विषयः
उत्तरा-गर्भे द्रौण्य्-अस्त्रतः परीक्षितो रक्षणम्, कुन्ती-कृता श्री-कृष्ण-स्तुतिः, युधिष्ठिरानुतापश् च ।
॥ १.८.१ ॥
सूत उवाच—
अथ ते सम्परेतानां स्वानाम् उदकम् इच्छताम् ।
दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अष्टमे कुपित-द्रौणेर् अस्त्राद् रक्षा परीक्षितः ।
श्री-कृष्णेन स्तुतिः कुन्त्या राज्ञः शोकश् च कीर्त्यते ॥
ते पाण्डवाः संपरेतानां मृतानां गङ्गायाम् उदकं दातुं स-कृष्णा श्री-कृष्णेन सहिताः । स्त्रियः स्त्रीः पुरस्-कृत्याग्रतः कृत्वा । तस्मिन् कार्ये स्त्री-पुरःसरत्व-विधानात् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पुनर् ब्रह्मास्त्रतोऽरक्षत् तान् गर्भे च परीक्षितम् ।
कृष्णस् ततश् च पृथया राज्ञः शोकस् तथाष्टमे ॥
स्त्रियः पुरस्कृत्येति । तस्मिन् कार्ये स्त्री-पुरःसरत्व-विधानात् ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
अरक्षत् पाण्डवान् द्रौणेर् अस्त्राद्-गर्भे परीक्षितम् । \
कुन्त्या स्तुतश् च गोविन्दो राज्ञः शोकस् तथाष्टमे ॥ \
अथेत्य् अनन्तरं ते युधिष्ठिरादयः सर्वे सकृष्णाः कृष्ण-सहिताः । उदकं दातुं स्त्रियः पुरस्कृतेति तस्मिन् कर्मणि स्त्री-पुरःसरत्व-विधानात् ॥१॥
———————————————————————————————————————
॥ १.८.२ ॥
निनीयोदकं सर्वे विलप्य च भृशं पुनः ।
आप्लुता हरि-पादाब्ज-रजः-पूत-सरिज्-जले ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निनीय दत्त्वा । हरि-पादाब्ज-रजोभिः पूता या सरिद् गङ्गा तस्या जले । पुनर् ग्रहणाद् आदाव् अपि स्नाता इति गम्यते ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **निनीय दत्त्वा ॥२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **निनीय दत्त्वा, पुनर् ग्रहणादादौ स्नात्वेति गम्यम् ॥२॥
———————————————————————————————————————
॥ १.८.३-४ ॥
तत्रासीनं कुरु-पतिं धृतराष्ट्रं सहानुजम् ।
गान्धारीं पुत्र-शोकार्तां पृथां कृष्णां च माधवः ॥**
सान्त्वयाम् आस मुनिभिर् हत-बन्धू‘ शुचार्पितान् ।
भूतेषु कालस्य गतिं दर्शयन् न प्रतिक्रियाम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कुरु-पतिं युद्धिष्ठिरम् । सहानुजं भीमादिभिः सहितं (पुत्र-शोकार्तम् इति तिसृणां विशेषणम्)1 ॥३॥ मुनिभिः सहितः ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मुनिभिर् द्वार-भूतैः ॥४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कुरुपतिं युधिष्ठिरं सहानुजं भीमादि-सहितं मुनिभिः सहितः ॥३-४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कुरुपतिं युधिष्ठिरं सहानुजं भीमादि-सहितम् ॥३॥ \
\
मुनिभिः सहितः ॥४॥
———————————————————————————————————————
॥ १.८.५-६ ॥
साधयित्वाजात-शत्रोः स्वं राज्यं कितवैर् हृतम् ।
घातयित्वासतो राज्ञः कच-स्पर्श-क्षतायुषः ॥**
याजयित्वाश्वमेधैस् तं त्रिभिर् उत्तम-कल्पकैः ।
तद्-यशः पावनं दिक्षु शत-मन्योर् इवातनोत् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कितवैर् धूर्तैर् योधनादिभिः । द्रौपद्याः कच-ग्रहणादिना क्षतं नष्टम् आयुर् येषां तान् ॥५॥याजयित्वेत्य्-आदि-भावि-कथा-सङ्क्षेपः । शत-मन्योः शत-क्रतोर् इव ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **द्रौपद्याः कच-ग्रहणादिना क्षतम् आयुर् येषां तान् ॥५॥याजयित्वेत्य्-आदि-भावि-कथा-सङ्क्षेपः ॥६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **द्रौपद्याः कच-स्पर्शादिना दुःशासन-कृतेन हतान्य् आयूंषि येषां तान् ॥५॥ \
\
याजयित्वेत्य्-आदि भावि-कथा-सङ्क्षेपः, शतमन्योर् इन्द्रस्य् एव । मन्युर्दैन्ये क्रतौ क्रुधि इत्य् अमरः ॥६॥
———————————————————————————————————————
॥ १.८.७-८ ॥
आमन्त्र्य पाण्डु-पुत्रांश् च शैनेयोद्धव-संयुतः ।
द्वैपायनादिभिर् विप्रैः पूजितैः प्रतिपूजितः ॥**
गन्तुं कृतमतिर् ब्रह्मन् द्वारकां रथम् आस्थितः ।
उपलेभेऽभिधावन्तीम् उत्तरां भय-विह्वलाम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शैनेयः शिनेर् नप्ता सात्यकिस् तेन चोद्धवेन च संयुतः ॥७॥ रथम् आस्थितः सन्न् उत्तरां परीक्षिन्-मातरम् । भयेन विह्वलां व्याकुलाम् । अभिमुखं धावन्तीम् उपलेभे ददर्श ॥८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ सङ्क्षेपेणोक्त्वा पुनः प्रस्तुतम् आह—आमन्त्र्येत्य् आदिना । तत्रामन्त्र्येति युग्मकम् ॥७-८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शैनेयः शिनेर् नप्ता सात्यकिः ॥७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सैनेयः सिनेर्नप्ता सात्यकिः ॥७॥ \
\
द्वारकां गन्तुम् ॥८॥
———————————————————————————————————————
॥ १.८.९ ॥
उत्तरोवाच—
पाहि पाहि महा-योगिन् देव-देव जगत्-पते ।
नान्यं त्वद् अभयं पश्ये यत्र मृत्युः परस्परम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तरा श्री-कृष्णं प्रार्थयते—पाहि पाहि इति द्वाभ्याम् । अन्यस् तु प्रार्थना-योग्यो नास्तीत्य् आह । त्वत् त्वत्तोऽन्यम् अभयं भय-रहितं न पश्यामि । यत्र लोके परस्परम् अन्योन्यं मृत्युर् भवति ॥९॥
———————————————————————————————————————
कैवल्य-दीपिका : पाहि इति । अथ स्वजन-वध-शङ्का-विभावं भयम् आह । उत्तरेत्य्-आदि । हे देव कृष्ण ! यत्र यस्मिन् । अत्र पाहि पाहि इत्य् अनेन स्व-पुत्र-वध-दर्शनम् उत्तरया व्यक्तीकृतम् ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वत्तोऽन्यम् **अभयं न पश्यामि । परस्परम् **एकस्य मृत्युर् अन्यस् तस्य मृत्युर् अपरस् तस्याप्य् अन्य इत्य् एवम् ॥९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : त्वद् अन्यम् अभयं न पश्यामि । परस्परम् इति—एकस्य मृत्युर् अन्यस् तस्यापर इत्य् एवम् इत्य् अर्थः ॥९॥
———————————————————————————————————————
॥ १.८.१० ॥
अभिद्रवति माम् ईश शरस् तप्तायसो विभो ।
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र प्रस्तुतं भयम् आवेदयति । अभिद्रवत्य् आभिमुखम् आयाति । तप्तम् आयसं लोहमयं शल्यं यस्य सः । अतिकर्पण्येनाह—कामम् इति । कामं यथेच्छम् ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अभिद्रवतीत्य् आदौ यान् प्रति प्रयुक्तः शरस् त एव तं पश्यन्तीति ज्ञेयम् ॥१०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् अभिमन्युना तेन पत्या विनापि जीवितं प्रार्थयसे न लज्जसे तत्राह— कामम् इति ॥१०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रस्तुतं स्व-भयम् आह—अभीति । तप्तम् आयसं लोहमयं शल्यं यस्य सः । ननु पति-हीनायास्ते किं जीवनेन? तत्राह—कामम् इति ॥१०॥
———————————————————————————————————————
॥ १.८.११ ॥
सूत उवाच—
उपधार्य वचस् तस्या भगवान् भक्त-वत्सलः ।
अपाण्डवम् इदं कर्तुं द्रौणेर् अस्त्रम् अबुध्यत ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पराभावेनातिकुपितस्य द्रौणेर् अपाण्डवं पाण्डव-शून्यम् इदं विश्वं कर्तुं प्रवृत्तं ब्रह्मास्त्रम् अबुध्यत ॥११॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उपधार्य सावधानं श्रुत्वा । तत्र हेतुः—भक्त-वत्सल इति ॥११॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इदं विश्वम् अपाण्डवं कर्तुं प्रवृट्तस्य द्रौणः ॥११॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पराभवाद् अतिक्रुद्धस्येदं जगद् अपाण्डवं कर्तुम् उद्यतस्य द्रौणेः ॥११॥
———————————————————————————————————————
॥ १.८.१२ ॥
तर्ह्य् एवाथ मुनि-श्रेष्ठ पाण्डवाः पं च सायकान् ।
आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्य् उपाददुः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत एव बहु-मुखं तद् आगतम् इत्य् आह—तर्ह्य् एवेति । तर्ह्य् एव तदानीम् एव ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पाण्डवा इति । यो यो हि पाण्डु-वंशजः स एव पश्यति नान्य इति ज्ञेयम् ॥१२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अत एव बहु-मुखं तद् आगतम् इत्य् आह—तर्हीति । पाण्डवा एव तद् अपश्यन्नान्ये इति बोध्यम् ॥१२॥
———————————————————————————————————————
॥ १.८.१३ ॥
व्यसनं वीक्ष्य तत् तेषाम् अनन्य-विषयात्मनाम् ।
सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद् विभुः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ब्रह्मास्त्रस्यास्त्रान्तरैर् अनिवर्त्यत्वात् तद्-दुष्परिहरं व्यसनं वीक्ष्य । अनन्य-विषय आत्मा येषाम् । स्वैक-निष्ठानाम् इत्य् अर्थः ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तज् झटित्य् अशक्य-समाधानम्, व्यसनं विपदम् ॥१३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ब्रह्मास्त्रास्यास्त्रान्तरैर् अनिर्वार्यत्वात् तथा एकेन ब्रह्मास्त्रेण पूर्ववद् अर्जुन-प्रयुक्तेनापि प्रतिजनाभिमुखम् आगतस्य पृथक् पृथक् ब्रह्मास्त्रस्य दुर्निवारत्वात् तत्-प्रयोगादि-काल-विलम्बासहत्वाच् च व्यसनं दुष्परिहारं वीक्ष्य विचार्य न्यस्त-शस्त्रोऽपि सुदर्शनेनेत्य् आदि तेन स्व-प्रतिज्ञा-भङ्गेनापि भक्त-वात्सल्य-नामानम् असाधारणं स्व-धर्मं ररक्षेति भावः ॥१३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अर्जुन-प्रयुक्तेनैकेन ब्रह्मास्त्रेण पञ्चापि प्रत्यागतस्य तद् अस्त्रस्य दुर्वारत्वात्-तत्-प्रयोगादि-विलम्बासहनाच् च त्यक्त-शस्त्रोऽपि सुदर्शनेन तन्-निरास्थदित्य् आह—व्यसनम् इति । अनन्यविषय आत्मा मनो येषां स्वैकान्तिनाम् इत्य् अर्थः ॥१३॥
