विषयः
युधिष्ठिरादीनां भीष्म-समीपे गमनम्,
तत्र विविधान् धर्मान् उपदिश्य
श्री-कृष्ण-स्तवन-पूर्वकं भीष्मस्य महा-प्रस्थानं च ।
॥ १.९.१ ॥
सूत उवाच—
इति भीतः प्रजा-द्रोहात् सर्व-धर्म-विवित्सया ।
ततो विनशनं**1** प्रागाद् यत्र देव-व्रतोऽपतत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
युधिष्ठिराय भीष्मेण सर्व-धर्म-निरूपणम् ।
कृष्ण-स्तुतिश् च मुक्तिश् च नवमे तस्य वर्ण्यते ॥
यद्-अर्थं तस्याविवेकः श्री-कृष्णेन संवर्धितस् तद् दर्शयति—इतीति । सर्वेषां धर्मानां विवित्सया वेदितुम् इच्छया । विनशनं कुरु-क्षेत्रम् । देव-व्रतो भीष्मः ॥१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्री-भीष्म-महिम-दर्शनार्थं भगवद्-इच्छयैव तत्-तत्-प्रभाव-वरणम् अपि जातम् इत्य् आह—इति भीत इति चतुर्भिः ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
नवमे स्वप्रभुं भीष्मो ददर्शाथ तद्-आज्ञया ।
धर्मान् उक्त्वा बहु स्तुत्वा तम् एव प्राप भक्तितः ॥
यद्यपि तवाविवेको नापयाति, तदा सर्व-धर्म-तत्त्वज्ञं भीष्मम् अपि पृच्छेति युक्तिर् यदा सर्व-सम्मताऽभूत्, तदा राजा तत्रैव ययाव् इत्य् आह—इति इति । विवित्सया विचारेच्छया । विनशनं कुरुक्षेत्रम् । देवव्रतो भीष्मः ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
ददर्श कृष्णं प्रोवाच धर्मान् तुष्टाव तं विभुम् । \ भीष्मस् तम् एव प्रापेति नवमे परिकीर्तितम् ॥ \
व्यासादिभिर् मया चोपदिष्टस्यापि तव चेद् अविवेको नापयाति, तदा सर्व-धर्म-स्वरूप-विदं त्वद्-अतिहितं भीष्मम् अपि पृच्छेति प्रोक्तो राजा तदा तद्-अन्तिकं जगामेत्य् आह—इतीति । विनशनं कुरुक्षेत्रम् ॥१-२॥
॥ १.९.२ ॥
तदा ते2** भ्रातरः सर्वे सद्-अश्वैः स्वर्ण-भूषितैः ।**
अन्वगच्छन् रथैर् विप्रा व्यास-धौम्यादयस् तथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्तः श्रेष्ठा अश्वा येषु, तै रथैः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १.९.३ ॥
भगवान् अपि विप्रर्षे रथेन स-धनञ्जयः ।
स तैर् व्यरोचत नृपः कुवेर इव गुह्यकैः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **+++
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवान् अप्य् अन्वगच्छत् ॥३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भगवान् अप्य् अगच्छत्, स नृपो युधिष्ठिरः तैर् भ्रातृभिः ॥३-४॥
॥ १.९.४ ॥
दृष्ट्वा निपतितं भूमौ दिवश् च्युतम् इवामरम् ।
प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सानुगाः परिवार-सहिताः ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १.९.५ ॥
तत्र ब्रह्मर्षयः सर्वे देवर्षयश् च सत्तम3** ।**
राजर्षयश् च तत्रासन् द्रष्टुं भरत-पुङ्गवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तदा तत्रासन्, तत्-क्षणम् एवागता इत्य् अर्थः । भरत-पुङ्गवं भीष्मम् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : भरत-पुङ्गवं भीष्मम् ॥५॥
॥ १.९.६-८ ॥
पर्वतो नारदो धौम्यो भगवान् बादरायणः ।
बृहदश्वो भरद्वाजः स-शिष्यो रेणुका-सुतः ॥**
वसिष्ठ इन्द्रप्रमदस् त्रितो गृत्समदोऽसितः ।
कक्षीवान् गौतमोऽत्रिश् च कौशिकोऽथ सुदर्शनः ॥**
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः ।
शिष्यैर् उपेता आजग्मुः कश्यपाङ्गिरसादयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : रेणुका-सुतः परशुरामः ॥६॥ ब्रह्म-रातः शुकः । आङ्गिरसो बृहस्पतिः ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ १.९.९ ॥
तान् समेतान् महा-भागान् उपलभ्य वसूत्तमः ।
पूजयामास धर्मज्ञो देश-काल-विभागवित् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वसूत्तमो भीष्मः । देश-काल-विभाग-विद् इत्य् उत्थातुम् अशक्यत्वाच् छयान एव मनसा वाचा च पूजयामास इत्य् अभिप्रायः ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वसूत्तमो भीष्मः ॥९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वसूत्तमो भीष्मः, तदानीम् उचितां पूजां व्यधात् ॥९॥
॥ १.९.१० ॥
कृष्णं च तत्-प्रभाव-ज्ञ आसीनं जगद्-ईश्वरम् ।
हृदि-स्थं पूजयामास माययोपात्त-विग्रहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हृदि-स्थं सन्तं पुरतश् चासीनं पूजयामास ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णम् इति । सदा स्वेषां हृदि-स्थं हृदयस्थम् अपि मायया कृपया उप नेत्र-समीपेऽपि आत्त आनीतो विग्रहो येन, तम् ॥१०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मायया एव उपात्तो गृहीतो विग्रहो युधिष्ठिरेण सार्धं प्रबोधाप्रबोध-हेतुको विवादो येन तम् । यद् वा, मायया कृपया उप नेत्र-समीपे आनीतो निज-देहो येन, तम्॥१०॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्-प्रभावज्ञः कृष्ण-पारमैश्वर्य-वित्, मायया कृपया उप नेत्र-समीपे आत्त आनीतो विग्रहः स्व-मूर्तिर् येन, तम् । यद् वा, मायया एव त्रिगुणया उपात्तो गृहीतो विग्रहो युधिष्ठिरेण सार्धं बोधाबोध-निमित्तको विवादो येन, तम् । विग्रहः समरे काये विस्तार-प्रविभागयोः इति विश्वः । यत् तु मायिक-मूर्तिकत्वम् आहुः, तद् असत् । तम् एकं गोविन्दं सच्-चिद् आनन्द-विग्रहम् [गो।ता।उ। १.३७] इति श्रुति-व्याकोपात् । त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते [भा।पु। १०.१४.२२] इति स्मृतेश् च ॥१०॥
॥ १.९.११ ॥
पाण्डु-पुत्रान् उपासीनान् प्रश्रय-प्रेम-सङ्गतान् ।
अभ्याचष्टानुरागास्रैर् अन्धीभूतेन चक्षुषा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपासीनान् समीपे उपविष्टान् । प्रश्रयो विनयः, प्रेम स्नेहः, ताभ्यां सङ्गतान् उपसन्नान् । पाठान्तरे4 ताभ्याम् अवनतान् । अभ्याचष्ट अभ्यभाषत । अनुरागाः, तैः स्नेहाश्रुभिर् अन्धी-भूतेन चक्षुषा उपलक्षितः ॥११॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यया भीष्मादीनां स्वापराध-मनन-शङ्कया मुनीनां स्वस्यापि शिक्षणेन युधिष्ठिरो न शाम्यति स्म, ताम् एव शङ्कां तस्मिंस् तस्य स्निग्धता-दर्शनया तद्-द्वारा द्रोणादीनाम् अपि तथा-भाव-व्यञ्जनया दूरीकर्तुं तत्-सन्निधाव् आनीतवान् सोऽयं श्री-भगवान् इति पूर्वाभिप्रायम् एव व्यक्तीकर्तुम् आह—पाण्डु-पुत्रान् इति ॥११॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभ्याचष्ट अभ्यभाषत ॥११॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अभ्यचष्ट प्रैक्षत ॥११॥
॥ १.९.१२ ॥
अहो कष्टम् अहोऽन्याय्यं यद् यूयं धर्म-नन्दनाः ।
जीवितुं नार्हथ क्लिष्टं विप्र-धर्माच्युताश्रयाः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अभिभाषणम् आह—अहो इत्य् एकादशभिः । हे धर्म-नन्दनाः ! क्लिष्टं यथा भवति, एवं जीवितुं नार्हथ यूयम् इति यद् एतद् अहो कष्टं जुगुप्सितम् । **अहो अन्याय्यं **चैतत् । यतो यूयं विप्रा धर्मोऽच्युतश् चाश्रयो येषां ते ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो कष्टम् इति तैः । तत्र इति यद् इति तद् एतद् यद् भवद्-विचारितम् इत्य् अर्थः । ततो विप्रादीनां हिंसा-भ्रान्त्या मा क्लेशं मन्यस्वेति भावः । विप्र-धर्मेति षष्ठी-तत्-पुरुषो वा । यद् वा, धर्म-नन्दना अपि यद् यूयं जीवितुं योग्या न भवामेति मन्यध्वे, तद् अहो कष्टम् अन्याय्यं च । तत्रापि विप्र-धर्माच्युतानाम् आश्रया अपि यूयं यत् तथा मन्यध्वे, ततश् च क्लिष्टम् इति पूर्ववद् एवान्याय्यं कष्टं चेत्य् अर्थः । यूयम् इति श्री-युधिष्ठिरं प्रत्य् एव गौरवतः सम्बोधनम् ॥१२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अहो कष्टम् अहोऽन्याय्यम् इति राजन्य् अतिदेश एवान्याय-कष्टे खलु न सम्भवतस् तत् किम् अत्रार्थे सर्व-विश्व-स्थिति-कर्तरि विष्णाव् एवान्यायः समभूद् इति भावः । क्लिष्टं यथा स्यात्, तथा यूयं जीवितुं नार्हथ, अन्ये तथा जीवन्ति चेत् जीवन्त्व् इति भावः ॥१२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तान् विलोकयंस् तेषां कष्ट-हेतुं तावद् दुर्विभाव्यम् आह—अहो कष्टम् इति । हे धर्म-नन्दनाः क्लिष्टं यथा स्याद्, एवं यूयं जीवितुं नार्हथ, यतो **विप्राद्य्-आश्रयाः **॥१२॥
॥ १.९.१३ ॥
संस्थितेऽतिरथे पाण्डौ पृथा बाल-प्रजा वधूः ।
युष्मत्-कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, संस्थिते मृते । बालाः प्रजाः पुत्रा यस्याः सा । वधूश् चेति दैन्यं प्रदर्शितम् । तोकान्य् अपत्यानि, तद्वती । अपत्यैः सह क्लेशान् प्राप्ता इत्य् अर्थः ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु किं क्लिष्टं ? तत्राह—संस्थिते मृते । बाल-प्रजा इति बाल-प्रजात्व-दशायाम् एकाकिन्य् एव क्लेशान् प्राप्ता । युष्माकं प्रौढ-वयस्त्वे सति तु तोकवती पुत्रैर् युष्माभिः सहितापि कष्टान् प्राप्तेत्य् अर्थः ॥१३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कष्टम् आह—संस्थिते मृते सति । बाल-प्रजा वधूर् इति दैन्यं प्रदर्शितं, तादृशी बहून् क्लेशान् प्राप्ता, तोकवती च प्रौढैः युष्माभिः पुत्रैः सहितापि तान् मुहुः प्राप्तेति ॥१३॥
॥ १.९.१४ ॥
सर्वं काल-कृतं मन्ये भवतां च यद् अप्रियम् ।
स-पालो**5** यद्-वशे लोको वायोर् इव घनावलिः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **काल-कृतत्वेन शोकं वारयति—सर्वम् इति द्वाभ्याम् । भवताम् अपि । यद्-वशो यस्य वश-वर्ती ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु तर्हि कथम् अस्माकं क्लेशः ? तत्र तत्-कारणं प्राचीनार्वाचीनं किम् अपि पापम् अपश्यन् वक्तुम् असमर्थ एव लोकोक्ति-रीत्यैवाह—सर्वम् इति । ननु, कालो हि प्रारब्ध-सुख-दुःख-भोगयोर् एवाधिकरणम् एवेति सहकारित्वाद् उपचारेणैव काल-कृतं मन्ये इति ब्रूषे । प्रारब्ध-पाप-कृतम् इति स्पष्टं कथं न वदसि ? इत्य् अत आह—भवतां च इति । युधिष्ठिरो हि साक्षाद्-धर्मावतार इति प्रसिद्ध एव । धर्मस्यापि प्रारब्धं पापम् अस्तीति चेन् मन्तव्यं, तर्हि कथं धर्मस्य धर्मत्वम् ? अतोऽतिप्रबलोऽतिदुर्निवारो दुस्तर्कः काल एव कारणम् इत्य् आह—स-पाल इति ॥१४॥
सर्वं काल-कृतं मन्ये भवतां च यद् अप्रियम् ।
स-पालो**6** यद्-वशे लोको वायोर् इव घनावलिः ॥**
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु सर्वज्ञोऽपि त्वम् अनिर्णीतं किम् इति ब्रूषे, तत्र किञ्चित् कारणं ब्रूहीति चेत्, लोकोक्तिम् आश्रीत्य तावद् आह—सर्वम् इति । भवतां च कृष्णैकान्तिनाम् अपि यद् अप्रियं प्रतिकूल्यं कालस्य प्रभावम् आह—सेति ॥१४॥
॥ १.९.१५ ॥
यत्र धर्म-सुतो राजा गदा-पाणिर् वृकोदरः ।
कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस् ततो विपत् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अहो दुर्घट-घटना-पटुः काल इत्य् आह—यत्रेति । कृष्णोऽर्जुनः अस्त्री धन्वी । ततस् तत्रापि विपत् । पुण्य-शरीर-बलास्त्र-नैपुण्य-शस्त्र-देव-संपत्ताव् अपीत्य् अर्थः ॥१५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यद्य् अस्माकं विपत्तिं कल-कृताम् अमत्वा स्व-कृताम् एव तु मत्वा दुःखं लभसे, तर्हि कथं भवतां सा जाता ? इत्य् अभिप्रेत्याह—यत्र इति ॥१५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु,
न कर्हिचिन् मत्-पराः शान्त-रूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।
येषाम् अहं प्रिय आत्म सुतश् च
सखा गुरुः सुहृदो दैवम् इष्टम् ॥ [भा।पु। ३.२५.३७]
इति कपिल-देवोक्तेः कृष्णे दास्य-सख्य-वात्सल्यवतः पाण्डवान् कथं कालोऽतिक्रमेत ? इत्य् अतोऽतिविस्मयान्वितः कारणं विनैव कर्मोत्पत्ति-रूपं विभावनालङ्कारं7 भावयन्न् आह—यत्र इति । कृष्णोऽर्जुनः अस्त्री धन्वी । ततस् तत्रापि विपत् पुण्य-बल-शरीर-बल-नैपुण्य-बल-शस्त्र-बल-सुहृद्-बल-सम्पत्ताव् अपीत्य् अर्थः ॥१५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **दुर्घट-घटकत्वं कालस्याह—यत्र युष्मत्-पक्षे, कृष्णोऽर्जुनः, अस्त्री धन्वी, ततस् तत्रापि सम्पत्-कारणेषु सत्स्व् अपि संपन्नाभूद् इति विशेषोक्तिर् अलङ्कारः । विशेषोक्तिः कारणेषु सत्सु कार्या वचो मता इति तल्-लक्षणात् ॥१५॥
॥ १.९.१६ ॥
न ह्य् अस्य कर्हिचिद् राजन् पुमान् वेद विधित्सितम् ।
यद्-विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
असङ्गश् चाव्ययोऽभेद्योऽनिग्राह्योऽशोष्य एव च ।
विद्धोऽसृग्-अञ्चितो बद्ध इति विष्णुः प्रदर्श्यते ॥
असुरान् मोहयन् देवः क्रीडयैव सुरेष्व् अपि ।
मानुषान् मध्यया दृष्ट्या न मुक्तेषु कथञ्चन ॥ इति स्कान्दे ॥१६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु कृष्णं कथं कालोऽतिक्रमेत् ? इत्य् अपेक्षायाम् आह—न ह्य् अस्य श्री-कृष्णस्येत्य् अङ्गुल्या निर्दिशति । विधित्सितं कर्तुम् इष्टं यत् । यस्य विधित्सितं तस्य जिज्ञासया ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **न हीति । अत्र तेषाम् आर्ति-द्वारेण स्वस्मिन्न् आवेशार्थं तत्-खण्डन-जनित-हर्ष-द्वारेण च स्वस्मिन् प्रेम-वर्धनार्थं तथा विधित्सितम् इति गूढोऽभिप्रायः ॥१६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तर्ह्य् अत्र किं निर्धारयामि ? सामान्यतस् तावद् अयं सिद्धान्तः सर्व-वादि-सम्मतो यत् कृष्णस्य चिकीर्षितम् अन्यथा-कर्तुं न कोऽपि समर्थः । तच् चिकीर्षितं किम् इति अद्यापि कोऽपि न वेत्ति ? इत्य् आह—**न ह्य् अस्य **इति । कर्हिचिद् अपि काले “कोऽपि पुमान् ब्रह्म-भवादिः कोऽपि न वेद, अहं को वराकः ?” इति भावः ।
ननु कोऽपि मा जानातु, जिज्ञासा तु अवश्यम् एव जायते । तत्रास्मासु दुःख-दानम् एव किं चिकीर्षितम् ? सुख-दानम् एव वा ? उभय-दानम् एव वा ? तत्राद्यं न, भक्त-वात्सल्य-गुणस्य लोपानौचित्यात् । द्वितीयम् अपि न, अदृष्टत्वाद् एव । तृतीयम् अपि न, तत्-सौहार्द-लोपापत्तेः । तर्हि जिज्ञासाम् अपि नैव कर्तुम् उचितेति विनिर्णयन्न् आह—यद्-विजिज्ञासया इति । युक्ता विवेकिनोऽपि कवयः सर्व-शास्त्र-ज्ञा अपि **मोहम् एव प्राप्नुवन्ति **सिद्धान्तालाभाद् इति भावः । अत्र भीष्मस्य महा-विज्ञस्योक्तौ कवय इति मुह्यन्ति इति पदाभ्यां युधिष्ठिरादयोऽपि भगवद्-भक्ताः प्रारब्धं भुञ्जते इति मतं परास्तम् ॥१६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ स्व-मतम् आह—न ह्य् अस्य इति । अस्य कृष्णस्य विधित्सितं चिकीर्षितं कर्हिचिद् अपि काले पुमान् ब्रह्मादिर् अपि न वेद, किम् इदं विधित्सतीति न जानाति । ननु न वेत्तु कोऽपि, जिज्ञासा तु जायते? तत्राह—यद् इति । युक्ता योगिनः कवयो विद्वांसोऽपि । एतद् उक्तं भवति—न खलु भवतां कष्टं प्रारब्ध-रचितं शक्यं वक्तुं कृष्णैकान्तिषु तद्-वल्लभत्वात्, तस्य पापांश-मिश्रत्वेन तद्वति युधिष्ठिरे धर्मत्व-विरोधात् । न च काल-रचितं तत्, कृष्ण-नाथेषु भवत्सु तद्-वल्लभत्वात्, ज्ञः काल-कालो गुणी सर्व-विद् यः [श्वे।उ। ६.२] इति मन्त्र-वर्णात् काल-कृतम् इत्य् अत्र काल-शक्ति-मता कृष्णेनेत्य् अर्थात् । स्व-काल-शक्त्या [भा।पु। १०.१.२२] इति वक्ष्यमाणात्, तस्मात् कृष्णाधीनं भवतां कष्टं, त्वद् अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् गुण-विगुणान्वयंस् तर्हि देह-भृतां च गिरः [भा।पु। १०.८७.४०] इति श्रुति-स्तोत्रे भवद्-उत्थेत्य् उपादानात् । न च तद्-विजिज्ञासापि युक्ता, तया कवीनाम् अपि मोहात्, तथा हि—तस्य भवत्सु दुःख-दानं सुख-दानम् उभय-दानं वा विधित्सितम्? नाद्यः, भक्त-वत्सल्य-हानात्, न मध्यः, अदर्शनात्, नान्त्यः, सौहार्द-विलोपात् ॥१६॥
॥ १.९.१७ ॥
तस्माद् इदं दैव-तन्त्रं व्यवस्य भरतर्षभ ।
तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदं सुख-दुःखादि दैव-तन्त्रम् ईश्वराधीनं व्यवस्य निश्चित्य तस्य ईश्वरस्य अनुविहितोऽनुवर्ती सन् । कर्तरि क्तः । हे नाथ ! कुल-परम्परा-गत-स्वामिन्, प्रभो समर्थ, अनाथाः प्रजाः पाहि ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् अस्य अज्ञानुसारात् ॥१७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदं सुख-दुःखादिकं दैव-तन्त्रम् ईश्वराधीनम् एव व्यवस्य निश्चित्य, किन्तु तद्-विधित्सितस्य दुर्ज्ञेयतोक्तेः स्व-भक्ताय तत्-प्रदानादिकं दुर्ज्ञेय-प्रयोजनकम् इत्य् अपि निश्चित्य, तस्य कृष्णस्य अनुविहितोऽनुगतः हि गतौ अनाथाः प्रजाः पाहि ॥१७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्माद् विचाराद् विरन्तव्यं, यथेष्टं स करोतु, सुवृत्तिः प्रपत्तिस् तु कार्येत्य् आह—तस्माद् इति । दैव-तन्त्रम् ईशाधीनं व्यवस्य निश्चित्य तस्य दैवस्य अनुविहितोऽनुवर्ती सन् प्रजाः पाहि । अनाथा हत-नाथाः हे नाथ ! स्वामिन् ! हे प्रभो ! तत्-पालने समर्थ ! धर्म-राज ! ॥१७॥
॥ १.९.१८ ॥
एष वै भगवान् साक्षाद् आद्यो नारायणः पुमान् ।
मोहयन् मायया लोकं गूढश् चरति वृष्णिषु ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनुविधेयः परमेश्वरस्य श्री-कृष्ण एवेत्य् आह । एष एव भगवान् सर्वेश्वरः । यत आद्यः पुमान् । तच् च कुतः ? यतो नारायणः सक्षात् ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **न च नर-लीला-दृष्ट्या साधारण-दृष्टिर् अत्र कर्तव्येत्य् आह—एष इति । साक्षाद् एव स्वयं भगवान् । यः स्व-लवाद्यः पुमान् महत्-स्रष्टा सोऽप्य् अयम् एव यश् च आद्यो नारायणः परम-व्योमाधिपतिः, सोऽपीति ॥१८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् ईश्वराधीनम् इति तद्-विधित्सितं तु न वेदेत्य्-आदि कथं ब्रूषे ? ईश्वरः सम्प्रति तव साक्षाद्-वर्त्य् एव इत्य् अत इमं कृष्णम् एव पृष्ट्वा कथं सर्वं तत्त्वं न वेत्सि ? इत्य् अत आह—एष इति । मायया मोहयन्न् इति पृष्टो हि भीष्माद् अपि किम् अहम् अतितत्त्वज्ञ इत्य्-आदि वाचा वञ्चयन् न वक्ष्यति । कथञ्चिद् वदन्न् अपि मोहयिष्यत्य् एव इत्य् असाव् अनुवर्तनीय एव, न तु जिज्ञासनीय इति भावः ॥१८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु कृष्णैकान्तिनोऽस्माद् अन्यद् अनुविधेयं, दैवं किम् इत्य् उपदिशसि? तत्राह—एष इति । आद्यो नारायणः पञ्चविंशति-तत्त्वाश्रयः, तत्रापि साक्षाद् भगवान् स्वयं-रूपस् तस्याप्य् अंशीत्य् अर्थः । नन्व् एवम् अन्ये नैवाहुर् इति चेत्, तत्राह—मोहयन्न् इति । तद्-एक-निष्ठास् त्व् आहुर् एवेति भावः ॥१८॥
॥ १.९.१९ ॥
अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।
देवर्षिर् नारदः साक्षाद् भगवान् कपिलो नृप ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् उपपादयति—अस्येति । अनुभावं प्रभावम् ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, अस्यानुभावं भाव-बोधकं चेष्टा-विशेषं शिवो वेद, न तु विधित्सितं स्वरूपं प्रभावं वेत्य् अर्थः । तथा हि रस-शास्त्रज्ञः प्रथमम् अनुभावं स्तम्भ-स्वेद-रोमाञ्चादिकं वेद । तेन च स्थायि-भावं च अनुभावस्य वैशिष्ट्य-तारतम्याभ्यां स्थायि-भावस्यापि वैशिष्ट्य-तारतम्यं च । तथैव यशोदादि-गोपीषु अस्य दाम-बन्धनादि-रूपम् अर्जुन-युधिष्ठिरोग्रसेनादि-सारथ्य-दास्यादि-रूपं च पारवश्यम् अनुभावं वेद । तेन च अस्य सर्वेश्वरस्य सर्व-नियन्तुः महा-स्वतन्त्रस्यापि वशीकारकः कोऽपि पदार्थ-विशेषः, तत्र तत्र वर्तमानोऽस्यापि चित्तम् अभीक्ष्णं विद्रुती-कुर्वन्न् अध्यास्ते इत्य् अनुमिमीते च । स च नन-विशेषवान् स्व-विषयाश्रययोश् चेतो-विद्रावकः परस्पर-वशीकारकश् च प्रेमाभिधान एव परम-पुरुषार्थ-चूडामणिः भक्ति-स्नेहानुरागादि-शब्दैर् उच्यमानो भवति ।
किं च, तत्-तज्-जनकेनेष्टेन प्रतिसमय-दृष्टेन अस्य वशीकाराधिक्यम् एव दृष्ट्वा तेन च प्रेमाधिक्यम् अनुमाय सिद्ध-साधक-भक्तेषु एतत्-कर्तृकम् एव कष्ट-प्रदानं भक्ति-वृद्ध्य्-अर्थम् एवेति सिद्धान्तं निश्चिनोति च शिव एव नारद एव कपिल-देव एवेति । अत एव द्रौपद्य्-आदिषु कष्टाधिक्यात् प्रेमाधिक्यं च दृष्टम् । तथा,
यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः ।
ततोऽधनं त्यजन्त्य् अस्य स्वजना दुःख-दुःखितम् ॥ [भा।पु। १०.८८.८]
इत्य्-आदि श्री-मुख-वाक्येन च भक्त-कष्टस्य हितैषिणा भगवतैव दीयमानत्वात् न कर्मारब्धत्वम् । किं चैतद् अपि न सार्वत्रिकं क्वचित् क्वचिद् अकष्टेनापि स्व-भक्त-भक्तिं वर्धयतीति विधित्सितं तु न कोऽपि वेदेत्य् उक्तम् । अनुभावं तु शिव-नारदादिर् एव वेद । अन्ये पुनर् मन्दा दाम-बन्धनादिकम् अप्य् अनुकरणत्वेन व्याचक्षाणा अनुभावम् अपि न विदुर् इति ॥१९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तान् दर्शयति—अस्येति । गुह्यतमम् अनुभावं प्रभावं महैश्वर्य-लक्षणं विधित्सितं तु न कोऽपीति भावः । क्वचिद्-भक्तस्य सर्वस्वम् अपहृत्य स्वस्मिंस् तत्-प्रेमाणं क्वचिद् अकष्टेन भक्तं तत्-प्रेमाणं च वर्धयतस् तस्य प्रसिद्धः । साक्षाद्-वेदेति सम्बन्धः । कपिलो भगवान् कार्दमिः ॥१९॥
॥ १.९.२० ॥
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
