिर् दुर्वासः-प्रभृतिभिर् अनु निरन्तरं गीता सत्-कथा यस्य सः । अनुगान-प्रकारम् आह—य इति । एकः सहाय-शून्यः ।
ॐ नमो विश्व-रूपाय विश्व-स्थित्य्-अन्त-हेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः [गो।ता।उ। १.३५] इत्य्-आदिभिः ॥२४॥
———————————————————————————————————————
**॥ १.१०.२५ ॥ **
यदा ह्य् अधर्मेण तमो-धियो नृपा
जीवन्ति तत्रैष हि सत्त्वतः किल ।
धत्ते भगं सत्यम् ऋतं दयां यशो
भवाय रूपाणि दधद् युगे युगे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं-भूतस्य नानावतारे कारणम् आहुः—यदा हि इति । तमो-व्याप्ता धीर् येषां ते नृपा यदाधर्मेण जीवन्ति केवलं प्राणान् पुष्णन्ति, तत्र तदा एष एव भवाय स्थित्यै सत्त्वतो विशुद्ध-सत्त्वेन रूपाणि दधद् भगादीनि धत्ते प्रकटयति । युगे युगे तत् तद् अवसते । भगम् ऐश्वर्यम् । सत्यं सत्य-प्रतिज्ञत्वम् । र्टं यथार्थोपदेशकत्वम् । दयां भक्त-कृपाम् । यशोऽद्भुत-कर्मत्वम् ॥२५॥
———————————————————————————————————————
**कैवल्य-दीपिका : **अवतार-रूपं निरूपयति—यदा इति । सत्त्वतः कृष्णः । रूपाणि दधत् जगद्-आदीनि धत्ते। भगं भजनीयत्वम् । सत्यं सत्य-प्रतिज्ञात्वम् ऋतं सत्योपदेशकत्वम् । दयां भक्तानुकम्पाम् । यशोऽद्भुत-कर्मत्वम् । भवाय स्थित्यै ॥२५॥ [मु।फ। ११.११]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **साक्षाद् अस्यावतारस्य काल-देश-पात्रेषु जिज्ञास्येषु प्रथमं कालम् आहुः—यदा इति । नृपाः कंसादयः सत्त्वतः सत्त्वेनोत्तमत्वेन विशिष्टं भगादिकं धत्ते इत्य् अन्वयः । भगं षड्-ऐश्वर्यम् । ऋतं सुनृत-वाक्यम् । रूपाणि व्रज-मथुरा-द्वारकोचितानि सौन्दर्याणि । भवाय भूत्यै । युगे युगे कल्पे कल्पे वैवस्वताष्टाविंश-चतुर्युगीये द्वापरे द्वापरे वा ॥२५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कृष्णस्य नानावतार-प्राकट्ये हेतुम् आह—यदा तमो-धियः आसुर-प्रकृतयो नृपा अधर्मेण जीवन्ति देह-यात्रां कुर्वन्ति, तदा एष कृष्णः सत्त्वतः सत्त्व-गुणं जगति प्रवर्ध्य युगे युगे तत्-तत्-समये विश्वस्य भवाय विवृद्धये वराहादीनि रूपाणि दधत् प्रकटयन् भगादीनि धत्ते प्रकाशयति । भगम् ऐश्वर्य-षट्कं । सत्यं यथार्थ-भाषणम् । ऋतं गतं सञ्चरणम् ॥२५॥
———————————————————————————————————————
**॥ १.१०.२६ ॥ **
अहो अलं श्लाघ्यतमं यदोः कुलम्
अहो अलं पुण्यतमं मधोर् वनम् ।
यद् एष पुंसाम् ऋषभः श्रियः पतिः
स्व-जन्मना चङ्क्रमणेन चाञ्चति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विशेषतः श्री-कृष्णावतार-सौभाग्यं वर्णयति—अहो इति पञ्चभिः । यद् यस्माद् एष पुरुषोत्तमः श्रियः पतिः स्व-जन्मना यदोः कुलम् अञ्चति पूजयति सत् करोति । अत श्लाघ्यतमं तत् । चङ्क्रमणेन च मधोर् वनं मथुरां सत् करोति । अतस् तत् पुण्यतमम् इति । तम् अप्य् अप्रत्ययार्थस्याप्य् अत्यन्तातिशयेऽलम् इति । तत्राप्य् आश्चर्ये अहो इत्य् उक्तम् ॥२६॥
———————————————————————————————————————