———————————————————————————————————————
॥ १.८.१४ ॥
अन्तःस्थः सर्व-भूतानाम् आत्मा योगेश्वरो हरिः ।
स्व-माययावृणोद् गर्भं वैराट्याः कुरु-तन्तवे ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वैरट्या उत्तराया अन्तः-स्थः सन् गर्भम् आवृतवान् । तत्र हेतुः—यत आत्मान्तर्यामी । योगेश्वर इति बहिः-स्थस्यापि प्रवेश-घटनार्थम् उक्तम् । कुरूणां तन्तवे सन्तानाय । पाण्डवानाम् अपि कुरु-वंश-जत्वाद् एवम् उक्तम् ॥१४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सर्व-भूतानाम् आत्म परमात्मेत्य् अन्तःस्थः । तर्हि कथं वहिष्ठः ? तत्राह—योगेश्वर इति । स्वेषु पाण्डवेषु या माया कृपा, तया । ताम् एव दर्शयति—कुरु-तन्तव इति । तैः ॥१४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्तःस्थ इति वैराट्या अपि अन्तर्यामि-रूपेण स्थितोऽपि योगेश्वरो योगबलेन हरिर् इति कृष्ण-रूपेण प्रविश्य गर्भम् आवृणोत् । आवृत्य स्थितो ररक्षेत्य् अर्थः । स्व-मायया योग-माययेति वैराट्या तु तथा-भूतत्वेनाविज्ञात इत्य् अर्थः । कुरूणां तन्तवे सन्तानाय । पाण्डवा अपि कुरु-वंशजा एवेत्य् एवम् उक्तम् ॥१४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अन्तर्यामि-रूपेण वैरात्याश् चान्तः-स्थितो हरिर् इति कृष्ण-रूपेण तस्या गर्भम् आवृणोद् आवृत्या ररक्ष । स्वमायया स्वकीये परीक्षिति कृपया हेतुना । करूणां तन्तवे सन्तानाय, पाण्डवानां कुरुवंश-भवत्वादियम् उक्तिः ॥१४॥
———————————————————————————————————————
॥ १.८.१५ ॥
यद्यप्य् अस्त्रं ब्रह्म-शिरस् त्व् अमोघं चाप्रतिक्रियम् ।
वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अमोघम् अप्रतिक्रियं च । समशाम्यत् संशान्तम् आसीत् ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **वैष्णवं तेजः सुदर्शनम् ॥१५॥
———————————————————————————————————————
॥ १.८.१६ ॥
मा मंस्था ह्य् एतद् आश्चर्यं सर्वाश्चर्यमये ञ्च्युते ।
य इदं मायया देव्या सृजत्य् अवति हन्त्य् अजः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतद् ब्रह्मास्त्र-शमनम् आश्चर्यं मा मांस्था न मन्यस्व । इदं जगत् ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एतद्-ब्रह्मास्त्र-संशमनम् । अच्युते कूटस्थे सर्वाश्चर्यमयेऽचिन्त्यानन्त शक्ति-निलये मायया इच्छया देव्या दीप्तया इदं जगत् ॥१६॥
———————————————————————————————————————
॥ १.८.१७ ॥
ब्रह्म-तेजो-विनिर्मुक्तैर् आत्मजैः सह कृष्णया ।
प्रयाणाभिमुखं कृष्णम् इदम् आह पृथा सती ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कृष्णया सह ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कृष्णया द्रौपद्या सह सती वैष्णवी ॥१७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सती वैष्णवी पृथा कृष्णया च सह कृष्णम् इदम् आह ॥१७॥
———————————————————————————————————————
॥ १.८.१८ ॥
कुन्त्य् उवाच—
नमस्ये पुरुषं त्वाद्यम् ईश्वरं प्रकृतेः परम् ।
अलक्ष्यं सर्व-भूतानाम् अन्तर् बहिर् अवस्थितम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्वा त्वां नमस्ये नमस्-करोमि । ननु कनिष्ठं मां कथं नमस्-करोषि तत्राह । आद्यं पुरुषम् । कुतः ? प्रकृतेः परः । तत् कुतः ? ईश्वरं प्रकृतेर् अपि नियन्तारम् । अत एव सर्व-भूतानाम् अन्तर् बहिश् च पूर्णत्वेनावस्थितम् । तथाप्य् अलक्ष्यम् ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नमस्य इति सार्धकम् ॥१८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ज्ञात-तात्कालिक-श्री-कृष्ण-सर्व-कृत्या कुन्ती हृद्य् उदितस्य तन्-महैश्वर्यस्य वेगं सोढुम् अपारयन्तीति स्तौति नमस्येति । किं भ्रातेयं मां नमस्यसि तत्राह—पुरुषम् । ननु पुरुष एवास्मि कोऽत्र सन्देहस् तत्राह—आद्यम् । ननु देहानाम् एवागमापायित्वं पुरुषो जीवस् त्व् आद्य एव सर्वस् तत्राह—ईश्वरम् । ननु स्वर्गे इन्द्र-चन्द्राद्या भूमौ राजानोऽपि ईश्वरा उच्यन्ते, तत्राह—प्रकृतेः परम् । किम् अहम् अन्तर्यामी पुरुषः । न, अलक्ष्यम् । अन्तर्यामी बुद्ध्यादि-प्रकाश-लक्ष्य एव । किं ब्रह्म ? न, अन्तर् बहिश् च अवस्थितम् । यस्माद् अन्तर् उत्तरा-गर्भ-स्थो बालकं च रक्षितवान् असि बहिश् चास्मांश् च रक्षन् समीपे तिष्ठसीति ॥१८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **दृष्ट-तात्कालिक-भगवत्-प्रभावा पृथा हृदि प्रजातं तदैश्वर्य-वेगं सोढुम् अक्षमा स्तौति—नमस्य इति । ननु भ्रात्रेयं मां किं नमस्यसि? तत्राह—आद्यं पुरुषम् इति ।
ननु जीवोऽपि ईदृशः? तत्राह—ईश्वरम् इति । नन्व् ईदृशो विरञ्चिः? तत्राह—प्रकृतेः परं । नन्व् ईदृशं मां कोऽपि न वदति? तत्राह—त्वद् अनुग्रह-शून्यानां सर्व-भूतानाम् अलक्ष्यम् । अनुगृहीतानां तु लक्ष्यम् इत्य् आह—वैराट्यन्तरं प्रविश्य रक्षित-तद् गर्भं बहिश् च रक्षित-पाण्डवम् इत्य् अर्थः ॥१८॥
———————————————————————————————————————
॥ १.८.१९ ॥
माया-जवनिकाच्छन्नम् अज्ञाधोक्षजम् अव्ययम् ।
न लक्ष्यसे मूढ-दृशा नटो नाट्यधरो यथा ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र हेतुः—माया एव जवनिका तिरस्कारिणी तया आच्छन्नं प्रतिच्छन्नम् । अतोऽ हम् अज्ञा भक्ति-योगानभिज्ञा केवलं नमस्यामि । अधः अक्ष-जम् इन्द्रिय-जं ज्ञानं यस्मात् तम् । अव्ययम् अपरिच्छन्नम् । तत्-प्रपञ्चः मूढ-दृशा देहाभिमानिना पुंसा न त्वं लक्ष्यसे ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अलक्ष्यत्वे हेतुः—मायेत्य्-आदि पद-द्वयम् । तत्र प्रथमम् अनधिकारिणः प्रति प्राकट्यावसरेऽपि । द्वितीयम् अन्यदा स्वरूपत एवेन्द्रिय-ज्ञानातीतत्वात् । सर्वत्र स्थितत्वेऽप्य् अव्ययं तेन सह न व्येत्यीति । मायेत्य् एतत् प्रपञ्चयति—न लक्ष्यस इति सार्धकम् ॥१९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यस्माद् अन्तर् उत्तरा-गर्भ-स्थो बालकं च रक्षितवान् असि बहिश् चास्मांश् च रक्षन् समीपे च तिष्ठसीति किं त्वं परिच्छिन्नोऽसि व्यापको वेति त्वाम् अहं ज्ञातुं न शक्नोमीत्य् आह—मायैव जवनिका तिरस्करिणी तया आच्छन्नम् ।
ननु, किं माया माम् आवृणोति ? तत्राह—अज्ञा मेघाच्छन्नं सूर्यम् अहं न पश्यामीतिवन् मायया मद्-दृष्ट्याच्छादनात् त्वाम् अप्य् आच्छन्नं पश्यामीत्य् अर्थः । यतोऽधोक्षजम् अधः स्थितम् अक्षजं ज्ञानं यस्येति ऐन्द्रियकं ज्ञानं यस्याधः स्थितम् । एवं न स्प्रष्टुं प्रभवतीत्य् अहम् ऐन्द्रियक-ज्ञानवती अज्ञैव, न च मादृश-निकृष्ट-जननाज्ञेयत्वे तव कापि क्षतिर् इत्य् आह—अव्ययम् इति ।
ननु, मांसाक्षात् पश्यसि स्तौषि प्रकृतेः परत्वेन जानासि तद् अप्य् अज्ञासीत्य् आत्मानं किम् इति निन्दसि ? इत्य् अत आह—न लक्ष्यसे इति । नाट्यधरः गीयमान-गीत-पदार्थाभिनय-रसानुरूप-नृत्य-तालादि-विशिष्टो नटो मूढ-दृशा सङ्गीत-शास्त्रानभिज्ञेन नटोऽयं नटतीत्य् एवं दृष्टोऽपि यथा न लक्ष्यते न ज्ञात-तत्त्वो भवति तथैव त्वं मया दृष्टोऽपि न लक्ष्यसे । इति तथेत्य् अस्य पूर्वेणैवान्वयः । पाण्डवान् स्व-भाक्तान् पालयन्न् अपि सर्वान्तर्याम्य् अपि मुहुर् अप्य् अश्वत्थामादि पाण्डव-वधार्थम् अस्त्रं ग्राहयसि स्वयं न्यस्त-शस्त्रोऽप्य् अस्त्रं गृह्णासि शिष्ट-पालन-प्रवृत्तोऽपि भीष्मादीन् संहारयसि दौपदी-सुभद्रयोर् अतिस्निह्यन्न् अपि तत्-पुत्रान् घातयसीत्य् एवम् आदिका तव लीला किं-तत्त्वेत्य् अहं न जानामीति भावः ॥१९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **त्वम् एको बहुर् वा मध्यमो विभुर् वेति बोद्धुम् असमर्थाज्ञाहम् इत्य् आह—मायया तादृशत्व-ज्ञानाभाववत्या मद्-बुद्ध्या जवनिकया छन्नं मेघेनेव रविं, माया स्याच्छाम्बरी-बुद्ध्योः इति त्रिकाण्डश्-एषः । अधः-स्थितम् अक्षजम् ऐन्द्रियकं ज्ञानं यस्य तम्, अत्र दृष्टान्तः—नाट्यधरो गीयमान-तरुणी-मुख-नेत्राद्य् अभिनयकृत् नटौ यथा मूढ-दृशा तद् अभिनय-शास्त्रान् अभिज्ञेन न लक्ष्यते, तद्वत्त्वं मया \ तद् अनभिज्ञयेति ॥१९॥
———————————————————————————————————————
॥ १.८.२० ॥
तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **भक्ति-योग-विधान-विषयम् ॥२०॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, परम-हंसानाम् आत्मानात्म-विवेके । हि स्त्रियः ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथेति, तथा च सतीत्य् अर्थः । अमलात्मनां मुनीनां मध्ये ये परमहंसा आत्मारामास् तेषां स-प्रेम-सम्पादन-प्रयोजनकं त्वाम् ॥२०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्त्री-जातेर् मम का वार्ता ? सर्वज्ञा मुनयः परमंसा अपि यल्-लीला-माधुर्येणाकृष्टाः भजन्त्य् एव तद्-भजन-तत्त्वम् अप्य् अविद्वांसो लीला-लास्यं किं ज्ञास्यन्ति ? इत्य् आह—परमेति । अमलात्मनां गुण-मय-मालिन्यान् निष्क्रान्तानां जीवन्-मुक्तानाम् इत्य् अर्थः। तेषाम् अपि भक्ति-योग-विधानम् अर्थः प्रयोजनं यस्य तम् । यद् उक्तं—आत्मारामाश् च [भा।पु। १.७.१०] इत्य् आदौ कुर्वन्त्य् अहैतुकीं भक्तिम् इति ॥२०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ भक्ति-स्वभावोद्गतं दैन्यं द्योतयन्त्य् आह—तथेति । अमलात्मनां कर्मानुष्ठानादि-मलान्-निर्गतानां भक्ति-योगस्य यद्-विधानं जननं सोऽहर्थे यस्य तं, श्री-शुकादीनां त्वां ध्यायतां विना त्वद्-वीक्षामत्याकुलानां वीक्षाप्रदानेन तद्-भक्त्य् आनन्द-सम्पत्तयोऽहवतीर्णम् इत्य् अर्थः । स्त्रियो वयं पारमहंस्यादि-धर्मशून्याः ॥२०॥
———————————————————————————————————————
॥ १.८.२१ ॥
कृष्णाय वासुदेवाय देवकी-नन्दनाय च ।
नन्द-गोप-कुमाराय गोविन्दाय नमो नमः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ज्ञान-भक्ति-योग-शक्यत्वम् उक्त्वा पुनः केवलं नमस्करोति—कृष्णायेति द्वाभ्याम् ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवम्भूतोऽपि त्वम् अहो ! अस्माकम् इत्थं सुखदस् तापहारी च संवृत्तोऽसीति तत् तत् स्मृत्वा नमस्करोति—कृष्णायेति ॥२१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अतः सर्वावतारेषु मध्ये त्वम् एवातिश्रेष्ठ इत्याह कृष्णायेति । तत्रापि यांस् त्वं स्वीकरोषि तेष्व् अपि प्रेमवत्सु धन्येषु मध्ये मद्-भ्राता अतिधन्यो यस् ते पितेत्य् आह—वासुदेवायेति । ततोऽपि अधिक-प्रेमवती देवकी धन्या या ते मातेत्य् आह—देवकीं नन्दयसि तदीय-गर्भे स्थित्या तां सर्वतोऽपि समृद्धिमतीं करोषीत्य् अर्थः । ततोऽप्य् अधिक-प्रेमवान् नन्दो धन्य इत्य् आह—नन्द-गोपस्य कुमाराय कौमार-लीला-माधुर्यं स एवास्वादयामासेति भावः । ततोऽपि प्रेमवती धन्या यशोदेत्य् अग्रिम-श्लोके वक्ष्यते । कौमार-लीलातोऽपि व्रज-स्थस्य तव कैशोर-लीला-माधुर्यम् अधिकम् इत्य् आह—गोविन्दायेति । कैशोरारम्भे एवाभिषेकानन्तरं गोविन्द-नाम-ख्यातेः, तदैव गाः सर्वेषां सर्वेन्द्रियाणि विन्दसे आकृष्य प्राप्नोषीत्य् अर्थः । असाधारण्येन तद्-आस्वादक-जनास् तु रहस्यत्वेन स्वीय-रसास्वादनानौचित्येन च नोट्टङ्किताः ॥२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अस्मत्-तोऽपि वसुदेवादयोऽतिधन्या इत्य् आह—कृष्णायेति । वासुदेवाय वसुदेवस्य मद्-भ्रातः पुत्राय । देवकीं गर्भ-स्थित्य् आनन्दयसीति तत्-सम्बन्धद् एव वयं च धन्या इति भावः । ताभ्याम् अपि नन्दायोऽतिधन्या इत्य् आह—नन्दनामा गोपो व्रज-भूपतिः, अयाजयद्-गोसवेन गोप-राजन् [भा।पु। ३.२.३२] इत्य्-आदि-वक्ष्यमाणात्, तस्य कुमारायात्मजाय । गोविन्दाय गवेन्द्रतयेन्द्रेणाभिषिक्ताय । पायान् न इन्द्रो गवाम् [भा।पु। १०.२६.२५] इति वक्ष्यति । गवेन्द्रत्वं खलु महैश्वर्यम्—
गोभ्यो यज्ञः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः ।
गोभिर् वेदाः समुद्गीर्णाः सषडङ्ग-पदक्रमाः ॥ इति गोसूक्तात् ।
यथा च कौमारादि-लीला-सुधानां नन्दादिभिर् एवानुभवात्-तेषाम् अतिधन्यत्वम् ॥२१॥
———————————————————————————————————————
॥ १.८.२२ ॥
नमः पङ्कज-नाभाय नमः पङ्कज-मालिने ।
नमः पङ्कज-नेत्राय नमस् ते पङ्कजाङ्घ्रये ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पङ्कजं नभौ यस्य । पन्ङ्कजानां मालास्ति यस्य । पङ्कजवत् प्रसन्न् एनेत्रे यस्य । पङ्कजाङ्किताव् अङ्घ्री यस्य तस्मै ॥२२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवम् एव सुखदत्व-तापहारित्व-रूपं निज-स्वभावं प्रकटयन्न् इव पङ्कजाभैर् निजाङ्गैर् विराजस इत्य् आह—नम इति । पङ्कजाकारं भगवल्-लक्षणं नाभौ यस्य । पङ्कजे इव अङ्घ्री यस्य ॥२२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अहं तु तेषां मध्ये न गणनीया, तद् अपि मन्-नेत्र-सुखदोऽसीत्य् आह—नमः पङ्कजेति । तव नाभि-माला नेत्रादिषु पतिता मे दृष्टिः सुख-शीतला भवतीति भावः ॥२२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यद्यपि नाहं तत्-सदृशी, तथापि तं त्वां पश्यन्ती कृतार्थास्म् ईत्य् आह—नम इति ॥२२॥
———————————————————————————————————————
॥ १.८.२३ ॥
यथा हृषीकेश खलेन देवकी
कंसेन रुद्धातिचिरं शुचार्पिता ।
विमोचिताहं च सहात्मजा विभो
त्वयैव नाथेन मुहुर् विपद्-गणात् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्-कृतोपकारान् अनुस्मरति—यथा इति द्वाभ्याम् । अयम् अर्थः—मातृतोऽपि मय्य् अधिका तव प्रीतिः । तथा हि, हे हृषीकेश, यथा देवकी कंसेन रुद्धा त्वया विमोचिता, अहं च तथैव किं विमोचिता ? इति काक्वा महान् विशेष उक्तः । तं दर्शयति—सा अतिचिरं रुद्धा सती तस्माद् एव सकृद् विमोचिता तथा शुचार्पिता च सती । न च तस्याः पुत्रा रक्षिताः । अस्ति चान्यो नाथस् तस्याः । अहं तु विपद्-गणात्, तथापि मुहुः शीघ्रं च सात्मजा च त्वयैव च नाथेनेति ॥२३॥
———————————————————————————————————————
कैवल्य-दीपिका : यथा इति । यथा यथावच् च-कारेण एव उपमार्थस्य लब्धत्वात् । मुहुर् विपद्-गणादि-व्यतिरेकः ॥२३॥ [मु।फ। १५.९]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्व-तापहारित्वम् एव दर्शयति—यथेति । त्वयैवेति बलदेवस्याप्य् अन्यत्र पक्षपात-दर्शनेन स्व-पुत्रादि-साहाय्यम् अपि त्वद्-अनुग्रहेणेति भावः ॥२३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, अहम् अतिदीना त्वया मातेव पालितेत्य् आह—यथेति । हे हृषीकेशेति मद्-अन्तः-करणं त्वम् एव जानासीति भावः । अहं च तथा मोचिता, किन्तु सहात्मजेति मयि विशेषेण तव दया । तत्र हेतुः शुचार्पिता शुचायां शोके एव मत्-कर्मणा अहम् अर्पिता इति तस्याः सकाशाद् अप्य् अहम् अतिदुःखिनीत्य् अर्थः । किं च, त्वयैव नाथेनेति तस्यास् तु नाथो वसुदेवो विद्यते इत्य् अपत्यान्तरोत्पत्ति-सम्भावनाया विद्यमानत्वात् त्वं चापत्य-चूडामणिर् अभूर् एव किम् अन्यैर् अपालितैर् निकृष्टैः षड्-गर्भैर् इति भावः । किं चाहं मुहुः पुनः पुनर् अपि यो विपदां गणस् तस्मान् मोचिता । सा तु सकृद् एव कंस-हेतुको यो विपद्-गन्ध एव तस्माद् एव मोचिता, तत्रापि मद्-गर्भे परमेश्वरो जनिष्यते इति मनोऽनुलाप-सुखाभिमानवत्याः कुतो विपद्-गन्धोऽपि तद्-अनन्तरं विपत् कापि तस्या नाभूद् एवेति अहम् एव सर्वतोऽप्य् अतिदीनेति मयि तव दीन-बन्धुत्वाद् एव दया न त्व् अहं देवकीवत् त्वयि प्रेमवती भाग्यवती वेति भावः ॥२३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **किं च मातृतोऽपि मयि तवाधिकं कारुण्यम् इत्य् आह—यथेति स्फुटर्थं । देवकी पतिमती त्वद्-रूप-पुत्राशा-शालिनी कंस-कृत-सकृद्-विपत्तिका । अहन्तु विधवा तोकपुत्रा शत्रुता-सकृद्-विपत्तिका चेति मां पालयतस् तव दीन-बन्धु तातिविदितेति भावः ॥२३॥
———————————————————————————————————————
॥ १.८.२४ ॥
विषान् महाग्नेः पुरुषाद-दर्शनाद्
असत्-सभाया वन-वास-कृच्छ्रतः ।
मृधे मृधेऽनेक-महारथास्त्रतो
द्रौण्य्-अस्त्रतश् चास्म हरेऽभिरक्षिताः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विपद्-गणम् एव दर्शयति । विषाद् भीमस्य विष-मोदक-दानात् । महाग्नेर् जतु-गृह-दाहात् । पुरुषादा हिडिम्बादयो राक्षसास् तेषां दर्शनात् । असत्-सभाया द्यूत-स्थानात् । अभितो रक्षिता आस्म अभावम ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **असत्-सभाया द्रौपदी-वस्त्र-वर्धनादिना ॥२४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विपद्-गणम् एव दर्शयति । विषाद् भीमस्य विषमोदक-दानात् । महाग्नेर् जतु-गृह-दाहात् । पुरुषादा हिडिम्बादयो राक्षसाः । असत्-सभाया द्यूत-स्थानात् ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विपद्गणम् आह—विषाद्विषममादकात्, महाग्नेर् दीप्ताल्-लाक्षा-गृहात् । पुरुषादानां हिडम्बादीनां रक्षसां दर्शनात्, असत्-सभाया द्यूत-संसदः ॥२४॥
———————————————————————————————————————
॥ १.८.२५ ॥
विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्-गुरो ।
भवतो दर्शनं यत् स्याद् अपुनर् भव-दर्शनम् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अपुनर् भवं दर्शयति ॥२५॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् यासु विपत्सु । कीदृशं दर्शनम् ? नास्ति पुनर् अपि भव-दर्शनंयस्मात् ॥२५॥
———————————————————————————————————————
सनातन गोस्वामी (दिग्-दर्षिनी) : यत् यासु आपत्सु न पुनर् भवस्य संसार-दुःखस्य दर्शनं यस्मात् तत् । यद् वा, अपुनर्भवं मोक्षं दर्शयति तुच्छतया ज्ञापयतीति तथा तत् । महतोऽपि सरसो महा-समुद्र इव मोक्ष-सुखस्यापि भगवद्-दर्शनानन्दस् तुच्छतां दर्शयतीति न्यायात् ॥ (बृ।भा। १.५.८६)
