विषयः
नारदोपदेशेन व्यास-द्वारा श्रीमद्-भागवतारम्भः,
तत्र परीक्षिज्-जन्म-प्रस्तावेऽश्वत्थाम्ना कृतः सुप्तानां द्रौपदी-सुताना वधः,
अश्वत्थाम्नः पराभवश् च ।
॥ १.७.१ ॥
शौनक उवाच—
निर्गते नारदे सूत भगवान् बादरायणः ।
श्रुतवांस् तद्-अभिप्रेतं ततः किम् अकरोद् विभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अथ भागवत-श्रोतुर् जन्म1 वक्तुं परीक्षितः ।
सुप्त-बाल-वधाद् द्रौणेर् दण्डः सप्तम उच्यते ॥
तस्य नारदस्याभिप्रेतं श्रुतवान् सन् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
सप्तमे सर्व-शास्त्रार्थं समाधौ व्यास ऐक्षत ।
ब्रह्मास्त्रस्योपसंहारो द्रौणेर् दण्डश् च कथ्यते ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
समाधावैक्षत व्यासः श्रुतातीर्थान् इति वर्ण्यते । \
ब्रह्मास्त्रस्योपसंहारे द्रोणेर् दण्डश् च सप्तमे ॥
तद् अभिप्रेतं नारदाभिमतम् अर्थम् ॥१॥
———————————————————————————————————————
॥ १.७.२ ॥
सूत उवाच—
ब्रह्म-नद्यां सरस्वत्याम् आश्रमः पश्चिमे तटे ।
शम्याप्रास इति प्रोक्त ऋषीणां सत्र-वर्धनः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **शम्यां प्रास्य तत्र शालां कृत्वा यत्र यज्ञः क्रियते स शम्याप्रासः ॥२ ॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ब्रह्म-नद्यां ब्रह्म-दैवत्यायां ब्राह्मणैर् आश्रितायां च । सत्रं कर्म वर्धयतीति तथा ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ब्रह्म-नद्यां वेदानां विप्राणां तपसां परमेश्वरस्य वा सम्बन्धिन्यां नद्याम् । वेदस् तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिर् इत्य् अमरः ॥२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ब्रह्मणां वेद-ब्राह्मण-तपः-परमात्मानं सम्बन्धिन्यां नद्यां वेदस् तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः इत्य् अमरः ॥२॥
———————————————————————————————————————
॥ १.७.३ ॥
तस्मिन् स्व आश्रमे व्यासो बदरी-षण्ड-मण्डिते ।
आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **बदरीणां षण्डेन समूहेन मण्डिते । मनः प्रणिदध्यौ स्थिरी-चकार । समाधिनानुस्मर तद्-विचेष्टितम् [भा।पु। १.५.१३] इति नारदोपदिष्टं ध्यानं कृतवान् इत्य् अर्थः ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मनः मनसा प्रणिदध्याव् इति समाधिनानुस्मर तद्-विचेष्टितम् [भा।पु। १.५.१३] इति नारदोपदेशात् ॥३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मनः प्रणिदध्यौ समाधिं व्यथात्, समाधिनानुस्मर तद्-विचेष्टितम् [भा।पु। १.५.१३] इति देवर्षेर् उपदेशात् ॥३॥
॥ १.७.४ ॥
भक्ति-योगेन मनसि सम्यक् प्रणिहितेऽमले ।
अपश्यत् पुरुषं पूर्णं मायां च तद्-अपाश्रयम् ॥४ ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **भक्ति-योगेन सम्यक्-प्रणिहिते लोकानां मनसि ॥४ ॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रणिहिते निश्चले । अत्र हेतुः—भक्ति-योगेनामले । पूर्वं प्रथमं पुरुषम् ईश्वरम् अपश्यत् । पूर्णम् इति वा पाठः । तद्-उपाश्रयाम् ईश्वराश्रयां तद्-अधीनां मायां चापश्यत् ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भक्ति-योगेन प्रेम्णा ।
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगं [भा।पु। ५.६.१८] इत्य् अत्र प्रसिद्धेः ।
प्रणिहिते समाहिते । समाधिनानुस्मर तद्-विचेष्टितं [भा।पु। १.५.१३] इति तं प्रति श्री-नारदोपदेशात् । पूर्ण-पदस्य मुक्त-प्रग्रहया वृत्त्या—
भगवान् इति शब्दोऽयं तथा पुरुष इत्य् अपि ।
वर्तते निरुपाधिश् च वासुदेवेऽखिलात्मनि ॥
इति पाद्मोत्तर-खण्ड-वचनावष्टम्भेन, तथा—
काम-कामो यजेत् सोमम् अकामः पुरुषं परम् ॥
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.९-१०]
इत्य् अस्य वाक्य-द्वयस्य पूर्व-वाक्ये पुरुषं परं प्रकृत्य्-एकोपाधिम् ईश्वरम्, उत्तर-वाक्ये पुरुषं पूर्णं परं निरुपाधिम् इति टीकानुसारेण च पूर्णः पुरुषोऽत्र स्वयं भगवान् एवोच्यते ।
तम् अपश्यत् श्री-वेद-व्यास इति स्वरूप-शक्तिमन्तम् एवेत्य् एतत् स्वयम् एव लब्धम् । यथा “पूर्ण-चन्द्रम् अपश्यद्” इत्य् उक्ते कान्तिमन्तम् अपश्यद् इति लभ्यत एव । वक्ष्यते च—
त्वम् आद्यः पुरुषः साक्षाद्
ईश्वरः प्रकृतेः परः
मायां व्युदस्य चिच्-छक्त्या
कैवल्ये स्थित आत्मनि ॥ [भा।पु। १.७.२३] इति ।
अत एव मायां च तद्-अपाश्रयाम् इत्य् अनेन तस्मिन् अप अपकृष्ट आश्रयणं यस्याः । निलीय स्थितत्वाद् इति मायाया न तत्-स्वरूप-भूतत्वम् इत्य् अपि लभ्यते । वक्ष्यते च—माया परैत्य् अभिमुखे च विलज्जमाना [भा।पु। २.७.४७] इति । स्वरूप-शक्तिर् इयम् अत्रैव व्यक्तीभविष्यति अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे [भा।पु। १.७.६] इत्य् अनेन, आत्मारामाश् च [भा।पु। १.७.१०] इत्य् अनेन च । पूर्वत्र हि भक्ति-योग-प्रभावः खल्व् असौ मायाभिभावकतया स्वरूप-शक्ति-वृत्तित्वेनैव गम्यते । परत्र च ते गुणा ब्रह्मानन्दस्याप्य् उपरिचरतया स्वरूप-शक्तेः परम-वृत्तिताम् एवार्हन्तीति । मायाधिष्ठातृ-पुरुषस् तु तद्-अंशत्वेन, ब्रह्म च तदीय-निर्विशेषाविर्भाव-रूपत्वेन, तद्-अन्तर्भाव-विवक्षया पृथङ् नोक्ते इति ज्ञेयम् । तद् एतच् च द्वितीय-तृतीय-सन्दर्भयोः प्रतिपादितम् अस्ति । अतोऽत्र पूर्ववद् एव सम्बन्धि-तत्त्वं निर्धारितम् ॥४॥ [तत्त्व-सन्दर्भः ३०-३१]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रणिहिते निश्चले । अत्र हेतुः—भक्ति-योगेनामले पुरुषं पुरुषाकारं पूर्णं श्री-कृष्णम् इत्य् अर्थः । कृष्णे परम-पूरुषे [भा।पु। १.७.७] इत्य् अग्रिमोक्तेः । पूर्वम् इति पाठे पूर्वम् एवाहम् इहासम् इति तत्-पुरुषस्य पुरुषत्वम् इति श्रौत-निर्वचन-विशेष-पुरस्कारेण च स एवोच्यते । पूर्णम् इति पदेन तस्य स्वरूप-भूतां चिच्-छक्तिम् अंश-कलावतारान् । पूर्ति-लिङ्गेन ब्रह्म च अपश्यद् इति गम्यते । पूर्णं चन्द्रम् अपश्यद् इत्य् उक्तेश् चन्द्रस्य कान्तेर् अंश-कलानां च पूर्तेश् च दर्शनं स्वत एव भवेद् इत्य् अर्थः । किन्तु तस्य बहिरङ्गायाः शक्तेर् मायायास् तद्-विपरीत-धर्मवत्यास् तद्-दर्शनेन दर्शनं न भवतीति तां पृथग् उल्लिखति मायां चेति । अस्य अप अपरः पश्चिम-भाग एव आश्रयो यस्यास् तां विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया [भा।पु। २.५.१३] तस्या भगवत्-पृष्ठ-देशाश्रयत्वेनोक्तेः ॥४ ॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **समाधौ किं दृष्टम् इत्य् अत्राह—मनसि पुरुषम् अपश्यत्, कीदृशीत्य् आह—सम्यक् प्रणिहिते निश्चलतां नीते, यतो भक्ति-योगेनामले, कीदृशम् इत्य् आह—पूर्णं, विलास-व्यूह-स्वांशैः परया स्वशक्त्या तद्-विजृम्भितया दिव्य-लीलया च विशिष्टं स्वयं भगवन्तं कृष्णम् इत्य् अर्थ । कृष्णे परम-पूरुषे [भा।पु। २.३.१०] इत्य् अग्रिमात्, क्वचित् पूर्वम् इति पाठः—तत्रापि पूर्व-सिद्धं तम् एवापश्यत् । पूर्वम् एवाहम् इहासम् इति तत्-पुरुषस्य पुरुषत्वम् इति श्रोत-निरुक्तेः । मायां च त्रिगुणाम् अपश्यत्, अपकृष्टः पश्चाद्वर्तितयाश्रयो यस्यास् ताम् इति तद्-दर्शनेऽस्या दर्शनं नेति पृथङ्-निर्देशः ॥४॥
॥ १.७.५ ॥
यया सम्मोहितो जीव आत्मानं त्रि-गुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ईश-माया-कृतां च जीवानां संसृतिम् अपश्यद् इत्य् आह—ययेति । यया संमोहितः स्वरूपावरणेन विक्षिप्तः परोऽपि गुण-त्रयाद् व्यतिरिक्तोऽपि तत्-कृतं त्रि-गुणत्वाभिमान-कृतम् अनर्थं च कर्तृत्वादिकं प्राप्नोति ॥५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथाभिधेयस्य प्रयोजनस्य च स्थापकं जीवस्य स्वरूपत एव परमेश्वराद् वैलक्षण्यम् अपश्यद् इत्य् आह—ययेति । यया मायया सम्मोहितो जीवः स्वयं चिद्-रूपत्वेन त्रिगुणात्मकाज् जडात् परोऽप्य् आत्मानं त्रिगुणात्मकं जडं देहादि-सङ्घातं मनुते । तन्-मनन-कृतम् अनर्थं संसार-व्यसनं चाभिपद्यते । तद् एवं जीवस्य चिद्-रूपत्वेऽपि “यया सम्मोहित” इति “मनुते” इति च स्वरूप-भूत-ज्ञान-शालित्वं व्यनक्ति, प्रकाशैक-रूपस्य तेजसः स्व-पर-प्रकाशन-शक्तिवत् । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्तिजन्तवः [गीता ५.२५] इति श्री-गीताभ्यः । तद् एवम् उपाधेर् एव जीवत्वं तन्-नाशस्यैव मोक्षत्वम् इति मतान्तरं परिहृतवान् । अत्र यया सम्मोहितः इत्य् अनेन तस्या एव तत्र कर्तृत्वं भगवतस् तत्रोदासीनत्वं मतम् । वक्ष्यते च—
विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया
विमोहिता विकत्थन्ते मम् आहम् इति दुर्धियः ॥ [भा।पु। २.५.१३] इति ।
अत्र विलज्जमानया इत्य् अनेनेदम् आयाति तस्या जीव-सम्म्होहनं कर्म श्री-भगवते न रोचत इति यद्यपि सा स्वयं जानाति, तथापि भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य [भा।पु। ११.२.३७] इति दिशा जीवानाम् अनादि-भगवद्-अज्ञान-मय-वैमुख्यम् असहमाना स्वरूपास्फुरणम् अस्वरूपावेशं च करोति ॥ [तत्त्व-सन्दर्भ ३२]
श्री-भगवांश् चानादित एव भक्तायां प्रपञ्चाधिकारिण्यां तस्यां दाक्षिण्यं लङ्घितुं न शक्नोति । तथा तद्-भयेनापि [तस्यां स्व-दाक्षिण्य-लङ्घन-जनित-स्वौदार्य-महिमैश्वर्य-च्युताशङ्कयापि] जीवानां स्व-साम्मुख्यं वाञ्छन्न् उपदिशति— \
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता ७.१४] इति,
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ [भा।पु। ३.२५.२५] इति च ।
लीलया श्रीमद्-व्यास-रूपेण तु विशिष्टया तद्-उपदिष्टवान् इत्य् अनन्तरम् एवायास्यति । अनर्थोपशमं साक्षाद् इति । तस्माद् द्वयोर् अपि तत् तत् समञ्जसं ज्ञेयम् ।
ननु माया खलु शक्तिः । शक्तिश् च कार्य-क्षमत्वम् । तच् च धर्म-विशेषः । तस्याः कथं लज्जादिकम् ? उच्यते—एवं सत्य् अपि भगवति तासां शक्तीनाम् अधिष्ठातृ-देव्यः श्रूयन्ते, यथा केनोपनिषदि महेन्द्र-माययोः संवादः ॥ [तत्त्व-सन्दर्भ ३३]
तद् आस्ताम्, प्रस्तुतं प्रस्तूयते । तत्र जीवस्य तादृश-चिद्-रूपत्वेऽपि परमेश्वरतो वैलक्षण्यं “तद्-अपाश्रयम्” इति, “यया सम्मोहितः” इति च दर्शयति ॥ [तत्त्व-सन्दर्भ ३४]
यर्ह्य् एव यद् एकं चिद्-रूपं ब्रह्म मायाश्रयता-वलितं विद्यामयं तर्ह्य् एव तन्-माया-विषयतापन्नम् अविद्या-परिभूतं चेत्य् उक्तम् इति जीवेश्वर-विभागोऽवगतः । ततश् च स्वरूप-सामर्थ्य-वैलक्षण्येन तद् द्वितयं मिथो विलक्षण-स्वरूपम् एवेत्य् आयातम् ॥ [तत्त्व-सन्दर्भ ३५]