अकरोः सचिवं दूतं सौहृदाद् अथ सारथिम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्वम् अज्ञानाद् यम् एवं मन्यसे । मातुलेयं देवक्याः सुतम् । प्रियं प्रीति-विषयम् । मित्रं प्रीति-कर्तारम् । सुहृत्तमम् उपकारानपेक्ष्योपकारकं च । सौहृदाद् विश्वासात् । अकरोः कृतवान् असि । सचिवं मन्त्रिणम् ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अस्यानुभाव-ज्ञान-सद्-भाववताम् अपि भवतां सम्बन्ध-विशेष-मय-सर्वाच्छादक-माधुर्य-ज्ञानात्मक-प्रेम-विशेषेण वशीकारित्वं तु तैर् अपि दुर्लभम् इत्य् आह—यम् इति त्रयेण । सौहृदात् तादृश-प्रेम्ण एव हेतोः, यं मातुलेयं मन्यसे । अथ सारथिं सारथिम् अपीत्य् अर्थः । स एव साक्षाद् भगवान् इत्य्-आदि-पूर्वेणान्वयः । टीकायां मातुलेयाः इत्य्-आदिकं स्त्रीभ्यो ढक्-सिद्धार्थम् इत्थं व्याख्यातम् । मातुलस्यापत्यं मातुलायनिर् इत्य् एव स्यात्, वृद्धाद् अपत्ये फिस् । एवं सम्भवात् ॥२०॥ [प्रीति-सन्दर्भ ९५]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अनुभावम् एव दर्शयति—यम् इति । सर्वेश्वरस्यापि युष्मत्-सचिवत्व-दौत्यादिकं प्रेम-वश्यत्वानुभाव इत्य् अर्थः । अत्र यम् इत्य् अस्य अस्यानुभावम् इत्य् अनेन पूर्वेणैवान्वयः ॥२०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यत् क्वचित् स्वैकान्तिषु कष्ट-प्रदानं, तत्-तु तद्-विषयक-अनिष्ठं सौहृदम् अनुभावयितुम् एवेति भावेनाह—यम् इति । सर्वस्य शरणं सुहृत् [श्वे।उ। १७] इति मन्त्र-वर्णात् । तद् विना सर्वेश्वरं तं तथा कः शक्नुयान् मन्तुम् इति भक्तानन्दार्थम् एव तत्-प्रदानम् इति भावः ॥२०॥
॥ १.९.२१ ॥
सर्वात्मनः सम-दृशो ह्य् अद्वयस्यानहङ्कृतेः ।
तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्व् ईश्वरश् चेत् कथं नीचे सारर्थ्यादौ प्रवृत्तस् तत्राह—सर्वेति । अस्य तत्-कृतं नीचोच्च-मर्क-कृतं मम योग्यम् अयोग्यम् इति मतेर् वैषम्यं क्वचिद् अपि नास्ति । कुतः ? निरवद्यस्य रागादि-शून्यस्य । तत् कुतः ? अनहङ्कृतेः । तच् च कुतः ? अद्वयस्य । तद् अपि कुतः? सम-दृशः । तत्रापि हेतुः—सर्वस्यात्मनः । यथेष्टं वा हेतु-हेतुमद्-भावः ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु भवतु प्रीति-विशेषेणास्माकं तस्मिंस् तथा मतिस् तस्य सर्वेषां परमात्मनस् तस्माद् एव समदृशः परमात्मत्वाद् एव सर्वेषां तच्-छक्ति-वैभव-रूपाणाम् आत्मनां ततोऽनन्यत्वाद् अद्वयस्य तस्माद् एव मातुलेयोऽहम् इत्य् आद्य्-अभिमान-शून्यस्य, तथा निर्दोषस्य च कथम् अहम् अस्य मातुलेयः । न त्व् अमुषेत्वादि-रूपं मातुलेयत्वादि-कृतं मति-वैषम्यं स्याद् इत्य्-आदि-पूर्व-पक्षोट्टङ्कन-पूर्वकं सिद्धान्तयति सर्वात्मन इति । टीकायां सम-दृशः इत्य् अत्र समः सर्वत्राव्यभिचारी च सः । दृक् ज्ञान-रूपश् चेति बहुव्रीहौ हेतुत्वं न घटते ॥२१॥ [प्रीति-सन्दर्भ ९५]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु परमेश्वरस्य भक्ति-वशीकृतत्वे दौत्य-सारथ्यादिर् अपकर्ष एव, तस्मिंश् च सति कथं प्रेमा परमेश्वरस्य सुख-प्रद इत्य् अत आह—सर्वात्मन इति । निरवद्यस्य निर्दोष-प्रेमवतोऽस्य कृष्णस्य तत्-कृतं दौत्यादि-कृतं मति-वैषम्यं न । अत्र हेतुः सार्वकालिकं स्वतः सिद्धं महैश्वर्यम् एवेत्य् आह—सर्वात्मन इति । अर्जुनस्याप्य् आत्मा स एवेति स्वयम् एव सारथी रथी चेति । अत एव सम-दृशः समं तुल्यम् आत्मानम् एव सर्वत्र पश्यतः । सर्वात्मत्वाद् एवाद्वयस्य । द्वितीयाभावाद् एव अनहङ्कृतेर् गर्व-शून्यस्य । किं च, महैश्वर्य-हीनोऽप्य् अन्यः प्रेमी प्रेमत एव हेतोर् आत्मनो नीच-कर्मोत्थम् अपकर्षं क्लेशं च दुःखत्वेन न मन्यते । अस्य तु महैश्वर्यादेर् आनन्द-मात्रस्य कुतः प्रेमतो दुःखम् ? तस्माद् युष्माकम् एवोत्कर्षो यत एतादृशोऽपि परमेश्वरो भवतां दूत्यादिकं करोतीत्य् आहो वशीकारकत्वं प्रेम्ण इति भावः ॥२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **न च भक्त-सौहार्द-हेतुकेन दूत्य्-आदिना तस्यापकर्ष इत्य् आह—सर्वात्मनो निखिल-नियन्तुः समदृशो निखिलं मन्नियम्यम् इति सर्वत्र तुल्य-दृष्टेः । अद्वयस्येति प्राग्वत् । ईदृशान्याभावाद् एवानहङ्कृतेर् अगर्वस्य कृष्णस्य तत्-कृतं दूत्यादि-हेतुक मति-वैषम्यं ममेदं योग्यम् अयोग्यं वेति धी-द्वैधं नास्ति । तथा च भक्त-वात्सल्य-लक्षणो महोत्कर्ष एवेति भावः ॥२१॥
॥ १.९.२२ ॥
तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् ।
यन् मेऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तथापि समत्वेऽपि । हे भूप, अनुकम्पितम् अनुकम्पाम् ॥२२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यद्यपि तादृशस्य तन् न सम्भवति, तथापि हे भूप ! एकान्त-भक्तेषु युष्मास्व् अनुकम्पां पश्य । येषां भक्ति-विशेषेण पर-वशः सन्न् असाव् अपि तथा तथात्मानं बाढम् एवाभिमन्यत इत्य् अर्थः । यः खलु शरीरस्यापि सम्बन्ध-हेतुः सोऽभिमान एव हि सम्बन्ध-हेतुर् मुख्यः, न शरीरम् । एवं सति, स्वाविर्भावादिना शरीर-सम्बन्धेऽपि तस्य मातुलेयत्वादिकं सुतराम् एव सिध्यतीति तात्पर्यम् । तत्र हेतुर्—यन् मेऽसून् इति । यद् यस्मात् युष्मत्-सम्बन्धाद् एव हेतोः । तद् एवं परमोपादेयत्व-ज्ञानाद् एव तत्-सम्बन्धात्मक एव श्री-भगवानुत्क्रान्ताव् अपि मुहुर् एव निजालम्बनी-कृतः विजय-सखे रतिर् अस्तु मेऽनवद्या [भा।पु। १.९.३३] इति, पार्थ-सखे रतिर् ममास्तु [भा।पु। १.९.३५] इति, विजय-रथ-कुटुम्बः [भा।पु। १.९.३९] इत्य् आरभ्य भगवति रतिर् अस्तु मे मुमूर्षोः इति च ॥२२॥ [प्रीति-सन्दर्भ ९५]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथापीति । यद्यपि युष्मत्-तुल्यो न भवितुं शक्नोमीति भावः । अनुकम्पितम् अस्य मय्य् अनुकम्पां पश्य, ययाऽयम् आनन्द-मय-साक्षाद्-ब्रह्म-स्वरूपोऽप्य् एतादृशं बीभत्सितं मत्-समीप-स्थानं प्रस्थापित इत्य् अयम् अप्य् एकोऽनुभावोऽनुभूयताम् इति भावः । युष्माकं त्व् अयम् एवानुकम्प्य इति भावः ॥२२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भक्त-बन्धुतां दर्शयति—यद्यप्य् अयम् ईदृशः परमानन्दमयोऽतिशुचिस् तथाप्य् एकान्त-भक्तेषु अनुकम्पितं सौहार्दोज्-जृम्भितां कृपां पश्य, यद्-येनानुकम्पितेन वीभत्सितेऽस्मिन् स्थाने पतितस्य शस्त्र-विक्षत-सर्वाङ्गस्यासूंस्त्यजतो मे काले निर्याण-समये दर्शनं दृग्-गोचरतां स्वयम् आगत इति किम् अस्य तद्-वक्तुं शक्नुयाम् इति भावः ॥२२॥
॥ १.९.२३-२४ ॥
भक्त्यावेश्य मनो यस्मिन् वाचा यन्-नाम कीर्तयन् ।
त्यजन् कलेवरं योगी मुच्यते काम-कर्मभिः**8** ॥**
स देव-देवो भगवान् प्रतीक्षतां
कलेवरं यावद् इदं हिनोम्य् अहम् ।
प्रसन्न-हासारुण-लोचनोल्लसन्-
मुखाम्बुजो ध्यान-पथश् चतुर् भुजः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं स्व-देह-त्याग-पर्यन्तं श्री-कृष्णावस्थानं प्रार्थयते—भक्त्येति द्वाभ्याम् ॥२३॥
यावद् इति विलम्बं द्योतयति । अहं हिनोमि त्यजामीति स्वातन्त्र्यम् । इदम् इत्य् अनात्मत्वेन ज्ञातम् । प्रसन्न-हासेनारुण-लोचनाभ्यां चोल्लसद् रुचिरं मुखाम्बुजं यस्य । ध्यानस्य पन्था विषयः । योऽन्यैश् चिन्त्यते लेवलं सोऽग्रतः स्थितः सन् मां प्रतीक्षिताम् इत्य् अर्थः ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भक्त्येति युग्मकम् । योगी समहितान्तः-करणः सन् यस्मिन् भक्त्या मन आवेश्य वा, वाचा नम-मात्रं कीर्तयन् वा कलेवरं त्यजन् मुच्यते ॥२३॥
प्रसन्न-हासेत्य् आदिना तद्-दर्शन-बहु-कालतार्थम् एव शरीर-त्यगे विलम्बः कृत इति लभ्यते । ततश् च शरीरान्तर-प्राप्तौ सत्यां कदा वा दर्शनं स्याद् इत्य् उत्कण्ठा-इष्टत्वाद् इति गम्यते । यावन् न मे नर-दशा दशमी कुतोऽपि [कृ।क। १.३८]9 इत्य्-आदिकं हि श्री-लीला-शुकस्यापि प्रार्थनं श्रूयते ॥२४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रतीक्षतां क्षणम् अत्रैव तिष्ठतु, यावद् अहं किञ्चिद् विलम्ब्य चक्षुर्भ्याम् एव सौन्दर्यामृतं पिबन् स्वस्य मनोऽनुलापं प्रकाशयन् स्तौमीति भावः । मम उपास्यत्वाद् ध्यानस्य पन्था विषयीभूतो यः सर्व-कालम् एव भवेत्, स प्रसन्न-हासेत्यादि-रूपोऽस्मिन्न् अन्त-काले साक्षान्-नयन-गोचर एव तिष्ठत्व् इति भावः । चतुर् भुज इति भीष्मस्योपास्य-मन्त्र-ध्यानस्य तथात्वम् अवगमयति ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **योगोपसृष्ट-भक्ति-मतां तु स नैवम् इत्य् आह—भक्त्यावेश्येति ॥२३॥ \
\
अहं खलु तद् एक-प्रपन्नः, स मे सर्वं कर्तेत्य् आह—स इति । योऽन्येषां ध्यानपथो ध्यानेनैव हृदि भाव्यः, स मे पुरः-स्थितः सन् मां प्रतीक्षताम् । कियत्-कालम् इति चेत्-तत्राह—यावद् इदं कलेवरं हिनोमि त्यजामीति तत्-त्यागे स्वातन्त्र्यम् । चक्षुर्भ्यां तन्माधुर्य-सुधां पिवन् स्वमनोगतं च स्तुत्या प्रकाशरामि, तावद् इत्य् अर्थः । चतुर्भुजम् इति भीष्मस्योपास्य-रूपम् उक्तम् ॥२४॥
॥ १.९.२५ ॥
सूत उवाच—
युधिष्ठिरस् तद् आकर्ण्य शयानं शर-पञ्जरे ॥
अपृच्छद् विविधान् धर्मान् ऋषीणां चानुशृण्वताम्
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् सानुकम्पं वाक्यम् आकर्ण्य ॥२५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत् निज-चिर-स्थिति-प्रकाशकं श्री-भीष्मस्य वचनम् आकर्ण्य ॥२५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **युधिष्ठिरस् तद् आकर्ण्येति तर्हि मां कः प्रबोधयिष्यतीति व्यग्रोऽपृच्छत्—शयानं शरेति । यद्यपि तद्-दशायां प्रश्नानौचित्यं तद् अपि गत्य्-अन्तराभावाद् इति भावः ॥२५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तत्र युधिष्ठिरो राजा तत् सानुकम्पं तद्-वाक्यमाकर्ण्य शर-पञ्जरे शयानं भगवद्-दत्तेन वरेण निवृत्त-शस्त्रव्यथं करामलक-न्यायेन परिदृष्ट-परावरतत्त्वं भीष्मं धर्मान् अपृच्छत् ॥२५॥
॥ १.९.२६ ॥
पुरुष-स्व-भाव-विहितान् यथा-वर्णं यथाश्रमम् ।