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विपद इति । दर्शनम् अवलोकनम् । यत् यासु । अपुनर्भवम् अन्यत्र कुत्रापीदृश-माधुर्याभावात् पुनर् न जातं दर्शनं साम्य-प्रतीतिर् यस्य तत्, अपूर्वम् इत्य् अर्थः ॥२५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, ता विपद एव मे सम्पद एवेत्य् आह—विपद इति । हे जगतां गुरो हित-कारित्वेन सकृपोत्थ-विपद्-अञ्जन-प्रदानेन सम्पत्-प्रसाद-घूर्णा-ध्वंसिन् ! यद् यासु विपत्सु भवतो दर्शनं कीदृशं नास्ति, पुनर् अपि भवस्य संसार-दुःखस्य दर्शनं यत् ॥२५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अहं तु ता विपद एव सम्पदो मन्ये इत्य् आह—विपद इति । तत्र देशे काले च यद्य् आसु विपत्सु भवतस् तव दर्शनम् अभूत् । कीदृशि? नास्ति पुनर् अपि भवस्य संसारस्य दर्शनं यस्मात् तत् । अनुज्ञालङ्कारः, दुःखस्य प्रार्थनानुज्ञा तत्रैव सुख-दर्शनात् इति तल्-लक्षणात् ॥२५॥
———————————————————————————————————————
॥ १.८.२६ ॥
जन्मैश्वर्य-श्रुत-श्रीभिर् एधमान-मदः पुमान् ।
नैवार्हत्य् अभिधातुं वै त्वाम् अकिञ्चन-गोचरम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संपदस् तु श्रेयः-परिपन्थिन्य इति आह—जन्म सत्-कुले । जन्मादिभिर् एधमानो मदो यस्य सः । अभिधातुं श्री-कृष्ण-गोविन्देति वक्तुम् अपि । अकिंचनानां गोचरं विषय-भूतम् ॥२६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मद्-विध-सम्पदस् तु तत्-सम्बन्ध-मात्र-परिपन्थितन्य इत्य् आह—जन्मेति ॥२६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **लोके सम्पद एव विपद इत्य् आह—जन्मेति । अभिधातुं कृष्ण-गोविन्देत्य् अभिधानम् अपि वक्तुम् ॥२६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अभिधातुं कृष्ण गोविन्देति वक्तुम् । अकिञ्चनानाम् आसुर-सम्पद-विहीनां गोचरं गम्यम् ॥२६॥
———————————————————————————————————————
॥ १.८.२७ ॥
नमोऽकिञ्चन-वित्ताय निवृत्त-गुण-वृत्तये ।
आत्मारामाय शान्ताय कैवल्य-पतये नमः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रस्तुत-मनोरथ-पूरणाय पुनः प्रणमति । अकिञ्चना भक्ता एव वित्तं सर्वस्वं यस्य तस्मै । ततः किम् ? निवृत्ता गुण-वृत्तयो धर्मार्थ-काम-विषया यस्मात् तस्मै । तत् कुतः ? आत्मारामाय । तत् कुतः ? शान्ताय रागादि-रहिताय । किं च, कैवल्य-पतये कैवल्यं दातुं समर्थाय ॥२७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नन्व् अकिञ्चन-वित्तत्वेन कियन् माहात्म्यं जातम् ? तत्राह—निवृत्तेति । गुण-वृत्ति-रहितस्य तव यद्-भक्त-वित्तत्वम्, तत् परम-महद् एवेति भावः । तद् धि भक्तानां निर्गुणत्वं सर्व-गुण-मयाद् उत्कृष्टत्वं च व्यनक्ति—आत्मारामायेत्य् अनेन । ततोऽप्य् आधिक्यम् । आत्मारामस्यापि तद्-वित्तत्वात् । एवं शान्तायेत्य् आदि ॥२७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अकिञ्चना न विद्यते किञ्चिन्-मात्रं प्राकृतं वस्तु, अपि तु त्वल्-लक्षणं पूर्ण-चिद्-आनन्द-स्वरूपं वस्त्व् अस्ति येषां, ते एकान्त-भक्ता एव वित्तानि धनानीत्य् अति-प्रेमास्पदानि सर्वतः सङ्गोपनीयाश् च यस्य तस्मै तेषां वित्तायेति वा । नन्व् अकिञ्चना दरिद्रा उच्यन्ते ? सत्यम् । भगवद्-भक्तानां माया-गुण-वृत्त्य्-उत्थाः सम्पदो न भवन्तीत्य् आह—निवृत्ता गुण-वृत्तयो विषय-भोगा यस्मात् तस्मै । अकिञ्चन-भक्तेष्व् एवासक्तिम् उक्त्वा, अन्येषु त्व् औदासीन्यम् आह—आत्मारामायेति । भक्तानाम् अपराधे सत्य् अपि न त्वं कुप्यसीत्य् आह—शान्ताय स्व-भक्ते स्वनुग्रहाय । मुमुक्षु-भक्तेषूपकारकत्वम् आह—कैवल्येति ॥२७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अकिञ्चन-प्रेष्ठत्वेन पुनः प्रणमति—कृष्णादन्यत् किञ्चन वित्तं येषां नास्ति, तेऽकिञ्चनास् तेषां वित्ताय, ते वा वित्तं यस्य तस्मै, कुत एवं? तत्राह—निवृत्त गुण-वृत्तयो यस्मात्-तस्मै । अकिञ्चनेष्वासक्तिम् अभिधाय तेभ्योऽन्यत्रौदासीन्यम् आह—आत्मा-रामायेति । शान्ताय सापराधेऽपि भक्ते कोपशून्याय । कैवलस्य मोक्षस्य पत्ये स्वामिने तत्-प्रदायेत्य् अर्थः ॥२७॥
———————————————————————————————————————
॥ १.८.२८ ॥
मन्ये त्वां कालम् ईशानम् अनादि-निधनं विभुम् ।
समं चरन्तं सर्वत्र भूतानां यन् मिथः कलिः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु देवकी-पुत्रं मां कथम् एवं स्तौषि तत्राह । मन्ये त्वां कालं नतु देवकी-पुत्रम् । तत्र हेतवः—ईशानं नियन्तारम् । अनादि-निधनम् आद्य्-अन्त-शून्यम् । विभुं प्रभुम् । समं यथा भवति तथा सर्वत्र चरन्तम् । ननु पार्थ-सारर्थेः कथं मम साम्यं तत्राह । यद् यतस् त्वत्तो निमित्त-भूताद् भूतानाम् एव मिथः कलिः कलहो भवति नतु स्वतस् त्वयि वैषम्यम् ॥२८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स तु तव सुस्वभावस् तर्कागोचर एवेत्य् आह—मन्य इति चतुर्भिः । कालम् अन्तर्यामिनम् । ईशानं बहिश् च सर्व-नियन्तारम् । यद् यत्र येषु भावेषु भूतानां मिथः कलिर् भवति । तेषु समं चरन्तम् । अत्र प्रथमे समत्वम्, द्वितीये समत्वेऽपि भक्त-तद्-द्वेषिणोर् अनुग्रह-निग्रह-रूपाचरितत्वम् । तृतीये तद्-अर्थ-तल्-लीलावतारे परम आवेशः । चतुर्थे तु तत्रापि परम इति ॥२८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भक्तापराधिषु संहारकत्वम् आह—कालम् इति । न त्व् आसक्त्य् औदासीन्योपकारक्त्वापकारकत्वैर् अपि त्वयि वैषम्यम् इत्य् आह—समम् इति । यद् यत्र मिथः कलिः कलह ईश्वरो दुःखदः सुखदः समो विषमो निर्घृणः सघृण इत्य्-आदि ॥२८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कालं शिष्ट-विद्वेषि-संहारकम् । ईशानं तत्-संहारे समर्थम् । अनादि-निधनं विभुं ताद्-रूपेण सर्व-देश-कालस्थितम् । सर्वत्र शिष्टेषु दुष्टेषु च समं यथा स्यात्-तथा चरन्तं वर्तमानम् इत्य् अर्थः । यद्य् अस्मिंस् त्वयि भूतानां मिथः कलिः—बद्धो मुक्तो वेश्वरः, आद्येऽसामर्थमन्त्ये प्रवृत्त्य् अभाव इति व्यर्थस् तत् स्वीकारः । अथ समो विषमो वेश्वरः नाद्यः, अनुग्रह-निग्रहयोर् दर्शनात्, नान्त्यः, साम्य-वाक्याद् इतेव्यं कलहः ॥२८॥
———————————————————————————————————————
॥ १.८.२९ ॥
न वेद कश्चिद् भगवंश् चिकीर्षितं
तवेहमानस्य नृणां विडम्बनम् ।
न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद्
द्वेष्यश् च यस्मिन् विषमा मतिर् नृणाम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु निग्रहानुग्रह-रूपं मयि प्रसिद्धं वैषम्यम् अत आह—न वेदेति । नृणां विडम्बनम् अनुकरणम् ईहमानस्य कुर्वतः । यस्मिंस् त्वयि विषमा मतिर् अनुग्रह-निग्रह-रूपा भवति ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु तत्र कलहे तत्त्व-निश्चायकः को भवेत् ? तत्र न कोऽपीत्य् आह—न वेदेति द्वाभ्याम् । नृणां शास्त्र-विवादिनां तेषां विडम्बनं ज्ञान-वैफल्यम् ईहमानस्य इच्छतः । यद् वा, राम-कृष्णाद्य्-अवतारे स्वीयेन नरत्वेन नृणां नर-मात्राणाम् एव विडम्बनम् ईहमानस्य तादृश-सौन्दर्य-साद्गुणे चरित्राद्य्-अदर्शनाद् अन्येन वा विडम्बिता एवं भवन्तीति भावः । नृणां नर-मात्राणां विषमा मतिर् इति यथा सूर्यस्य सूर्य-कान्त-शिलायां स्व-तुल्य-धर्मत्व-प्रदानेनासक्तौ अन्धेषु औदासीन्ये चक्रवाकेषूपकारित्वे घूक-तस्करान्धकारादिष्व् अपकारित्वे लक्ष्यमाणेऽपि न तस्य वैषम्यम्, किन्तु तत्र तत्र वस्तु-साद्गुण्य-वैगुण्याद् एव कारणम् इति बोध्यम् ॥२९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु तेषु कलहेषु मध्ये कश्चिन्मां वेत्ति? नेत्य् आह—हे भगवंस् तव चिकीर्षितं कश्चिद् अपि न वेद । कीदृशस्य? अतिमानुष-दैवतेन नृ-चरितेन नृणां विडम्बनं तिरस्कारमीहमानस्य कुर्वाणस्य यस्य तव कश्चिच्-छिष्टो दयितः कश्चिद् अशिष्टश् च द्वेष्यो नास्ति, तद् अनुग्रह-निग्रहयोस् तत्-तत्-कर्म-निमित्तकत्वात् । आह चैवं सूत्रकारः वैषम्य-नैर्घृण्ये न सापेक्षत्वात्, तथा हि दर्शयति [वे।सू। २.१.३४], तथापि नृणां मतिर् यस्मिन् विषमा, अतः कश्चिन् न वेदेति ॥२९॥
———————————————————————————————————————
॥ १.८.३० ॥
जन्म कर्म च विश्वात्मन्न् अजस्याकर्तुर् आत्मनः ।
तिर्यङ्-नृषिषु यादःसु तद् अत्यन्त-विडम्बनम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ते अजस्य जन्म । अकर्तुः कर्म । तिर्यक्षु वराहादि-रूपेण । नृषु रामादि-रूपेण ऋषिषु वामनादि-रूपेण । यादःसु मत्स्यादि-रूपेण ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, तद् अपि तव साम्य-वैषम्य-कर्तृत्वाकर्तृत्व-जन्मवत्त्वाजत्वादिषु सिद्धान्तान् निर्विद्य । लीलैवास्वादनीयेत्य् आह—जन्मेति द्वाभ्याम् । अजस्य जन्म अकर्तुः कर्म तत्रापि तिर्यग्-आदिषु तच् च तच् च तव सर्वोत्कृष्टस्येश्वरस्यात्यन्त-विडम्बनम् । तत्-तज्-जातीयार्थेनात्मनो न्यूनत्वाङ्गीकारात् । तथा हि वाराहे जन्मनि घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्न् इत्य्-आदिना सर्वज्ञत्वेऽपीश्वरत्वेऽपि वास्तव-शूकर एवाभूर् यम् अवलोक्य जहास चाहो वन-गोचरो मृत इत्य् एव न तत्त्व-ज्ञास् त्वां कर्माधीनं जीवम् एव मन्यन्त इति भावः । अत्राजत्वाकर्तृत्वयोर् एव सत्यत्वे जन्म-कर्म-लक्षणयोर् लीलयोर् मिथ्यात्वम् । तथात्वे च तस्या शुकदेवाद्य्-आत्माराम-गण-चित्ताकर्षणस्यासङ्गतिः । जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः [भा।पु। ४.९] इति भगवद्-उक्तेश् च जन्म-कर्मणोः सत्यत्वे अजत्वाकर्तृत्वयोर् असङ्गतिर् इति । तस्माद् अचिन्त्यानन्त-शक्तिमतो भगवतः को वेद तत्त्वम् इति ॥३०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु लोकानुसार्येर मच्-चरित्रं, कुतो लोक-विडम्बनं? तत्राह—हे विश्वात्मन्! आत्मनस् तवाजस्यापूर्व-देहेन्द्रिय-योगेन जन्म-शून्यस्य जन्म रवेर् इव प्राकट्य-मात्रम् । अकर्तुः प्रधान-सम्बन्धेन कर्तृत्व-शून्यस्य स्वतः कर्तुः कर्म पूर्णैश्वर्यं चरितं, क्व? इत्य् आह—तिर्यक्षु वराहादि-वपुषा, नृषु रघुनाथादि-वपुषा, ऋषिषु व्यासादि-वपुषा, यादःसु मीनादि-वपुषा । तत्-तु अत्यन्त-विडम्बनं तज्-जातानाम् अतितिरस्करणम् । धराघ्राणादि-तच्-चेष्टानां प्रकाशेऽप्य् अन्तरुज्जृम्भितैर् महैश्वर्यस् तासं वैफल्यात् ॥३०॥