न चोपाधि-तारतम्यमय-परिच्छेद-प्रतिबिम्बत्वादि-व्यवस्थया तयोर् विभागः स्यात् ॥ [तत्त्व-सन्दर्भ ३६]
तत्र यद्य् उपाधेर् अनाविद्यकत्वेन वास्तवत्वं तर्ह्य् अविषयस्य तस्य परिच्छेद-विषयत्वासम्भवः । निधर्मकस्य व्यापकस्य निरवयवस्य च प्रतिबिम्बत्वायोगोऽपि, उपाधि-सम्बन्धाभावात् बिम्ब-प्रतिबिम्ब-भेदाभावात्, दृश्यत्वाभावाच् च । उपाधि-परिच्छिन्नाकाशस्थ-ज्योतिर् अंशस्यैव प्रतिबिम्बो दृश्यते, न त्व् आकाशस्य दृश्यत्वाभावाद् एव ॥ [तत्त्व-सन्दर्भ ३७]
तथा वास्तव-परिच्छेदादौ सति सामानाधिकरण्य-ज्ञान-मात्रेण न तत्-त्यागश् च भवेत् । तत्-पदार्थ-प्रभावस् तत्र कारणम् इति चेद् अस्माकम् एव मतं सम्मतम् ॥ [तत्त्व-सन्दर्भ ३८]
उपाधेर् आविद्यकत्वे तु तत्र तत्-परिच्छिन्नत्वादेर् अप्य् अघटमानत्वाद् आविद्यकत्वम् एवेति घटाकाशादिषु वास्तवोपाधिमय-तद्-दर्शनया न तेषाम् अवास्तव-स्वप्न-दृष्टान्तोपजीविनां सिद्धान्तः सिध्यति, घटमानाघटमानयोः सङ्गतेः कर्तुम् अशक्यत्वात् । ततश् च तेषां तत् तत् सर्वम् अविद्याविलसितम् एवेति स्वरूपम् अप्राप्तेन तेन तेन तत् तद् व्यवस्थापयितुम् अशक्यम् । [तत्त्व-सन्दर्भ ३९]
इति ब्रह्माविद्ययोः पर्यवसाने सति यद् एव ब्रह्म चिन्-मात्रत्वेनाविद्या-योगस्यात्यन्ताभावास्पदत्वाच् छुद्धं तद् एव तद्-योगाद् अशुद्ध्या जीवः । पुनस् तद् एव जीवाविद्या-कल्पित-मायाश्रयत्वाद् ईश्वरस् तद् एव च तन्-माया-विषयत्वाज् जीव इति विरोधस् तद्-अवस्थ एव स्यात् । तत्र च शुद्धायां चित्य् अविद्या । तद्-अविद्या-कल्पितोपाधौ तस्याम् ईश्वराख्यायां विद्येति, तथा विद्यावत्त्वेऽपि मायिकत्वम् इत्य् असमञ्जसा च कल्पना स्याद् इत्य् आद्य् अनुसन्धेयम् । [तत्त्व-सन्दर्भ ४०]
किं च, यद्य् अत्राभेद एव तात्पर्यम् अभविष्यत् तर्ह्य् एकम् एव ब्रह्माज्ञानेन भिन्नम्, ज्ञानेन तु तस्य भेदमयं दुःखं विलीयत इत्य् अपश्यद् इत्य् एवावक्ष्यत् । तथा श्री-भगवल्-लीलादीनां वास्तवत्वाभावे सति श्री-शुक-हृदय-विरोधश् च जायते ॥ [तत्त्व-सन्दर्भ ४१]
तस्मात् परिच्छेद-प्रतिबिम्बत्वादि-प्रतिपादक-शास्त्राण्य् अपि कथञ्चित् तत्-सादृश्येन गौण्यैव वृत्त्या प्रवर्तेरन् । अम्बुवद् अग्रहणात् तु न तथात्वं [वे।सू। ३.२.१९], वृद्धि-ह्रास-भाक्त्वम् अन्तर् भावाद् उभय-सामञ्जस्योदेवं [वे।सू। ३.२.२०] इति पूर्वोत्तर-पक्षमय-न्यायाभ्याम् ॥ [तत्त्व-सन्दर्भ ४२]
तत एवाभेद-शास्त्राण्य् उभयोश् चिद्-रूपत्वे जीव-समूहस्य दुर्घट-घटना-पटीयस्या स्वाभाविक-तद्-अचिन्त्य-शक्त्या स्वभावत एव तद्-रश्मि-परमाणु-गुण-स्थानीयत्वात् तद्-व्यतिरेकेणाव्यतिरेकेण च विरोधं परिहृत्याग्रे मुहुर् अपि तद् एतद्-व्यास-समाधि-लब्ध-सिद्धान्त-योजनाय योजनीयानि ॥ [तत्त्व-सन्दर्भ ४३]
तद् एवं मायाश्रयत्व-माया-मोहितत्वाभ्यां स्थिते द्वयोर् भेदे तद्-भजनस्यैवाभिधेयत्वम् आयातम् ॥ [तत्त्व-सन्दर्भ ४४]
अतः श्री-भगवत एव सर्व-हितोपदेष्टृत्वात्, सर्व-धुःख-हरत्वात्, रश्मीनां सूर्यवत् सर्वेषां परम-स्वरूपत्वात् सर्वाधिक-गुण-शालित्वात्, परम-प्रेमयोगत्वम् इति प्रयोजनं च स्थापितम् ॥५॥ [तत्त्व-सन्दर्भ ४५2]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु भगवद्-रूप-गुण-लीला-माधुर्य-वर्णनार्थं भगवद्-दर्शनम् अपेक्षणीयम् एव । व्यासस्य माया-दर्शनं किम्-अर्थम् ? तत्राह— मया संमोहित इति । अयम् अर्थः—यद्-अर्थं श्री-भागवतम् आरिप्सितं स जीवो माया-रोग-ग्रस्तः कथं स्वयं स्वादयतु तन्-माधुर्यम् ? अग्रतस् तस्य रोग-दर्शनं विना चिकित्सा न भवति । तया च विना रोगिणस् तस्य कथम् औषध-पथयोर् व्यवस्थेति माया-जीवाव् अपि द्रष्टुम् अवश्यम् एवापेक्षणीयाव् इति । यया संमोहितः स्वरूपावरण-विक्षेपाभ्यां भ्रमितः परोऽपि तस्या मायाया गुण-त्रयातिरिक्तोऽपि तत्-कृतं गुण-कृतम् अनर्थं तद्-अभिमानेन प्राप्नोति ॥५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु भगवद्-दर्शनं तद्-गुण-लीला-वर्णनार्थम् आवश्यकं, माया-दर्शनं किम् अर्थम्? तत्राह—ययेति । जीवारोग्यार्थं श्री-भागवतं मया प्रकाश्यं, जीव-रोगश् च मायैव, ताम् अवीक्ष्य कथं तन्-निवर्तकं महौषधं विधेयम् इति तद् उभय-वीक्षणं च । यया मायया संमोहितो मूढतां नीतो जीवस् ततः परोऽन्योप्यात्मानं त्रिगुणात्मकं मनुते । तत्कृतं गुण-कृतम् अनर्थं क्लेशञ्चाभितः पद्यते लभते ॥५॥
———————————————————————————————————————
॥ १.७.६ ॥
अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे ।
लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनर्थम् उपशमयति योऽधोक्षजे साक्षाद् भक्ति-योगस् तं चापश्यत् । एतत् सर्वं स्वयं दृष्ट्वा एवम् अजानतो लोकस्यार्थे सात्वत-संहितांश्री-भागवताख्यां चक्रे । तद् अनेन श्लोक-त्रयेण भागवतार्थः सङ्क्षेपतो दर्शितः । एतद् उक्तं भवति—विद्या-शक्त्या माया-नियन्ता नित्याविर्भूत-परमानन्द-स्वरूपः सर्व-ज्ञः सर्व-शक्तिर् ईश्वरस् तन्-मायया संमोहितस् तिरोभूत-स्वरूपस् तद्-विपरित-धर्मा जीवस् तस्य चेश्वर-भक्त्या लब्ध-ज्ञानेन मोक्ष इति । तद् उक्तं विष्णु-स्वामिना—
ह्लादिन्या संविद्-आश्लिष्टः सच्-चिद्-आनन्द ईश्वरः ।
स्वाविद्या-संवृतो जीवः सङ्क्लेश-निकराकरः ॥
तथा—
स ईशो यद्-वशे माया स जीवो यस् तयार्दितः ।
स्वाविर्भूत-परानन्दः स्वाविर्भूत-सुदुःख-भूः ।
द्वादृग् उत्थ-विपर्यास-भव-भेद-जभीशुचः ।
मन्-मायया जुषन्न् आस्ते तम् इमं नृहरिं नुमः ॥ इत्य्-आदि ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्राभिधेयं च तादृशत्वेन दृष्टवान् अपि, यतस् तत्-प्रवृत्त्य्-अर्थं श्री-भागवताख्याम् इमां सात्वत-संहितां प्रवर्तितवान् इत्य् आह अनर्थेति । भक्तियोगः श्रवण-कीर्तनादि-लक्षणः साधन-भक्तिः, न तु प्रेम-लक्षणः । अनुष्ठानं ह्य् उपदेशापेक्षं प्रेम तु तत्-प्रसादापेक्षम् इति तथापि तस्य तत्-प्रसाद-हेतोस् तत्-प्रेम-फल-गर्भत्वात् साक्षाद् एवानर्थोपशमनत्वम्, न त्व् अन्यसापेक्षत्वेन । यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् इत्य् आदौ [भा।पु। ११.२०.३२], सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं [भा।पु। ११.२०.३३] इत्य् आदेः । ज्ञानादेस् तु भक्ति-सापेक्षत्वम् एव श्रेयः-सृतिं भक्तिं [भा।पु। १०.१४.४] इत्य् आदेः ।
अथवा अनर्थस्य संसार-व्यसनस्य तावत् साक्षाद्-अव्यवधानेनोपशमनं सम्मोहादि-द्वयस्य तु प्रेमाख्य-स्वीय-फल-द्वारेत्य् अर्थः । अन्यत् तैः। तत्र स्वादृग्-उत्थेति । स्वादृक् स्वाज्ञानं तेनोत्थितो यो विपर्यासः स्वरूपान्यथा ज्ञानं तद्-भवो यो भेदः भिन्ने देहादाव् अहं-ममता-रूपः तस्मात् जाता या भीः शुचश् च ता जुषमाण आस्ते इत्य् अर्थः ॥६॥ [तत्त्व-सन्दर्भ ४६]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्य यद् औषधं तद् अपि दृष्टम् इत्य् आह । अनर्थम् उपशमयति यस् तं भक्ति-योगं चापश्यत् । अत्र दर्शनेऽयं क्रमो ज्ञेयः । प्रथमं भगवन्तम् अपश्यत् । पूर्णेति-पद-प्रयोगाद् अंशान् विना कथं पूर्णत्वम् इति तद्-अंशान् पुरुषावतार-गुणावतारादीन् अपश्यत् । पूर्तिमत्त्वं पूर्णत्वम् इति पूर्ति-रूपं ब्रह्मापश्यत्, तत्-कान्ति-भूतां विमलोत्कर्षिण्य्-आद्य्-अनेक-प्रभेदवतीं चिच्-छक्तिम् अपश्यत् । पृष्ठे बहिरङ्गां माया-शक्तिम् अपश्यत् । तस्यास् तन्-मोह-निवर्तिकां सर्वतोऽपि महतीं चिच्-छक्ति-मूख्यां भक्ति-रूपां शक्तिम् अनुग्रहा-शक्ति-विलास-भूतां भगवतोऽपि वशयित्रीं भगवत्य् एवापश्यत् । तद् एतत् सर्वं स्वयं दृष्ट्वा अजानतो लोकस्यार्थे सात्वत-संहिताम् एतां सर्व-तत्त्व-प्रकाशिकां श्री-भागवताख्यां चक्रे ।
ईशः स्वतन्त्रश् चित्-सिन्धुः सर्व-व्याप्यैक एव हि ।
जीवोऽधीनश् चित्-कणोऽपि स्वोपाधिर् व्यापि-शक्तिकः ॥
अनेकोऽविद्ययोपात्तस् त्यक्ताविद्योऽपि कर्हिचित् ।
माया त्व् अचित्-प्रधानं चाविद्याविद्येति सा त्रिधा ॥
ईश्वर-जीव-माया-जगतां स्वरूप-शक्तेर् भक्तेश् च स्वरूप-लक्षण-प्रामान्यादिकं वेद-स्तुति-व्याख्यायां व्यक्तीभविष्यति ॥६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **जीवस्य माया-रोग-निवर्तकं यन्महौषधं तद् अपि दृष्टम् इत्य् आह—अनर्थं । गुण-कृतं क्लेशम् उपशमयति यस्तं साक्षाद्-भक्ति-योगञ्चापश्यद् इत्य् अनुषङ्गः । तम् एतम् आर्थर्वणिकाः पठन्ति—श्रद्धा-भक्ति-धान-योगाद् अवैति इति । तल्-लक्षणं तत् स्वरूपं च तेऽधीयते । भक्तिर् अस्य भजनं, तद् इहामुत्रोपाधि-नैरास्येनामुष्मिम्नः-कल्पनम् एतद् एव नैष्कर्म्यम् इति [गो।ता।उ। पूर्व २५] । विज्ञान-घनानन्द-घना सच्चिदानन्दैकरसे भक्ति-योगे तिष्ठति इति चैवम् आदिभिः । तथा च ह्लादिनी सन्धिनी सम्वित्तयेका सर्व-संश्रये । ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते इति श्री-विष्णु-पुराणोक्ता या त्रिवृत् पराख्या भगवत्-स्वरूप-शक्तिस् तद् अंशयोः समवेतयोर् ह्लाद-सम्विदोर्यो भगवद् आनुकूल्यांशस् तद्-विषयक-जैव-ज्ञानोद्भूत त-तत्-तृष्णया सह क्षीर-नीरन्यायेनैक्यं गतः स तद्-वश्यता-हेतुस् तद्-योग इति मायैक-विशुद्ध-सत्त्वमायानन्द-ज्ञान-रूपत्वे जैव-ज्ञान-रूपत्वे वा तद्-गम्यता-तद्-वश्यते न स्याताम् इत्य् अत्र विस्तरः । तद् एतत् स्व-दृष्टं सर्वम् अजानतो लोकस्य हिताय व्यासः सात्वत-संहितां तत्-सर्व-प्रकाशिकां द्वादश-स्कन्धां चक्रे प्रकटयामास । अत्र श्रुतार्थ-दर्शनेऽयं क्रमः—आदौ तैस्-ताभ्यां च पूर्णं कृष्णम् अपश्यत् । ततः पृष्ठे निलीय स्थितां मायां, तय मोहितां जीव-शक्तिं, तत्कृत-जीव-मोह-निवर्तकं तादृशं भक्ति-योगं चेति ॥६॥
———————————————————————————————————————
॥ १.७.७ ॥
यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे ।
भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा ॥७ ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संहिताया अनर्थोपशमकत्वं दर्श्यति—यस्याम् इति । यस्यां वै श्रूयमाणायाम् एव, किं पुनः श्रुतायाम् इत्य् अर्थः ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ प्रयोजनं च स्पष्टयितुं पूर्वोक्तस्य पूर्ण-पुरुषस्य च श्री-कृष्ण-स्वरूपत्वं व्यञ्जयितुं ग्रन्थ-फल-निर्देश-द्वारा तत्र तद्-अनुभवान्तरं प्रतिपादयन्न् आह—यस्याम् इति । भक्तिः प्रेमा, श्रवण-रूपया साधन-भक्त्या साध्यत्वात् । उत्पद्यते आविर्भवति । तस्यानुषङ्गिकं गुणम् आह—शोकेति । अत्रैषां संस्कारोऽपि नश्यतीति भावः । प्रीतिर् न यावन् मयि वासुदेवे न मुच्यते देह-योगेन तावत् [भा।पु। ५.५.६] इति श्री-ऋषभ-देव-वाक्यात् ।