वैराग्य-रागोपाधिभ्याम् आम्नातोभय-लक्षणान् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुरुष-स्वभावेन विहितान् नर-रजातिसाधारणान् वर्णयाम् आसेति तृतीयेनान्वयः । यथा-वर्णं वर्ण-धर्मान् । यथाश्रमम् आश्रम-धर्मांश् च । वैराग्य-रागाभ्याम् उपाधिभ्यां क्रमेणाम्नातम् उभयं निवृत्ति-प्रकृत्ति-रूपं लक्षणं येषां तान् ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पुरुष-स्वभावेन विहितान् प्रथमं नर-जाति-साधारणान् धर्मान् वर्णयामासेति तृतीयेनान्वयः । ततो यथा-वर्णं वर्ण-योग्य-धर्मान् योग्यतायाम् अव्ययीभावः । ततो यथाश्रमं ततो वैराग्य-रागाभ्यम् उपाधिभ्यां क्रमेणाम्नातम् उभयं निवृत्ति-प्रवृत्ति-रूपं लक्षणं येषां तान् । अयम् अर्थः—न हि ब्रह्मचर्यादय आश्रम-धर्माः सर्वैर् एव द्विजैः सर्वे क्रमेणैवानुष्ठेया इति नियमः । किन्तु वैराग्यं चेत् सदैव भिक्षवो भवेयुस् तदा रागश् चेद् गृहस्था एव सदेति ॥२६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पुरुषाणां स्वभावेन विहितान् नरजाति-साधारणान् धर्मान् वर्णयासासेति तृतीयेन सम्बन्धः । ततो यथावर्णं यथाश्रमम् इति योग्यतायाम् अव्ययीभावः, वर्ण-योग्यानाश्रम-योग्यांश् च धर्मान् इत्य् अर्थः । ततो वैराग्य-रागाभ्याम् उपाधिभ्यां क्रमेणाम्नात-मुक्तम् उभयं प्रवृत्ति-निवृत्ति-रूपं लक्षणं येषां तान् । अयम् अर्थः—न खलु ब्रह्म-चर्यादयश् चत्वार आश्रमाः सर्वैर् द्विजैः सर्वे क्रमाद् एवानुष्ठेयाः इति नियमः, किन्तु वैराग्ये तीक्ष्ने सति ब्रह्म-चर्याद् एव पारिव्राज्यं, विषय-रागे तु सति गार्हस्थ्ये स्थेयं, रागमान्द्ये तु क्रमाद् इति । यथाह श्रुतिः—ब्रह्मचर्यं समाप्य गृहीभवेद्-गृहीभूत्वा वनीभवेद्-वनीभूत्वा प्रव्रजेद् यदिवेतरथा ब्रह्मचर्याद् एव प्रव्रजेद् गृहाद् वा वनाद् वा, यद् अहर् एव विरजेत्-तद् अहर् एव प्रव्रजेद् इति [याज्ञवल्क्योप। १] तथा च श्रुत्यनुसारेण तान् वर्णयामासेति ॥२६॥
॥ १.९.२७ ॥
दान-धर्मान् राज-धर्मान् मोक्ष-धर्मान् विभागशः ।
स्त्री-धर्मान् भगवद्-धर्मान् समास-व्यास-योगतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुनस् तत्रैव विशेषम् आह—दानेति । मोक्ष-धर्मान् शम-दमादीन् । भगवद्-धर्मान् हरि-तोषणान् द्वादश्य्-आदि-नियम-रूपान् । समास-व्यासौ सङ्क्षेप-विस्तारौ ताव् एव योगाव् उपायौ ततस् ताभ्याम् ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च तत्रैव विशेषतो दान-धर्मान् इत्य्-आदि सर्वान्ते च भगवद्-धर्मान् भक्त्य्-अङ्गानिति मोक्ष-धर्मेभ्योऽप्य् अस्य पार्थक्यं श्रौष्ठ्यं च व्यञ्जितम् । समासः सङ्क्षेपो व्यासो विस्तरश् च तद्-द्वयोर् योगेन युक्ततया ॥२७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मोक्ष-धर्मान् शम-दमादीन् श्रवण-मननादींश् च भगवद्-धर्मान् पञ्चरात्रोक्तान् हरितोषकान् भक्त्-इरूपान् । समासः सङ्क्षेपः, व्यासो विस्तरः, तयोर् योगतः सम्बन्धात् ॥२७॥
॥ १.९.२८ ॥
धर्मार्थ-काम-मोक्षांश् च सहोपायान् यथा मुने ।
नानाख्यानेतिहासेषु वर्णयाम् आस तत्त्ववित्**10** ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धर्मादिंश् च यथाधिकारं प्रतिनियतोपाय-सहितम् । यथा यथावत् नानाख्यानेषु ये इतिहासास् तेषु यथा सन्ति तथा वर्णयाम् आसेति ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं चोक्ताः सर्वे धर्माश् चतुर्षु वर्गेषु एव पर्यवस्यन्तीत्य् उक्त-पोष-न्यायेन तान् एवाह—धर्मेति । उपाया धर्मादि-साधनानि । यथा यथावद् एव । नानाख्यानादिषु ये ये इतिहासास् तेषु प्रदर्श्य प्रमाणीकृतानित्य् अर्थः ॥२८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **धर्मादीन् यथाधिकारं, सहोपायान् साधनान् यथा यथावत् नानाख्यानेषु ये इतिहासास् तेषु ॥२८॥
॥ १.९.२९ ॥
धर्मं11** प्रवदतस् तस्य स कालः प्रत्युपस्थितः**12** ।**
यो योगिनश् छन्द-मृत्योर् वाञ्छितस् तूत्तरायणः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **छन्देनेच्छया मृत्युर् यस्य ॥२९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यो योगिन इति । तेषा तथैव व्यवसाय-मात्रं श्री-भीष्मस्य तु श्री-भगवद्-दर्शन-दीर्घत्वाय व्याज-मय एव स इति ज्ञेयम् । वक्ष्यते च श्री-स्वामिभिर् अपि द्वितीये, स्थिरं सुखं चासनं [भा।पु। २.२.१५] इत्य् आदौ, देशे च काले च मनो न सज्जयेद् इत्य् अत्र देशे पुण्य-क्षेत्रे काले च उत्तरायणादौ मनो न सज्जयेत् न सङ्गं प्रापयेत् । न देश-कालौ योगिनः सिद्धि-हेतू किन्तु योग एवेति इति ॥२९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्मं प्रवदत इत्य्-आदि । छन्देन इच्छयैव मृत्युर् यस्य तस्य ॥२९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **छन्देनेच्छया मृत्युर् यस्य योगिनो यः कालो वाञ्छितः ॥२९॥
॥ १.९.३० ॥
तदोपसंहृत्य गिरः सहस्रणीर्
विमुक्त-सङ्गं मन आदि-पूरुषे ।
कृष्णे लसत्-पीत-पटे चतुर् भुजे
पुरः स्थितेऽमीलित-दृग् व्यधारयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सहस्रणीर् युद्धे समीप-स्थान् सहस्रं रथिनो नयति पालयतीति सहस्रणीर् भीष्मः । “सहस्रिणीः” इति पाठे सहस्रार्थवतीर् गिरिः । लसन्तौ पीतौ पटौ यस्य तस्मिन् । अमीलित-दृग् एव मनो व्यधारयत् ॥३०॥
———————————————————————————————————————
कैवल्य-दीपिका : एवं जीवन्मुक्तं लक्षयित्वा स्तुत्वा चेदानीम् अवसिताधिकारस्य तस्य शरीर-पातम् आह—तदा इति । तदा तस्यां दशायां सहस्रणीः सहस्रेण व्यापाराणां लब्ध-बलाः गिरः उपसंहृत्य एतेन सर्वेन्द्रियोपरतिर् उपलक्षिता । अत एव विमुक्त-सङ्गं **मीलिता दृग् **बुद्धीन्द्रिय-वृत्तिः यस्मिन् मनसि निधाय मनः कृष्णे व्यधारयद् इत्य् अर्थः । अनेन प्रत्याहार-पूर्वा धारणोक्ता ॥३०॥ [मु।फ। १९.४४]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **युद्धे समीप-स्थान् सहस्रं रथिनो नयति परिपालयतीति सहस्रणीर् भीष्मः । सहस्रिणीर् इति पाठे सहस्रार्थवतीर् गिरः उपसंहृत्य अन्यतः प्रत्याहृत्य अमीलित-दृग् एव चक्षुषी स्पष्टम् उन्मील्यैव व्यधारयत् आ-नख-शिखं प्रवेशयामास ॥३०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सहस्राणि रथिनो नयति पालयतीति सहस्रणीर् भीष्मः, “सहस्रिणीर्” इति पाठे सहस्रार्थवतीर्गिर उपसंहृत्यान्यतः प्रत्याहृत्य अमीलितदृगेव मनो व्यधारयत् । योगिनां मनसाप्यगम्यं चक्षुर्भ्यां वीक्षमाणः सन्न् आनख-शिखं तत्-प्रवेशयामास इत्य् अर्थः ॥३०॥
॥ १.९.३१ ॥
विशुद्धया धारणया हताशुभस्
तद्-ईक्षयैवाशु गतायुध-श्रमः ।
निवृत्त-सर्वेन्द्रिय-वृत्ति-विभ्रमस्
तुष्टाव जन्यं विसृजन् जनार्दनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनयैव विशुद्धया धारणया हतम् अशुभं यस्य सः । तस्य श्री-कृष्णस्यापेक्षया कृपा-दृष्ट्यैव गत आयुध-श्रमो यस्य सः । अत एव निवृत्तः सर्वेन्द्रिय-वृत्तीनां विभ्रमो विविधं भ्रमणं यस्मात् सः । जन्यं देहं विसृजन् जनार्दनम् अस्तौत् ॥३१॥
———————————————————————————————————————
कैवल्य-दीपिका : विशुद्धा निष्कामाः अशुभं पूर्वम् अघं तस्य श्री-कृष्णस्य ईक्षया साक्षात्कारेण गतानि आयुध-व्यथानि यस्य, स तथा । आयुधवत् व्यथयन्ति इत्य् आयुध-व्यथानि उत्तर-पापानि । तथा चोक्तं—तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [वे।सू। ४.१.१३] । श्रुतिश् च—यथेषीका-तूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते [छा।उ। ५.२४.३] इति । विभ्रमो विविधं भ्रमणम् । तत्र तत्रासन्तोषात् । तस्य निर्वृतिर् अपूर्व-कृष्णाख्यं विषय-लभ्यात् जन्यं शरीरं विसृजन् त्यजन् । जनार्दनं कैवल्य-दातारं पुरुषम् इत्य् उचित-पद-प्रयोगः ॥३१॥ [मु।फ। १९.४५]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-ईक्षया एवेति तत्-कर्मकेक्षया तद्-आगमन-समयाद् एव लब्धयेति प्रथम-वृत्तम् उक्तम् ॥३१॥ [प्रीति-सन्दर्भ २०३]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशुद्धया इत्य्-आदि । तद्-ईक्षया श्री-कृष्ण-कर्तृकेण कृपावलोकेन विभ्रमो विविध-भ्रमणम् अस्थैर्यम् इत्य् अर्थः । जन्यं स्थूल-देहं मायिक-प्रपञ्चं वा ॥३१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तस्य कृष्णस्य ईक्षया कृपावलोकेन **विभ्रमो **ऽस्थैर्यं, जन्यं देहं प्रपञ्चं वा ॥३१॥
॥ १.९.३२ ॥
श्री-भीष्म उवाच—
इति मतिर् उपकल्पिता वितृष्णा
भगवति सात्वत-पुङ्गवे विभूम्नि ।
स्व-सुखम् उपगते क्वचिद् विहर्तुं
प्रकृतिम् उपेयुषि यद् भव-प्रवाहः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परम-फल-रूपां श्री-कृष्णे रतिं प्रार्थयितुं प्रथमं स्व-कृतम् अर्पयति । इति नाना-धर्माद्य्-उपायैर् **मतिर् **मनो-धारण-लक्षणा उपकल्पिता समर्पिता । क्व ? सात्वतानां पुङ्गवे श्रेष्ठे भगवति । वितृष्णा निष्कामा । अवितृष्णेति वा छेदः, अवितृप्तेत्य् अर्थः । विगतो भूमा यस्मात् तस्मिन्, यम् अपेक्ष्यान्यत्र महत्त्वं नास्तीत्य् अर्थः । तद् एव परमैश्वर्यम् आह । स्व-सुखं स्व-स्वरूप-भूतं परमानन्दम् उपगते प्राप्तवत्य् एव । क्वचित् कदाचिद् विहर्तुं क्रीदितुं प्रकृतिं योग-मायाम् उपेयुषि स्वीकृतवति, न तु स्वरूप-तिरोधानेन जीववत् पारतन्त्र्यम् इत्य् अर्थः । विहर्तुम् इति यद् उक्तं तत् प्रपञ्चयति—यद् यतः प्रकृतेर् भव-प्रवाहः सृष्टि-परम्परा भवति ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सात्वत-पुङ्गवे इति धारणा-विषयस्य तस्य विशेषणं न तूपलक्षणम् इति ज्ञेयम् । विभूम्नि विशेषेण भूमातिशयो यस्मिन् तत्र भूम-वाक्यवद् भूम-शब्देनात्र परमातिशय्य् एव चोच्यते । वि-शब्दस् तु तद् व्यक्त्य् अर्थ एव । क्वचिद् इत्य्-आदिना पुरुषावतार-कर्तृत्वम् उक्तम् ॥३२॥ [कृष्ण-सन्दर्भ ३७]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति मतिर् इत्य्-आदि । इति ममायुः-समाप्तौ मतिर् भगवति उपकल्पिता मत्-प्रभौ मद्-अन्त-काले कृपा-परवशतयैव मत्-समीपम् आगते किञ्चिद् उपायनं दतुम् उचितं । तत्र सम्प्रति मम् आहन्तास्पद-ममतास्पदयोर् मध्ये समीचीनं किम् अप्य् अन्यन् नास्तीति हेतोर् एषा मतिर् एवोपायनत्वेन कल्पिता ।
ननु उपायन-दायिनो लोके किञ्चिज् जिघृक्षवो दृश्यन्ते ? तत्राह—वितृष्णा निष्कामा । भगवति षड्-ऐश्वर्य-पूर्णे । किं नारायणत्वेन प्रसिद्धे ? न, सात्वत-पुङ्गवे यदु-कुलोत्तंसत्वेन प्रसिद्धे ।
ननु नारायणस्यैव भगवत्त्वेन महती प्रसिद्धिश् च सार्वकालिकी तत्राह—विभूम्नि इति । विगतो भूमा यस्मात्, तस्मिन् यम् अपेक्ष्यान्यत्र महत्त्वं नास्तीति नारायणास्याप्य् अवतारिणीत्य् अर्थः । तद् अपि स्वैर् यादव-पाण्डवैर् एव सह सुखं परमानन्दम् । उप आधिक्येन प्राप्त इति स्वरूप-लक्षणम् उक्तम् । तटस्थ-लक्षणम् आह—प्रकृतिं मायाम् ईक्षणेन महत्-तत्त्वाद्य्-उत्पादकतया उपेयुषि । यतः प्रकृतेर् भव-प्रवाहः सृष्टि-परम्परा तेन पुरुषादयोऽप्य् अस्यैवावतारा इति भावः ॥३२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इति मद्-आयुः-समाप्तौ सात्वत-पुङ्गवे यादवेन्द्रे भगवति कृपा-पारवश्येन मद्-अन्तिकम् आगते श्री-कृष्णे मया तद्-एक-निष्ठा मति-रुपकल्पिता उपायनत्वेनार्पिता । कीदृशीत्य् आह—वितृष्णा तद् अन्य-फलेच्छाशून्या । कीदृशे इत्य् आह—विभूम्नि विभौ नित्ये इत्य् अर्थः । स्वैर्यादवैः पाण्डवैश् च सह सुखं लीला-नन्दम् उपगते । क्वचित् क्वचाचित् स्वांशेन प्रकृतिम् उपेयुषि तत्-प्रेक्षके, यतः प्रकृतेर् भवप्रवाहः सृष्टि-परम्परा वर्तते ॥३२॥