———————————————————————————————————————
॥ १.८.३१ ॥
गोप्य् आददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रु-कलिलाञ्जन-सम्भ्रमाक्षम् ।
वक्त्रं निनीय भय-भावनया स्थितस्य
सा मां विमोहयति भीर् अपि यद् बिभेति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नर-विडम्बनम् अत्याश्चर्यम् इत्य् आह—गोपीति । गोपी यशोदा त्वयि कृतागसि दधि-भाण्ड-स्फोटनं कृतवति यावद् दाम रज्जुम् आददे जग्राह, तावत् तत्-क्षणम् एव या ते दशावस्था, सा मां विमोहयति । किं-भूतस्य । अश्रुभिः कलिलं व्यामिश्रम् **अञ्जनं **ययोस् ते च ते संभ्रमेण व्याकुले अक्षिणी यस्मिंस् तद् वक्त्रंनिनीय अधः कृत्वा ताडयिष्यतीति भयस्य भावनया स्थितस्य । यद् यतस् त्वत्तो भीर् अपि स्वयं बिभेति, तस्य ते दशा ॥३१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **गोपीति । अत्र भीर् अपियद् बिभेति इत्य् उक्त्या तस्या ऐश्वर्य-ज्ञानं व्यक्तम् । ततो यदि सा भीः सत्या न भवति, तदा तस्या मोहोऽपि न सम्भवेद् इति गम्यते । स्फुटम् एव चान्तर् भयम् उक्तम् भय-भावनया स्थितस्य इति ॥३१॥ [प्रीति-सन्दर्भ १४५]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्मात् तव लीलाम् एवास्वादयामीत्य् आह । गोपी यशोदा त्वयि कृतागसि दधि-मन्थनी-स्फोटनं कृतवति सति यावद् दाम रज्जुम् आददे जग्राह, तावत् तत्-क्षणम् एव ते तव यादशा अवस्था सा मां विमोहयति ।
किम्-भूतस्य ? अश्रुभिः कलिलं व्यामिश्रम् अञ्जनं संभ्रमः आवेगश् चाक्ष्णोर् यत्र तद्-वक्त्रं निनीय अधः कृत्वा ताडयिष्यतीति भयस्य भावनया स्थितस्य तद् यतस् त्वत्तः भीर् अपि स्वयं बिभेति, तस्य ते दशा तेन पूर्वोक्तान् नन्द-गोपाद् अप्य् अतिप्रेमवती यशोदा धन्या, यया तवैतादृशो वशीकार इति सूचितम् ।
अत्र भीर् अपि यद् बिभेति इत्य् उक्त्यैव कुन्त्या अत्रैश्वर्य-ज्ञानं व्यक्ती-भूतम् । भय-भावनया स्थितस्य इत्य् अन्तर् भयस्य च तया सत्यत्वम् एवाभिमतम् । अनुकरण-मात्रत्वे ज्ञाते तस्य मोहो न सम्भवेद् इति ज्ञेयम् । अत एव, तवेहमानस्य नृणां विडम्बनम् [भा।पु। १.८.२९] इत्य्-आदौ विडम्बनम् अनुकरणम् इति व्याख्यान्तरं [श्रीधरस्य] पराहतम् ॥३१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इदं तु त्वच्-चरित्रं मया दुर्बोधम् इत्य् आह—गोपीति! नन्द-राजस्य राज्ञी यशोदा सागसि विभग्न-दध्यादि-भाजनतया सापराधे त्वयि बन्धनाय यावद्-दामाददे जग्राह तावत्-तत्-क्षणम् एव या ते दशावस्थाभूत् सा मां ज्ञात-तद् ऐश्वर्याम् अपि विमोहयति । कीदृशस्य? वक्त्रं निनीयाधःकृत्वा सागसं मामद्य ताडयिष्यतीति भय-भावनया स्थितस्य गृहीतत्वात् पलायनेऽशक्तस्येत्य् अर्थः । वक्त्रं कीदृक्? अश्रुभिः कलिलं व्याप्तम्, अञ्जनं सम्भ्रमश् च ताभ्यां युक्ते अक्षिणी यत्र तत् ।
ननु सागसो मे मातुर् भयं युक्तम् एवेति चेत्, तत्राह—भीर् अपीति । तथा चाभयं भयं च तव वास्तवम् एव मन्-मोहे हेतुर् इति ॥३१॥
———————————————————————————————————————
॥ १.८.३२ ॥
केचिद् आहुर् अजं जातं पुण्य-श्लोकस्य कीर्तये ।
यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत एव जगन्-मोहनतया दुर्ज्ञेयत्वात् तव जन्मादि बहुधा वर्णयन्तीत्य् आह—केचिद् इत् चतुर्भिः । पुण्य-श्लोकस्य युधिष्ठिरस्य कीर्तये । यदोर् एव कीर्तय इति वा । मलयस्य कीर्तये वंशे चन्दनं यथा ॥३२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **केचिद् इति चतुष्कम् ॥३२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं च त्वं न चेत् प्रादुरभविष्यस् तदा जगन्-मोहिनी इयं लीला केन वास्वादयिष्यतेति प्रादुर्भाव-कारणम् एव मत-भेदेन बहु-प्रकारम् आह—केचिद् इति । पुण्य-श्लोकस्य युधिष्ठिरस्य पुण्य-श्लोको नलो राजा पुण्य-श्लोको युधिष्ठिरः इति पुण्य-श्लोकत्वेन तदानीं तस्यैव प्रसिद्धेः, यदोर् अन्ववाये वंशे यदोर् एव कीर्तये वंशे वा चन्दनं यथा ॥३२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ किम् एवं विचारेण, तच्-चरितम् एवास्वाद्यम् इत्य् आह—केचिद् इति । पुण्य-श्लोकस्य युधिष्ठिरस्य यदोश् च कीर्तये, अन्ववाये वंशे, मलयस्य कीर्तये चन्दनम् इव ॥३२॥
———————————————————————————————————————
॥ १.८.३३ ॥
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।
अजस् त्वम् अस्य क्षेमाय वधाय च सुर-द्विषाम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तथा वसुदेवस्य भार्यायां देवक्याम् अज एव त्वम् अभ्यगात् । पुत्रत्वम् इति शेषः । प्रथम-पुरुषस् त्व् आर्षः । अर्भत्वम् इति पाठः सुगमः । ताभ्याम् एव पूर्वं सुतपः-पृश्नि-रूपाभ्यां याचितः सन् । अस्य जगतः क्षेमाय ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अज एव त्वम् अभ्यगात् पुत्रत्वम् इति शेषः । प्रथम-पुरुषस् त्व् आर्षः । अर्भत्वम् इति पाठः सुगमः । ताभ्याम् एव पूर्वं सुतपः-पृश्नि-रूपाभ्यां याचितः सन् । अस्य जगतः क्षेमाय ॥३३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **याचितस् ताभ्याम् एव सुतपः-पृष्णिभ्याम् अभ्यगात् पुत्रताम् इति शेषः । आर्षः प्रथम-पुरुषः । अर्भत्वम् इति पाठः सुगमः ॥३३॥
———————————————————————————————————————
॥ १.८.३४ ॥
भारावतारणायान्ये भुवो नाव इवोदधौ ।
सीदन्त्या भूरि-भारेण जातो ह्य् आत्म-भुवार्थितः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्म-भुवेति ब्रह्म-प्रार्थनस्य प्राधान्य-विवक्षया ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आत्म-भुवेति ब्रह्म-प्रार्थनस्य प्राधान्य-विवक्षयेति सर्वं मतान्तरम् ॥३४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ब्रह्मणा प्रार्थितो भुवो भारावतरणाय जातः, कीदृश्या भुवः? उदधौ समुद्रे नाव इव भूरि-भावेण सीदन्त्या इति मतान्तराणि ॥३४॥
———————————————————————————————————————
॥ १.८.३५ ॥
भवेऽस्मिन् क्लिश्यमानानाम् अविद्या-काम-कर्मभिः ।
श्रवण-स्मरणार्हाणि करिष्यन्न् इति केचन ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मतान्तरम् । परमानन्द-स्वरूपाज्ञानम् अविद्या ततो देहाद्य्-अभिमानात् कामस् ततः कर्माणि तैः क्लिश्यमानानां तन्-निवृत्तये श्रवणाद्य्-अर्हाणि कर्माणि करिष्यन् ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्व-मतम् आह—अविद्या अज्ञानं ततः कामः ततः कर्माणि तैः क्लिश्यमानानां सांसारिकाणाम् अपि प्रेम-भक्ति-सिद्ध्य्-अर्थम् एव कर्माणि करिष्यन् क्लेश-निवृत्तिस् त्वानुषङ्गिकी । उत्तर-श्लोके पदाम्बुज-दर्शनस्यैव श्रवणादि-फलत्वोक्तेः । तद्-दर्शनं तु प्रेम-लभ्यम् एव ॥३५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्वमतम् आह—भवे इति । अविद्या-तस्मिंस् तद्-धेतुः, ततः कामो भोगेच्छा, ततः कर्माणि तैरस्मिन् भवे क्लिश्यमानानां प्राणिनाम् आनुषङ्गिक-क्लेशक्षयाणि श्रवण-ध्यानादि-शुद्ध-भक्ति-निमित्तानि कर्माणि चरितानि करिष्यन् जात इति केचनाहुः ॥३५॥
———————————————————————————————————————
॥ १.८.३६ ॥
शृण्वन्ति गायन्ति गृणन्त्य् अभीक्ष्णशः
स्मरन्ति नन्दन्ति तवेहितं जनाः ।
त एव पश्यन्त्य् अचिरेण तावकं
भव-प्रवाहोपरमं पदाम्बुजम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अस्य पक्षस्य सिद्धान्तताम् अभिप्रेत्य श्रवणादि-फलम् आह—शृण्वन्तीति । नन्दन्त्य् अन्यैः कीर्त्यमानम् अभिनन्दन्ति । ये जनाः । ईहितं चरितम् । तावकं त्वदीयं पदाम्बुजं । त एव, पश्यन्त्य् एव, अचिरेण एवेति च सर्वत्रावधारणम् । कीदृशम् ? भव-प्रवाहस्य जन्म-परम्पराया उपरमो यस्मिंस् तत् ॥३६॥
———————————————————————————————————————