**कैवल्य-दीपिका : **कृष्ण-सङ्गम-स्पृहां निरूपयन्ति—अहो इत्य्-आदि । अहो आश्चर्यम् । अलम् अत्यर्थम् । मधोर् वनं मथुरा, यत् कुलं वनं च स्व-जन्म-चङ्क्रमनणाभ्याम् अञ्चति गच्छति । पूजयति मानयति च । पुंसाम् ऋषभः श्रियः प्रिय इत्य् आभ्यां स्त्रीणां स्पृहणीयं चिर-ललितं चोक्तम् ॥२६॥ [मु।फ। ११.१२]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अहो इति । पुंसाम् ऋषभः सर्वावतारावतारिणां मध्ये श्रेष्ठः ॥२६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पात्र-देशाव् आहुः—अहो इति । यदोः कुलं शॢआघ्यतमम् इत्य् अनेनैव द्वयोर् उत्कर्षे सिद्धे पुण्यतमम् इति पृथग्-उक्तिः । देशस्य पुण्यदत्वेनैवोत्कर्षस्य प्रसिद्धेः, तत्र तम् अप्य् अप्रत्ययार्थस्याप्य् अत्यन्तातिशये अलम् इति । तत्राप्य् अतिशयाश्चर्येऽहो इति । यत् स्व-जन्मना चङ्क्रमणेन गमनेन च-काराद् अन्यैर् अपि विविधाद्भुत-कर्माभिर् अञ्चति पूजयति सत्करोतीति यावत् । अत्र “अलं च” इत्य् अनुक्त्वा अञ्चतीति वर्तमान-निर्देशेन जन्मादि-लीलानां नित्यत्वं बोधयामासुः । उपक्रमतः एव य एक आसीद् इति भूत-निर्देशेन तासां तथाभिप्रायस्यावगमात् ।
ननु कथं जन्म-कर्मणोर् नित्यत्वं ? ते हि क्रिये क्रियात्वं च प्रति निजांशम् अप्य् आरम्भ-परिसमाप्तिभ्याम् एव सिद्ध्यति इति ते विना स्वरूप-हान्य्-आपत्तिः । नैष दोषः । श्री-भगवति सदैवाकारानन्त्यात् प्रकाशानन्त्याज् जन्म-कर्म-लक्षण-लीलानन्त्यात् अनन्त-प्रपञ्चानन्त-वैकुण्ठ-गत-तत्-तल्-लीला-स्थान-तत्-तल्-लीला-परिकराणां व्यक्ति-प्रकाशयोर् आनन्त्याच् च, यत एव सत्योर् अपि तत्-तद्-आकार-प्रकाश-गतयोस् तद्-आरम्भ-परिसमाप्त्योर् एकत्रैकत्र ते जन्म-कर्मणोर् अंशा यावत् परिसमाप्यन्ते न समाप्यन्ते वा तावद् एवान्यत्रान्यत्राप्य् आरब्धा भवन्तीत्य् एवं श्री-भगवति विच्छेदाभावान् नित्ये एव तत्र ते जन्म-कर्मणी वर्तेते । तत्र ते क्वचित् किञ्चिद् विलक्षणत्वेनारभ्येते, क्वचिद् ऐकरूप्येण चेति ज्ञेयं । विशेषण-भेदाद् विशेषणैक्याच् च । एक एवाकार-प्रकाश-भेदेन पृथक्-क्रियास्पदं भवतीति—चित्रं बतैतद् एकेन वपुषा [भा।पु। १०.६९.३] इत्य् आदौ प्रतिपादयिष्यते । ततः क्रिया-भेदात् तत्-तत्-क्रियात्मकेषु प्रकाश-भेदेष्व् अभिमान-भेदश् च गम्यते । तथा सत्य् एकत्रैकत्र लीला-क्रम-जनित-रसोद्बोधश् च जायते ।
ननु कथं ते एव जन्म-कर्मणी वर्तेते इत्य् उक्तं पृथग्-आरब्धत्वाद् अन्ये एव ते आस्ताम् ? उच्यते—काल-भेदेनोदितानाम् अपि समान-रूपाणां क्रियाणाम् एकत्वम् । यथा शङ्कर-शारीरके । द्विर्गो-शब्दोऽयम् उच्चरितो न तु द्वौ गो-शब्दाव् इति प्रतीति-निर्णीतं शब्दैकत्वम् । तथैव द्विः पाकः कृतोऽनेन, न तु द्वौ पाकाव् इति । ततो जन्म-कर्मणोर् अपि नित्यता युक्त्यैव अत एव आगमादौ अपि भूत-पूर्व-लीलोपासन-विधानं युक्तम् । तथा चोक्तं माध्व-भाष्ये परमात्म-सम्बन्धित्वेन । नित्यत्वात् त्रिविक्रमत्वादिष्व् अप्य् उपसंहार्यत्वं युज्यत इति । अनुमतं चैतत् श्रुत्या । यद् भूतं भवच् च भविष्यच् चेत्य् अनयैव उपसंहार्यत्वम् उपासनायाम् उपादेयत्वम् इत्य् अर्थः । तत्र तस्य जन्मनः प्राकृताद् अस्माद् विलक्षणत्वं प्राकृत-जन्मानुकरणेनाविर्भाव-मात्रत्वम्, क्वचित् तद्-अनुकरणेनेति भगवत्-सन्दर्भः । केचित् तु तद्-भक्त-धामादीनाम् इवानन्त-प्रपञ्च-नित्य-धामसु जन्म-कर्मणोर् अपि प्रकाश-बाहुल्यान् नित्य-सत्त्व-सिद्धेर् इत्य् आहुः ॥२६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यदा स्वयम् एवाविर्भवेत्-तदास्मिन् लोके परानन्द-समृद्धिर् इत्य् आहुः—अहो इति । मधोर् वनं माथुर-मण्डलम्, अत्र श्लाघ्यतमम् इत्य् अनेनैवोभयोर् महोत्कर्षे सिद्धे पुण्यतमम् इति पृथग् उक्तिः, तद्-देशस्य पुण्यतमतयोत्कर्षख्याते । अहो-अलं-पदाभ्याम् अनवधिः श्लाघ्यता बोध्यते । तत्र हेतुर् **यद् **इति । एषोऽनन्त-गुणोऽतिलावण्य-सिन्धुर् देवकी-पुत्रः । स्व-जन्मना चङ्क्रमणेन पाद-सञ्चारणेन, चाद्भूतैर् विहारैश् च तद् उभयम् अञ्चति पूजयन् विभाति । कीदृशः? श्रियो रुक्मिण्या वार्षभनव्याश् च पतिः कान्तः । वसुदेवादयो नन्दादयश् च यदु-वंशोद्भवाः, सा च सा च श्री-स्तन-मण्डलस्थेति गोपाल-तापन्यां प्रसिद्धम् । अत्राञ्चतीति वर्तमान-प्रयोगाद् इदानीम् अप्य् एष तत्र तत्रास्तीति सूचयन्ति । एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा [राधोप। ४.३] इति वदता द्वैपायनेनैवम् उपदिष्टम् इति भावः ॥२६॥