॥ १.९.३३ ॥
त्रि-भुवन-कमनं तमाल-वर्णं
रवि-कर-गौर-वराम्बरं दधाने ।
वपुर् अलक-कुलावृताननाब्जं
विजय-सखे रतिर् अस्तु मेऽनवद्या ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं श्री-कृष्ण-मूर्तिं वर्णयन् रतिं प्रार्थयते—त्रि-भुवन-कमनं त्रि-लोक्याम् एकम् एव कमनीयं यत्, तद् वपुर् दधाने रतिर् मेऽस्तु । कथं-भूतं वपुः ? तमालवन् नीलो वर्णो यस्य तत् । प्रातः-कालीना रवेः करा इव स्वतो गौरे पीते वरे निर्मले च अम्बरे यस्मिंस् तत् । अलक-कुलैर् उपर्य् आवृतम् आननाब्जं यस्मिंस् तत् । विजय-सखे पार्थ-सारथौ अनवद्या अहैतुकी फलाभिसन्धि-रहिता रतिर् अस्तु ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु इति मतिर् उपकल्पितेत्य् उक्ता या, सा किम्-आकारा मतिः ? तत्राह—त्रिभुवन- इति । विजयस्य अर्जुनस्य सख्यौ ममानवद्या फलाभिसन्धान-रहिता रतिः प्रेम अस्तु । कीदृशे ? त्रिभुवनस्य ऊर्ध्वाधो-मध्य-लोक-स्थ-जन-समुदायस्य कमनम् अभिलाषो यत्र तद् वपुर् दधाने । रवेः करैर् गौर-वरे अतिगौरी-कृते अम्बरे यत्र । तद् अर्जुन-रथोपरि-स्थितस्य कृष्णस्य पीताम्बर-द्वयं सूर्य-किरण-सम्पर्काद् अतिचाकचिक्यवत्त्वेन तदानीम् अतिपीतं मया दृष्टं, तेन पार्थ-सारथित्वेनोपलब्ध-महा-सौन्दर्ये कृष्णे रतिः प्रार्थना-मयी मतिर् मया तस्मिन्न् एवोपकल्पितेति भावः । अत्र चाग्रिमेष्व् अपि श्लोकेषु साक्षाद्-वर्तिन्य् अपि भगवति प्रार्थनायां युष्मत्-पद-प्रयोगाभावः आस्वादित-चरे च साङ्ग्रामिक-वीर-रसावेश-मये तन्-माधुर्ये एव चित्तस्यासक्तिं बोधयति ॥३३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भगवद्-रूपासक्तस् तत्र रतिं प्रार्थयते—विजय-सखे अर्जुन-मित्रे रतिर् अस्तु । कीदृशे? तमाल-नीलं वपुर् दधाने प्रकटयति,
अनादेयम् अहेयं च रूपं भगवतो हरेः ।
आविर्भाव-तिरोभावावस्योक्ते ग्रह-मोचने ॥ इति स्मृतेः ।
वपुः कीदृक्? त्रिभुवनस्य कमनं स्पृहा यत्र तत् । रवि-करैः गौर-वरे अतिपीते अम्बरे यत्र तत् । रतिः कीदृशी ? अनवद्या तद्-वपुर्-अन्य-फल-वाञ्छा-शून्या ॥३३॥
॥ १.९.३४ ॥
युधि तुरग-रजो-विधूम्र-विष्वक्-
कच-लुलित-श्रम-वार्य्-अलङ्कृतास्ये ।
मम निशित-शरैर् विभिद्यमान-
त्वचि विलसत्-कवचेऽस्तु कृष्ण आत्मा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विजय-सखित्वम् एवानुवर्णयन् रतिं प्रार्थयते । युधि युद्धे तुरगाणां खुर-रजस् तुरग-रजः, तेन विधूम्रा धूसराः, ते च ते विष्वञ्च इतस् ततश् चलन्तः कचाः कुन्तलाः, तैर् लुलितं विकीर्णं श्रम-वारि स्वेद-बिन्दु-रूपं, तेन भक्त-वात्सल्य-द्योतकेन अलङ्कृतम् आस्यं यस्य, तस्मिन् श्री-कृष्णे मम आत्मा मनोऽस्तु रमताम् इत्य् अर्थः । पुनः किं-भूते ? मदीयैर् निशितैस् तीक्ष्णैः शरैर् विभिद्यमाना त्वग् यस्य, तस्मिन् । शरैर् एव विलसत् त्रुट्यत् कवचं यस्य, तस्मिन् ॥३४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ प्राक्तनं स्वापराधं तस्मिन् दैन्येन विज्ञापयन्न् अपि रतिम् एव प्रार्थयते—युधि इति । मम निशित- इत्य्-आदिकं तु मायिक-लीला-वर्णनम् एव । एवं वदन्ति राजर्षे ऋषयः केचनान्विताः [भा।पु। १०.११.३०] इत्य्-आदि-न्यायेन वास्तवत्व-विरोधात् । तथा हि स्कान्दे,
असङ्गश् चाव्ययोऽभेद्योऽनिग्राह्योऽशोष्य एव च ।
विद्धोऽसृग्-आचितो बद्ध इति विष्णुः प्रदृश्यते ॥
असुरान् मोहयन् देवः क्रीडत्य् एष सुरेष्व् अपि ।
मानुषान् मध्यया दृष्ट्या न मुक्तेषु कथञ्चन ॥ इति ।
श्री-भीष्मस्य युद्ध-समये दैत्याविष्टत्वट् तथा भानं युक्तम् एव । किन्त्व् अधुना दुःस्वप्न-दुःखस्येव तस्य निवेदनं कृतम् इति ज्ञेयम् । किं च, तुरग- इत्य्-आदि मम निशित- इत्य्-अन्तैर् विशेषणैस् तथाप्य् अर्जुन-साहाय्यापरित्यागात् तस्य भक्त-वात्सल्यं दर्शितम् । स्वस्यापराधित्वेऽपि साम्प्रतं तद्-अनुगृहीतत्वं ज्ञापितम् ॥३४॥ [भगवत्-सन्दर्भ ६०]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अलक-कुलैर् आवृतम् आननाब्जं यद् उक्तं, तन् माधुर्यम् एव त्यक्तुम् असमर्थः पुनर् अपि विशिष्यास्वादयति—युधि इति । तुरग-रज इति “सुन्दरे किम् असुन्दरम् ?” इति न्यायेन । विष्वञ्च इतस् ततश् चलन्तः कचा इति आवेग-सूचकम् । श्रम-वारि इति भक्त-वात्सल्य-द्योतकम् । निशितैस् तीक्ष्णैर् विभिद्यमान-त्वचि इति कन्दर्प-रसाविष्टस्य पुंसः प्रगल्भ-कान्ता-दन्ताघातैः सुखम् एवेतिवद् युद्ध-रसाविष्टस्य महा-वीरस्य कृष्णस्य मद्-बल-सूचक-शराघातैः सुखम् एवेति । नात्र मम युद्ध-रसोन्मत्तस्यापि प्रेम-शून्यत्वं मन्तव्यम् । न हि स्व-प्राण-कोट्याधिके प्रेयसि सुरत-समरौद्धत्य-कृत-निर्भर-नखर-दशनाघाता वनिता प्रेम-शून्या कथ्यत इति भावः । अत्र तु विभिद्यमान-त्वचि न तु विभिन्न-त्वचि यतो विलसद्-विराजमानं कवचं यस्य तस्मिन्न् इति ईषद्-भेद-मात्रम् उक्तम् । आत्मा मनः ॥३४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अलक-कुलावृताननाब्ज-माधुर्य-निमग्न-मनाः स्तौति—युधि इति । तुरग-रजोभिर् धूम्रा धूसर विष्वञ्च आवेग-वशाद् इतस् ततश् चलन्तो ये कचाः अलकाः, तैर् लुलितं विकीर्णं श्रम-वारिणा बिन्दु-रूपेण भक्त-वात्सल्य-सूचकेन अलङ्कृतं च आस्यं यस्य, तस्मिन् कृष्णे ममात्मा मनोऽस्तु ।
ननु प्रेम-विषये मयि कथं तव बाण-प्रयोग इति चेत्? त्वत्-सुखायेति भावेन विशिनष्टि—मम निशितैस् तीक्ष्नैः शरैर् विभिद्यमाना न तु विभिन्न त्वग् यस्य, तस्मिन्न् इति सच्-चिद् आनन्दत्वाद् अभेद्ये त्वयि न शर-कृता विकृतिः, अपि तु महा-वीरे युद्धोद्दीपनैव कृतेति न मे प्रेम-शून्यत्वम् । न खलु प्रेयसि तरुण्याः पाणिजादि-क्षतानि वैमनस्याय, अपि तु प्रसादायैवेति भावः ॥३४॥
॥ १.९.३५ ॥
सपदि सखि-वचो निशम्य मध्ये
निज-परयोर् बलयो रथं निवेश्य ।
स्थितवति पर-सैनिकायुर् अक्ष्णा
हृतवति पार्थ-सखे रतिर् ममास्तु ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च । सपदीति ।
सेनयोर् उभयोर् मध्ये रथं स्थापय मेऽच्युत ।
यावद् एतान् निरीक्ष्येऽहं योद्धुकामान् अवस्थितान् ॥ [गीता।१.२१-२२]
इत्य् सख्युर् अर्जुनस्य वचो निशम्य सपदि तत्-क्षणम् एव स्व-परयोर् बलयोः सैन्ययोर् मध्ये रथं निवेश्य स्थिते पार्थ-सखे मम रतिर् अस्तु । तत्र स्थित्वा कृतं सख्यं दर्शयति । परस्य दुर्योधनस्य सैनिकानाम् आयुर् अक्ष्णा काल-दृष्ट्या हृतवति । असौ भीष्मोऽसौ द्रोणोऽसौ कर्ण इत्य्-आदि-तत्-प्रदर्शन-व्याजेन दृष्ट्यैव सर्वेषाम् आयुर् आकृष्यार्जुनस्य जयं कृतवति ॥३५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सपदीति । तत्र अक्ष्णा आयुर् हरणेन प्रारब्ध-हरत्वम् अपि दर्शितम् ॥३५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, सपदीति ।
सेनयोर् उभयोर् मध्ये रथं स्थापय मेऽच्युत ।
यावद् एतान् निरीक्ष्येऽहं योद्धुकामान् अवस्थितान् ॥ [गीता।१.२१-२२]
इति सख्युर् अर्जुनस्य वचः । परस्य दुर्योधनस्य सैनिकानाम् आयुर् अक्ष्णा ”असौ भीष्मः, असौ द्रोणः, असौ कर्णः” इति तत्-तत्-प्रदर्शन-व्याजेन दृष्ट्या एव हृतवति, तेन च प्रारब्ध-हरत्वम् अपि दर्शितम् । यम् इह निरीक्ष्य गता गताः सरूपं [भा।पु। १.९.४०] इति तेषां मोक्षोक्तेः ॥३५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
सेनयोर् उभयोर् मध्ये रथं स्थापय मेऽच्युत! ।
यावद् एतान्-निरीक्षेऽहं योद्धु-कामान् अवस्थितान् ॥ [गीता १.२१] इति
सख्युर् अर्जुनस्य वचो निशम्य निज परयोर् बलयोर् मध्ये रथं निवेश्य स्थितवति पार्थ-सखे कृष्णे मम मतिर् अस्तु । तत्र स्थित्वा कृतं सख्यम् आह—पर-सैनिकानां दुर्योधन-वीराणाम् आयुर् अक्ष्णा काल-शक्ति-सङ्क्रान्तेन तत्-तत्-प्रदर्शन-व्याजेन हृतवति ॥३५॥
॥ १.९.३६ ॥
व्यवहित-पृतना-मुखं निरीक्ष्य
स्व-जन-वधाद् विमुखस्य दोष-बुद्ध्या ।
कुमतिम् अहरद् आत्म-विद्यया यश्
चरण-रतिः परमस्य तस्य मेऽस्तु ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **न केवलम् अर्जुनस्य सपत्नायुर् हरणेनैव जयम् आहवत्, किंत्व् अविद्या-हरणेनापीत्य् आह । व्यवहिता दूरे स्थिता या पृतना, तस्या मुखम् इव मुखम् अग्रे स्थितान् भीष्मादीन् निरीक्स्य इत्य् अर्थः । स्व-जन-वधाद् विमुखस्य निवृत्तस्य । तद् उक्तं गीतासु
एवम् उक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य स-शरं चापं शोक-संविग्न-मानसः ॥ [गीता। १.४६] इति ।
कुमतिम् अहं हन्तेत्य्-आदि-कुबुद्धिम् ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च व्यवहिता दूरे स्थिता या पृतना सेना, तस्या मुखम् इव मुखम् अग्रे स्थितान् भीष्मादीन् निरीक्ष्य इत्य् अर्थः, स्वजन-वधाद् विमुखस्य इति यद् उक्तं
एवम् उक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य स-शरं चापं शोक-संविग्न-मानसः ॥ [गीता। १.४६] इति ।
इति कुमतिं साम्प्रतिकीं युधिष्ठिरस्येव तदानीन्तनीम् अर्जुनस्यापि स्वयं भगवतैवोत्थापितां । तस्य नित्य-पार्षदत्वान् नरावतारत्वाच् च कुमतेर् असम्भवात् जगद्-उद्धारक-स्व-तत्त्व-ज्ञापक-श्री-गीता-शास्त्रम् आविर्भावयितुम् इति ज्ञेयम् । आत्म-विद्यया स्व-निष्ठ-ज्ञानेन ॥३६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विश्वोद्धार-हेतु-श्री-गीतोपनिषत्-प्रकाशकेऽति-कृपालौ कृष्णे रतिं प्रार्थयति—व्यवहिताया दूर-स्थितायाः पृतनायाः सेनाया मुखं पुरः-स्थितान् भीष्मादीन् निरीक्ष्य दोष-बुद्ध्या स्वजन-वधात् युद्धात् स्व-धर्माद् अपि निवृत्तस्य सशरं चापं विसृज्य शोचतोऽर्जुनस्य आत्म-विद्यया यः कुमतिम् अहरत्, तस्य चरण-रतिर् इत्य् अन्वयः । यथा युधिष्ठिरे कुमतिम् आधाय इदानीं मद्-उपकृतिः कृता, तथार्जुने ताम् आधाय विश्वोपकृतिर् इति कृपालुता महतीति ॥३६॥
॥ १.९.३७ ॥
**स्व-निगमम् अपहाय मत्-प्रतिज्ञाम् **
ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः ।
धृत-रथ-चरणोऽभ्ययाच् चलद्गुर्