कैवल्य-दीपिका : शृण्वन्ति इति । एवं भक्तस्य मुख्यत्वाद् ब्रह्म-सायुज्यम् उक्त्वा तस्यैव भगवत्-सामीप्यादि-मुक्ति-लिप्सोः स्ताः प्रदर्शयितु-कामस् त्व् आह—कुन्तीति । अभीक्ष्णशः पुनः पुनः । नन्दन्ति प्रशंसन्ति । ईहितं कर्मत एव ये श्रवणादि-रताः, नान्ये । भवः संसारः । स एव प्रवाहः । जल-प्रवाहवत् पतितं न मुञ्चन्ति । उच्चावचेषु स्थानेषु पातयतीति प्रवाहः । तस्य उपरमं विनाशो यत्र पदाम्बुजे तत् तथा । एतेन सामीप्य-रूपा मुक्तिर् उक्ता ॥३६॥ [मु।फ। १९.२८]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अस्य पक्षस्य सिद्धान्तत्वम् अभिप्रेत्याह—शृण्वन्तीति । ते एव, न त्व् अन्ये । पश्यन्त्य् एव, न तु न पश्यन्ति । अचिरेणैव, न तु चिरेण । तावकम् एव, न त्वद्-अंशस्य कस्यचित् । भव-प्रवाहोपरमम् एव, न तु संसारानिवर्तकम् । पदाम्बुजम् एव, न तु तव निर्विशेषं स्वरूपम् इति । अर्थ-सौन्दर्य-लाभाय षड्-अवधारणानि द्रष्टव्यानि ॥३६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अयं पक्षः सिद्धान्त इति भावेनाह—शृन्वन्तीति । ईहितं चरितम्, अन्यैः कीर्तितेन तेन नन्दन्ति, समृद्धिं लभन्ते । त एव नान्ये, पश्यन्त्य् एवाचिरेणैव तावकम् एव, न तु त्वद्-अंशस्य कस्यचित् । भव-प्रवाहोपरमम् एव पदाम्बुजम् एव, न तु वैकुण्ठ-मात्रम् इत्य् अर्थः । सौन्दर्यावधारणानि बहूनि योज्यानि ॥३६॥
॥ १.८.३७ ॥
अप्य् अद्य नस् त्वं स्व-कृतेहित प्रभो
जिहाससि स्वित् सुहृदोऽनुजीविनः ।
येषां न चान्यद् भवतः पदाम्बुजात्
परायणं राजसु योजितांहसाम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं तवास्मत्-परित्यागोऽनुचित इत्य् आशयेनाह—अपीति चतुर्भिः । हे प्रभो, सुहृदोऽतिस्निग्धान् अनुजीविनश् च नोऽद्यापि स्वित् किंस्वित् त्वं जिहाससि । येषाम् अस्माकम् अन्यत् परायणं नैवस्ति । तत् कुतः ? राजसु योजितम् अंहो दुःखं यैस् तेषाम् । स्वानां कृतम् ईहितम् अपेक्षितं येन तस्य सम्बोधनम् । विसर्गान्त-पाथे त्वं-पद-विशेषणम् ॥३७॥
———————————————————————————————————————
कैवल्य-दीपिका : अपि इति । कृष्ण-प्रयाणं निषेधयति । अपि अहो जिहाससि स्वान् हातुम् इच्छसि । किं च, वयं हि सुहृदोऽनुजीवनश् च । त्वं स्व-कृतेहितः स्वस्मिन् आत्मीये कृतम् ईहितम् अभिलषितं येन, स तथा । स्वजनस्य कामान् पूरयसीत्य् अर्थः । राजसु क्षत्रियेषु सुयोजितं सुष्ठु योगं नीतम्। अंहः पापं कर्म यैस् ते तथा ॥३७॥ [मु।फ। १५.११]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अस्माकं सुख-दुःखे त्वद्-दर्शनादर्शने एव नान्ये । तत्र सुख-समयो गतः सम्प्रति दुःख-समयोऽयम् आयातीत्य् आह—अप्य् अद्येति । अद्य नोऽस्मान् अपि स्वित् त्वं जिहाससि, यतोऽद्य त्वं द्वारकां यातुम् इच्छसीति भावः । ननु बहु-दिन-मत्रावसम्, सम्प्रति द्वारकां याम्य् एव । तत्र ममावश्यं किञ्चित् कृत्यम् अस्ति । अनुज्ञां देहीत् यत आह—स्व-कृतेहितः स्वेनैव कृतं निष्पादितम् ईहितं चिकीर्षितं यस्य सः त्वं कृत-कर्तव्योऽसीति भावः । निर्विसर्ग-पाठे सम्बोधनान्तरम्, राजसु योजितम् अंहस् तत्-पित्रादि-वधेन वैरं यैस् तेषाम् । अनुजीविनो मत्-पुत्रान् अधुनापि रक्षन्न् अत्रैव तिष्ठेति भावः ॥३७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **द्वारकां जिगमिषुम् आलक्ष्याह—अप्य् अद्येति । हे प्रभो! त्वम् अद्य नोऽस्मान् जिहाससि त्यक्त्वा गन्तुम् इच्छसि । स्विद् इति प्रश्ने । ननु तत्र कृत्यम् अस्ति? तत्राह—स्वेनैव कृतम् ईहितं वाञ्छितं यस्य सः, कृत-कर्तव्योऽसीत्य् अर्थः । त्वद्-विक्षां विनास्माकं महद् एव दुःखं भावीत्याह—येषं न चेति । त्वयि गतेऽन्यच् च दुःख-कारणं भावीत्य् आह—राजस्व् इति । अंहस् तत्-पित्रादि-वध-हेतुकं वैरम् इति सर्वथात्र स्थयम् इत्य् एतद् अर्थम् एतत् । तस्मान् नः सुहृदो रक्षन्न् इहैव निवसेति वियोगार्तिः सूचिता ॥३७॥
———————————————————————————————————————
॥ १.८.३८ ॥
के वयं नाम-रूपाभ्यां यदुभिः सह पाण्डवाः ।
भवतोऽदर्शनं यर्हि हृषीकाणाम् इवेशितुः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यर्हि भवतो दर्शनं तदा यदूनाम् अस्माकं नाम-रूपे ॥३८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु तव बन्धवो यदवः पुत्राश् च पाण्डवाः शूराः समर्थाश् च तत् किं कार्पण्यं भाषसेऽत आह—के वयम् इति । यर्हि भवतोऽद्र्शनं यदा त्वम् अस्मान् न पश्यसि तदा नाम-रूपाभ्यां नाम्ना विख्यात्या रूपेण समृद्धया च यदुभिः पाण्डवा नाम के वयं न केऽपि । अतितुच्छा इत्य् अर्थः । हृषीकाणाम् इन्द्रियाणाम् ईशितुर् जीवस्यादर्शने यथा न किंचिन् नाम च रूपं च तद्वत् ॥३८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पाण्डवाः पाण्डु-सम्बन्धिनः ॥३८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु भीमार्जुनादयस् ते पुत्रा महा-बलिष्ठा एव । राजा तु साक्षाद् धर्म एव । यादवाश् च बान्धवा इति न ते कापि चिन्ता इत्य् अत आह—के वयम् इति । नाम्ना ख्यात्या रूपेण सामर्थ्येन च । ईशितुर् जीवस्यादर्शने हृषीकाणां यथा न किञ्चिन् नाम रूपं च तद्वत् ॥३८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु तव शत्रवो निहताः, यादवा बान्धवाः सन्ति, पुत्राश्चातिशूरा धर्म-प्रधाना दीप्यन्ते, तथाप्य् एवं किं भाषसे? तत्राह—के वयम् इति । भवतो यर्ह्य दर्शनं यदा त्वम् अस्मान् न पश्यसि तदा नाम-रूपाभ्यां ख्याति-समृद्धिभ्यां वयं के? न केऽपीत्य् अर्थः । अस्माकं ते विफले स्यातां, यथा हृषीकाणम् ईशितूर्जीवस्यादर्शने ते विफले तद्वत् । त्वद्-वियोगोऽस्माकं मृतिकल्प इति भावः ॥३८॥
———————————————————————————————————————
॥ १.८.३९ ॥
नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
त्वत्-पदैर् अङ्किता भाति स्व-लक्षण-विलक्षितैः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, यथेदानीम् इयम् अस्मत्-पाल्या भूमिः स्वैर-साधारणैर् वज्राङ्कुशादिभिर् लक्षणैर् विलक्षितैश् चिह्नितैस् त्वत्-पदैर् अङ्किता सती भाति । तत्र तदा त्वयि निर्गते सति न शोभिष्यते ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यदि त्वम् इतो यास्यसि तत्र तदा इयं भूमिः स्व-लक्षणैर् ध्वज-वज्रादिभिर् विलक्षितैर् वैलक्षण्यं प्राप्तैः ॥३९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **किञ्च—यदा त्वम् इतः प्रयास्यसि, तद् एयम् अस्मत्-पाल्या भूमिर् न शोभिष्यते यथेदानीं त्वत्-पदैर् अङ्किता भाति शोभते । कीदृशैर् इत्य् आह—स्वेति । स्वान्य् असाधारणानि यानि ध्वज-वज्राङ्कुशादीनि लक्षणानि चिह्नानि तैर् विलक्षितैश् चिह्नितैः तथा च त्वत्-पद-चिह्न-शून्यामिमां भूमिं पश्यताम् अस्माकं दुःखं महद्-भावीति ॥३९॥
———————————————————————————————————————
॥ १.८.४० ॥
इमे जन-पदाः स्वृद्धाः सुपक्वौषधि-वीरुधः ।
वनाद्रि-नद्य्-उदन्वन्तो ह्य् एधन्ते तव वीक्षितैः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अपि च इमे जन-पदा देशाः स्वृद्धाः सुसमृद्धाः सन्तः ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः),विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **जन-पदादयोऽपि त्वद्-वीक्षणादृतेऽसमृद्धाः सन्तः अस्मान् दुःख-यिष्यन्ति ॥४०॥
———————————————————————————————————————
॥ १.८.४१ ॥
अथ विश्वेश विश्वात्मन् विश्व-मूर्ते स्वकेषु मे ।
स्नेह-पाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गमने पाण्डवानाम् अकुशलम् अगमने च यादवानाम् इत्य् उभयतो व्याकुल-चित्ता सती तेषु स्नेह-निवृत्तिं प्रार्थयते—अथेति । विश्वेशेत्य्-आदि-सम्बोधनानि स्नेह-पाश-च्छेदे सामर्थ्य-ख्यापनाय । दृढं सन्तम् ॥४१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथेति तैर् अवतारितम् । एवम् अप्य् उभयेषां तादृश-तद्-एकालम्बनता-दर्शनेन तेष्व् अधिक-भगवत्-प्रीत्य्-आधारत्वं स्वस्याधिक-स्नेह-हेतुर् इति तेषु स्नेह-च्छेद-व्याजेनोभयेषाम् अपि त्वद्-अविच्छेद एव क्रियताम् इति च व्यज्यते । ततश् चोत्तरत्र सूत-वाक्ये तां बाढम् इत्य् उपामन्त्र्येत्य् अत्र श्री-भगवद्-अभ्युपगमोऽपि सर्वत्रैव सङ्गच्छते ॥४१॥ [प्रीति-सन्दर्भः ११२]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गमने पाण्डवानाम् अकुशलम् अगमने च यादवानाम् इत्य् उभयतो व्याकुल-चित्ता सती तेषु स्नेह-निवृत्तिं प्रार्थयते—अथेति । यस् त्वं सर्वेषाम् एव विश्वेषाम् ईशो भवसि । आत्मा चेतयिता । तद्-रूपोऽपि स्व-स्वानुवर्तिनां वृष्णि-पाण्डूनां कल्याणाय कप्प-सिन्धुस् त्वम् एव सावधानः सदैवासि । अहं किं तत्-कुशल-चिन्तया वृथैव म्रिये इति भावः ॥४१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **किञ् च—इतस् त्वयि गते पाण्डवानाम् अगते यदूनां च परितापो महान् भवति, तस्मद् एतान् एक-निवासान् कुरु, नोचेत्-तेषु तेषु च दृढं मत्-स्नेहपाशं छिन्धीत्य् आह—अथेति । सम्बोधनानि तत्-करण-सामर्थ्याभिप्रायाणि ॥४१॥
———————————————————————————————————————
॥ १.८.४२ ॥
त्वयि मेऽनन्य-विषया मतिर् मधु-पतेऽसकृत् ।