———————————————————————————————————————
**॥ १.१०.२७ ॥ **
अहो बत स्वर्-यशसस् तिरस्करी
कुशस्थली पुण्य-यशस्करी भुवः ।
पश्यन्ति नित्यं यद् अनुग्रहेषितं2
स्मितावलोकं स्व-पतिं3** स्म यत्-प्रजाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वारकां श्लाघन्ते । अहो बत इत्य् आश्चर्यम् । किं तत् ? कुश-स्थली द्वारका । स्वर उत्कृष्ट इति यद् यशस् तस्य तिरस्-करी परिभव-कर्त्री । भुवश् च पुण्य-यशः-कर्त्री भवति । यद् यतो यत्रत्याः सर्वाः प्रजाः स्वानुग्रहेणेषितं प्रेषितम् । स्मित-पूर्वकोऽवलोको यस्य तम् । यद् वा, अनुग्रहार्थम् इषितम् इष्टम् । “अनुग्रहोषीतम्” इति पाठे स्वानुग्रहार्थम् ऊषितं कृत-निवासम् । एक-पद्य-पाठे त्व् अनुग्रहेणोषितं यत् स्मितं, तत्-पूर्वकोऽवलोको यस्य तम् । स्वस्य आत्मनः पतिं श्री-कृष्णं, न तु पित्रादिवद् देह-मात्र-पतिं नित्यं पश्यन्ति स्म । नैतत् स्वर्गेऽस्तीत्य् अर्थः ॥२७॥
———————————————————————————————————————
कैवल्य-दीपिका : अहो इति । अहो बत अहो आश्चर्यम् । कुशस्थली द्वारका । यच्-छब्दाभ्यां सैव स्मित-युक्त अवलोको यस्य तम् । स्व-पतिं कृष्णम् । स एव हि स्वस्य आत्मनः पतिः । अन्य-देहस्य । यदु-कुलादीनि धन्यानि, न त्व् अत्रान्यस्य कस्यचित् कुलम् एतत् परं वा । यद् ईदृशेन नायक-रत्नालङ्कृतम् इति भावातिशयः ॥२७॥ [मु।फ। ११.१३]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-पतिं पश्यन्ति । अत्र च स्मितावलोकं पश्यन्तीत्य् अर्थः ॥२७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मधु-वनं स्तुत्वा द्वारकां स्मरन्त्य आहुः । अहो कुश-स्थली द्वारका स्वर् यशस इति लोक-रीत्यैवोक्तिः, न तु सिद्धान्त-रीत्या स्वं-शब्देन वैकुण्ठाभिधानं वा । यद् यतः यत् प्रजाः यत्रत्याः प्रजाः स्व-पतिं कृष्णम् अनुग्रहेणैव ईषितं प्रोषितं सर्व-सुख-दानार्थम् अन्तः-पुराद् धस्तिनापुरादि-स्थलाद् वा प्रस्थापितम् इत्य् अर्थः । यद् वा, अनुग्रह एव ईषित इष्टो यत्र तम् अनुग्रह-मात्र-प्राप्त्य्-अर्थम् इत्य् अर्थः । “अनुग्रहोषितम्” इति पाठे स्वानुग्रहार्थम् उषितं कृत-निवासः । नैतत् स्वर्गेऽस्तीत्य् अर्थः ॥२७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवं मधुवनं संस्तूय द्वारकां स्तुवन्ति—अहो सख्यः, बत इति आश्चर्ये, कुशस्थली द्वारका । स्वर्-यशसः स्वर्गादि-सत्यान्त-कीर्तेस् तिरस्करी न्यक्-कर्त्री तल्-लोक-पतिभिः स्व-स्व-कार्य-सिद्धये तस्याः समाश्रयणात्, भुवः पुण्य-यशस्करी, भू-स्थितायां तस्यां पावित्र्यङ्करानेक-भगवच्-चरित्राणां प्राकट्यात् स्वर्गादि-लोकानूनयन्ती भुवम् उत्कर्षयन्तीत्यविचिन्त्यः तस्याः प्रभावः ।
अथ तद्-वासिनः स्तौति—यद् यतो यत्रत्याः प्रजाः स्व-पतिं नित्यं स्मितावलोकं पश्यन्ति । अनुग्रह एव ईषित इष्टो यस्य तं । यत्-प्रजानां सर्वेश्वरो हरिः सदैवातिप्रसन्न इत्य् अर्थः । न चैवंभावः स्वर्गादाव् अस्तीति ॥२७॥
———————————————————————————————————————
**॥ १.१०.२८ ॥ **
नूनं व्रत-स्नान-हुतादिनेश्वरः
समर्चितो ह्य् अस्य गृहीत-पाणिभिः ।