हरिर् इव हन्तुम् इभं गतोत्तरीयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मम तु महान्तम् अनुग्रहं कृतवान् इत्य् आह द्वाभ्याम् । स्व-निगमम् “अशस्त्र एवाहं साहाय्य-मात्रं करिस्यामि” इत्य् एवं-भूतां स्व-प्रतिज्ञां हित्वा, श्री-कृष्णं शस्त्रं ग्राहयिष्यामीत्य् एवं-रूपां मत्-प्रतिज्ञाम् ऋतं सत्यं यथा भवति, तथा अधि अधिकां कर्तुं यो रथ-स्थः सन् अवप्लुतः सहसैवावतीर्णः सन् योऽभ्ययाद् अभिमुखम् अधावत्। इभं हन्तुं हरिः सिम्हः इव । किं-भूतः ? धृतो रथ-चरणश् चक्रं येन सः । तदा संरम्भेण मानुष्य-नाट्य-विस्मृतेर् उदर-स्थ-सर्व-भूत-भुवन-भारेण प्रतिपदं चलद्गुश् चलन्ती गौः पृथ्वी यस्मात् सः । तेनैव संरम्भेण पथि गतं पतितम् उत्तरीयं वस्त्रं यस्य, स मुकुन्दो मे गतिर् भवत्व् इत्य् उत्तरेणान्वयः ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-निगम इति युग्मकम् । **ऋतम् **इति ऋत-रूपाम् इत्य् अर्थः । ऋतं च सुनृता वाणि [भा।पु। ११.१९.३८] इति भगवद्-उक्ताव् अजहल्-लिङ्गत्व-श्रवणात् । चलद्गुत्वं संरम्भेण किञ्चिद् भाराविष्कारात् ॥३७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्वस्माद् अपि स्व-भक्तम् उत्कर्षयतीति यत् श्रुतं, तन् मया स्वस्मिन्न् एव साक्षाद् दृष्टम् इत्य् आह द्वाभ्याम् । स्व-निगमम् “अशस्त्र एवाहं साहाय्य-मात्रं करिष्यामि” इति स्व-प्रतिज्ञां हित्वा श्री-कृष्णं शस्त्रं ग्राहयिष्यामीत्य् एवं-रूपां मत्-प्रतिज्ञाम् ऋतं सत्यं यथा भवति, तथा अधि अधिकां कर्तुं रथ-स्थः सन्न् एव अवप्लुत इत्य् अतिलाघवेनावप्लुतिम्, अतस् तस्य रथाद् विश्लेषः केनापि न लक्षित इति भावः । अलक्षित-प्रकाशेनैकेन रथ-रक्षार्थं स्थित एवेति वा । ऋतम् इति सा लीला एव स्वाभाविक्य् एव, न तु मद्-अनुरोधेनैव कृतेति भावः । धृतो रथ-चरणश् चक्रं येन सः । अभ्ययात् अभिमुखम् अधवत् ।
धावनेनातिसंरम्भेणाविष्कृत-निज-महा-बलत्वाच् चलन्ती गौः पृथ्वी यस्मात् सः । गतं पतितम् उत्तरीयं यस्य सः । अतिसंरम्भेणोत्तरीयं गात्रात् पतितम् अस्ति नास्ति वेत्य् अपि नानुसन्दधान इत्य् अर्थः ।
अत्र कृष्णेन स्व-भक्त-वात्सल्य-गुणस्य दुस्त्यजत्वात् अर्जुनस्य युद्धासामर्थ्ये सति स्व-प्रतिज्ञाम् अपि त्यक्त्वा स्वयम् एवार्जुनस्य रक्षार्थं शस्त्रेण योत्स्यते एव तच् चार्जुनस्यासामर्थ्य-प्रापणम् अन्यैर् दुःशकम् इत्य् अतः क्षणम् अर्जुनं पराभूयास्य युद्धं भक्त-वात्सल्य-द्योतकं द्रक्ष्यामीति भीष्मस्य स्व-मनोरथ-सिद्ध्य्-अर्थैव प्रतिज्ञेति । अतः स्व-प्रतिज्ञा-भङ्गेनार्जुने स्व-प्रेमाणं तं दर्शयित्वा भीष्मं प्रमोद्य तस्योत्कर्षं च लोके विख्यापयामासेति तत्त्वम् ॥३७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भक्त-वात्सल्यं तवात्य् अद्भुतं यत् स्वोत्कर्षम् उपेक्ष्य भक्तम् उत्कर्षयसीत्य् आह द्वाभ्याम् । स्व-निगमम् अपहाय “शस्त्र-शून्यः पार्थ-साहायं विधास्यामि” इति स्व-प्रतिज्ञां त्यक्त्वा ऋतं सत्यं यथा भवेत्, तथा कृष्णेन शस्त्रं ग्राहयिष्यामीति मत्-प्रतिज्ञाम् अधिकां कर्तुं रथस्थोऽवप्लुतः अतिलाघवाद् अन्यालक्षितावप्लुतिक इत्य् अर्थः । रथ-रक्षार्थं तत्र स्थित एव रूपान्तरेण तस्माद् अवप्लुतो वा धृत-रथ-चरणो गृहीत-चक्रः सन् मां हन्तुम् अभ्ययाद् अभिमुखम् अधावत्, **इभं हन्तुं हरिः **सिंह इवेति दुःसह-तेजस् त्वं सूच्यते । अतिसंरम्भावेशाद् धावनाच् चलन्ती कम्पमाना गौर् भूमिर् यस्मात् सः, तस्माद् एव गतं भुवि निपतितम् उत्तरीयं यस्य सः । त्यक्त-प्रतिज्ञोऽयं प्रभुः प्रलय-वेलां विनापि मां संहरिष्यतीति भीत्या सकम्पां भूमिं प्रसादाम्बरार्पणेनाश्वासयन्न् इवोत्प्रेक्षित इत्य् अर्थः ॥३७॥
॥ १.९.३८ ॥
शित-विशिख-हतो विशीर्ण-दंशः
क्षतज-परिप्लुत आततायिनो मे ।
प्रसभम् अभिससार मद्-वधार्थं
स भवतु मे भगवान् गतिर् मुकुन्दः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं यदाभ्ययात् तदा स्मयमानस्याततायिनो धन्विनो मे शितैस् तीक्ष्णैर् विशिखैर् हतोऽतो विशीर्ण-दंशो विध्वस्त-कवचः क्षतजेन रुधिरेण परिप्लुतो व्याप्तः सन् प्रसभं बलाद् वारयन्तम् अर्जुनम् अप्य् अतिक्रम्य मद्-वधार्थम् अभिससार अभिमुखं जगाम । एवं यो लोक-प्रतीत्यार्जुन-पक्ष-पातीव लक्षितो वस्तुतस् तु ममैवानुग्रहं कृतवान् यन् मद्-भक्तेनोक्तं वचो मा मृषाऽस्त्व् इति स भगवान् मे गतिर् भवत्व् इत्य् अर्थः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, यदैव रथाद् भूमाव् अवप्लुतः, तदैव क्षतजैः रुधिरैः परिप्लुतः साङ्ग्रामिक-रुधिर-नद्या बिन्दु-व्याप्तः । ननु कवचस्य विद्यमानत्वात् कथं तथात्वम् ? तत्राह—मम शितैर् विशिखैर् हतस् तस्य संरम्भ-सुख-वर्धनार्थं, तद् अपि मया हन्यते स्मैवेति भावः । यतो विशीर्ण-कवचः प्लवनात् प्राग् एवाभवद् इत्य् अर्थः । प्रसभं बलात् वारयन्तम् अर्जुनम् अप्य् अतिक्रम्य मद्-वधार्थम् “अद्य स्व-हस्तेनैव भीष्मं वधिष्यामि” इत्य् अभिप्रायेणेत्य् अर्थः । अभिससार इत्य् अत्राभि-शब्देनाभिसरन्तं नायकम् आलोकितवत्या नायिकाया इव तदानीं मम सुखम् अपारम् एवाभूद् इति द्योत्यते । न अन्येषां मुकुन्दो मुक्ति-प्रदोऽपि मम तु गतिस् तथा-भूतत्वेनैव प्राप्यो भवत्व् इति । हे कृष्ण ! त्वाम् अहम् एतद् एव प्रार्थये इति भावः ॥३८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यदाभ्ययात्, तदा स-स्मितस्य अततायिनः शस्त्र-पाणेर् मे शितैर् विशिखैर् बाणैर् हतः ताडितः, तत एव विशीर्ण-दंशो भिन्न-कवचः । क्षतजैः सङ्ग्रामिक-रुधिर-सरिद्-बिन्दुभिः परिप्लुतो व्याप्ताङ्गः । प्रसभं हठान् निवारयन्तम् अर्जुनम् अतिक्रम्य मद्-वधार्थं योऽभिससार, स मे गतिर् इत्य् अन्वयः । इह केचिद् आहुः—भीष्मदीनां तद् आसुवावेशात् तथा प्रतीतिर् इति राजन् परस्य [भा।पु। ११.३१.२१] इति पद्य-टिप्पन्यां व्याख्यास्यते, अधुना तद्-आवेश-क्षयात् क्षमापणं कृतम् इति ॥३८॥
॥ १.९.३९ ॥
विजय-रथ-कुटुम्ब आत्त-तोत्रे
धृत-हय-रश्मिनि तच्-छ्रियेक्षणीये ।
भगवति रतिर् अस्तु मे मुमूर्षोर्
यम् इह निरीक्ष्य हता गताः स-रूपम्13** ॥ \
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवम् अन्यायैर् अपि भृत्य-रक्षा-व्यग्रे कृष्णे रतिम् आशास्ते । विजयोऽर्जुनस् तस्य रथ एव कुटुम्बम् अकृत्य-शतैर् अपि रक्षणीयो यय तस्मिन् । आत्तं तोत्रं प्रतोदो येन तस्मिन् । धृताश् च ते हयानां रश्मयः प्रग्रहास् ते सन्ति यस्य तस्मिन् । व्रीह्य्-आदिभ्यश् च इत्य् अनकारान्ताद् पि रश्मि-शब्दादिनिः । तच्-छ्रिया तया सारथ्य-श्रिया ईक्षणीये शोभमाने । मुमूर्षोर् मर्तुम् इच्छोः । नन्व् अन्याय-वर्तिनि किम् इति रतिः प्रार्थ्यते ? अत आह—भगवत्य् अचिन्त्यैश्वर्ये । तद् आह—इह युद्धे हताः सर्वे यं निरीक्ष्य स-रूपं तत्-समानं रूपं गताः प्राप्ता इति दिव्य-दृष्ट्या पश्यन्न् आह ॥३९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विजयेति युग्मकम् । मर्यादातिक्रमेऽप्य् अदोषाय सामर्थ्यम् आह—भगवतीति । यथारुद्रोऽब्धिजं विषं [भा।पु। १०.३३.३०] इति न्यायात् । तद्-अतिक्रमे च स्वाभाविकं कारुण्यम् एव कारणम् इति दर्शयति—**यम् इह **इति । अतोऽस्मिन्न् एव रतिर् ममास्तु ॥३९॥ [प्रीति-सन्दर्भ ८१]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवम् अन्यायैर् अपि भक्त-रक्षा-व्यग्रे कृष्णे रतिम् आशास्ते । विजयस्य अर्जुनस्य रथ एव कुटुम्बोऽकृत्यैर् अपि रक्षणीयो यस्य तस्मिन् । तोत्रं प्रतोदः । रश्मयः प्रग्रहाः, धृता हय-रश्मयो यस्य सन्तीति व्रीह्य्-आदित्वात् इनिः । ईक्षणीया इति वाम-हस्ते अश्व-धारण-रज्जुः, दक्षिण-हस्ते प्रतोदः, मुखारविन्दे हुं हुम् इति तन्-नोदन-शब्द इति शोभया यन् माधुर्यम् ईक्षणीयं, तन् मयैव तदा स्व-चक्षुर्भ्याम् ईक्षितं, न त्व् अर्जुनेनापि इति भावः । तस्मिन् भगवति मम रतिर् अस्तु मुमूर्षोर् इति । अत एवाहं सम्प्रति मर्तुम् इच्छामि, यन् मृत्वा तद् एव माधुर्यं मुहुर् द्रक्ष्यामि, सञ्जीवंस् तु तत् कथं द्रष्टुं प्राप्स्यामि ? प्रकट-प्रकाशे तस्या लीलाया भगवता समाप्ती-कृतत्वाद् इति भावः । अत्र म्रियमाणस्येत्य् अनुक्त्वा सन्-प्रत्ययेन इच्छाधीन-मृत्योर् भीष्मस्य भगवतः सकाशाद् अपि तल्-लीलायाम् अतिलोभो व्यज्यते । तेन च सा युद्ध-लीलापि नित्येत्य् अन्यस्या लीलाया नित्यत्वे कैमुत्यम् आनीतम् ।
ननु सत्यं तस्याम् एव मे सारथ्य-लीलायां त्वम् अत्यासक्तो यत् प्रति-श्लोकम् एव ताम् आस्वदयंस् ताम् एवोद्गिरंस् तल्-लीला-विशिष्टे एव मयि रतिं प्रार्थयसे, किन्तु सम्प्रति मृत्वैव तल्-लीला-प्राप्तौ तव किं प्रमाणम् ? इत्य् अत्र “मरणे या मतिः सा गतिः” इति प्रसिद्धात् प्रमाणाद् अपि तव दर्शनम् एव परं प्रमाणम् इत्य् आह—यम् इहेति । यं निरीक्ष्य हता युद्धे अन्येनापि हताः सन्तः असुर-स्वभावा अपि तादृश-ज्ञानिनाम् अपि सरूपं सायुज्य-मुक्तिं प्राप्ताः। “अहं तु भक्तः, तत्रापि मरण-काले तादृश-मतिमांस् तं त्वां साक्षाद् दृष्ट्वा मृत्वा कथं न तां लीलां प्राप्स्यामि ?” इति भावः । अत्र नर-सारथ्यम् अनधिकारिभ्योऽपि सायुज्य-दायित्वम् इति युगपद् एवानैश्वर्य-महैश्वर्य-स्वीकार-लक्षणं महा-माधुर्यं सर्व-भगवत्-स्वरूपासाधारणम् एव तदानीम् उदितम् इति ज्ञेयम् ॥३९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पुनर् अपि सारथ्य-वेशे कृष्णे रतिं प्रार्थयते—विजयस्य रथः कुटुम्बम् अन्यायैर् अपि रक्षणीयं यस्य तस्मिन् । आत्त-तोत्रे गृहीत-प्रतोदे, धृता हयानां रश्मयः प्रग्रहाः सन्त्य् अस्येति ब्रीह्य्-आदित्वाद् इनिः, तच्-छ्रिया वर्णितया सारथ्य-वेश-शोभयेक्षणीये दर्शनीये भगवति मे रतिर् अस्तु, मुमूर्षोर् इति “अन्ते या मतिः सा गतिः” इति प्रसिद्धेः, स तादृशो मम प्रस्ताद् इत्य् अर्थः? कैमुत्या-पादकम् अत्र प्रमाणम् आह—यम् इति । यं तादृशं कृष्णं निरीक्ष्य तस्मिन् युद्धे येनैव भीमार्जुनाद्य्-अन्तर् वर्तिना हताः सर्वे स्वरूपं गताः, प्रादुर्भावित-गुणाष्टकं स्व-स्वरूपम् आविर्भूत-सार्वज्ञाद्य् अनन्त-गुणकं भगवत्-स्वरूपं च प्रापुर् इत्य् अर्थः ॥३९॥
॥ १.९.४० ॥
ललित-गति-विलास-वल्गु-हास-
प्रणय-निरीक्षण-कल्पितोरु-मानाः ।
कृतम् अनुकृतवत्य उन्मदान्धाः
प्रकृतिम् अगन् किल यस्य गोप-वध्वः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **क्षत्र-धर्मेण युध्यमानास् तत्-सरूपं प्राप्युर् इत्य् एतन् न चित्रम् । यतो मदान्धा अपि प्राप्युर् इत्य् आह । ललित-गतिश् च विलासश् च वल्गु-हासादिश् च मञ्जु-गत्य्-आदिभिर् आत्मीयैस् तदीयैर् वा कल्पित उरुर् मानः पूजा यासां ताः । अत उत्कटेन मदेनान्धा विवशाः । अत एव तद्-एक-चित्तत्वेन तस्य कृतं कर्म गोवर्धनोद्धारणादिकम् अनुकृतवत्यो गोप-वध्वो यस्य प्रकृतिं स्वरूपम् अगन् अगमन् । म-कार-लोपस् त्व् आर्षः । किल प्रसिद्धम् । “तस्मिन् मे रतिर् अस्तु” [३९] इति पूर्वेणैवान्वयः ॥४०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्-स्वभाव-महिम्नः सारूप्य-प्रापणत्वं नाम कियान् उत्कर्षः ? यत एतावतोऽपि प्रेम्नो जनकत्वं दृश्यत इत्य् आह—ललितेति । अत्र कृतानुकरणं नाम लीलाख्यो नायिकानुभावः । तद् उक्तं क्रियानुकरणं लीला [उ।नी। १०.२८] इति । प्रकृतिं स्वभावम्, तादृश-प्रेमावेशो जातः । येन तत्-स्वभाव-निज-स्वभावयोर् ऐक्यम् एव तासु जातम् इत्य् अर्थः । यथा श्रीमद्-उज्ज्वल-नीलमणौ महा-भावोदाहरणम्—