रतिम् उद्वहताद् अद्धा गङ्गेवौघम् उदन्वति ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततः किम् ? अत आह—त्वयीति । अनन्य-विषया सती मे मतिः रतिम् उद्वहतात्, अनवच्छिन्नां प्रीतिं करोत्व् इत्य् अर्थः । ओघं पूरम् । यथा गङ्गा प्रतिबन्धं न गणयति, एवं मतिर् अपि विघ्नान् मा गणयत्व् इति भावः ॥४२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सम्बन्ध-वशाद् अन्य-विषया त्वयि या मतिः सैव असकृद् अनवच्छेदेन रतिम् उद्वहतात् । जातया रत्या प्रतिबन्धं निराकरोत्व् इत्य् अर्थः । तद् एतद् दृष्टान्तेन स्पष्टयति—गङ्गेवौघम् इति । सा यथा महा-प्रवाह-द्वारा तथैवेत्य् अर्थः । उभयोर् अपि प्रतिबन्धे सत्य् अधिकोच्छलन-कृति-साम्यात् ॥४१॥ [प्रीति-सन्दर्भः ११३]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तर्हि किं ब्रह्म-ज्ञाने स्पृहावती भवसि ? वृष्णिषु स्नेह-च्छेदे मय्य् अपि स्नेह-च्छेदात् तत्र नेत्य् आह—त्वयीति । त्वयि मतिः रतिं प्रीतिम् उत्कर्षेण वहतात् अनवच्छिन्नतया दधातु । किं त्व् अनन्य-विषया त्वद्-भक्तास् त्वद्-अभिन्ना एव तेषु प्रीतिं विना त्वय्य् अपि प्रीतिर् न सिद्ध्येत्, त्वं प्रसीदसीत्य् अपि नेत्य् अहं जानाम्य् एव । अतस् त्वत्तस् त्वद्-भक्तेभ्यश् चान्यत्र ममत्व-शून्या । तद् अपि पाण्डवेषु यादवेषु त्वद्-भक्तेष्व् अपि यत् स्नेहस्य छेदं प्रार्थये तत् त्वद्-अवतारात् पूर्वत एव देह-सम्बन्धेन यो व्यवहार-मयः स्नेहः प्रवृत्तस् तस्यैव, न तु त्वत्-प्रियत्व-निबन्धनस्य । अत एव बन्धकत्वेन स मया पाश-रूपकेण प्रयुक्त इति भावः । अत एव गङ्गा यथा उदन्वत्य् अखिल-नद-नदीनाम् आश्रये **ओघं **पूरं वहति, तथा **मतिर् **अपि सर्व-भक्ताश्रयणीये त्वयि रतिम् । यथा च गङ्गा प्रतिबन्धं न गणयति एवं मतिर् अपि विघ्नान् न गणयत्व् इति भावः ॥४२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु तेषु च स्नेह-पाश-च्छेदं याचमाना मयपि तच्-छेदं याचसे? तत्राह—त्वयीति । त्वद्-वियोगार्ताहं तथाकथयं, किन्त्व् इदं याचे त्वयि तत्-परिकरिणि मतिर् मे रतिं प्रेमाणम् उद्वहतात्, तथैवोत्तर-पद्यार्थात् । तथा च त्वद्-दर्शन-वियोगो मा भूद् इति ॥४२॥
———————————————————————————————————————
॥ १.८.४३ ॥
श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्-
राजन्य-वंश-दहनानपवर्ग-वीर्य ।
गोविन्द गो-द्विज-सुरार्ति-हरावतार
योगेश्वराखिल-गुरो भगवन् नमस् ते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवम् अभ्यर्थ्य पुनः प्रणमति । हे श्री-कृष्ण, ते नमः, उपकारान् अनुस्मरन्ती बहुधा संबोधयति । कृष्ण-सखार्जुनस्य सखे । वृष्णीनाम् ऋषभ श्रेष्ठ । अवन्यै भूम्यै द्रुह्यन्ति ये राजन्यास् तेषां वंशस्य दहन । एवम् अप्य् अनपवर्ग-वीर्याक्षीण-प्रभाव । गोविन्द प्राप्त-काम-धेन्व्-ऐश्वर्य । गो-द्विज-सुराणाम् आर्ति-हारोऽवतारो यस्येति ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : गोविन्देति । नित्य-प्राप्त-परम-गोलोकाधिपत्येत्य् अर्थः । यद् वा, अथ विश्वेश [भा।पु। १.८.४१] इत्य्-आदि-पद्य-त्रयस्यैवं योजना, तत्-प्रिय-वर्गे स्व-सम्बन्ध-हेतुकां प्रीतिं निषिध्य श्री-भगवत्य् एव ताम् अभ्यर्थ्य पुनस् तत्-प्रिय-वर्गे तद्-आधारत्वेनैव प्रीतिम् अङ्गीकरोति—अथेति त्रिभिः । तत्र निषेधः प्रथमेन, अभ्यर्थना द्वितीयेन, अङ्गीकारस् तृतीयेन । अत्र श्री-कृष्ण-सखेत्य्-आदि-सम्बोधनैस् तत्-प्रीत्य्-आधारत्वेनार्जुनादिष्व् अपि प्रीतिर् अङ्गीकृता ॥४३_॥ _[प्रीति-सन्दर्भः ११४]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्तवान्ते सर्व-सुखदत्वेन स्मरन्ती प्रणमति । कृष्णस्य अर्जुनस्य सखा । अवन्यै द्रुह्यन्ति ये राजन्याः, तेषां वंशा एव वंशास् तेषां दहन ! अनपवर्ग-वीर्य ! हे अक्षीण-पराक्रम । हे गोविन्द ! प्राप्त-काम-धेन्व्-ऐश्वर्य ॥४३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवम् अखण्डां रतिं प्रार्थ्य सर्वानन्द-करत्वेन स्मरन्ती प्रणमति—हे स्री-कृष्ण ! हे कृष्ण-सख ! फाल्गुन-मित्र ! अवनि-द्रुहां राजान्यानां वंशा एव वंशास् तेषां दहन ! अनपवर्ग-वीर्य ! अक्षीण-पराक्रम! गोविन्द ! हे लब्धानन्त-काम-धेन्व्-ऐश्वर्य नन्द-प्रसूनो ! भगवन् ते तुभ्यं नमः ॥४३॥
———————————————————————————————————————
॥ १.८.४४ ॥
सूत उवाच—
पृथयेत्थं कल-पदैः परिणूताखिलोदयः ।
मन्दं जहास वैकुण्ठो मोहयन्न् इव मायया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कलानि मधुराणि पदानि येषु तैर् वाक्यैः परिणूतः स्तुतोऽखिल उदयो महिमा यस्य सः । णु स्तुताव् इत्य् अस्मात् । परिणुतेति वक्तव्ये दीर्घ-शब्द-छन्दोऽनुरोधेन । मन्दम् ईषत् । तस्य हास एव माया । वक्ष्यति हि—हासो जनोन्माद-करी च माया [भा।पु। २.१.३१] इति ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : परिणूत- इति “तौदादिकणू शिस्तवन्” इत्य् अस्य रूपत्वेन दीर्घत्वम् । माययेव मोहयन्न् इति मोहन-मात्रांशे दृष्टान्तः हासो जनोन्माद-करी च माया [भा।पु। २.१.३१] इति तु विराड्-गतम् एव । यदि वाक्यालङ्कार इव-शब्दः, तदा माया-शब्दोऽपि कृपा-वाचक एवेति । माया दम्भे कृपायां च इति कोष-काराः ॥४४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परिणूतेति । “तौदादिकणूशि स्तवन” इत्य् अयं दीर्घान्त एव । माययेव मोहयन्, न तु मायया, किन्तु प्रेम्णैवेत्य् अर्थः ॥४४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : कलानि मधुरानि पदानि येषु तैर् वाक्यैः, परिणुतेति “नू स्तवने” दीर्घान्तस् तौदादिकः । मायया कृपया मोहयन्न् इवेति तन्-मोहस्य स्वाभाविकत्वादिव-शब्दः । यद् वा, माययेव मोहयन्न तु मायया किन्तु प्रेम्णैवेत्य् अर्थः ॥४४॥
———————————————————————————————————————
॥ १.८.४५ ॥
तां बाढम् इत्य् उपामन्त्र्य प्रविश्य गजसाह्वयम् ।
स्त्रियश् च स्व-पुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्वयि मेऽन्य-विषया मतिः [भा।पु। १.८.४२] इति यत् प्रार्थितं, तद् बाढम् इत्य् अङ्गी-कृत्य रथ-स्थानाद् गज-साह्वयम् आगत्य, पश्चात् तां चान्याश् च सुभद्रा-प्रमुखाः स्त्रियः उपमान्त्र्य अनुज्ञाप्य स्व-पुरं यास्यन् राज्ञा युधिष्ठिरेण प्रेम्णा अत्रैव किञ्चित् कालं निवसेति संप्रार्थ्य निवारितः ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्वयि मेऽन्य-विषया मतिः [भा।पु। १.८.४२] इति यत् प्रार्थितं, तद् बाढम् इत्य् अङ्गीकृत्य रथ-स्थानात् गजसाह्वयं प्रत्यागत्य पश्चात् तां च अन्याश् च सुभद्रा-प्रमुखाः स्त्रियः उपामन्त्र्य अनुज्ञाप्य स्व-पुरं यास्यन् राज्ञा युधिष्ठिरेण प्रेम्णा अत्रैव कञ्चित् कालं निवसेति सम्प्रार्थ्य निवारितः । तेन च राज्ञा प्रेम्णः सर्वतोऽपि वशीकरणत्वातिशयो व्यञ्जितः ॥४५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मे मतिस् त्वयि रतिम् उद्वहताद् [भा।पु। १.८.४२] इति यद् अभ्यर्थितं, तद् बाढम् इति स्वीकृत्य रथ-स्थानाद् गजसाह्वयं प्रविश्य न्यवसत् । पश्चात् स्त्रियः पृथा-द्रौपदी-सुभद्रान्या उपामन्त्र्य आपृच्छ्य स्व-पुरं यास्यन् राज्ञा प्रेम्णा निवारितः । इहैव कञ्चित् कालं निवसेति संप्रार्थ्य स्थापित इत्य् अतिबलीयांस् तत्-प्रेमेति ध्वन्यते ॥४५॥
———————————————————————————————————————
॥ १.८.४६ ॥
व्यासाद्यैर् ईश्वरेहाज्ञैः कृष्णेनाद्भुत-कर्मणा ।
प्रबोधितोऽपीतिहासैर् नाबुध्यत शुचार्पितः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अथ भीष्म-निर्याणोत्सवं वक्तुम् उपोद्धात-कथां प्रस्तौति । व्यासाद्यैः प्रबोधितोऽपि शुचा व्याप्तः सन्न् आबुध्यत विवेकं न प्राप । कुतः ईश्वरेहाया अज्ञैः । स्व-भक्त-भीष्म-निर्याण-महोत्सवाय राज्ञा सह कुरु-क्षेत्रं गन्तव्यं तत्र तन्-मुखेनैवायं प्रबोधनीय इत्य् ईश्वराभिप्रायः कार्य-द्वय-विधायकस् तम् अजानद्भिर् इत्य् अर्थः । श्री-कृष्णेनापि प्रबोधितो नान्बुध्यत् । अत्र हेतुः—अद्भुत-कर्मेणेति । यथा कुरु-पाण्डव-संधानार्थं गतोऽपि यथोचितम् एव वदन्न् अपि विग्रहम् एव दृढी-कृतवान् एवम् अत्रापि प्रबोधयन्न् अबोधम् एव दृढी-चकारेत्य् अर्थः ॥४६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **व्यासाद्यैर् इति । नाबुद्ध्यत प्रत्युत शुचा व्याप्त एवासीद् इत्य् अर्थः । ईश्वरस्य तादृग्-इच्छयैव तेषां युक्तिः प्रतिहत-शक्तिका कृतेति स्वाम्य्-अभिप्रायः । वस्तुतस् त्व् एवं व्याख्येयम्, यद्यपि व्यासाद्याः राजायं स्वोपदेशं न मंस्यत इति जानन्त्य् एव तथाप्य् अद्भूत-कर्म-मय्या ईश्वरेहाया विज्ञैर् अपि सद्-धिः सम्बोधित इति ॥४६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यर्ह्य् अहम् इदानीम् इहैव स्थितोऽभूवं तर्ह्य् असन-मृत्यु-कालं मद्-दर्शनं विना मर्तुम् अनिच्छन्तं भीष्मं स्व-भक्तम् आत्मानं स-परिकरम् एव सन्दर्श्य सुखयामि । लोके तद्-उत्कर्षं ख्यापयितुं तन्-मुखेनैव राजानं च प्रबोधयामीति भगवद्-अभिप्रायं व्यञ्जयन्न् आह—ईश्वरस्य कृष्णस्य ईहाया उक्तल-क्षणस्य अभिप्रायस्य अज्ञैर् विज्ञैर् वा । अद्भुत-कर्मणेति इदम् अस्याद्भुतं कर्म—यत् स्वयम् एवास्य हृदि प्रविश्य अविवेकम् उत्थापितवान् । बहिश् च स्व-कर्तृकेण व्यासादि-कर्तृकेणापि प्रबोधनाबोधम् एव दृढीचकार । तेन च भीष्म-मुखोदितेन तत्त्वेन तं प्रबोध्य व्यासादिभ्योऽपि मत्तोऽपि मद्-एकान्त-भक्तो भीष्मोऽतिशयेन धर्म-ज्ञान-तत्त्वज्ञ इति लोके विख्यापयामास । किं च, युधिष्ठिरस्य तु ततोऽपि प्रेमाधिक्याद् आधिक्यं यत् तद्-अनुरोधेनैव द्वारकाम् अगच्छंस् तत्र स्थितः, तत एव तन्-निकटं गत्बा तथा चक्रे इति विवेचनीयम् ॥४६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ भीष्म-निर्याणोत्सवं वक्ष्यन्न् उपोद्घातं प्रस्तौति—व्यासाद्यैः कृष्णेन च प्रबोधितोऽपि राजा नाबुध्यत विवेकं न गतः । ईश्वरेहाज्ञैः ईश्वरस्य भक्त-महिम-वर्धनेऽति-समर्थस्य कृष्णस्येहां निर्याण-वेलायां भीष्मग्रे सपार्षदेन मया स्थेयं, तद्-वाकैर् एव राजा प्रबोध्य इति चेष्टां जानद्भिर् अपि तद्-इङ्गितेनोपदिशद्भिर् इत्य् अर्थः । अजानद्भिर् इति पक्षे त्व् अतद्-गुण-संविज्ञानो बहुब्रीहिः, व्यासस्येश्वरत्वेन सार्वज्ञ्यात् । अद्भुतं तैः स्वेन चोपदिष्टस्य बोधो नाभूत्, कित्वबोधोऽभ्यवर्धतेत्य् आश्चर्यं कर्म यस्येत्य् अर्थः ॥४६॥