परम-पुरुषे पूर्वोक्त-पूर्ण-पुरुषे । किम् आकारः ? इत्य् अपेक्षायाम् आह—कृष्णे । कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इत्य्-आदि-शास्त्र-सहस्र-भावितान्तः-करणानां परम्परया तत्-प्रसिद्धि-मध्य-पातिनां चासाङ्ख्य-लोकानां तन्-नाम-श्रवण-मात्रेण यः प्रथम-प्रतीति-विषयः स्यात्, तथा तन्-नाम्नः प्रथमाक्षर-मात्रं मन्त्राय कल्पमानं यस्याभिमुख्याय स्यात् तद्-आकार इत्य् अर्थः । आहुश् च नाम-कौमुदी-काराः—
कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि यशोदायाः स्तनन्धये पर-ब्रह्मणि रूढिः इति ॥७॥ [तत्त्व-सन्दर्भ ४७]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **संहितायां प्रेम-साधनत्वम् आह । यस्यां श्रूयमानायाम् एव किं पुनः श्रुतायां, किन्तरां कीर्त्यमानायां, किन्तमां कीर्तितायाम् । भक्तिः प्रेमा ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिर् [भा।पु। १.१.२] इत्य्-उक्तेर् ईश्वरावरोधस्य फलस्य प्रेम्ण एव लिङ्गत्वाद् भक्तानाम् अननुसंहित-फलं संसार-निवृत्तिः, सा च भक्तानाम् एव भवतीत्य् आह—शोकेत्य् आदि ॥७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **संहिताया विषयं फलञ्चाह—यस्याम् इति श्रुयामाणायां किं पुनः श्रूतायां कीर्तितायां वा, भक्तिः प्रेमा, अननुसंहितं फलम् आह—शोकेति । तदा तन्-मूलम् अपि नश्यतीत्य् अर्थः । कृष्णोऽस्य विषयस् तस्मिन् प्रेम तु फलं मोक्षस् त्वान्तर-व्यापारतया भवेद् एव ॥७॥
———————————————————————————————————————
॥ १.७.८ ॥
स संहितां भागवतीं कृत्वानुक्रम्य चात्म-जम् ।
शुकम् अध्यापयाम् आस निवृत्ति-निरतं मुनिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनुक्रम्य शोधयित्वा ॥८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ तस्यैव प्रयोजनस्य ब्रह्मानन्दानुभवाद् अपि परमत्वम् अनुभूतवान् । यतस् तादृशं शुकम् अपि तद्-आनन्द-वैशिष्ट्य-लम्भनाय ताम् अध्यापयामासेत्य् आह—स संहिताम् इति । कृत्वानुक्रम्य चेति विवृतम् अस्ति3 । ब्रह्मानन्दानुभव-निमग्नत्वात् निवृत्ति-निरतं सर्वतो निवृत्तौ निरतम्, तत्राव्यभिचारिणम् अपीत्य् अर्थः ॥८॥ [तत्त्व-सन्दर्भ ४८]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ तस्यैव प्रयोजनस्य प्रेम्णो ब्रह्मानन्दानुभवाद् अपि परमत्वम् अनुभूतवान् एव यतस् तादृशं शुकम् अपि प्रेमानन्दस्य वैशिष्ट्योपलम्भनाय ताम् अध्यापयामास लोके हि स्वादितापूर्वम् इष्ट-वस्तुकः पित्रादिर् अवश्यम् एव पुत्रादिकं तत्-तद्-आस्वादयितुं प्रयतते इत्य् आह स संहिताम् इति कृत्वानुक्रम्य चेति प्रथमतः स्वयं सङ्क्षिप्त-भक्तिकं कृत्वा पश्चान् नारदोपदेशाद् अनुक्रमेण श्री-भगवद्-भक्त्य्-एक-प्रधानतया अनुक्रम्य संशोध्येत्य् अर्थः । स च नारदोपदेशः श्री-कृष्णान्तर्धानानन्तरं परीक्षित्-कर्तृक-कलि-निग्रहात् पूर्वं ज्ञेयस् तदैव कलिना स्वाधिकारारम्भे स्व-प्राबल्य-प्रकटनात् धार्मिकाणाम् अपि शास्त्र-दर्शिनाम् अप्य् अधर्मे प्रवृत्तेः । यत एव व्यासस्य चित्ताप्रसादः । यद् उक्तं—जुगुप्सितं धर्म-कृतेऽनुशासतः [भा।पु। १.५.१५] इत्य् अत्र न मन्यते तस्य निवारणं जनः इति । कलि-युगात् पूर्वम् एव चित्ताप्रसादे न मत्स्यत इति प्रयुज्येत अतस् तदैव पूर्व-निर्मितस्यैव श्री-भागवतस्यानुक्रमणं यद् उक्तं—कृष्णे स्वधामोपगते [भा।पु। १.३.४३] इत्य् अत्र पुराणोऽर्कोऽधुनोदितः इति अत एवेदं श्रीमद्-भागवतं भागवतानन्तरं यद् अत्र श्रूयते यच् चान्यत्र अष्टादश-पुराणानन्तरं भागवतम् इति तद् द्वयम् अपि सङ्गतं स्यात् । निवृत्ति-निरतं ब्रह्मानुभविनम् अपि ॥८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कृत्वानुक्रम्य चेति पूर्व-सङ्क्षिप्तां प्रकटय नारदोपदेशोत्तरम् अनुक्रम्य लीलाक्रम-निबन्धेन विस्तीर्येत्य् अर्थः । सङ्क्षिप्ता भारतात् पूर्व विस्तीर्णा तु तस्माद् उत्तरा, पूर्वा चोत्तरान्तः-प्रवेशिता बोध्या । एवं च अष्टादश पुराणानि कृत्वा सत्यवती-सुतः । चक्रे भारतम् आख्यानं वेदार्थैर् उपबृंहितम् इति मात्स्य-स्कान्दयोर् वाक्यं सङ्गतिमत् । सङ्क्षिप्तस्याष्टादशान्तर्गतत्वात्, विस्तीर्णस्य भारतोत्तरत्वात्, उभयोर् ऐक्याच् च मात्स्याद् युक्त-लक्षण-सङ्ख्ययोः सामञ्जस्यम् इति । निवृत्ति-निरतम् इत्य् अन्यवासना-विनाशात्-तद् अध्ययन-पात्रम् इत्य् अर्थः । मुनिं स्वात्ममननशीलं । जीवात्म-ज्ञानं खलु परात्मज्ञानोपयोगि, यद् आत्मतत्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् [श्वे।उ। २.१५] इति श्रुतेः, अन्यार्थश् च परामर्शः [वे।सू। १.३.२०] इति सूत्राच् च ॥८॥
———————————————————————————————————————
॥ १.७.९ ॥
शौनक उवाच—
स वै निवृत्ति-निरतः सर्वत्रोपेक्षको मुनिः ।
कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् ॥९ ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कस्य वा हेतोः । बृहतीं वितताम् ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कस्य वा हेतोः ॥९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आत्मानन्दादितरस्मिन् सर्वत्रोपेक्षकः स्पृहाशून्यः, कस्य हेतोः बृहतीमष्टादशसाहस्रीमेतां संहिताम् ॥९॥
———————————————————————————————————————
॥ १.७.१० ॥
सूत उवाच—
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निर्ग्रन्थाः ग्रन्थेभ्यो निर्गताः । तद् उक्तं गीतासु—
यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता। २.४२] इति ।
यद् वा, ग्रन्थिर् एव ग्रन्थः (निवृत्तः क्रोधाहङ्कार-रूपो ग्रन्थिर् एषां ते)4 निर्वृत्त-हृदय-ग्रन्थय इत्य् अर्थः । ननु मुक्तानां किं भक्त्येत्यादि-सर्वाक्षेप-परिहारार्थम् आह—इत्थं-भूत-गुण इति ॥१०॥
**सनातन-गोस्वामी- **[ह।भ।वि। ११.५८४] आत्मारामा ब्रह्म-निष्ठा अपि । अत एव निर्ग्रन्था ग्रन्थेभ्यो निर्ग्रन्थाः । तद् उक्तं—
यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता। २.४२] इति ।
यद् वा ग्रन्थिर् एव ग्रन्थः, निर्वृत्त-हृदय-ग्रन्थय इत्य् अर्थः । ननु मुक्तानां किं भक्त्येत्य्-आदि-सर्वाक्षेप-परिहारार्थम् आह—इत्थं-भूत-गुण इति । अत्यनिर्वचनीय-परमाकर्षक-भक्ति-गुणत्वाद् इत्य् अर्थः । तच् च श्री-भागवतामृतोत्तर-खण्डे व्युत्पादितम् एवास्ति ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तम् एतं श्री-वेद-व्यासस्य समाधि-जातानुभवं श्री-शौनक-प्रश्नोत्तरत्वेन विशदयन् सर्वात्मारामानुभवेन स-हेतुकं संवादयति—आत्मारामाश् चेति । निर्ग्रन्था विधि-निषेधातीताः, निर्गताहङ्कार-ग्रन्थयो वा । अहैतुकीं फलानुसन्धि-रहिताम् । इत्थम् इत्य् आत्मारामाणाम् अप्य् आकर्षण-स्वभावो गुणो यस्य स इत्य् अर्थः ॥१०॥ [तत्त्व-सन्दर्भ ४९]5
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **निर्ग्रन्था जिज्ञासित-ग्रन्थेभ्यो निर्गताः । यद् उक्तम्—
यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता २.४२] इति ।
यद् वा ग्रन्थिर् एव ग्रन्थः, निर्गताहङ्कार-ग्रन्थयः । यद् उक्तं—भिद्यते हृदय-ग्रन्थिः [भा।पु। १.२.२१] इति । यद् वा, विधि-निषेध-ग्रन्थातीताः । यद् उक्तं—चरेद् अविधि-गोचरः [भा।पु। ११.१८.२८] इति । तथाभूता अपि अहैतुकीं फलाभिसन्धि-रहितां भक्तिं कुर्वन्ति । भक्त्या ज्ञानं ज्ञानातीतोऽपि भक्तिर् इत्य् ऊरुः । श्रेष्ठ एव क्रमो यस्मात् तस्मिन् ।
ननून्मुक्तिः मुक्तानां किं भक्त्या निर्ग्रन्थानां किं भक्ति-ग्रन्थेन श्री-भागवतन निरभिमानानां किं पुनः सेव्य-सेवक-लक्षणेनाभिमानेन विधि-निषेधातीतानाम्, किं पुनः श्री-भागवतोक्तेन भक्तेर् विधिनेत्य् आदि सर्वाक्षेप-परिहारार्थम् आह—इत्थं-भूत-गुण इति । इत्थं-भूत आत्मारामाणाम् अप्य् आकर्षण-शीलो गुणो यस्य सः । तेन मूलत एव भक्ति-प्राधान्याभ्यासेन वा मद्-गुणानुभव एषाम् अस्त्व् इति सनकादिषु भगवत्-कृपयैव श्री-कृष्ण-गुणानुभवो मत्-सुतस्यास्त्व् इति श्री-शुके व्यासस्येव भगवतो भक्तानां वा कृपया यैर् आत्मारामैस् तद्-गुणानुभव-योग्यता लब्धा त एवाहैतुकीं भक्तिं कुर्वन्ति, अन्ये आत्मारामाः सायुज्यार्थं भक्तिं कुर्वन्तीत्य् अहैतुकी-पदव्यावृत्तिर् अनुसन्धेया । यद् उक्तं—
ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता १८.५४,५६] इति ॥१०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **परिहरति—आत्मा-रामाः समाधि-दृष्टाष्ट-गुणकस्वात्मान एव निर्ग्रन्थास् तदानन्दास्वादेन त्यक्त-शास्त्रा अपि पलालम् इव धान्यार्थी त्यजेद् ग्रन्थम् अशेषतः इति [ब्रह्म-बिन्दु। १८] श्रवणात्, अतिमनो-ज्ञानन्त-भगवद्-गुण-विज्ञ-महत्तम-प्रसङ्गे सति हरौ भक्तिं तत्-तद्-गुण-प्रवर्तितां कुर्वन्ति, अहैतुकीं तद् अन्य-फलेच्छा-शून्यां, सर्व-क्षेपनिर् आसायाह—इत्थम् इति । ईदृशं तद्-गुण-माधुर्यं येन स्वात्मानन्दं विस्मरन्तीति । हरौ कीदृशि? शास्त्रात् स्वात्म-ज्ञानं, ततस् तद् आनन्दानुभवः, ततः शास्त्रत्यागः, ततो हरिगुण-श्रवणात् तत्र भक्तिस् ततो गुण-निरूपक-संहिताध्ययनम् इत्य् एव मुरुर् महान् क्रमो यस्मात्-तस्मिन् ॥१०॥
———————————————————————————————————————
॥ १.७.११ ॥
हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः ।
अध्यगान् महद् आख्यानं नित्यं विष्णु-जन-प्रियः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु भक्तिं कुर्वन्तु नाम, एतच् छास्त्राभ्यासे शुकस्य किं कारणम् इत्य् अत आह—हरेर् इति । अध्यगाद् अधीतवान् । विष्णु-जनाः प्रिया यस्येति । व्याख्यानादि-प्रसङ्गेन तत्-सङ्गति-काम इति भावः । एतेन तस्य पुत्रो महा-योगीत्यादिना शुकस्य व्याख्याने प्रवृत्तिः कथम् इति यत् पृष्ठं तस्योत्तरम् उक्तम् ॥११॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तम् एवार्थं श्री-शुकस्याप्य् अनुभवेन संवादयति—हरेर् गुणेति । श्री-व्यासदेवाद् यत्-किञ्चिच्-छ्रुतेन गुणेन पूर्वम् आक्षिप्ता मतिर् यस्य सः । पश्चाद् अध्यगात् महद्-विस्तीर्णम् अपि । ततश् च तत्-सङ्कथा-सौहार्देन नित्यं विष्णु-जनाः प्रिया यस्य तथाभूतो वा, तेषां प्रियो वा स्वयम् अभवद् इत्य् अर्थः ।