पिबन्ति याः सख्य् अधरामृतं मुहुर्
व्रज-स्त्रियः सम्मुमुहुर् यद्-आशयाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हे सखि ! अस्य गृहीत-पाणिभिः पत्नीभिर् ईश्वरोऽयम् एव नूनं जन्मान्तरेषु समर्चितः । यस्मिन्न् अधरामृते आशयश् चित्तं यासां, ताः संमोहं प्राप्ता इति मनोहरत्वम् उक्तम् ॥२८॥
———————————————————————————————————————
**कैवल्य-दीपिका : **स्पर्श-सम्भोगम् आह—नूनम् इत्य्-आदि । नूनं-शब्दो वितर्के, कृष्णस्य गृहीत-पाणिभिः पत्नीभिः ईश्वरोऽर्चितः । पूर्व-जन्मसु अयम् इति वाच्यम् ईश्वरोक्ति-लोक-दृष्ट्या । यस्य अधरामृतस्य आशया अभिलाषेण व्रज-स्त्रियः संमुमुहुः । व्रज-स्त्रीणां पुर-स्त्रीत्वात् । स्व-धर्म-त्यागात् संमोहाख्य-नवम-स्मर-दशोत्पत्तेश् च पुरुषोत्कर्षः ॥२८॥ [मु।फ। ११.१४]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **[तथा अहो अलं श्लाघ्यतमं यदोः कुलम् [भा।पु। १.१०.२६] इत्य्-आदि-पद्य-त्रयात्मके प्रथम-स्कन्ध-सम्बन्धिनि पुर-स्त्री-वाक्येऽपि, तेषु प्रथम-द्वयं सर्वस्य मथुरा-व्रज-द्वारका-वासिनो जनस्य भाग्य-महिमा-प्रतिपादकम् । तृतीयं खलु—]4 नूनं इत्य् एतत् । अत्र पट्ट-महिषीणां भाग्य-श्लाघायाम् अपि श्री-व्रज-देवीनाम् एव हि परमोत्कृष्टत्वम् आस्वादाभिज्ञतरत्वं चायातम् । यस्यामृतस्य माधुर्य-स्मरणे देवा अपि मुह्यन्ति, तन् मनुष्येणाप्य् अनेनास्वाद्यत इतिवत् । तस्मात् तासाम् एव सर्वोत्तम-भावना ॥२८॥
नूनम् इति । अत्र पट्ट-महिषीणां भाग्य-श्लाघायाम् अपि श्री-व्रज-देवीनाम् एव हि परमोत्कृष्टत्वम् आस्वादाभिज्ञतरत्वम् आयातम् । यस्यामृतस्य माधुर्य-स्मरणे देवा अपि मुह्यन्ति, तन् मनुष्येणाप्य् अनेनास्वाद्यत इतिवत् । तस्मात् तासाम् एव सर्वोत्तम-भावना । अत्र विशेष-जिज्ञासायां श्री-प्रीति-सन्दर्भो [९२] दृश्यः ।
किं च, स वै किलायं [भा।पु। १.१०.२१] इत्य् आदौ, पिबन्ति याः सख्य् अधरामृतम् [१.१०.२८] इत्य् अन्ते ज्ञान-विवेकादि-प्रकाशेन हि शान्त-रस एवोपक्रान्तः, उपसंहारश् च शृङ्गारः । तेन चास्य वत्सलेनेव मिलन-सङ्कोच एवेति परस्परम् अयोग्य-सङ्गत्याभास्यते । अत्र समाधीयते चान्यैः । स वै किल इत्य्-आदिकम् अन्यासां वाक्यम् । नूनम् इत्य्-आदिकं त्व् अन्यासाम् । एवं-विधा वदन्तीनां [भा।पु। १.१०.३१] इत्य्-आदि-श्री-सूत-वाक्यं च सर्वानन्दन-परम् एवेति ॥२८॥ [प्रीति-सन्दर्भ १७४]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्रोज्ज्वल-रसौत्सुक्यवत्य आहुः । नूनम् अस्य गृहीत-पाणिभिः पत्नीभिर् या अधरामृतं मुहुर् मुहुः पिबन्ति, वयं त्व् अकृत-तादृश-व्रताः सम्प्रत्य् एव सौन्दर्यामृतम् एव किञ्चिद् एव पिबाम इति भावः । किं चास्मत्तः कोटि-गुणतोऽप्य् अधिका अपि व्रज-सुन्दरीभ्यः सकाशाद् अति न्यूना इत्य् आहुः—यद्-आशयाः यस्मिन्न् अधरामृते आशयाश् चित्तं यासां, तथाभूता एव सत्यः संमुमुहुः “रात्रौ पीत-चरस्याधरामृतस्य प्रातः-स्मरणेऽपि आनन्द-मूर्च्छां प्रापुः । न जाने पान-काले ताः कीदृशीं दशां प्रापुः” इति तासां प्रेमाधिक्याद् आनन्दाधिक्यं द्योतितम् ॥२८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : द्रौपद्य्-आदि-प्रसङ्गिनो युवतयो वदन्ति—नूनम् इति । हे सखि! अस्य कृष्णस्य गृहीत-पाणिभिः पत्नीभिर् “ईश्वरोऽयम् एव जन्मान्तरेषु समर्चितः, हि यतोऽस्याधरामृतं मुहुः पिबन्ति, यद्-आशया यच्-चित्ताः सत्यो व्रज-स्त्रियः संमुमुहुः । रात्रौ निपीतस्य तस्य प्रातः स्मरणेऽप्य् आनन्द-मूर्च्छां प्रापुर् इत्य् अधिक-प्रेमत्वं तासाम् । अस्माकं तु सौन्दर्यामृत-पानेनैव सफलत्वम् इति भावः ॥२८॥