राधाया भवतश् च चित्त-जतुनी स्वेदैर् विलाप्य क्रमात्
युञ्जन्न् अद्रि-निकुञ्ज-कुञ्जर-पते निर्धूत-भेद-भ्रमम् ।
चित्राय स्वयम् अन्वरञ्जयद् इह ब्रह्माण्ड-हर्म्योदरे
भूयोभिर् नव-राग-हिङ्गुल-भरैः शृङ्गार-कारुः कृती ॥ [उ।नी। १५.१५५] इति ।
॥४०॥ [प्रीति-सन्दर्भ ८१]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु यत् सारथ्य-सम्बधिन्यै लीलायै सर्व-तत्त्वज्ञोऽपि त्वं स्पृहयसि, सोऽर्जुन एव तर्हि मम सर्वेषु प्रेमवत्-परिकर-वृन्देष्व् एको मुख्य इति निर्धार्यते ? मैवम् । ततोऽर्जुनाद् अप्य् अतिमुख्यतमाः सर्वतोऽपि प्रेमोत्कर्षवन्तो ये तव प्रिय-जना वर्तन्ते, न तेषां पदवीं प्रार्थयितुम् अपि कोऽपि साहसं धत्ते । भवतु, तद् अपि तद्-उद्देशेनाप्य् अस्मिन्न् अन्त-काले कृतार्थीभवामीत्य् आह—ललितेति ।
ललित-गतिश् च रास-नृत्यादि-वैदग्धी, कायिकी विलासश् च धीर-लालित्य्-आदि-वैदग्धी, मानसी वल्गु-हासश् च परिहास-वैदग्धी, वाचिकी प्रणय-निरीक्षणं च प्रेम-मय-सर्व-भाव-व्यञ्जक-कटाक्ष-वैदग्धी चाक्षुषी च तैर् उपकल्पितो दत्तः उरुर् मान आदरः पूजा वा याभ्यस् ताः । तेन स्वस्मिंस् ताः प्रसादयितुं स्वीयान् असाधारणान् सर्वान् एव साद्गुण्य-भावांस् तासु विनियुक्तवान् । अतस् तासां निरुपाधिकस्य प्रेमातिशयस्य फलं यत् स्व-साद्गुण्य-सर्वस्वार्पण-पूर्वक-त्वत्-कर्तृकानुरञ्जन-प्राप्तिः सा ह्य् अयन्त्रणैवोभयतः सुख-मय-महा-वशीकार-व्यञ्जिका । अर्जुनस्य तु प्रेम्णः फलं वशीकार-व्यञ्जिका सारथ्य-दूत्य्-आदि-मात्र-प्राप्तिर् या, सा तूभयतो यन्त्रणा-मयीति न तत्-सम-कक्षतां प्राप्तुम् अर्हत्य् अर्जुन इति भावः । अत्रैव तृतीयान्त-पदार्थे बहुव्रीहौ, ताभिर् अपि स्वीय-साद्गुण्य-सर्वस्वार्पणेन सोऽनुरञ्जित इति परस्परानुरञ्जन-सुख-मयं सख्यं व्यञ्जितम् ।
तत एवासाधारण-सौभाग्य-प्रदानम् आह—कृतं रासे नृत्यं गीतं वा वादनानि च यथा, तथैव ता अप्य् अनुकृतवत्यः तत्-साहित्येनैव रासे तासां तथा नृत्याद्य्-उक्तेः ।
न च तासां तत्-तच्-छिक्षणाभ्यासः कोऽप्य् आसीद् इत्य् आह—उन्मदेन महा-प्रेमोत्थेन अन्धाः व्यवहार-मात्रम् अदृष्टवत्यः । अतः किल इत्य् आश्चर्ये, यस्यप्रकृतिं स्वभावम् एव अगच्छन् भगवतो नृत्य-गीतादि-वैदग्ध्य्-आदयः स्वाभाविकाः असाधारणा अनन्ता एव ये गुणाः, तान् सर्वान् अपि तेन दत्तान् प्रापुर् इत्य् अर्थः । अर्जुनाय तु स्वम् असाधारणं तद्-अपेक्षितं बलिष्ठत्वम् अपि भगवता न दत्तम् इति ।
यद् वा, कृतं गोवर्धन-धारणादिकम् । उन्मद उन्माद इति विरहश् च दर्शितः । एवं चातिमन्दास् तावत् सायुज्यं प्रापुः । अत्युत्कृष्टाः प्रेम्णः परां काष्ठाम् । अहं तु तयोर् मध्य-वर्ती स्वाभीप्सितां तव सारथ्य-लीलां कथं न प्राप्स्यामि ? इति भावः ॥४०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सारथ्य-वेशे रतिः प्रार्थिता, अथ तद्-दत्तेन सार्वज्ञ्येन स्फुरितां नन्द-राज-पुत्रस्य तस्यातिप्रियां शृङ्गार-लीलां श्रावयति—ललित-गतिश् च रास-नृत्य-रूपा, विलासश् च धीर-लालित्य-धीरात्वादि गुण-हेतुको विहार-विशेषः! वल्गुर् मनोज्ञस् तद्-विहारोपोयागी हासश् च प्रणय-निरीक्षणं च प्रेमार्द्रः कटाक्षो हार्दव्यञ्जी । तैः कल्पितो रचित उरुमानो महा-सत्कारो यासां याभिर् वेति मिथोऽनुरञ्जनोक्ता । कृतं भगवता यद्-रासे नृत्यादि तद् अनुकृतवत्यः । तेन सार्धमे तासां नृत्याद्य् अभिधानात् । उन्मदान्धाः प्रेम-मत्ता गोपवध्वः यस्य प्रकृति-मगन् प्रापुः, मलोप आर्षः । स्वभावः प्रकृतिः शीलम् इति धनञ्जयः । कृतं गोवर्धनोद्धरणादि वेति विरहश् च व्यञ्जितः ॥४०॥
॥ १.९.४१ ॥
मुनि-गण-नृप-वर्य-सङ्कुलेऽन्तः-
सदसि युधिष्ठिर-राजसूय एषाम् ।
अर्हणम् उपपेद ईक्षणीयो
मम दृशि-गोचर एष आविर् आत्मा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **जगत्-पूज्यताम् अनुस्मरन्न् आह । मुनि-गणैर् नृपैर् यैश् च सङ्कुले व्याप्तेऽन्तः-सदसि सभा-मध्ये युधिष्ठिरस्य राज-सूये एषां मुनि-गणादीनाम् ईक्षणीयः अहो रूपम् अहो महिमेत्य् एवम् आश्चर्येण विलोकनीयः सन्न् अर्हणम् उपपदे प्राप । एष जताम् आत्मा मम दृशि-गोचरो दृष्टि-विषयः सन्न् आविः प्रकटो वर्तते । अहो मे भाग्यम् इति भावः ॥४१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं सर्व-शुभ-स्वभावत्वम् उक्त्वा सर्व-पूज्यत्व-सर्व-मनोहरत्व-सर्व-दुर्लभ-दर्शनत्वान्य् आह—मुनि-गणेति । आत्मा परमात्मा _॥_४१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, सम्प्रति प्रत्यक्षीकृतं मद्-भाग्यम् एव तत्-प्राप्तेर् आवश्यकत्वं कथयतीत्य् आह मुनीति । अन्तः-सदसि सभा-मध्ये युधिष्ठिरस्य राजसूये एषां मुनि-गणादीनाम् ईक्षणीयः अहो रूपम् अहो महिमेत्य् एवम् आश्चर्येण विलोकनीयः सन् उपपेदे प्राप यः स एष ममात्मा मत्-प्राण-नाथः सम्प्रति मम दृशि गोचर एव मत्-प्रार्थितं ददान एवास्ते इति ॥४१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सर्वाभ्यच्यत्वं स्मरंस् तद् एव स्वप्राप्यं रूपं प्रार्थयते—अम्भः-सदसि सभामध्ये युधिष्ठिरस्य राजसूये यज्ञे मुनिगणादीनाम् अहो लावण्यम् अहो महिमा इत्य् एवम् ईक्षणीयः सन्न् अर्हणम् अग्र-पूजाम् उपपेदे, स एष आत्मा विश्वान्तर्यामी विभु-विज्ञानानन्दः कृष्णो मम दृग्-गोचरः सन् आविरास्ते, मदीयं भाग्यं महद् इति भावः ॥४१॥
॥ १.९.४२ ॥
तम् इमम् अहम् अजं शरीर-भाजां
हृदि हृदि धिष्ठितम् आत्म-कल्पितानाम् ।
प्रतिदृशम् इव नैकधार्कम् एकं
समधि-गतोऽस्मि विधूत-भेद-मोहः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सोऽहं कृतार्थोऽस्मीत्य् आह—तम् इमम् अजं सम्यग् अधिगतः प्राप्तोऽस्मि । सम्यक्त्वम् आह—विधूत-भेद-मोहः । तद्-अर्थं भेदस्यौपाधिकत्वम् आह—आत्म-कल्पितानां स्वयं निर्मितानां शरीर-भाजां प्राणिनां हृदि हृदि प्रति-हृदयं धिष्ठितम् अधिष्ठितम् । अधिष्ठाय स्थितम् इति यावत् । अ-कार-लोपस् त्व् आर्षः । नैकधा अनेकधा । अधिष्ठान-भेदाद् अनेकधा भातम् इत्य् अर्थः । अत्र दृष्टान्तः—सर्व-प्राणिनां दृशं दृशं प्रत्येकम् एवार्कम् अनेकधा प्रतीतम् इवेति ॥४२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **परमात्मत्व-स्थापनाय तत्र विभूमत्वं दर्शयन् स्वम् अत्युपकल्पनम् एवोपसंहरति—तम् इति । तम् इमम् अग्रत एवोपविष्टं श्री-कृष्णं व्यष्ट्य्-अन्तर्यामि-रूपेण निजांशेन शरीर-भाजां हृदि हृदि धिष्ठितम् ।
केचित् स्व-देहान्तर् हृदयावकाशे
प्रादेश-मात्रं पुरुषं वसन्तम् ॥ [भा।पु। २.२.८]
इत्य्-उक्त-दिशा तत्-तद्-रूपेण भिन्न-मूर्तिमत्सु14 वसन्तम् अप्य् एकम् अभिन्न-मूर्तिम् एव समधि-गतोऽस्मि । अयं परमानन्द-विग्रह एव व्यापकः स्वान्तर् भूतेन निजाकार-विशेषेणान्तर् यामितया तत्र तत्र स्फुरतीति विज्ञातवान् अस्मि, यतोऽहं विधूत-भेद-मोहः । अस्यैव कृपया दुरीकृतो भेद-मोहः । भगवद्-विग्रहस्य व्यापकत्वासम्भावना-जनित-तन्-नानात्व-ज्ञान15-लक्षणो मोहो यस्य तथा-भूतोऽहम् ।
तेषु व्यापकत्वे हेतुः—आत्म-कल्पितानाम्, आत्मन्य् एव परमाश्रये प्रादुष्कृतानाम् । तत्र दृष्टान्तः—प्रतिदिशं16 इति । प्राणिनां नाना-देश-स्थितानाम् अवलोकनम् अवलोकनं प्रति, यथैक एवार्को17 वृक्ष-कुड्याद्य्-उपरि-गतत्वेन तत्रापि कुत्रचिद् अव्यवधानः सम्पूर्णत्वेन स-व्यवधानस् त्व् असम्पूर्णत्वेनानेकधा दृश्यते, तथेत्य् अर्थः । दृष्टान्तोऽयम् एकस्यैव तत्र तत्रोदय इत्य् एतन्-मात्रांशे । वस्तुतस् तु श्री-भगवद्-विग्रहोऽचिन्त्य-शक्त्या तथा भासते, सूर्यस् तु दूरस्थ-विस्तीर्णात्मता-स्वभावेनेति विशेषः ।
अथवा तं पूर्व-वर्णित-स्वरूपम् इमम् अग्रत एवोपविष्टं शरीर-भाजां हृदि हृदि सन्तम् अपि समधिगतोऽस्मि । यद्यप्य् अन्तर्यामि-रूपम् एतस्माद् रूपाद् अन्याकारं, तथाप्य् एतद्-रूपम् एवाधुना तत्र तत्र तथा18 पश्यामि । सर्वतो महा-प्रभावस्य तस्य रूपस्याग्रतोऽन्यस्य रूपस्य स्फुरणाशक्तेर् इति भावः । अत्र दृष्टान्तो देश-भेदेऽप्य् अभेद-बोधनाय ज्ञेयः, न तु पूर्णापूर्णत्व-विवक्षायै ।
अमीलित-दृग् व्यधारयत् [भा।पु। १.९.३०] इति, कृष्ण एवं भगवति मनो-वाक्-काय-वृत्तिभिः [भा।पु। १.९.४३] इत्य् उपक्रमोपसंहारादिभिर् अत्र श्री-विग्रह एव प्रस्तूयते । ततो नेदं पद्यं ब्रह्म-परं व्याख्येयम् इति19 ॥४२॥ [भगवत्-सन्दर्भ ३१]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु कथं तर्हि मे रतिर् अस्त्व् इत्य् एक-वारम् अपि युष्मत्-प्रयोगेण न ब्रूषे किन्तु प्रतिश्लोकम् एव । विजय-सखे विजय-रथ-कुटुम्बे मे रतिर् अस्तु । चरण-रतिः परमस्य तस्य मेऽस्तु स भवतु मे भगवान् गतिर् इति तच्-छब्द-प्रयोगेणेवेति तत्राह—तम् इति ।
तं पार्थ-सारथिं प्रग्रह-प्रतोदालङ्कृत-धाम-दक्षिण-करं मम हृदि स्फुरन्तम् एव इमम् अधिगतोऽस्मि, न त्व् इमम् एव तम् । तस्यैव हृदि अयं प्रवेष्टुं न शक्नोतीति भावः । तं कीदृशम् ? अजं न जायते इत्य् अजः, तं न केवलं तदानीं युद्ध-काले एव तादृश-स्वरूपो मच्-चक्षुषोर् अग्रे स जातोऽपि तु युद्धात् पूर्वम् अपि स्वाभाविकेन मम रथेन मम हृदि तथा भात आसीद् एवेति भावः । तेनात्र न मम दोषः, किन्तु हृदि-स्थः परमेश्वरो यं यं यथा स्फोरयति भद्रम् अभद्रं वा, स तथैवासास् ते इत्य् आह—शरीर-भाजां जीवानां हृदि हृदि धिष्ठितम्, अ-कार-लोपश् छान्दसः । आत्मनां स्वयम् एव कल्पितानां यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति [बृ।आ। उ। २.१.२०] इति श्रुतेः ।
न चाहं हृदि-स्थं तत्-पद-वाच्यं पार्थ-सारथिम् अन्यं तथा पुरस्थम् इदं पद-वाच्यं चतुर्भुजम् अन्यं जानामीत्य् आह—प्रतीति । आकाश-स्थम् एकम् अर्कम् अपि जनानां प्रतिदृशम् अवलोकनं प्रति नैकधा अनेकधा, “अयं मन्-मूर्धोपरि अर्कः” इति प्रतिमूर्धोपरि-स्थम् अर्कं तत्-तद्-दृष्टि-भेदाद् अनेकधा भातम् इवेति । विधूतो दुरीकृतो भेद-रूपो मोहो येन सः ।