अयं भावः—ब्रह्म-वैवर्तानुसारेण पूर्वं तावद् अयं गर्भम् आरभ्य श्री-कृष्णस्य स्वैरितया माया-निवारकत्वं ज्ञातवान् । तत्र स्व-नियोजनया श्री-व्येद-व्यासेनानीतस्य तस्यान्तर् दर्शनात् तन्-निवारणे सति कृतार्थं-मन्यतया स्वयम् एकान्तम् एव गतवान् । तत्र श्री-व्यासदेवस् तु तं वशीकर्तुं तद्-अनन्य-साधनं श्री-भागवतम् एव ज्ञात्वा, तद्-गुणातिशय-प्रकाशमयांस् तदीय-पद्य-विशेषान् कथञ्चिच् छ्रावयित्वा तेन तम् आक्षिप्त-मतिं कृत्वा, तद् एव पूर्णं तम् अध्यापयामासेति श्री-भागवत-महिमातिशयः प्रोक्तः ॥११॥ [तत्त्व-सन्दर्भ ४९]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नारद-कृपया व्यासस्यैव व्यास-कृपया शुकस्यापि तद्-गुण-माधुर्यानुभवो विशेषत एवाभूद् इत्य् आह—हरेर् इति । हरेर् गुणेन आक्षिप्ता आक्षेप-विषयी-कृता मतिर् ब्रह्मानुभवो येन सः धिष्मे मतिं यत ईड्र्शे भगवद्-गुण-माधुर्ये सत्य् अपि एतावान् कालो ब्रह्मानुभवेन मया वृथैव यापित इति । ततश् च तत्-कथा-सौहार्देन विष्णु-जना एव न तु केवला आत्मारामाः प्रिया यस्य सः षष्ठी-समासो वा । अत्र व्यास एव भगवद्-गुणाभिव्यञ्जकान् श्री-भागवतीयान् कांश्चन श्लोकान् लोक-द्वारा विविक्तारण्ये सदा समाधिस्थम् अपि शुकं श्रावयामास । ततस् तच्-छक्त्यैव भग्न-समाधिस् तन्-माधुर्याकृष्ट-चित्तस् तादृशं समाधिम् अप्य् आक्षिप्य सर्वज्ञतया तान् श्लोकान् श्री-भागवतीयान् ज्ञात्वा तत्-प्रकाशकं च स्व-पितरं ज्ञात्वा तद्-अन्तिकम् आगत्य श्री-भागवतम् अध्यैष्टेति ब्रह्म-वैवर्तानुसारेण कथा ज्ञेया । तद् एवं व्यास-शुकौ पिता-पुत्रौ ब्रह्मानुभवि-चूडामणी अपि विजित्य भक्तिर् एक-च्छत्राम् इव सर्व-जगतीं चक्रे । तद् अपि ये तां तथा न मन्यन्ते कुपथ-गामिनश् चौरा यमेनैव दण्ड्या इति ॥११॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नन्व् अरण्ये समाधि-निष्ठः शुकः कथं पितरम् उपेयाय, तत्राह—हरेर् इति । व्यास-प्रेषित-शिष्योद्गीतैः कैश्चित् संहिता-पद्यैर् अवगता ये **हरेर् **गुणास् तैर् आक्षिप्ता स्व-समाधेर् आकृष्टा मतिस् तद्-आनन्द-मग्ना बुद्धिर् यस्य सः । महद् अप्य् आख्यानं तद्-गुण-प्रकाशकत्वाद् अध्यगाद् अधीतवान् पितरं सेवमानः सन् । ततस् तत्-कथा-रसास्वादाय विष्णुजनाः प्रिया यस्य तेषां वा स्वयं प्रियोऽभूत् । एतेन तस्य पुत्रो महा-योगी [भा।पु। १.४.४] इत्य्-आदिना तादृशस्य शुकस्य व्याख्याने प्रवृत्तिः कथम् इति प्रश्नस्योत्तरम् अभूत् ॥११॥
———————————————————————————————————————
॥ १.७.१२ ॥
परीक्षितोऽथ राजर्षेर् जन्म-कर्म-विलापनम् ।
संस्थां च पाण्डु-पुत्राणां वक्ष्ये कृष्ण-कथोदयम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद् अन्यत् पृष्ठं परीक्षितः प्रायोपवेशेन श्रवणं कथम् इतिऽ_तस्य जन्म महाश्चर्यम्_ऽ इत्य्-आदिना तस्योत्तरं वक्तुम् आह—परीक्षित इति । विलापनं मुक्तिं मृत्युं वा । संस्थां महा-प्रस्थानम् । श्री-कृष्ण-कथानाम् उदयो यया भवति तथा ॥१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कृष्ण-कथानाम् उदयो यत्र तद् यथा भवतीति मुख्यतया तेन पृष्टानां कृष्ण-कथानाम् आरम्भोऽपि सूचितः ॥१२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतेन तस्य पुत्रो महा-योगीत्य् आदिना शुकस्य व्याख्याने प्रवृत्तिः कथम् इति यत् पृष्टं तस्योत्तरम् उक्तं यद् अन्यत् पृष्टं परीक्षितः प्रायोपवेशेन श्रवणं कथम् इति तस्य जन्म महाश्चर्यम् इत्य्-आदिना तस्योत्तरम् आह—परीक्षित इति । विलापनं मृत्युम् । यद् वा, लेपेर् ण्यन्ताल् लुटा श्री-भागवत-कथा-वाचनम् इत्य् अर्थः । संस्थां महा-प्रस्थानं कृष्ण-कथानाम् उदयो यत्र तद् यथा स्याद् इति श्री-भागवतस्य तत्रैव तात्पर्यात् ॥१२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ परीक्षितः प्रायोपवेश-श्रवणं कथम् इति तस्य जन्म महाश्चर्याम् [भा।पु। १.४.९] इत्य्-आदिना यद् अन्यच् च पृष्टं तलस्यात्तरम् आह—परीक्षितोऽथेति । विलापनं मरणं, संस्थां महा-प्रस्थानं, कृष्ण-कथामुदयो यत्र तद्-यथा स्यादेवम् इति तत्रैव संहितायास् तात्पर्यात् ॥१२॥
———————————————————————————————————————
॥ १.७.१३ ॥
यदा मृधे कौरव-सृञ्जयानां
वीरेष्व् अथो वीर-गतिं गतेषु ।
वृकोदराविद्ध-गदाभिमर्श-
भग्नोरु-दण्डे धृतराष्ट्र-पुत्रे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र परीक्षितो जन्म निरूपयिष्यन्न् आदौ तावद् गर्भस्य एवाश्वत्थाम्नो ब्रह्मास्त्रात् कृष्णेन रक्षित इति वक्तुं कथां प्रस्तौति—यदेत्यादिना । यदा द्रौणिर् अश्वत्थामा कृष्णा-सुतानां द्रौपदी-पुत्राणां शिरांस्य् उपहरत् तदा तन्-मतारुदत् तां च सान्त्वयान् किरीट-माल्यार्जुन आहेति तृतीयेनान्वयः । किम् इति बालानां शिरांस्य् आनीतवान् इत्य् अपेक्षायाम् आह । मृधे य्द्धे । यद्यपि पाण्डवा अपि कौरवा एव तथापि सृञ्जय-वंशजो धृष्टद्युम्नः पाण्डवानां सेना-पतिर् सृञ्जयानाम् इत्य् उक्तम् । वीर-गतिं स्वर्गम् । अथो अनन्तरम् । वृकोदरेणाविद्धायाः क्षिप्ताया गदाया अभिमर्शेनाभिघातेन भग्नाव् ऊरुदण्डौ यस्य तथा-भूते धृतराष्ट्र-पुत्रे दुर्योधने सति ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र गर्भस्थ एव परीक्षित् श्री-कृष्ण-दर्शनं प्रापेति वक्तुं कथां प्रस्तौति । यदा द्रौणिर् अश्वत्थामा कृष्णा-सुतानां द्रौपदी-पुत्राणां शिरांस्य् उपाहरत्, तदा तन्-माता अरुदद् इति तृतीयेणान्वयः । कौरवाः दुर्योधनाद्याः सृञ्जय-वंश्योद्भवस्य धृष्टद्युम्नस्य पाण्डव-सेनापतित्वात् सृञ्जय-पदेन पाण्डवा लक्ष्यन्ते । वीर-गतिं भीष्मोक्त-युक्त्या मोक्षं स्वर्गं च । वृकोदरेण आविद्धायाः क्षिप्तायाः गदायाः अभिमर्षेण घातेन ॥१३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गर्भ एव परीक्षित् कृष्णम् अपश्यद् इति वक्तुं कथां प्रस्तोति—यदा द्रौणिः, कृष्णा-सूतानां द्रौपदी-पुत्राणां पञ्चानां शिरांस्युपाहरत्, तदा तेषां माता सारुदद् इति तृतीयेन सम्बन्धः । कौरवा दुर्योधनादयः सृञ्जया पाण्डवास् तेषां वीरेषु मृधे युद्धे वीरगतिं स्वर्गं मोक्षं वा गतेषु,
ननु पाण्डवानां सृञ्जयत्वं कथं? सत्यं, धृष्टद्युम्नः सृञ्जयोऽस्त्येषां सेनापतित्वेनेत्यर्श आद्यच् । वृकोदरेण भीमेनाविद्धायाः क्षिप्ताया गदाया अभिमर्शेन पातेन भर्तुर् दुर्योधनस्येत्य् एवं प्रियं स्याद् इति पश्यन् द्रौणिर् वस्तुतस् तस्याप्रियम् एव तत् । आदौ शक्रु-वध-श्रवणेन हर्षोदयात्, अनन्तरस्पर्शेन तद् अवधावगमाच्-छिशु-वधाच् च कुरुवंश-विलोपाद् विषादोदयाच् च स मृत इति तस्याप्रियम् अतो जुगुप्सितम् इति ॥१३॥
———————————————————————————————————————
॥ १.७.१४ ॥
भर्तुः प्रियं द्रौणिर् इति स्म पश्यन्
कृष्णा-सुतानां स्वपतां शिरांसि ।
उपाहरद् विप्रियम् एव तस्य
जुगुप्सितं कर्म विगर्हयन्ति ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **स्वात्मन एव विप्रियं न भर्तुः । प्रयोजनाभावात् विप्रियम् इव च तस्य प्रियम् इति हि प्रस्वापोक्तम् ॥१४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भर्तुर् दुर्योधनस्य । स्मेति वितर्के । इत्य् एवं प्रियं स्याद् इति पश्यन् । तस्य तद् विप्रियम् एवेति वाक्यान्तरम् । विप्रियत्वे हेतुः—जुगुप्सितम् इति ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भर्तुर् दुर्योधनस्य एवं प्रियं स्याद् इति पश्यन्, वस्तुतस् तु तस्य दुर्योधनस्य विप्रियम् एव तत् प्रथमं शत्रु-वध-श्रवणेन हर्षोदयात् पश्चात् स्पर्शेन भीमादीनां स्व-शत्रूणाम् अवध-ज्ञानात् बाल-वधाच् च कुरु-वंश-लोप-श्रवणाच् च विषादोत्पत्तेर् हर्ष-विषादाभ्यां च तन्-मृत्यु-प्राप्तेर् इति भावः । अत एवाह—जुगुप्सितम् इति ॥१४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भर्तुर् दुर्योधनस्येत्य् एवं प्रियं स्याद् इति पश्यन् द्रौणिर् वस्तुतस् तस्याप्रियम् एव तत् । आदौ शत्रु-वध-श्रवणेन हर्षोदयात् अनन्तर-स्पर्शेन तद्-अवधावगमाच् छिशुवधाच् च कुरु-वंश-विलोपाद् विषादोदयाच् च स मृत इति तस्याप्रियम् । अतो जुगुपसितम् इति ॥१४॥
———————————————————————————————————————
॥ १.७.१५ ॥
माता शिशूनां निधनं सुतानां
निशम्य घोरं परितप्यमाना ।
तदारुदद् बाष्प-कलाकुलाक्षी
तां सान्त्वयन्न् आह किरीटमाली ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **स्वप्नोऽयम् ।
पार्थानुयातम् आत्मानं द्रौणिः स्वप्ने ददर्श ह ।
बन्धनं चात्मनस् तत्र द्रौपद्या चैव मोक्षणम् ॥ इति स्कान्दे ।
तस्मान् नैषीकावरोधः ॥१५॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **घोरं दुःसहं यथा भवति । बाष्पस्य कलाभिर् बिन्दुभिर् आकुले अक्षिणी यस्याः । किरीटस्यैकत्वेऽपि तद्-अग्राणां बहुत्वात् किरीट-मालीत्य् उक्तम् ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किरीटाग्राणां बहुत्वात् किरीटस्था माला वा यस्यास्ति स किरीट-माली अर्जुनः ॥१५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **घोरं दुःसहं, किरीटं माला च यस्यास्ति सोऽर्जुनः ॥१५॥
॥ १.७.१६ ॥
तदा शुचस् ते प्रमृजामि भद्रे
यद् ब्रह्म-बन्धोः शिर आततायिनः ।
गाण्डीव-मुक्तैर् विशिखैर् उपाहरे
त्वाक्रम्य यत् स्नास्यसि दग्ध-पुत्रा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शुचः शोकाश्रूणि । प्रमृजामि परिमार्जयामि । यद् यदा ब्रह्म-बन्धोर् ब्राह्मणाधमस्याततायिन इति
अग्नि-दो गर-दश् चैव शस्त्र-पाणिर् धनापहः ।
क्षेत्र-दार-हरश् चैव षड् एते ह्य् आततायिनः ॥
इति स्मरणाद् अत्राततायी शस्त्र-पाणिस् तेन च पुत्र-हन्तृत्वं लक्ष्यते । गाण्डीवाद् धनुषो मुक्तैर् विशिखैर् बाणैर् उपाहरे त्वत्-समीपम् आनयामि । यच् छिर आक्रम्यासनं विधाय । दुग्ध-पुत्रा सती ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शुचः शोकान् यत् यदा ब्रह्म-बन्धोर् ब्राह्मणाधमस्याततायिनः शस्त्र-पाणेः । अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते आततायिन इति स्मरणात् ॥१६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **शुचः शोकान् प्रमृजाम्य् अपनयामि, यद्-यदा ब्रह्म-बन्धोर् विप्राधमस्य आततायिनः शस्त्रपाणेः शिर उपाहरे त्वत् सन्निधिनिम् आनयामि । अग्निदो गरदश्चैव-शस्त्र-पाणिर् धनापहः । क्षेत्र-दारहरश्चैव षडेते आततायैनः इति स्मृतेः । दग्ध-पुत्रा सती त्वं यच्छिर आक्रम्य स्नास्यसि ॥१६॥
॥ १.७.१७ ॥
इति प्रियां वल्गु-विचित्र-जल्पैः
स सान्त्वयित्वाच्युत-मित्र-सूतः ।