———————————————————————————————————————
॥ १.८.४७ ॥
आह राजा धर्म-सुतश् चिन्तयन् सुहृदां वधम् ।
प्राकृतेनात्मना विप्राः स्नेह-मोह-वशं गतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अबोधम् एव प्रपञ्चयति—आहेति षड्भिः । प्राकृतेनाविवेक-व्याप्तेनात्मना चित्तेन । हे विप्राः ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अबोधम् एव प्रपञ्चयति । प्राकृतेनट्मना चित्तेन वस्तुतस् तु तस्यात्मा ह्य् अप्राकृत एवेति । तद् अपि प्राकृतत्वारोपो भगवद्-इच्छयैवोक्त-प्रयोजनायेति ज्ञेयम् ॥४७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अबोधं प्रपञ्चयति—आहेति । प्राकृतेन प्रकृति-कार्याविवेकवता भगवद् इच्छोद्गत-तन्-मिश्रितेनेत्य् अर्थः । आत्मना चित्तेन ॥४७॥
———————————————————————————————————————
॥ १.८.४८ ॥
अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।
पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर् हताः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पारक्यस्य श्व-शृगालाद्य्-आहारस्य देहस्यार्थे । मे मया । अक्षौहिणीर् अक्षौहिण्यः । अक्षौहिणी-प्रमाणं तु व्यासेनोक्तम्—
अक्षौहिणी प्रसङ्ख्याता रथानां द्विज-सत्तमाः ।
सङ्ख्या-गणन-तत्त्व-ज्ञैः सहस्रान्य् एक-विंशतिः ॥
शतान्य् उपरि चैवाष्टौ तथा भूयश् च सप्ततिः ।
गजानां च प्रसङ्ख्यानम् एतद् एव प्रकीर्तितम् ॥
ज्ञेयं शत-सहस्रं तु सहस्रानि नवैव तु ।
नाराणाम् अपि पञ्चाशच्छतानि त्रीणि चैव हि ॥
पञ्च-षष्ठि-सहस्राणि तथाश्वानां शतानि च ।
दशोत्तराणि षट् प्राहुः सङ्ख्या-तत्त्व-विदो जनाः ।
एताम् अक्षौहिणीं प्राहुर् यथावद् इह सङ्ख्यया ॥ इति ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पारक्यस्य श्व-शृगालाद्य्-आहारस्य देहस्यार्थे अक्षौहिणीर् अक्षौहिण्यो हताः । अक्षौहिणी-प्रमाणं व्यासेनोक्तम्—
अक्षौहिणी प्रसङ्ख्याता रथानां द्विज-सत्तमाः ।
सङ्ख्या-गणन-तत्त्व-ज्ञैः सहस्रान्य् एक-विंशतिः ॥
शतान्य् उपरि चैवाष्टौ तथा भूयश् च सप्ततिः ।
गजानां च प्रसङ्ख्यानम् एतद् एव प्रकीर्तितम् ॥
ज्ञेयं शत-सहस्रं तु सहस्रानि नवैव तु ।
नाराणाम् अपि पञ्चाशच्छतानि त्रीणि चैव हि ॥
पञ्च-षष्ठि-सहस्राणि तथाश्वानां शतानि च ।
दशोत्तराणि षट् प्राहुः सङ्ख्या-तत्त्व-विदो जनाः ।
एताम् अक्षौहिणीं प्राहुर् यथावद् इह सङ्ख्यया ॥ इति ॥४८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पारक्यस्य श्व-शृगालाद्य् आहारस्य । अक्षौहिणीर् इति प्रथमार्थे द्वितीया । तत्-परिमाणं च श्री-व्यासेनोक्तम्—
अक्षौहिणी प्रसङ्ख्याता रथानां द्विज-सत्तमाः ।
सङ्ख्या-गणन-तत्त्वज्ञैः सहस्राण्य् एकविंशतिः ॥
शतान्य् उपरि चैवाष्टौ तथा भूयश् च सप्ततिः ।
गजानां च प्रसङ्ख्यानम् एतद् एव प्रकीर्तितम् ।
ज्ञेयं शतसहस्रन्तु सहस्राणि नवैव तु ।
नराणाम् अपि पञ्चाशच्छतानि त्रीणि चैव हि ॥
पञ्च-षष्टि सहस्राणि तथाश्वानां शतानि च ।
दशोत्तराणि षट् प्राहुः सङ्ख्यातत्त्वविदो जनाः ॥
एताम् अक्षौहिणीं प्राहुर् यथावद् इह सङ्ख्यया । इत्य् एतत् ॥४८॥
———————————————————————————————————————
॥ १.८.४९ ॥
बाल-द्विज-सुहृन्-मित्र- पितृ-भ्रातृ-गुरु-द्रुहः ।
न मे स्यान् निरयान् मोक्षो ह्य् अपि वर्षायुतायुतैः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सुहृदः संबन्धिनः । मित्राणि सखायः । पितरः पितृव्याः ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सुहृदः सम्बन्धिनः । पितरः पितृव्याः ॥४९॥
———————————————————————————————————————
॥ १.८.५० ॥
नैनो राज्ञः प्रजा-भर्तुर् धर्म-युद्धे वधो द्विषाम् ।
इति मे न तु बोधाय कल्पते शासनं वचः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्मृत्य्-आद्य्-अनुशासनाद् धर्म-युद्धे न दोष इति चेत् तत्राह—नैनो राज्ञ इति । द्विषां वध एनः पापं न भवतीति यच् छासनं शिक्षा-रूपं वचः । कुतो न कल्प्यते । यतस् तद् वचः प्रजा-भर्तुर् एव । अयं भावः—स्व-प्रजानाम् अन्यतो वाधे प्रसक्ते तद् वधोऽनुज्ञातः दुर्योधनेन तु प्रजायां पाल्यमानायां मया केवलं राज्य-लोभेन हतत्वात् पापम् एवेदम् इति ॥५०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नैन इति । राज्ञा धर्म-युद्धे द्विषां वधः एनः पापं न भवतीति यत् शासनं वचः तत् तु न मे बोधाय कल्पते । यतः तद्-वचः प्रजाः पालयन्तम् एव राजानं प्रति न तु लुब्धं प्रतीति वाक्यार्थः । भावार्थस् तु टीकावद् एव ॥५०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **द्विषां वधः, एनः पापं न भवतीति यत् शासनं शिक्षा-रूपं वचः कुतो न कल्पते यतस् तद्-वचः प्रजा-भर्तुर् एव । अयं भावः, स्व-प्रजानाम् अन्यतो वधे प्रसक्ते तद्-वधोऽनुज्ञातः, दुर्योधनेन तु प्रजायां पाल्यमानायां मया केवलं राज्य-लोभेन हतत्वात् पापम् एवेदं मम जातम् इति ॥५०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **युद्धे द्विषां वधो राज्ञ एनः पापं न भवतीति शासनं शिक्षा-रूपं यद्-धर्म-शास्त्रीयं वचस् तन् मे बोधाय न कल्पते, यतस् तद्-वचः प्रजा-भर्तुर् एव । अयम् आशयः—प्रजा-पीडकान् द्विषः प्रजा-पालनाय धर्म-युद्धे निघ्नतो राज्ञः पापं न स्यात्, अहन्तु तत्-पालकान् एव दुर्योधनादीन् राज्यलोभेन हतवानिति कथं पापं मे नाभूद् इति ॥५०॥
———————————————————————————————————————
॥ १.८.५१ ॥
स्त्रीणां मद्-धत-बन्धूनां द्रोहो योऽसाव् इहोत्थितः ।
कर्मभिर् गृहमेधीयैर् नाहं कल्पो व्यपोहितुम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, युद्धे पुंसांवधो भवतु नाम धर्मः। स्त्रीणां तु मया हता बन्धवो यासां तासां योऽसौ द्रोहोऽनुद्दिष्टोऽप्य् उत्थितस् तं व्यपोहितुम् अपाकर्तुं कल्पः समर्थो नाहम् । गृह-मेधीयैर् गृहाश्रम-विहितैः ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मया हता बन्धवो यासां तासाम् । कल्पः समर्थः ॥५१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु द्विषां पुंसां युद्धे वधो भवतु धर्मः, मद्-धत-बन्धूनां स्त्रीणां योऽनुद्दिष्टोऽपि द्रोहः समुत्थितः, तं व्यपोहितुं निराकर्तुं गृहमेधीयैर् गृहाश्रमोद्देशेन विहितैर् अग्निहोत्रादिभिर् नाहं कल्पः समर्थोऽस्मि । तस्मात् पापिष्ठोऽहम् ॥५१॥
———————————————————————————————————————
॥ १.८.५२ ॥
यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।
भूत-हत्यां तथैवैकां न यज्ञैर् मार्ष्टुम् अर्हति ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु सर्वं पाप्मानं तरति, तरति ब्रह्म-हत्यां योऽश्वमेधेन यजते, य उ चैनम् एवं वेद इति श्रुतेः पापम् अश्वमेधेन नश्येद् एवेत्य् आशङ्क्याविवेक-विजृम्भितं हेतु-वादम् आश्रित्य निराकरोति—यथेति । यथा घन-पङ्केन पङ्काम्भो न मृज्यते, यथा वा सुरा-लेश-कृतम् अपवित्र्यं बह्व्या सुरया न मृज्यते तस्यैव भूत-हत्याम् एकां प्रमादतो जातां बुद्धिर् पूर्व-हिंसा-प्रायैर् यज्ञैर् मार्ष्टुं शोधयितुं नार्हतीति ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु च सर्वं पाप्मानं तरति तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते इति श्रुतेः पापम् अश्वमेधेन नश्येद् इति चेत् तत्राह, यथा घन-पङ्केन पङ्काम्भो न मृज्यते, यथा वा सुरालेश-कृतम् अपावित्र्यं बह्व्या सुरया न मृज्यते । यज्ञैः बुद्धि-पूर्वक-हिंसा-प्रायैर् बहुभिर् यज्ञैः ॥५२॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
प्रथमेऽष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु सर्वं पाप्नानं तरति ब्रह्म-हत्यां योऽश्वमेधेन यजेत, य उ वैनम् एवं वेद इति श्रवणात् अश्वमेधेन निखिल-पापनाशात्तव परितापो नोचित इति चेद्, अश्वमेधस्यापि बहु-हिंसा-मिश्रत्वेन पाप-हेतुत्वात् न तेन तन्-नाश इत्य् आह—यथेति । पङ्केन यथा पङ्कान्तो न मृज्यते, सुरालवकृतम् अपावित्र्यं यथा सुरया बह्व्या न मृज्यते, तथा धी-पूर्वक-हिंसा-प्रचुरैर् अनेकैर् यज्ञैर् एकां भूत-हत्यां प्रमादाद् अपि जातां मार्ष्टुं जनो नार्हति । हेतु-वाद-विजृम्भितोऽयम् अविवेकः ॥५२॥
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां अष्टमोऽध्यायः ॥८॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे प्रथम-स्कन्धे
कुन्ती-स्तुति-युधिष्ठिरानुतापो नाम
अष्टमोऽध्यायः
॥८॥
(१.९)
-
पुत्र-शोकार्तम् इति न बहुत्रोपलभ्यते । ↩︎