———————————————————————————————————————
**॥ १.१०.२९-३० ॥ **
या वीर्य-शुल्केन हृताः स्वयंवरे
प्रमथ्य चैद्य-प्रमुखान् हि शुष्मिणः ।
प्रद्युम्न-साम्बाम्ब-सुतादयोऽपरा
याश् चाहृता भौम-वधे सहस्रशः ॥
एताः परं स्त्रीत्वम् अपास्त-पेशलं
निरस्त-शौचं बत साधु कुर्वते ।
यासां गृहात् पुष्कर-लोचनः पतिर्
न जात्व् अपैत्य् आहृतिभिर् हृदि स्पृशन् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् प्रपञ्चयति—या इति द्वाभ्याम् । वीर्यं प्रभाव एव शुल्कं मूल्यं, तेन । शुष्मिणो बलिष्टान् । प्रद्युम्नश् च साम्बश् च अम्बश् च सुता यासां रुक्मिणी-जाम्बवती-नाग्नजितीनां ता आदिर् यासां सत्यभामादीनां, ताः । याश् च अपराः । अस्य श्लोकस्य उत्तर-श्लोकेनान्वयः ॥२९॥
एताः स्त्रीत्वम् एव परं केवलं साधु शोभनं कुर्वते । किं-भूतम् ? अपास्तं गतं पेशलं भद्रं स्वातन्त्र्यं यस्मात् तत् । निरस्तं शौचं शुचित्वं यस्मात्, तथा-भूतम् अपि। जातु कदाचिद् अपि नापैति न निर्गच्छति । आहृतिभिर् व्याहारैः । यद् वा, पारिजातादि-प्रिय-वस्त्व्-आहरणैः । हृदि स्पृशन्न् आनन्दयन् ॥३०॥
———————————————————————————————————————
कैवल्य-दीपिका : या इति । विशुष्मिणो बलिष्ठान् प्रद्युम्न-सूता रुक्मिणी । साम्ब-सूता जाम्बवती । जाम्ब-सूता नाग्नजिती । भौमो नरकासुरः । सहस्रशः सहस्रं सहस्रं यावत् षोडश ॥२९॥
एता इति । एताः परं केवलं स्त्रीत्वं साधु कुर्वते । पेशलं प्रियंवदत्वम् । शौचं शुचित्वम् । आहृतिभिः पारिजातादि-प्रिय-वस्तूनाम् आहरणैः, हृदि स्पृशन् उत्कण्ठां जनयन् । न च पुर-स्त्रीणां सकामत्वेऽपि भगवतो निरपेक्षत्वेन परस्परानुभावात् रसाभासानुवादाद् रसाभासोऽयम् इति वाच्यम् ।
एवं-विधा वदन्तीनां स-गिरः पुर-योषिताम् ।
निरीक्षणेनाभिनन्दन् स-स्मितेन ययौ हरिः ॥ [भा।पु। १.१०.३१]
इत्य् उत्तरत्र भगवतोऽपि स्वभावत्वानुवादात् ॥३०॥ [मु।फ। ११.१५-१६]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : या इति युग्मकम् । तत्र एता इति । एता एव, नान्या इत्य् अर्थः । स्त्रीत्वं स्त्री-जातिः । सा च श्री-रुक्मिण्य्-आद्य्-अवर-तज्-जाति-भेदत्वेनैवात्र गृहीता । अपास्त-पेशलत्वादिकं हि तज्-जात्य्-अन्तराश्रयं, न तु रुक्मिण्य्-आद्य्-आश्रयम् । ताभिस् तासाम् अपि साधुत्व-करणात् । ततश् चान्यां तत्-तद्-दोष-युक्तां स्त्री-जातिम् अपि या निज-कीर्त्य्-आदिना शुद्धां कुर्वन्तीत्य् अर्थः । तासां तत्-तद्-दोष-रहित-सर्व-गुणालङ्कृतत्वे तद्-अवरासां साधुत्व-विधाने च हेतुम् आह—यासाम् इति । स्वयं तथा-विधोऽप्य् आहृतिभिः प्रेयसी-जनोचित-गुण-समाहारैर् या एव हृदि स्पृशन् मनस्य् आसज्जन् यासां गृहाद् अपि न जात्व् अपैति इति । तस्माद् अत्रापि बीभत्स-सङ्गतिः पूर्ववद् व्याख्येया ॥२९-३०॥ [प्रीति-सन्दर्भ १९९]
———————————————————————————————————————
श्री-जीवः (लोचन-रोचनी १५.६०): एता इत्य्-आदि । वक्रीणां कुरु-पुरु-स्त्रीणां यद्यपि सम्भोगासम्भवः, तथापि रुचि-मात्रांशेनोदाहरणम् । एताः पट्ट-महिष्यः स्त्रीत्वं स्त्री-जाति-मात्रं साधु कुर्वते, जात्य्-एकत्वेन पवित्रीकरोति । अपास्त-पेशलम् इति अन्य-सेवा-परत्वान् निरस्त-दाक्ष्यम् इत्य् अर्थः । तथा त्वक्-श्मश्रु-रोम-नख-केश-पिनद्ध [भा।पु। १०.६०.४५] इति न्याय-सङ्गान् निरस्त-शौचं च । आहृतिभिः प्रेम-मय-नाना-समाहारैः ॥६०॥ (५७)