अन्वाद्रवद् दंशित उग्र-धन्वा
कपि-ध्वजो गुरु-पुत्रं रथेन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वल्गवो रम्या विचित्रा जल्पा भाषणानि, तैः । सोऽर्जुनः । अच्युत एव मित्रं सूतश् च यस्य । दंशितो बद्ध-कवचः । उग्रं धनुश् चापं यस्य । कपिर् हनुमान् ध्वजे यस्य सः । गुरोः पुत्रं रथेनान्वाद्रवद् अन्वधावत् ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अच्युत एव मित्रं सूतश् च यस्य, स दंशितो बद्ध-कवचः ॥१७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : सोऽर्जुनः, अच्युतो मित्रं सखा सूतः सारथिश् च यस्य सः । दंशितो बद्ध-कवचः कपिर् हनुमान् ध्वजे यस्य ।** अन्वाद्रवत्** अन्वधावत् ॥१७॥
———————————————————————————————————————
॥ १.७.१८ ॥
तम् आपतन्तं स विलक्ष्य दूरात्
कुमार-होद्विग्न-मना रथेन ।
पराद्रवत् प्राण-परीप्सुर् उर्व्यां
यावद्-गमं रुद्र-भयाद् यथा कः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आपतन्तम् आधावन्तम् । स द्रौणिः । कुमार-हा बाल-घाती । उद्विग्न-मनाः कम्पित-हृदयः । प्राण-परीप्सुः प्राणान् लब्धुम् इच्छुर् न तु कीर्तिम् । यावद् गमं यावद् गन्तुं शक्यं तावद् उर्व्यां पराद्रवद् अपलायत । को ब्रह्मा मृगो भूत्वा सुतां यब्धुम् उद्यतः सन् रुद्रस्य भयाद् यथा पलायते स्म । अर्क इति पाठे वामन-पुरान-कथा सूचिता । तथा हि—विद्युन्माली नाम कश्चिद् राक्षसो महेश्वरस् तस्मै रुद्रेण सौवर्णं विमानं दत्तम्, ततोऽसाव् अर्कस्य पृष्ठतो भ्राम्यन् विमान-दीप्त्या रात्रिं विलोपितवान्, ततोऽर्केण निज-तेजोभिर् द्रावयित्वा तद् विमानं पातितम्, तच् छ्रुत्वा कुपिते रुद्रे भयाद् अर्कः पराद्रवत्, ततो रुद्रस्य क्रूर-दृष्ट्या दन्दह्यमानः पतन् वाराणस्यां पतितो लोलार्क-नाम्ना विख्यात इति ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **को ब्रह्मा मृगो भूत्वा सूतां जाभितुम् उद्यतः सन् रुद्रस्य भयात् यथा पलायते स्म । अर्क इति पाठे वामन-पुराण-कथा ज्ञेया । तथा हि—विद्युन्माली राक्षसः शैवः शिव-दत्तेन सौर्वर्णेन विमानेन अर्कस्य पृष्ठतो भ्राम्यन् विमान-दीप्त्या रात्रिं विलोपितवान्, ततः कुपितोऽर्को निज-तेजोभिर् द्रावयित्वा तद् विमानं पातयन् तदैवायातस्य रुद्रस्य भयात् ततः पलायमानः पतन् वाराणस्यां लोलार्को बभूवेति ॥१८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आपतन्तम् आधावन्तं स द्रौणिर् विलक्ष्य दृष्ट्वा उद्विग्नमनः कम्पितहृत्, प्राण-परीप्सुः प्राणन् एव न तु कीर्तिम् आप्तुम् इच्छुः, यावद्गमं यावद्गन्तुं शक्यं तावदुर्व्यां पराद्रवद् अपलायत, यथार्क इति—शैवेन शिवदत्त-स्वर्ण-विमानेन विद्युन्मालिना राक्षसेन स्व-पश्चाद्-भ्रमता रात्रिं विलोपितां वीक्ष्य क्रुद्धोऽर्कस् तद्-विमानं स्वतेजोभिर् द्रवीभावं प्राप्य न्यपातयत् । ततः क्रुद्धाच्छिवाद्-भीतो विद्रवन् स काश्यां पतन् लोलार्कनामा ख्यातोऽभूद् इति वामन-पुराणे प्रसिद्धम् ॥१८॥
———————————————————————————————————————
॥ १.७.१९ ॥
यदाशरणम् आत्मानम् ऐक्षत श्रान्त-वाजिनम् ।
अस्त्रं ब्रह्म-शिरो मेने आत्म-त्राणं द्विजात्मजः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अशरणं रक्ष-रहितम् । ननु पलायनम् एव रक्षकम् अस्ति, न, तस्यापि कुण्ठितत्वाद् इत्य् आह । श्रान्ता वाजिनो यस्य तम् । ब्रह्म-शिरोऽस्त्रं ब्रह्मास्त्रम् । द्विजात्मज इत्य् अदीर्घ-दर्शिताम् आह ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अशरणं रक्षक-रहितम् आत्म-त्राणम् आत्म-रक्षोपायम्, द्विजात्मज इत्य् अदीर्घ-दर्शित्वं सूचितम् ॥१९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यद् आत्मानम् अशरणं रक्षक-शून्यम् ऐक्षत, ननु पलायनं रक्षकमस्तु? तत्राह—श्रान्तेति । तदा ब्रह्म-शिरोऽस्त्रं ब्रह्मास्त्रम् आत्मत्राणं मेने । द्विजात्मज इत्य् अदीर्घदर्शीत्य् अर्थः ॥१९॥
———————————————————————————————————————
॥ १.७.२० ॥
अथोपस्पृश्य सलिलं सन्दधे तत् समाहितः ।
अजानन्न् अपि संहारं प्राण-कृच्छ्र उपस्थिते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् ब्रह्मास्त्रम् । समाहितः कृत-ध्यानः । उपसंहारम् अजानतोऽपि संधने हेतुः—प्राण-कृच्छ्र इति ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **समाहितः कृतध्यानः ॥२०-२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सलिलम् उपस्पृश्य आचम्य समाहितः कृत-ध्यानः ॥२०॥
———————————————————————————————————————
॥ १.७.२१ ॥
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् ।
प्राणापदम् अभिप्रेक्ष्य विष्णुं जिष्णुर् उवाच ह ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततोऽस्त्रात् सर्वतो दिशं प्रादुष्कृतं तेजोऽ भिप्रेक्ष्य ततः प्राणापदं चाभिप्रेक्ष्य ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सर्वतो-दिशम् इति सरवत इत्य् अस्य योगे द्वितीया, दिशम् इति जात्यैकत्वम्, दिशां सर्वत्रेत्य् अर्थः । सार्व-विभक्तिकस् तसिः, सर्वां दिशम् इत्य् अर्थः ॥२१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **जिष्णुर् अर्जुनः ॥२१॥
———————————————————————————————————————
॥ १.७.२२ ॥
अर्जुन उवाच—
कृष्ण कृष्ण महा-बाहो भक्तानाम् अभयङ्कर ।
त्वम् एको दह्यमानानाम् अपवर्गोऽसि संसृतेः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रस्तुतं विज्ञापयितुं प्रथमं स्तौति —कृष्णेति चतुर्भिः । संसृतेर् हेतोर् दह्यमानानां तस्याम् अपवर्गोऽपवर्जयिता । नाशक इत्य् अर्थः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अपवर्गो मोक्ष-रूपोऽसि तेनास्माकं संसृतेर् मोक्षम् अपि दास्यसि, किम् उतास्माद् अग्नेस् त्राण-मात्रम् इति भावः ॥२२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **संसृतेर् हेतोर् देह्यमानानां प्राणिनाम् अपवर्गोऽसि । तथा चास्माद् अस्त्राग्नेस् त्राणं तव कियद् इति भावः ॥२२॥
———————————————————————————————————————
॥ १.७.२३ ॥
त्वम् आद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यतस् त्वम् ईश्वरः साक्षात् । कुतः ? यतः प्रकृतेः परः पुरुषः । तत् कुतः ? यत आद्यः कारणम् । कारणत्वेऽप्य् अविकारिताम् आह । मायां व्युदस्याभिभूय कैवल्य-रूपे आत्मन्य् एव स्थित इति ॥२३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **माया-हेतुकायाः संसृतेर् नाशकत्वेन मायातो विलक्षणां शक्तिं दर्शयति—त्वम् इति । त्वं साक्षात् पुरुषो भगवान् । तथा य ईश्वरोऽन्तर्याम्य्-आख्यः पुरुषः, सोऽपि त्वम् एव । तद् एवम् उभयस्मिन्न् अपि प्रकाशे प्रकृतेः परस् तद्-असङ्गी ।
ननु कथं केवलानुभवानन्दस्यापि तद्-अनुभवित्वं, यतो भगवत्त्वम् अपि लक्ष्यते ? कथं चेश्वरत्वात् प्रकृत्य्-अधिष्ठातृत्वेऽपि तद्-असङ्गित्वम् ? तत्राह—मायां व्युदस्य इति । अव्यभिचारिण्या स्वरूप-शक्त्या ताम् आभास-शक्तिं दूरे विधाय तथैव स्वरूप-शक्त्या कैवल्ये—-
परावराणां परम आस्ते कैवल्य-सञ्ज्ञितः ।
केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥ [भा।पु। ११.९.१८]
इत्य् एकादशोक्त-रीत्या कैवल्याख्ये केवलानुभवानन्दे आत्मनि स्व-स्वरूपे स्थितः अनुभूत-स्वरूप-सुख इत्य् अर्थः । तद् उक्तं षष्ठे देवैर् अपि—स्वयम् उपलब्ध-निज-सुखानुभवो भवान् [भा।पु। ६.९.३३] इति । सन्दोह-शब्देन चैकादशे वैचित्री दर्शिता, सा च शक्ति-वैचित्र्याद् एव भवतीति । अत एवम् अस्त्य् एव स्वरूप-शक्तिः ।
प्रकृतिर् नामात्र मायायास् त्रैगुण्यम् । एवम् एव शक्ति-त्रय-विवृतिः स्वामिभिर् एव दर्शिता । तथा हि श्री-देवहूति-वाक्ये—
परं प्रधानं पुरुषं महान्तं
कालं कविं त्रि-वृतं लोक-पालम् ।
आत्मानुभूत्यानुगत-प्रपञ्चं
स्वच्छन्द-शक्तिं कपिलं प्रपद्ये ॥ [भा।पु। ३.२४.३३] इत्य् अत्र ।
परं परमेश्वरम् । तत्र हेतुः—स्वच्छन्दाः शक्तयो यस्य । ता एवाह—प्रधानं प्रकृति-रूपम्, पुरुषं तद्-अधिष्ठातारम्, महान्तं महत्-तत्त्व-स्वरूपम्, कालं तेषां क्षोभकम्, त्रिवृतम् अहङ्कार-भूतम्, लोकात्मकं तत्-पालात्मकं च । तद् एवं मायया प्रधानादि-रूपताम् उक्त्वा चिच्-छक्त्या निष्प्रपञ्चताम् आह—आत्मानुभूत्या चिच्-छक्त्यानुगतः स्वस्मिन् लीनः प्रपञ्चो यस्य तम् । कविं सर्वज्ञं प्रधानाद्य्-आविर्भाव-साक्षिणम् इत्य् अर्थः इति6 ।
तत्र पुरुषस्यापि मायान्तः-पातित्वं तद्-अधिष्ठातृतयोपचर्यत एव । वस्तुतस् तस्य तु तस्याः परत्वम् । तथा श्री-कपिल-देव-वाक्ये—
अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः ।
प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् ॥ [भा।पु। ३.२६.३] इति ।
त्रि-शक्ति-निरूपणे विशेष-जिज्ञासा चेत् श्री-भगवत्-सन्दर्भो दृश्यः ।
अथवा त्वम् आद्य इत्य्-आदि मूल-पद्यम् एवम् अवतार्यम्—श्री-वैकुण्ठे मायं निषेधन्न् अपि साक्षात् ताम् एवाह—त्वम् आद्य इति । कैवल्ये मोक्षाख्ये श्री-वैकुण्ठ-लक्षणे आत्मनि स्वांश एव स्थितः । किं कृत्वा ? तत्राति-विराजमानया चिच्-छक्त्या मायां दूरे स्थिताम् अपि तिरस्कृत्यैव । मतं चैतम्मायादिकं निषेधता श्री-शुकदेवेन ।
प्रवर्तते यत्र रजस् तमस् तयोः
सत्त्वं च मिश्रं न च काल-विक्रमः ।
न यत्र माया किम् उतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥ [भा।पु। २.९.१०] इति ।
मोक्सं परं पदं लिङ्गम् अमृतं विष्णु-मन्दिरम् । इति पाद्मोत्तर-खण्डे वैकुण्ठ-पर्याय-शब्दाः ॥२३॥ [भगवत्-सन्दर्भः १९]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु त्वन्-मातुलेयोऽहं त्वत्-सम एव मैवं वादीर् इत्य् आह त्वम् इति । ननु त्वं प्रकृतेः पर इति किं प्रकृति-शब्देनाविद्यां मायां वा श्रूषे तत्राह— त्वम् इति । चिच्-छक्त्या स्वरूप-भूतया शक्त्या सुभगया पट्ट-महिष्य् एव मायां विद्याविद्येति वृत्ति-द्वयवतीं दुर्भगाम् इव स्व-शक्तित्वात् प्राप्तां व्युदस्य दूरीकृत्य तया शक्त्या सहित एव त्वम् आत्मनि स्व-चिन्मय-स्वरूपे स्थितः ।