अयम् अर्थः—मम हृदि तथा युधिष्ठिरादीनां वसुदेवादीनाम् उद्धवादीनां नन्दादीनां गोपिकानां च हृदि भाव-भेदेन प्रेम-तारतम्येन च पृथक्-पृथक्-लीलतयैव यद्यपि स्फुरति, तद् अप्य् एक एव कृष्ण इति जानामि । तथा तेषां तत्-तत्-प्रेम्णां तत्-तद्-भावानां चोत्कर्ष-तारतम्यं सर्वम् अहं जानाम्य् एव । तद् अपि मे पार्थ-सारथाव् एव स्वाभाविक्यासक्तिः । तां त्यक्तुं नैव शक्नोमि । पुर-स्थितेऽस्मिंश् चतुर्भुज-रूपे धारणापि कृता, साप्य् अकिञ्चित्करीवाभूद् इति ॥४२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु पार्थ-सारथिम् एव माम् अर्थयसे, योगिनस् तु प्रादेश-मात्रं तत्त्वं चिन्तयन्ति, केचित् स्व-देहान्तर् हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तम् [भा।पु। २.२.८] इति-स्मरणात् । तं किम् अनयो रूपयोर् भेदोऽस्ति? तत्राह—तम् इति । तं पार्थ-सारथिम् एवेमं हृद्-गतं प्रादेश-मात्रं समधि-गतो जानन्न् अस्मि । स एव स्वांशेन तन्मात्र इत्य् अर्थः । कीदृशोऽहम् इत्य् आह—विधूतो भेद-रूपो मोहो यस्य सः । एकोऽपि सन् बहुधा योऽवभाति [गो।ता।उ। पूर्व। ३२] इति श्रुतेः । तम् इमं च कीदृशम् इत्य् आह—अजं नूतन-देह-लाभ-शून्यं नित्य-मूर्तिम् इत्य् अर्थः । आत्मना स्वेनैव कल्पितानां निर्मितानां शरीर-भाजां जीवानां हृदि हृदि धिष्ठितं नियामकतया स्थितम् । अलोप आर्षः । शरीर-भाक्त्वेन जीवानां निर्माणम् इहोक्तं, यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति [बृ।आ।उ। २.१.२०] इति, सर्व-भूतान्तरात्मा [ब्रह्म-विद्योप। १०५] इति च श्रुतेः । कथं? प्रतिदृशं प्रतिनेत्रम् अनेकधा दृश्यमानम् एकम् अर्कम् इव । न च मोक्षे जीवेशयोर् भेदो निषिद्धः, निरञ्जनः परमं साम्यम् उपैति [मु।उ। ३.१.३] इति तत्र तस्य श्रुतत्वात् ॥४२॥
॥ १.९.४३ ॥
सूत उवाच—
कृष्ण एवं भगवति मनो-वाग्-दृष्टि-वृत्तिभिः ।
आत्मन्य् आत्मानम् आवेश्य सोऽन्तः-श्वास उपारमत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मनो-वाग्-दृष्टीनां वृत्तिभिः । परमात्मनि श्री-कृष्णे । अन्तर् एव विलीनः श्वासो यस्य सः ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् आत्मनि हृदि स्थिते कृष्णे, पार्थ-सारथाव् इत्य् अर्थः । आत्मानं स्वम् आवेश्य आवेश-युक्तं कृत्वा । अन्तर् एव लीनः श्वासो यस्य सः । बहिर् वृत्तेर् उपरराम ॥४३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आत्मनि विभु-विज्ञानानन्दे कृष्णे भगवत्य् एवं पार्थ-सारथित्वेन विज्ञाते मन-आदि-वृत्तिभिर् आत्मानं स्वमावेश्य निरतं कृत्वा पूरकेणान्तः-श्वासः सन्न् उपारमत् निवृत्तिम् अगात् । भीष्मस्य परमार्त्यैकान्तित्वात्-तत्-प्राणादेर् इहैव विगमः, स तु विशुद्धः पुरःस्थं कृष्णं प्रापेत्य् आर्त-भाग-याज्ञवल्क्य-प्रश्नोत्तरा-द्वेदितव्यम्, एतच् च स्पष्टौ ह्य् एकेषाम् [वे।सू। ४.२.१३] इति सूत्र-भाष्ये निर्णीतं द्रष्टव्यम् । एवम् अस्पन्दासुर्यथा तरुः [भा।पु। १२.६.९] इत्य् अत्र परीक्षितोऽपि तादृशस्य व्याख्येयम् ॥४३॥
॥ १.९.४४ ॥
सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले ।
सर्वे बभूवुस् ते तूष्णीं वयांसीव दिनात्यये ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : निष्कले निरुपाधौ परात्मनि । संपद्यमानं मिलितम् आज्ञाया आलक्ष्य । वयांसि पक्षिण इव ॥४४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सम्पद्यमानम् इति । निष्कल-ब्रह्म-शब्देन मायातीतो नराकृति-पर-ब्रह्म-भूतः श्री-कृष्ण एवोच्यते । तस्मिन् सम्पद्यमानता तत्-सङ्गतिर् एव । तथोक्तं सप्तमे—
अधोक्षजालम्भम् इहाशुभात्मनः
शरीरिणः संसृति-चक्र-शातनम् ।
तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधास्
ततो भजध्वं हृदये हृद्-ईश्वरम् ॥ [भा।पु। ७.७.३७] इति ।
अत्र भीष्मस्य वसुत्वात्— यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणां [वे।सू। ३.३.३३] इत्य् अधिकरण-विरोधः स्याद् इति चेन्, न । लीलया स्वांशेन तत्राप्य् अवस्थिति-सम्भवात् । तस्य सर्वेषु लोकेषु कामाचारो भवति [छा।उ। ७.२५.२] इति मुक्ति-विशेष-प्रतिपादक-श्रुतेश् च । एवम् एव महाभारताविरोधोऽपि स्यात् ॥४४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं भीष्मः स्वाभिलषितं पार्थ-सारथिं प्राप, लोकास् तु तद्-अविद्वांसो भीष्मो ब्रह्मणि लीनो बभूव इति जानन्ति स्मेत्य् आह—सम्पद्येति । अज्ञाने दृष्टान्तः—वयांसि पक्षिणः दिनस्यात्यये अवसाने सति दिनं न दृष्टम् इति दिनस्य स्वरूप-ध्वंसम् एव ज्ञात्वा यथा तुष्णीं भवन्ति न शब्दायन्त इत्य् अर्थः । न तु वस्तुतो दिनं नश्यति, तत्-क्षणेऽपि वर्षान्तरे तस्य स्थितेर् अवगमात् याम-चतुष्टयानन्तरं तत्रापि पुनर् आगमात् । एवं भीष्मस्याप्य् अत्यये भीष्मो मुक्त इत्य् अज्ञा विदन्ति । विज्ञास् तु तदैव प्रकट-प्रकाशे रथ-चरण-पाणिना कृष्णेन भूमौ धावता सह भीष्मो युध्यत एवेति पुनर् आगामि-कृष्णावतारे तेन सह भीष्म आविर्भविष्यत्य् एवेति जानन्ति ।
यद् वा, निष्कं पदकं लाति तस्मिन् ब्रह्मणि श्री-कृष्ण इत्य् अर्थः । ब्रह्म-सायुज्य-प्राप्तिस् तु न व्याख्येया । नित्य-पार्षद-भीष्मेण फलाभिसन्धि-रहिताया रतेर् वाञ्छितत्वात् मोक्षस्याकामितत्वात् भगवतापि बलाद् अकामित-फल-दानानौचित्यात् ॥४४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तदा श्रुत-भीष्माभ्य् अर्थनाः सर्वे मुनि-प्रभृतयो निष्कले पदकाभरणधारिणे कृष्णे ब्रह्मणि भीष्मं संपद्य-मानं मिलन्तम् आज्ञाय तूष्णीं बभूवुः—
निष्कमन्त्री साष्ट-हेमशते दीनार-कर्षयोः ।
वक्ष्गोलङ्करणे हेम-पात्रे हेम-पलेऽपि च ॥ इति मेदिनी ।
वयांसि पक्षिणः ॥४४॥
॥ १.९.४५ ॥
तत्र दुन्दुभयो नेदुर् देव-मानव-वादिताः ।
शशंसुः साधवो राज्ञां खात् पेतुः पुष्प-वृष्टयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवैर् मानवैश् च वादिताः । राज्ञां मध्ये ये साधवोऽनुसूयवः ॥४५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्रेति राज्ञां सभायाम् इति शेषः । साधवो मुन्य्-आदयः ॥४५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राज्ञां मध्ये साधवोऽनसूयवः ॥४५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **राज्ञां मध्ये ये साधवोऽनसूयवस्ते तस्य यशः शशंसुर् ऊचुः ॥४५॥
॥ १.९.४६ ॥
तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।
युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्हरणादीनि दाह-संस्कारादीनि । सम्यक् परेतस्य, मुक्तस्यापीत्य् अर्थः ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्हरणादीनि संस्कारान् । सम्परेतस्य इति नित्य-पार्षदे भीष्मे वसोः प्रवेशात् तस्यैव देह-त्यागो भगवता दर्शितः । यावद् अधिकारम् अवस्थितिर् आधिकारिकाणां [वे।सू। ३.३.३३] इति न्यायेन तस्यैवांशेन वसुत्वे च स्थितिर् भगवल्-लोके प्राप्तिश् च । अतः सम्यक् परं परमेश्वरम् इतस्य प्राप्तस्येति व्याख्येयम् । तस्य सर्वेषु लोकेषु काम-चऋओ भवति [छा।उ। ७.२५.२] इति मुक्ति-विशेष-प्रतिपादक-श्रुतेः । नित्य-पार्षद-भूतस्य भीष्मस्य त्व् अप्रकट-लीलायां पार्थसारथि-प्राप्तिर् उक्तैव । अत एव तत्र सोऽन्तः श्वासः प्राणो यस्य तथा-भूतः सन्न् उपारमत् प्रकट-प्रकाशाद् उपरतोऽभूद् इति । तत्रार्थः सम्मतः देहं तत्याज प्राणांस् तत्याजेत्य्-आद्य् अनुक्तेर् इति । मूहूर्तं दुःखित इति लोक-व्यवहार-रक्षार्थम् ॥४६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्य भीष्म-देहस्य निर्हरणादीनि कर्माणि कारयैत्वा, कीदृशस्य? सम्परे तस्य त्यक्त-प्राणस्य, युधिष्ठिरो लोकरीतिम् आश्रित्य दुःखितोऽभवत्, इदम् इह बोध्यम्—भीष्मः कृष्णं प्राप, सम्यक् परं कृष्णम् इतस्येत्य् अर्थात् । तत्-प्रविष्टौ वसुस्तु स्वर्गम् अगाद् अधिकारान्ते तस्य मोक्षो भावी, यावद् अधिकारम् अवस्थितिर् आधिकारिकाणाम् [वे।सू। ३.३.३३] इति न्यायाद् इति ॥४६॥
॥ १.९.४७ ॥
तुष्टुवुर् मुनयो हृष्टाः कृष्णं तद्-गुह्य-नामभिः ।
ततस् ते कृष्ण-हृदयाः स्वाश्रमान् प्रययुः पुनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य गुह्य-नामभिर् वेदोक्तैः । कृष्ण एव हृदयं येषां ते कृष्ण-हृदयाः ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : गुह्य-नामभिर् दुस्तर्क्य-महिम-व्यञ्जक-नामभिः कृष्ण-गोविन्देत्य्-आदिभिः ॥४७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-गुह्य-नामभिः, हे भक्त-वत्सल कृष्ण प्रेमाधीन नमस् त्वच्-चातुर्यायैवेति ॥४७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्य गुह्यनाम् अभिर् भक्त-बन्धु-भक्ताधीनेत्य्-आदिभिः ॥४७॥
॥ १.९.४८ ॥
ततो युधिष्ठिरो गत्वा सह-कृष्णो गजाह्वयम् ।
पितरं सान्त्वयाम् आस गान्धारीं च तपस्विनीम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पितरं धृतराष्ट्रम् । तपस्विनीं सन्तापवतीम् ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पितरं धृतराष्ट्रम् ॥४८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पितरं धृतराष्ट्रं, तपस्विनीं पुत्र-शोकाकुलाम् ॥४८॥
॥ १.९.४९ ॥
पित्रा चानुमतो राजा वासुदेवानुमोदितः ।
चकार राज्यं धर्मेण पितृ-पैतामहं विभुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : राजा युधिष्ठिरः । अनुमतोऽनुज्ञातः ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पित्रा धृतराष्त्रेणा ॥४९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
नवमोऽत्र प्रथमे सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पित्रा धृतराष्ट्रेण ॥४९॥
\
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां नवमोऽध्यायः ॥९॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे
युधिष्ठिर-राज्य-प्रलम्भो नाम
नवमोऽध्यायः
॥९॥
(१.१०)
-
विशसनम् इति पाठः । ↩︎
-
‘तदा तम्ऽ इति पाठः । ↩︎
-
‘सत्तमाःऽ इति पाठः । ↩︎
-
पाठान्तरेऽप्रेम-सन्नतान्ऽ इत्य् एवं-विधे ↩︎
-
‘स कालःऽ इत्य् अपि क्वचित् पाठः । ↩︎
-
‘स कालःऽ इत्य् अपि क्वचित् पाठः । ↩︎
-
विभावना विना हेतुं कार्योत्पत्तिर् यद् उच्यते । उक्तानुक्त-निमित्तत्वाद् द्विधा सा परिकीर्तिता ॥ सा।द। ↩︎
-
‘काम्य-कर्मभिःऽ इत्य् अपि पाठः । ↩︎
-
यावन् न मे नर-दशा दशमी कुतोऽपि रन्ध्राद् उपैति तिमिरीकृत-सर्व-भावा । लावण्य-केलि-सदनं तव तावद् एव लक्ष्या-समुत्क्वणित-वेणु-मुखेन्दु-बिम्बम् ॥ ↩︎
-
‘धर्म-वित्ऽ इत्य् अपि पाठः । ↩︎
-
‘धर्मान्ऽ इति पाठः स एव युक्तोऽनेक-धर्म-प्रकथनात् । ↩︎
-
‘पर्युपस्थितःऽ इति पाठेऽपि स एवार्थः । ↩︎
-
‘स्व-रूपम्ऽ इति पाठः स च टीकाननुगणः । तत्र समानं रूपं गता इति व्याख्यानात् । ↩︎
-
मूर्तिवद् (क, ख, अन्द् प्रेफ़ेरेद् इन् भगवत्-सन्दर्भ) ↩︎
-
विज्ञान- (ग, झ) ↩︎
-
प्रतिदृशम् ↩︎
-
एवार्के (इ अम् फ़ोल्लोwइन्ग् थे भगवत्-सन्दर्भ रेअदिन्ग् हेरे) ↩︎
-
नोत् इन् भगवत्-सन्दर्भ। ↩︎
-
तद् एवं परिच्छिन्नत्वापरिच्छिन्नत्वयोर् युगपत्-स्थितेर् अचरं चरम् एव च [गीता १३.१५] इत्य् एतद् अप्य् अत्र सुसङ्गच्छते । अतो विभुत्वेऽपि लीलाया याथार्थ्यं सिद्ध्यति ॥ चोन्च्लुदिन्ग् सेन्तेन्चे इन् भगवत्-सन्दर्भ। ↩︎