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उक्तम् एवार्थं प्रपञ्चयति द्वाभ्याम् । वीर्यं प्रभाव एव शुल्कं मूल्यं, तेन । शुष्मिणः बलिष्ठान् । प्रद्युम्नः साम्बः आम्बश् च सूता यासां ता रुक्मिणी-जाम्बवती-नाग्नजित्यः ता एव आदयो यासां सत्यभामादीनां ताः ॥२९॥
अपास्तं पेशलं भद्रं स्वातन्त्र्यं यस्मान् निरस्तं शौचं शुचित्वं यस्मात् तथाभूतम् अपि **जातु **कदाचिद् अपि नापैति न निर्गच्छति । आहृतिभिः पारिजातादि-प्रिय-वस्व्-आहरणैः हृदि स्पृशन् आनन्दयन् ॥३०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती : [उज्ज्वल १५.६०] **कुरु-पुरु-स्त्रियः श्री-कृष्णम् आलोक्य तत्-पत्नी-श्लाघया तं कामयन्ते । एताः पट्ट-महिष्यः अपास्त-पेशलं निरस्त-स्वातन्त्र्यं काम-विकाराधिक्यान् निरस्त-शौचं साधु शोभनम् । अहो स्त्री-जातिर् एव धन्या यत्र रुक्मिण्य्-आदय उद्भूता इति सतां श्लाघयेत्य् अर्थः । आहृतिभिः पारिजातादि-विविध-वस्त्राहरणैः । नन्व् आसां कुरु-पुर-नार्य्-आदीनाम् अन्य-भुक्तत्वात् श्री-कृष्ण-सम्भोगो नास्त्य् एव कुतः पूर्व-रागो वर्ण्यते ? सत्यम् । स्वाप्नो मानसश् च सम्भोगो वर्तते देहान्तरे साक्षाच् च सम्भोगो भविष्यतीति । अतः पूर्व-रागोऽयं नानुपपन्नो ज्ञेयः ॥६०॥ (५७)
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उक्तार्थं द्वाभ्यां स्फुटयन्ति—वीर्यं प्रभाव एव शुल्कं मूल्यं, तेन या भगवता हृता आनीताः, शुष्मिणोऽतिबलिष्ठान् चैद्य-प्रमुखान् प्रमथ्य । प्रद्युम्नश् च साम्बश् च आम्बश् च सुता यासां, रुक्मिणी-जाम्बवती-नाग्नजितीनां ता आदयो यासां सत्यभामादीनां, ताः । याश् चापराः सहस्रशो भौम-वधे आहृताः, अस्योत्तर-पद्येन सम्बन्धः ॥२९॥ \
एताः पूर्वोदिता हरि-पत्न्यः परम् अन्यत् प्राकृतं स्त्रीत्वं [स्त्री-स्वरूपं] साधु शोभितं कुर्वते । तत् कीदृक्? अपास्तं पेशलं दक्षत्वं स्वातन्त्र्यं यस्मात् तत् । पेशलो रुचिरे दक्षे इति मेदिनी । निरस्तं शौचम् पावित्र्यं यस्मात् तत् । शोभन-करणे हेतुर् यासाम् इति—अस्मज्-जात्या च परेशोऽतिशुचिर् वशीकृतोऽस्तीति भावः । आहृतिभिः पारिजातादि-प्रिय-वस्त्व्-आहरनैर् **हृदि स्पृशन् **प्रमोदयन् । न च स्त्रीत्व-मात्रम् अशोचं, गङ्गादीनां स्त्रीणम् एवातिपावनत्वात् ।
इदम् अत्र बोध्यं—पराख्य-स्वरूप-शक्ति-विशिष्टं पर-तत्त्वं भगवान् लक्ष्मीश् च । नराकृत्या स्त्री-वपुषा च नर-लोकेष्व् आविर्भवन् नरेषु च धन्यताम् आदधाति । न च पर-तत्त्व-निष्ठं नरत्वं स्त्रीत्वं च तत्-समं, विशुद्ध-कूटस्थत्वेन श्रवणात् ॥३०॥
———————————————————————————————————————
विष्णुदासः : [उज्ज्वल १५.६०] एता इति । भारत-युद्धानन्तरं श्री-कृष्णे हस्तिनापुरतो द्वारकां प्रति गच्छति सति कुरु-पुर-स्त्रियस् तम् अतृप्त-लोचनैर् निरीक्षमाणा हर्ष-वेगतः परस्परं तत्-पत्नीनाम् सौभाग्यादि-श्लाघया स्वाभिलाषं प्रकटयन्ति । एता रुक्मिण्य्-आदयः परं केवलं स्त्रीत्वं स्त्री-जाति-मात्रत्वं साधु शोभनं कुर्वते । किं-भूतं ? अपास्तम् अपगतं पेशलं स्वातन्त्र्यं यस्मात् यस्मिन् वा तत् । तथा निरस्तं शौचं शुचित्वं यस्मात् तथा-भूतम् अपि । बत इति विस्मये सन्तोषे वा । स्त्रीत्व-साधु-करणे लिङ्गम् आहुः—यासाम् इति । **पुष्कर-लोचनः **कमल-नयनः श्री-कृष्णः जातु कदाचिद् अपि यासां गृहात् नापैति नापगच्छति । किं कुर्वन् ? आहृतिभिह् परम-सुमधुर-वचनैः । किं वा, पारिजातादि-परम-सुदुर्लभोपहारादिभिः हृदि स्पृशन् प्रमोदयन् । अनेन तासु श्री-कृष्णस्य वशीभावत्वं द्योतितम् । तेन च तासां तस्मिन् निरुपधि-प्रेमातिरेको ध्वनितः ॥६०॥