ननु चिच्-छक्त्येत्य् अस्याः कारणत्वेन मत्तो भिन्नतया स्थितत्वं कथं ममात्मनि स्थितत्वम् इत्य् अत आह—कैवल्य इति । केवलस्य भावः कैवल्यम् । अस्मिन् इति तया सहितत्वेऽपि तव कैवल्यम् एव तस्याः स्वरूप-शक्तित्वात् तस्मिंश् च सति त्वम् आत्मनि स्थितो वस्तुत एवेति भावः । अतः स्वरूप-भूता चिच्-छक्तिः सा त्वत्तः सदा अभिन्नैव त्वद्-देहेन्द्रिय-परिकरादि-रूपेण तिष्ठति परास्य शक्तिर् बहुधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रियाच [श्वेत्।उ। ६.८] इति श्रुतेः । माया छायैव त्वत्-स्वरूपत्वात् ज्ञानाज्ञान-गुण-मय-जगद्-रूपेण वर्तत इति त्वत्तो भेद एव तस्या मायायास् त्वच्-छक्तित्वात् क्वचिद् अभेदोऽपीति भिन्नाभिन्न-रूपा सा शक्तिर् इत्य् अर्थः । मायैव शक्तिर् एका नान्येति मतं परास्तम् एव ॥२३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु कथम् अपवर्गदोऽहं? तत्राह—त्वम् इति । आद्योऽनादिः साक्षाद् ईश्वरः स्वत-ःसिद्ध-षडैश्वर्यः स्वयं भगवानित्य् अर्थः । प्रकृतेर् मायायाः परस्तयास्पृष्टः । ननु कथन्तस्याः परोऽहं? तत्राह—चिच्छक्त्या परास्य शक्तिः [श्वे।उ। ६.८] इति श्रुतया मायां व्युदस्य निरस्येति । कैवल्ये इति स्वार्थे ष्यञ् । विशुद्धे आत्मनि स्वस्वरूपे स्थित इति तस्याः परस्त्वम्, अतोऽपवर्गद इत्य् अर्थः ॥२३॥
———————————————————————————————————————
॥ १.७.२४ ॥
स एव जीव-लोकस्य माया-मोहित-चेतसः ।
विधत्से स्वेन वीर्येण श्रेयो धर्मादि-लक्षणम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्रि-वर्ग-दातापि त्वम् एवेत्य् आह—स इति । यस् त्वं मायाम् अभिभूय स्थितः स एव मायाम् अभिभूतस्य जनस्य धर्मादि-फलम् उपासितः सन्विधत्से । वीर्येण प्रभावेण ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स एव कैवल्ये स्थित एव ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **त्रिवर्गदोऽपि त्वम् इत्य् आह—स एव मायां व्युदस्य विशुद्धे स्वात्मनि स्थित एव माया-भिभूतस्य जीव-लोकस्याश्रितः सन् स्व-वीर्येण निज-प्रभावेन धर्मादि विधत्से ॥२४॥
———————————————————————————————————————
॥ १.७.२५ ॥
तथायं चावतारस् ते भुवो भार-जिहीर्षया ।
स्वानां चानन्य-भावानाम् अनुध्यानाय चासकृत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तथा चानेनावतारेण तव साधु-पक्ष-पातो लक्ष्यत इत्य् आह—तथेति । किं भू-भर-हरणं मद्-इच्छा-मात्रेण न भवति ? तत्राह—स्वानां ज्ञातीनम् अनुध्यानाय च । तथानन्य-भावानाम् एकान्त-भक्तानां च ॥२५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यथान्ये पुरुषादयोऽवतारास् तथायम् अवतारः साक्षाद्-भगवतः श्री-कृष्णाख्यस्य तवैव प्राकट्यम्, परम-भक्ताया भुवो भार-जिहीर्षया जातोऽप्य् अन्येषां स्वानां भक्तानाम् असकृच् च मुहुर् अनुध्यानाय निज-भजन-सौख्याय भवति ॥२५॥ [भगवत्-सन्दर्भ ४९]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तथा तेनैव प्रकारेण तव व्युदस्त-मायः स्व-चिन्-मय-स्वरूपेण अयम् अवतारः प्रापञ्चिक-लोके प्राकट्यम् ॥२५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तथा तेनैव प्रकारेण व्युदस्तमायेन केवलेन स्वरूपेण तवायम् अवतारः । स्वानां ज्ञातीनां पार्षदानामनन्य-भावानं केषाञ्चित् साधकानाञ् चानुध्यानाय, भू-भारापहारस् तु सङ्कल्पेनैव स्याद् इति भावः ॥२५॥
———————————————————————————————————————
॥ १.७.२६ ॥
किम् इदं स्वित् कुतो वेति देव-देव न वेद्म्य् अहम् ।
सर्वतो मुखम् आयाति तेजः परम-दारुणम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं स्तुत्वा प्रस्तुतं विज्ञापयति—किम् इति । किम् आत्मकम् इदं कुतो वा आयातीति । स्विद् वितर्के ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं स्तुत्वा प्रस्तुतं विज्ञापयति किम् इदम् इति ॥२६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवं स्तुत्वा प्रस्तुतं निवेदयति—किम् इदम् इति । स्विद्वितर्के, कुतोवायाति ॥२६॥
———————————————————————————————————————
**॥ १.७.२७ ॥ **
श्री-भगवान् उवाच—
वेत्थेदं द्रोण-पुत्रस्य ब्राह्मम् अस्त्रं प्रदर्शितम् ।
नैवासौ वेद संहारं प्राण-बाध उपस्थिते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रोण-पुत्रस्य ब्राह्मम् अस्त्रम् । तेन च प्राण-बाधे प्राप्ते प्रदर्शितं केवलम्, न तत्-प्रयोगे कुशल इत्य् अर्थः, यतोऽसाव् उपसंहारं न वेद । एतच् च त्वं तु वेत्थ जानासि ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रदर्शितम् इति । दृष्ट्वैव किं न परिचिनोषि ? किं मां पृच्छसि ? इति भावः । संहारम् अस्योपसंहारं न वेद । तर्हि कथम् एतत् प्रयुक्तवान् ? इत्य् अत आह—प्राण-बाध इति ॥२७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) **: उपसंहारं चेन् न वेद, तत् कथं प्रयुक्तवान्? तत्राह—प्राण- इति ॥२७॥
———————————————————————————————————————
॥ १.७.२८ ॥
न ह्य् अस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्शनम् ।
जह्य् अस्त्र-तेज उन्नद्धम् अस्त्र-ज्ञो ह्य् अस्त्र-तेजसा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रत्यवकर्शनं कृशत्व-करम्, निवर्तकम् इत्य् अर्थः । अतस् तद् अस्त्र-तेज उन्नद्धम् उत्कटं ब्रह्मास्त्र-तेजसैव जहि घातय । त्वत्-प्रयुक्तं चास्त्रं तद् उपसंहृत्य स्वयम् उपशाम्येत् । यतस् त्वम् अस्त्र-ज्ञोऽसि ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तर्हि वारुणास्त्रादिना वह्निम् उपशमानीति चेत् तत्राह—न ह्य् अस्येति । प्रत्यवकर्शनं निवर्तकम् । तस्मात् त्वम् अस्त्र-तेजसा स्व-प्रयुक्त-ब्रह्मास्त्र-तेजसैव ब्रह्मास्त्र-तेजो जहि यतो अस्त्रज्ञोऽसि ॥२८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तर्हि वारुणास्त्रेण वह्निम् एतम् उपशमयेयं? तत्राह—न हीति । अन्यतमम् आग्नेयादि, प्रत्य् अवकर्यणं निवर्तकं, तस्माद् अस्त्र-तेजसा ब्रह्मास्त्रेणैवेन्नद्धं वृद्धं ब्रह्मास्त्रतेजो जहि नाशय । त्वद् अस्त्रं तद् उपसंहृत्य स्वयं शाम्येत्, हि यतस् त्वम् अस्त्रज्ञोऽसि ॥२८॥
———————————————————————————————————————
॥ १.७.२९ ॥
सूत उवाच—
श्रुत्वा भगवता प्रोक्तं फाल्गुनः पर-वीर-हा ।
स्पृष्ट्वापस् तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परे शत्रवस् त एव वीरास् तान् हन्तीति तथा-विधः फाल्गुनोऽर्जुनोऽपः स्पृष्ट्वाचम्य तं श्री-कृष्णं परिक्रम्य प्रदक्षिणी-कृत्य । ब्रामाय ब्रह्मास्त्रं निवर्तयितुम् ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तं श्री-कृष्णं ब्राह्माय ब्रह्मास्त्रं निवर्तयितुम् ॥२९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अपः स्पृष्ट्वाचम्य, तं कृष्णम् ॥२९॥
———————————————————————————————————————
॥ १.७.३० ॥
संहत्यान्योन्यम् उभयोस् तेजसी शर-संवृते ।
आवृत्य रोदसी खं च ववृधातेऽर्क-वह्निवत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततश् चोभयोर् ब्रह्मास्त्रयोर् तेजसी शरैः संवेषिते परस्परं मिलित्वा ववृधाते अवर्धेताम् । किं कृत्वा । रोदसी द्यावापृथिव्यौ खम् अन्तरीक्षं चावृत्य । यथा प्रलये सङ्कर्षण-मुखाग्निर् उपरिस्थितोऽर्कश् च संहत्य वर्धेते तद्वत् ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उभयोर् ब्रह्मास्त्रयोर् तेजसी शरैः संवृते संवेषिते परस्परं मिलित्वा ववृधाते रोदसी द्यावापृथिव्यौ यथा प्रलये सङ्कर्षण-मुखाग्निर् उपरिस्थितोऽर्कश् च ताव् इव ॥३०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उभयोर् ब्रह्मास्त्रयोस् तेजसी अन्योन्यं संहत्य मिलित्वा ववृधाते कीदृशे? शरैः संवृते वेष्टिते । किं कृत्वेत्य् आह—रोदसी द्यावाभूमी खञ् चाकाशम् आवृत्य पूरयित्वा, यथा प्रलये पातालाद् उत्थितः सङ्कर्षण-मुखाग्नि-रुपरि स्थितोऽर्कश् च मिथः संहत्य वर्धते तद्वत् ॥३०॥
———————————————————————————————————————
॥ १.७.३१ ॥
दृष्ट्वास्त्र-तेजस् तु तयोस् त्रील् लोकान् प्रदहन् महत् ।
दह्यमानाः प्रजाः सर्वाः सांवर्तकम् अमंसत ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तयोर् द्रौणि-फाल्गुनयोः । तेन दह्यमानाः सांवर्तकं प्रलयाग्निम् अमण्सत मेनिरे ॥३१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **दृष्ट्वेति । प्रदहद्-दग्धुम् आरभमाणम् । दह्यमाना दग्धुम् आरभ्यमाणाः । वर्तमान-सामीप्ये वर्तमानवद् वा [पा। ३.३.१३१] इति पाणिनि-स्मृतेः ॥३१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तयोर् द्रौण्य्-अर्जुनयोः । सांवर्तकं प्रलयाग्निम् ॥३१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उभयोर् द्रौणि-फाल्गुनयोः सांवर्तकं प्रलयाग्निं संवर्तः प्रलयः कल्पः इत्य् अमरः ॥३१॥
———————————————————————————————————————
॥ १.७.३२ ॥
प्रजोपद्रवम् आलक्ष्य लोक-व्यतिकरं च तम् ।
मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **लोकानां व्यतिकरं व्यत्ययं नाशम् इत्य् अर्थः । वासुदेवस्य मतं चालक्ष्य ब्रह्मास्त्र-द्वयम् उपसंहृतवान् ॥३२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मतं चेति । प्रथमं श्री-भगवतास्त्र-प्रतिघातन-मात्रं समादिष्टम्, न तु संहरणम् । तच् च नूनं परास्त्रं न संहर्तुं शक्यम् इति स्व-शस्त्रेणैक्यं विधाय संहरणाभिप्रायेण । तत् तु तद्-आज्ञा-मात्रेण कृत्वापि पश्चात् प्रत्युत ताभ्यां वृद्धाभ्याम् उपद्रवे सति स्थगितायमानम् अर्जुनं प्रति संहारोऽनुमत इति भावः ॥३२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **लोकानां भूर् आदीनां व्यतिकरं नाशम् ॥३२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **लोकानां व्यतिकरं नाशम् ॥३२॥
———————————————————————————————————————
॥ १.७.३३ ॥
तत आसाद्य तरसा दारुणं गौतमी-सुतम् ।
बबन्धामर्ष-ताम्राक्षः पशुं रशनया यथा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गौतम-वम्श-जा गौतमी कृपी तस्याः सुतम् । अमर्षेण कोपेन ताम्रे अक्षिणी यस्य सः । निष्कृपत्वे दृष्टान्तः—पशुं यथेति । तस्य बन्धनं धर्म इत्य् अत्र दृष्टान्तः—यथा याज्ञिकः पशुम् इति । रशनया रज्ज्वा ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गौतम-वम्श-जा गौतमी कृपी तस्याः सुतम् ॥३३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गोतम-वंशोद्भवा गौतमी कृपी तस्याः सुतम् अश्वत्थामानं, तद्-बन्धनस्य धर्मत्वे दृष्टान्तः—याज्ञिको यथा यज्ञियं पशुं रसनया वध्नाति तद्वत् ॥३३॥
———————————————————————————————————————
॥ १.७.३४ ॥
शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।