**॥ १.१०.३१ ॥ **
एवं-विधा गदन्तीनां स गिरः पुर-योषिताम् ।
निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-विधा विचित्रा गिरः स-स्मितेन निरीक्षणेनाभिनन्दन् स हरिर् ययौ ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निरीक्षणेन शान्ति-रति-मतीः सस्मितेन उज्ज्वल-भाववतीर् अभिनन्दन् ॥३१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : निरीक्षणेन स्वरूपाभिज्ञानां सस्मितेन लीलाभिज्ञानां पुर-योषितां गिरोऽभिनन्दन् ॥३१॥
———————————————————————————————————————
**॥ १.१०.३२ ॥ **
अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।
परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : स्नेह-मात्रात् ॥३२॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : मधु-द्विषोऽपि गोपीथाय रक्षणाय स्नेहात् परेभ्यः शत्रुभ्यः शङ्कितः सन् प्रायुङ्क्त । हस्त्य्-अश्व-रथ-पादातं सेनाङ्गं स्याच् चतुर्विधम् इत्य् एवं चतुरङ्गिणीम् । पृतनां सेनाम् ॥३२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्र राज्ञः प्रेम-महिमानम् आह—अजात-शत्रुर् अपि **परेभ्यः शङ्कितः **। मधु-द्विषोऽपि गोपीथाय । अत्र हेतुः—स्नेहाद् इति । एवम् ऐश्वर्य-ज्ञानस्य दुर्बलत्वं बोधितम् । एवं श्री-बलदेवादिषु तथा-दर्शनात् ॥३२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोपीथाय रक्षणाय ॥३२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अजातशत्रुर् मधुद्विषो गोपीथाय रक्षणाय चतुरङ्गिणीं गजाश्व-रथ-पति-मतीं पृतनां सेनां स्नेहान् न्ययुङ्क्त, स्नेहस्यायं स्वभावः यो भयाभावेऽपि भयं सम्भावयति ॥३२॥
———————————————————————————————————————
**॥ १.१०.३३ ॥ **
अथ दूरागतान् शौरिः कौरवान् विरहातुरान् ।
सन्निवर्त्य दृढं स्निग्धान् प्रायात् स्व-नगरीं प्रियैः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पाण्डवो कुरु-वंशजत्वात् पाण्दवा अपि कौरवा एव तान् प्रियैर् उद्धवादिभिः सह ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कौरवान् पाण्डवान् ॥३३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कौरवान् युधिष्ठिरादीन् प्रियैर् उद्धवादिभिः ॥३३॥
———————————————————————————————————————
**॥ १.१०.३४-३५ ॥ **
कुरु-जाङ्गल-पाञ्चालान् शूरसेनान् स-यामुनान् ।
ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान् अथ ॥
मरु-धन्वम् अतिक्रम्य सौवीराभीरयोः परान् ।
आनर्तान् भार्गवोपागाच् छ्रान्त-वाहो मनाग् विभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुरु-क्षेत्रं कुरु-देशान्तर-गतम् एव । क्रमोऽत्र न विवक्षितः ॥३४॥ मरुर् निरुदको देशः । धन्वोऽल्पोदकः । आनर्ताख्यो द्वारका-देशः । स विभुर् उपागात् प्राप्तः । हे भार्गव । मनाग् ईषत् श्रान्ता वाहा यस्य सः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कुरु-जाङ्गलेति युग्मकम् । अत्र पन्थानम् अतिक्रम्य गमनं तत्-तन्-निज-जन-मिलनार्थम् । शूरसेनागमनं श्री-वृन्दावन-दिदृक्षयैव ॥३४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुरु-जाङ्गलेत्य् आदौ क्रमो न विवक्षितः । मरुर् निरुदको देशः धन्वः अल्पोदकः । आनर्तान् द्वारका-प्रदेशान् । हे भार्गव ! मनाक् ईषत् श्रान्ता वाहा यस्य सः ॥३४-३५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कुरु-जाङ्गलेत्य्-आदौ क्रमो न विवक्षितः ॥३४॥ मरुं निर्जलं धन्वम् अल्प-जलं च देशम् । आनर्तान् कुशस्थली-प्रान्तान् देशान् । हे भार्गव शौनक ! मनाग् ईषद् एव श्रान्ता वाहा अश्वा यस्य सः ॥३५॥
———————————————————————————————————————
**॥ १.१०.३६ ॥ **
तत्र तत्र ह तत्रत्यैर् हरिः प्रत्युद्यतार्हणः ।
सायं भेजे दिशं पश्चाद् गविष्ठो गां गतस् तदा ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : गविष्ठः आदित्यः । असौ वाव गविष्ठोऽप्सु देव्य् अप्स्व् अस्तम् एति इति माध्यन्दिनायन-श्रुतिः ॥३६॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तत्र देशे तत्रत्यैर् जनैः । प्रत्युद्यतानि निवेदितान्य् अर्हणान्य् उपायनानि यस्मै सः । सायम् अपराह्ने पश्चाद् दिशं पश्चिमां दिशं भेजे प्राप्तः । तदा च गविष्ठः स्वर्ग-स्थः सूर्यो गाम् उदकं गतः प्रविष्टोऽस्तं गत इत्य् अर्थः । अद्भ्यो वा एष प्रातर् उदेत्य् अपः सायं प्रविशति इति श्रुतेः ।
यद् वा, तदा सायङ्काले जाते रथाद् अवतीर्य गविष्ठो भूमौ स्थितस् ततो गां जलाशयं गतः पश्चाद् दिशं सन्ध्यां भेजे उपासितवान् इत्य् अर्थः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सायम् इति । पश्चात् तद्-अनन्तरम् । सायं यस्मिन् दिने चलितस् तस्यैव दिवसस्यान्ते । दिशं द्वारका-गन्तव्य-काष्ठां भेज इत्य् अर्थः । एवं रथस्य शैघ्र्यं दर्शितम् । अत एव भार्गव [भा।पु। १.१०.३५] इत्य् आश्चर्येण सम्बोधनम् । मनाक् श्रान्त-वाहः इति चोक्तम् ।
तत्र तत्र हि तत्रत्यैर् हरिः प्रत्युद्यतार्हण इत्य् अत्राशङ्कते—ननु शूरसेन-यामुनान्तर्गत-वृन्दावन-स्थानां श्रीमन्-नन्दादीनां मिलनादिकं विशिष्य कथं न वर्णितम् ? तत्राह—स एव गविष्ठो गोपाल-लीलः सन् । तदा दन्तवक्र-वधानन्तरं गाः गोकुलम् एव गतः । तद् अप्रकट-प्रकाशे तैः सार्धम् अप्रकटं स्थित एवेत्य् अर्थः । प्रकटेन स्व-प्रकाशेन प्रकट-प्रकाश-विशेष-दर्शन-कौतुकार्थम् एव तदा तत्र गमनम् इति भावः। तद् इदं श्री-कृष्ण-सन्दर्भे विवृतम् अस्ति ॥३६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु हस्तिनापुरात् द्वारका-मार्गेणैव ते देशाः सम्भवन्तीत्य् अत आह—तत्रत्यैस् तत्-तद्-देश-भवैर् भक्तैस् तत्र तत्र द्वारका-मार्गे आगत्य प्रत्युद्यतानि निवेदितानि अर्हणानि उपायनानि स्व-स्व-देश-नयनार्थं यस्मै सः । तेन तत्-तद्-भक्त-मनोरथ-पूरणार्थं तत्-तद्-देशं गत्वागत्वैव तत्र तत्रैकानि दिनानि स्थित्वा पुनर् वर्त्मानुससारेति भावः । सायम् अपराह्णे पश्चाद् दिशं द्वारका-प्रदेशं भेजे प्राप्तः । तदा गविष्ठः सूर्योऽपि गां गतः पश्चिम-समुद्र-जलं प्रविष्टः ॥३६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
प्रथमे दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु गजसाह्वयात् कुश-स्थलीं गच्छतो हरेः पथि नैते देशाः सम्भवन्ति? तत्राह—तत्रत्यैस् तत्-तद्-देश-भवैर् भक्तैस् तत्र तत्र तस्याः पथि समागत्य प्रत्युद्यतानि निवेदितानि अर्हणानि उपायनानि स्व-स्व-देश-नयनार्थं यस्मै सः । तेन तत्-तद्-भक्ताभिलाष-संपादनाय तत्-तद्-देशं गत्वा तत्र तत्रैक-द्वान् वासरान् स्थित्वा पुनः पन्थानम् आजगामेति गम्यते । **सायम् **अपराह्ने पश्चाद्-दिशं कुशस्थली-प्रदेशं भेजे प्राप, तदा गविष्ठो द्युस्थो रविर् अपि गां गतः पश्चिमार्णवान्तः प्राविशत् । स्वर्गे जले चात्र गो-शब्दः ॥३६॥
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां दशमोऽध्यायः ॥१०॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे
श्री-कृष्ण-द्वारका-गमनं नाम
दशमोऽध्यायः ।
॥१०॥
(१.११)