प्राहार्जुनं प्रकुपितो भगवान् अम्बुजेक्षणः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शोक-रोषादि-युक्तस्याप्य् अर्जुनस्य धर्म-निष्ठाख्यापनाय श्री-कृष्ण-वाक्यम् । तद् आह षड्भिः । शिबिराय राज-निवेशाय नेतुम् इच्छन्तम् । प्रकुपित इवेति ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शोक-रोषादि-युक्तस्याप्य् अर्जुनस्य लोके धर्म-निष्ठा-ख्यापनाय प्रकर्षेणाह पञ्च-श्लोकीम् अरुणेक्षण इत्य् अनुक्त्वा अम्बुजेक्षण इत्य् उक्ते बहिर् एव प्रकुपित इति गम्यते ॥३४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **शोक-रोषादि-युक्तस्याप्य् अर्जुनस्य धर्मिष्ठता-ख्यातये भगवद्-वचनं तद् आह—शिविरायेत्य् आदिभिः । शिविराय राजनिवेशाय प्रकुपितः प्रकाशित-कोप-मुद्रः । अरोषणो ह्य् असौ देवः इति नारायणीयात् [शान्ति।पर्व। ३३६.१९] एतद्-व्यञ्जयन्ति—अम्बुजेक्षण इति ॥३४॥
———————————————————————————————————————
॥ १.७.३५ ॥
मैनं पार्थार्हसि त्रातुं ब्रह्म-बन्धुम् इमं जहि ।
योऽसाव् अनागसः सुप्तान् अवधीन् निशि बालकान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यथा जीवस्य जन्मादि माया एवम् ईश्वरस्यापि जन्मादि मायेत्य् आह—एवम् इति । अकर्तुः कर्माणि । अजनस्य जन्मानि । हृत्-पतेर् अन्तर्यामिणः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ब्रह्म-बन्धुं विप्राधमम् । अनागसोऽनपराधात् ॥३५॥
———————————————————————————————————————
॥ १.७.३६ ॥
मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् ।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्म-वित् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रिपोर् अपि सुप्तस्य बालस्य च वधो न धर्म इत्य् अन्यार्थैर् दर्शयति—मत्तम् इति । मत्तं मद्यादिना । प्रमत्तम् अनवहितम् । उन्मत्तं ग्रह-वातादिना । जडम् अनुद्यमम् । प्रपन्नं शरणागतम् । विरथं भग्न-रथम् ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मत्तं मद्यादिना । प्रमत्तम् अनवहितम् । उन्मत्तं ग्रह-वातादिना ॥३६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मत्त-मासवेन, प्रमत्तम् अनवधानम्, उन्मत्तं ग्रह-वातादिना विक्षिप्तं, जडम् उद्यम-शून्यं, प्रपन्नं शरणागतं, विरथं भग्नरथम् ॥३६॥
———————————————————————————————————————
॥ १.७.३७ ॥
स्व-प्राणान् यः पर-प्राणैः प्रपुष्णात्य् अघृणः खलः ।
तद्-वधस् तस्य हि श्रेयो यद्-दोषाद् यात्य् अधः पुमान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-वधो दण्ड-रूपस् तस्यैव श्रेयः पुरुषार्थः । यद् यतो दण्ड-प्रायश्चित्त-रहिताद् दोषात् स पुमान् अधो यातीति । तथा च स्मरन्ति—
राजभिर् धृत-दण्डस् तु कृत्वा पापानि मानवाः ।
विधूत-कल्मषा यान्ति स्वर्गं सुकृतिनो यथा ॥ इति ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-वधो दण्ड-रूपस् तस्यैव श्रेयः । तथा च स्मरन्ति—
राजभिर् धृत-दण्डस् तु कृत्वा पापानि मानवाः ।
विधूत-कल्मषा यान्ति स्वर्गं सुकृतिनो यथा ॥ इति ।
अन्यथा यद् यतो दोषात् ॥३७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अघृणो निर्दयः तस्य वधस्तस्य श्रेयः प्रायश् चित्त-रूपत्वात् । राजभिर् धृत दण्डास् तु कृत्वा पापानि मानवाः! विधूत-कल्मषा यान्ति स्वर्गं सुकृतिनो यथा इति स्मरणात् । यतोऽकृत-प्रायश्चितान्दोषात् पुमानधो याति ॥३७॥
———————————————————————————————————————
॥ १.७.३८ ॥
प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम ।
आहरिष्ये शिरस् तस्य यस् ते मानिनि पुत्र-हा ॥
तद् असौ वध्यतां पाप आतताय्य् आत्म-बन्धु-हा ।
भर्तुश् च विप्रियं वीर कृतवान् कुल-पांसनः ॥
न कतमे_न व्याख्यातम्।_
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रतिश्रुतं प्रतिज्ञातम् ॥३८॥
भर्तुर् दुर्योधनस्य ॥३९॥
———————————————————————————————————————
॥ १.७.४० ॥
सूत उवाच—
एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः ।
नैच्छद् धन्तुं गुरु-सुतं यद्यप्य् आत्म-हनं महान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद्य् अपि चोदितस् तथापि हन्तुं नैच्छत् । आत्म-हनं पुत्र-हन्तारम् अपि । यतो महान् ॥४० ॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्मं परीक्षमाणेन यद्यपि चोदितः तथापि हन्तुं नैच्छत् । आत्म-हनं पुत्र-हन्तारम् अपि । यतो महान् कृष्णस्य स्वभावाभिज्ञः । तस्य चायं स्वभावः स्वयं सर्वज्ञोऽपि धर्मादि-निष्ठा-ख्यापनाय तद्वतो भक्तान् परीक्षत इति तत्र मैनं पार्थार्हसि त्रातुं [भा।पु। १.७.३५] इत्य्-आदिना वीर-रौद्र-रसं प्रदर्श्य धर्मवन्तम् अर्जुनं यथा परीक्षते स्म तथा भर्तुः शुश्रूषणं स्त्रीणां परो धर्म [भा।पु। १०.२९.२४] इत्य्-आदिना भवतीनां वियोगो मे नहि सर्वात्मना क्वचित् [भा।पु। १०.४७.२९] इत्य्-आदिना, अहं हि सर्व-भूतानाम् आदिर् अन्तोऽन्तरं बहिर् [भा।पु। १०.८२.४५] इत्य्-आदिना च कर्म-ज्ञान-योगौ प्रदर्श्य प्रेमवतीर् गोपीः ।
वरं च यत् कञ्चन मानवेन्द्र वृणीष्व [भा।पु। ४.२०.१६] इत्य्-आदिना वरं वृणीष्व भद्रं ते काम-पुरोऽस्म्य् अहम् इत्य्-आदिना च भौगेश्वरादीन् प्रदर्श्य भक्तिमतः पृथु-ग्रहलादादीन् दीयमानं न गृह्णन्तीत्य् आदिना अन्यान् अपि भक्तान् पोअरिक्षां चकारैवेति तदीय-सिद्ध-भक्ता अपि तथा परीक्षन्ते । तथा हि शुक एवं षष्ठ-स्कन्धे पाप-निस्तारार्थः पृष्टः प्रायश्चित्त-मात्रम् उक्त्वा परीक्षितः सिद्धान्ताभिज्ञतां नवमे श्री-कृष्ण-लीलां सङ्क्षेपेणोक्त्वा लीलौत्सुक्यं द्वादशे ब्रह्म-ज्ञानम् उपक्षिप्य भक्ति-निष्ठां परीक्षां चक्रे इति । न तत्र तत्र स्पष्टेऽर्थे तात्पर्यम् ॥४०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आत्महनं पुत्र-हस्तारम् अपि, यतो महान् विप्रस्य देह-दण्ड-निषेधादयं मां परीक्षत एवेति भगवन्-मताभिज्ञ इत्य् अर्थः ॥४०॥
———————————————————————————————————————
॥ १.७.४१ ॥
अथोपेत्य स्व-शिबिरं गोविन्द-प्रिय-सारथिः ।
न्यवेदयत् तं प्रियायै शोचन्त्या आत्म-जान् हतान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गोविन्दः प्रियः सारथिर् यस्य सः । आत्मजान् शोचन्त्यै ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न्यवेदयत् अयं ते पुत्र-हन्ता आनीत इत्य् उक्तवान् ॥४१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **न्यवेदयदानीतो ऽयं त्वत्-पुत्र-हन्तेत्य् उक्तवान् ॥४१॥
———————————————————————————————————————
॥ १.७.४२ ॥
तथाहृतं पशुवत् पाश-बद्धम्
अवाङ्-मुखं कर्म-जुगुप्सितेन ।
निरीक्ष्य कृष्णापकृतं गुरोः सुतं
वाम-स्वभावा कृपया ननाम च ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तथा परिभावेनाहृतम् आनीतम् । कर्मणो जुगुप्सितेन दोषेणावाङ्-मुखम् अधो-वदनम् । अपकृतम् अपकारिणम् । कृपया निरीक्ष्य । वामः शोभनः स्वभावो यस्यः सा ॥४२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथाहृतम् इति युग्मकम् । अपकृतम् इति क्विब्-अन्तम् ॥४२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तथा तेन प्रकारेण आहृतम् आनीतम् । कर्म-जुगुप्सितेन कर्मणो जुगुप्सया अपकृतम् इति क्विब्-अन्तम् अपकारिणम् । कृपया निरीक्ष्य । वामः शोभनः । ननाम च ॥४२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अपकृतम् अपकारिणम् अपि कृपया निरीक्ष्य वाम-स्वभावा मनोज्ञ-लीला कृष्णा द्रौपदी ननाम च ॥४२॥
———————————————————————————————————————
॥ १.७.४३ ॥
उवाच चासहन्त्य् अस्य बन्धनानयनं सती ।
मुच्यतां मुच्यताम् एष ब्राह्मणो नितरां गुरुः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननाम चोवाच चेति च-काराभ्यां सम्भ्रमः सूचितः । बन्धनेनानयनम् असहमाना ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उवाच चेति च-काराभ्यां सम्भ्रमः सूचितः । सती तद्-बन्धनासहत्वाद् इयं भगवता धार्मिकत्वे परिक्षिताद् अर्जुनाद् अपि साधुत्ववतीत्य् अर्थः ॥४३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननाम चोवाच चेति चाभ्यां सम्भ्रमः सूच्यते । सती तद्-बन्धनासहनाद् अर्जुनाद् अपि शोभनेत्य् अर्थः ॥४३॥
———————————————————————————————————————
॥ १.७.४४-४५ ॥
स-रहस्यो धनुर् वेदः स-विसर्गोपसंयमः ।
अस्त्र-ग्रामश् च भवता शिक्षितो यद्-अनुग्रहात् ॥
स एष भगवान् द्रोणः प्रजा-रूपेण वर्तते ।
तस्यात्मनोऽर्धं पत्न्य् आस्ते नान्वगाद् वीरसूः कृपी ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स-रहस्यो गोप्य-मन्त्र-सहितः । विसर्गोऽस्त्र-प्रयोगः उपसंयम उपसंहारः ताभ्यां सहितोऽस्त्र-समूहश् च ॥४४॥
कीं च तस्य द्रोणस्यात्मा देहस् तस्यार्धं कृप्य् आस्ते । अर्हद्त्वे हेतुः—पत्नी । अर्धो वा एष आत्मनो यत्-पत्नी इति श्रुतेः । जायापत्य् अग्निम् आदधीयता इति श्रुतेर् उभयोर् एकाकारत्वावगमाच् च । ननु भर्तरि मृते सा कथं जीवति तत्राःअ—नान्वगाद् भर्तारम् । यतो वीर-सूः पुत्रवती ॥४५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स-रहस्यम् इति युग्मकम् ॥४४-४५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स-रहस्यो गोप्य-मन्त्र-सहितः । विसर्गोपसंहाराभ्यां सहित इति यदि ब्रह्मास्त्रस्य विसर्गोपसम्ञमाव् एतत् पितुः सकाशान् नाज्ञास्यस् तदा कथम् इमं वध्वा त्वम् आनेष्यैत्य् अकृतज्ञता ध्वनिता ॥४४॥
प्रजा-रूपेण आत्मा वै जायते पुत्रः इति न्यायेन आत्मनो देहस्यार्धं कृपी पत्नी अर्धो वा एष आत्मनो यत्-पत्नी इति श्रुतेः । अत एव भर्तारं नान्वगात् यतो वीर-सूः ॥४५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सरहस्यो गोप्य-मन्त्र-सहितः । विसर्गेणोपसंयमेनोपसंहारेण च सहितः ॥४४॥ \
\
प्रजा-रूपेणेति—आत्मा वै जायते पुत्रः इत्य् उक्तेः । आत्मननो देहस्यार्द्धं पत्नी कृपी आस्ते वर्तते । अर्द्धो वा एष आत्मनो यत्-पत्नी इति श्रुतेः । भर्तारं नान्वगात्, यतो वीरसूः ॥४५॥
———————————————————————————————————————
॥ १.७.४६ ॥
तद् धर्मज्ञ महा-भाग भवद्भिर् गौरवं कुलम् ।
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यम् अभीक्ष्णशः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् तस्मात् गौरवं गुरोः कुलं भवद्भिः कर्तृभिर् वृजिनं दुःखं प्राप्तुं नार्हति । किं तु पूज्यं वन्द्यं च ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गौरवं गुरोः सम्बन्धि कुलं कर्तृ । भवद्भिः करणैर् वृजिनं दुःखं प्राप्तुं नार्हति । यतः पूज्यम् इति ॥४६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गौरवं गुरोः सम्बन्धि कुलं कर्तृ, भवद्भिर् हेतुभिः वृजिनं दुःखं प्राप्तुं नार्हति, यतः पूज्यम् इति । यस्मात् कृत्स्नो धनुर् वेदः प्राप्तस् तूद्भतस्य तत्-पुत्रस्य परिभवात्तराकृतज्ञता भाविनीति भावः ॥४६॥
———————————————————————————————————————
॥ १.७.४७ ॥
मा रोदीद् अस्य जननी गौतमी पति-देवता ।
यथाहं मृत-वत्सार्ता रोदिम्य् अश्रु-मुखी मुहुः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मृतवत्सा मृत-पुत्रा ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मा रोदीद् मा रोदितु ॥४७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मारोदीन्न् अरोदितु ॥४७॥
———————————————————————————————————————
॥ १.७.४८ ॥
यैः कोपितं ब्रह्म-कुलं राजन्यैर् अजितात्मभिः ।
तत् कुलं प्रदहत्य् आशु सानुबन्धं शुचार्पितम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विपक्षे दोषम् आह—यैर् इति । तेषां राजन्यानां कुलं कर्म । कथं-भूतम् ? सानुबन्धं स-परिवारम् । शुचा शोकेनार्पितं व्याप्तं च । ब्रह्म-कुलं कर्तृ । प्रदहति ॥४८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यैर् इति । शुचा शोकेनार्पितं ः स्वस्मिन् प्रापितं व्याप्तम् इत्य् अर्थः । यद् वा, शुचा शुक् तस्याम् अर्पितं निमज्जितम् । तया व्याप्तम् इत्य् अर्थः ॥४८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सानुबन्धं स-परिवारं शुचार्पितं शुचेत्य् अस्य टाब्-अन्तत्वात् शुचायाम् अर्पितं शोक-व्याप्तं तत्-कुलं कर्म प्रदहति । ब्रह्म-कुलम् एव कर्तृ ॥४८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ब्रह्ह्म-कुलं कर्तृ, तत्-कुलं कोपयैतृ राजन्य-कुलं कर्मभूतं प्रदहति नाशयति । शुचायां शोकेऽर्पितं शोक-व्याप्तं सानुबन्धं स-परिवारम् ॥४८॥
———————————————————————————————————————
॥ १.७.४९ ॥
सूत उवाच—
धर्म्यं न्याय्यं स-करुणं निर्व्यलीकं समं महत् ।
राजा धर्म-सुतो राज्ञ्याः प्रत्यनन्दद् वचो द्विजाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धर्म्यम् इत्य्-आदयो वचसः षड्-गुणाः पूर्व-श्लोक-षट्के द्रष्टव्याः । तत्र धर्म्यं धर्माद् अनपेतं मुच्यतां मुच्यताम् इति । न्याय्यं न्यायाद् अनपेतं स-रहस्य इत्य्-आदि । स-करुणं तस्यात्ममोऽर्धम् इति । निर्व्यलीकं तत् धर्मज्ञेति । समं मा रोदसीति । दुःख-साम्योक्तेः । महत् यैः कोपितम् इति निष्टुरोक्त्या हितोपदेशात् । एवं-भूतं राज्ञ्या वचो हे द्विजाः, राजा प्रत्यनन्दद् अनुमोदितवान् ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्म्यम् इत्य्-आदि-वचसः षड्-गुणाः पूर्व-श्लोक-षट्कैर् द्रष्टव्याः । तत्र धर्म्यं धर्माद् अनपेतं मुच्यतां मुच्यताम् इति । न्याय्यं न्यायाद् अनपेतं स-रहस्य इत्य्-आदि । स-करुणं तस्यात्मनोऽर्धम् इति । निर्व्यलीकं तद्-धर्मज्ञेति । समं मा रोदीद् इति दुःख-साम्योक्तेः । महत् यैः कोपितम् इति निष्ठुरोक्त्या हितोपदेशात् ॥४९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **धर्म्यम् इत्य् आदयो वचसः षड्-गुणाः पूर्वोक्तेषु षट्सु पद्येषु बोध्याः । धर्म्यं मुच्यताम् इत्य् आदौ, न्यायं सरहस्यम् इत्य् आदौ, सकरुणं तस्यात्मनोऽर्धम् इत्य् आदौ, निर्व्यलीकं तद्-धर्मज्ञेत्य्-आदौ, समं मारोदीदित्य्-आदौ दुःख-तौल्य-वचनात्, महत् यैर् इत्य्-आदौ निष्ठुरोक्त्या हित-शंसनात् ॥४९॥
———————————————————————————————————————
॥ १.७.५० ॥
नकुलः सहदेवश् च युयुधानो धनञ्जयः ।
भगवान् देवकी-पुत्रो ये चान्ये याश् च योषितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नकुलादयश् च प्रत्यनन्दन् । युयुधानः सात्यकिः ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नकुलादयोऽपि तद्-वचः प्रत्यनन्दन्, युयुधानः सात्यकिः ॥५०॥
———————————————————————————————————————
॥ १.७.५१ ॥
तत्राहामर्षितो भीमस् तस्य श्रेयान् वधः स्मृतः ।
न भर्तुर् नात्मनश् चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य तथा-विधस्य द्रौणेर् वध एव श्रेष्ठः । अन्यथास्य नरक-पात-प्रसङ्गात् । तद् आह—न भर्तुर् । अहन् जघान ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्य द्रौणेः ॥५१॥
———————————————————————————————————————
॥ १.७.५२ ॥
निशम्य भीम-गदितं द्रौपद्याश् च चतुर् भुजः ।
आलोक्य वदनं सख्युर् इदम् आह हसन्न् इव ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **चतुर्भुजोक्तेर् अयं भावः—भीमो तं हन्तुं प्रवृत्ते द्रौपद्यां च सहसा तन्-निवारणे प्रवृत्तायाम् उभयोः संवरणायाविष्कृत-चतुर्भुज इति । सन्दिहानस्य सख्युर् अर्जुनस्य ॥५२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **चतुर्भुज इति तैः । यद् वा, मयैवोभयम् आम्नातम् इति स्वादेश-माननाय दर्शितैश्वर्यम् इति भावः । टीकायां तव च प्रतिज्ञायाम् इत्य् अत्र च-शब्दाद् भीमादीनाम् इच्छा चेति ज्ञेयम् ॥५२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **चतुर्भुज इति भीमे तं हन्तुं प्रवृत्ते द्रौपद्यां च तन्-निवारणे प्रवृत्तायाम् उभयोर् वारणार्थं भुज-चतुष्टयं प्रकटयामासेति भावः । हसन्न् इवेति सखे त्वद्-बुद्धेर् अद्य सूक्ष्मत्वं परीक्षिष्ये इत्य् एतद् व्यञ्जकं स्मित-मात्रम् आविष्कुर्वन् न तु हास्यम् इत्य् अर्थः ॥५२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **चतुर्भुज इति हन्तुं प्रवृत्तं भीमं तन्-निवारण-प्रवृत्तां कृष्णां च निवर्तमितुं तदा चतुरो भुजान् दधाव् इति भावः । हसन्न् इवेति हे सखे! त्वद्-बुद्धेर् अस्य सौक्ष्म्यत् परीक्ष्यं मयेति स्मितं प्रकटयन्न् इत्य् अर्थः ॥५२॥
———————————————————————————————————————
॥ १.७.५३ ॥
श्री-भगवान् उवाच—
ब्रह्म-बन्धुर् न हन्तव्य आततायी वधार्हणः ।
मयैवोभयम् आम्नातं परिपाह्य् अनुशासनम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वधार्हणो वधार्हः । मयैव शास्त्र-कृता ब्राह्मणो न हन्तव्यः । तथा —
आततायिनम् आयान्तम् अपि वेदान्त-पारगम् ।
जिघांसीयान् न तेन ब्रह्म-हा भवेत् ॥ इति च वदता ।
तद् उभयम् अप्य् अनुशासनं परिपालय ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ब्राह्मणो न हन्तव्य इति । आततायिनम् आयान्तम् अपि वेदान्त-पारगः जिघांसन्तं जिघांसीयान् न दोषो मनुर्7 अब्रवीद् इति उभयम् एवाम्नातम् आम्नाय-कृता मयैवानुज्ञातं शासनं परिपालय । तेन ब्राह्मणत्वं वर्तत एव इत्य् अश्वत्थामा न हन्तव्य इति मम मतम्, यत् तु ब्रह्म-बन्धुम् इमं जहीति पूर्वम् उक्तं तत् तव धर्म-परीक्षार्थम् एव तत्रापि ब्रह्म-बन्धुम् इमं मा जहि त्रातुम् अर्हसि । तथा विरथं भीतं रिपुं धर्म-विन् न हन्तीति तथा तद्-वधस् तस्य हि श्रेय इति न तु वध-कर्तुर् इति तथा तद् असौ वध्यतां बन्धन-विषयीभूतः क्रियताम् इति तत्र वास्तवोऽर्थोऽपि मयार्पित इति ॥५३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ब्राह्मणो न हन्तव्यः, आततायिनमायान्तम् अपि वेदान्त-पारगम् । जिघां सन्तं जिघांसीयान् न दोषो मनुर् अब्रवीत् इति श्रुति-स्मृति-वपुषा मयैवोभयमाम्नातम् उक्तं, तद् अनुशासनम् अज्ञां पाहि पालय ॥५३॥
———————————————————————————————————————
॥ १.७.५४ ॥
कुरु प्रतिश्रुतं सत्यं यत् तत् सान्त्वयता प्रियाम् ।
प्रियं च भीमसेनस्य पाञ्चाल्या मह्यम् एव च ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तव च प्रतिज्ञां पूरयेत्य् आह—कुर्व् इति । प्रियां सान्त्वयता त्वया यत् प्रतिश्रुतं हननं तच् च सत्यं कुरु प्रियं च कुरु । मह्यं मम । तत्र वधे भीमस्य प्रियं भवति । अवधे द्रौपद्याः । द्वये श्री-कृष्णस्य ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्वया यत् प्रतिश्रुतं प्रतिज्ञातम् आहरिष्ये शिरस् तस्येति तद् अस्य शिरश्-छेदं वधं कुरु । तम् एव भीमसेनस्य प्रियं कुरु । पाञ्चाल्याः प्रियम् अवधं च मह्यं मम च तदादीनां मत्-प्रियत्वाद् उभयम् अपि प्रियं कुरु ॥५४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आहरिष्ये शिरस्तस्येति तव प्रतिश्रुतं, भीमस्य प्रियं तद्-वधं पाञ्चाल्याः प्रियं तद् अवधं, मम भीमादि-प्रियत्वादुभयं तत् सर्वं कुरु ॥५४॥
———————————————————————————————————————
॥ १.७.५५ ॥
सूत उवाच—
अर्जुनः सहसाज्ञाय हरेर् हार्दम् अथासिना ।
मणिं जहार मूर्धन्यं द्विजस्य सह-मूर्धजम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हार्दम् अभिप्रायम् आज्ञाय ज्ञात्वा । न ह्य् अशक्यम् उभयं विदध्याद् अतोऽस्यायम् अभिप्राय इति ज्ञात्वेत्य् अर्थः । असिना खड्गेन । मूर्धम्यं मूर्धनि जातम् । सह मूर्ध-जं स-केशम् ॥५५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अर्जुनः सहसाज्ञायेत्य् अस्यायं भावः—श्री-कृष्णेन ब्रह्म-बन्धुम् इमं जहि [भा।पु। १.७.३५] इत्य् एषा श्रुतिः, ब्रह्म-बन्धुर् न हन्तव्यः [भा।पु। १.७.५३] इत्य् अनेन स्पष्टीकृता । ब्रह्म-बन्धुर् अपीति हि तस्यास् तात्पर्यम् । ब्रह्म-बन्धुत्वं चास्याततायित्वेनैव विवक्षितम् । वधार्हणत्वं त्व् आततायि-मात्रेण विहितम् । तत्रायान्तं जिघांसन्तम् इति विशेषणं तत्-परीक्षणार्थं गोपितम् । तत्र हि तत्र तरोद्यतस्यैव हननम् आयाति, विशेषण्-वैयर्थ्यात् । अत एव प्रतिज्ञातत्वेन तुल्यत्वेऽपि द्रौणेर् उद्यतस्य वधिऽनुमतो बद्धस्य तु नास्य । आततायित्वं न्याये युद्धेऽपि मतम्—आततायिनो मे [भा।पु। १.९.३८] इति श्री-भीष्म-वचनात् । यत् तु परिपाह्य् अनुशासनम् इत्य् उक्तम् । तच् च ब्रह्म-बन्धुम् इमं जहीति पूर्वोक्तानुसारेणैव । तद् एवम् अस्यानुशासन-त्रयस्य द्रौपदी-भीमयोर् मिथो विरुद्ध-वाक्य-द्वयस्य स्व-प्रतिज्ञायाश् च युगपत् समाधायकं मणि-हरणादिकम् एव करिष्यामीति ॥५५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हार्दम् अभिप्रायम् आज्ञाय ज्ञात्वेति आहरिष्ये शिरस् तस्येति मया प्रतिज्ञातोऽस्य शिरश्-छेद एव । कुरु प्रतिश्रुतं सत्यम् इति वदता भगवताप्य् अभिप्रेतं पुनश् च पाञ्चाल्याः प्रियं कुर्व् इति वदता शिरसो न छेदश् च विहितः । न ह्य् अशक्यम् उभयं विदध्यात् । अत एव मया कर्तव्यम् इति निश्चित्येत्य् अर्थः । मूर्धन्यं मूर्धिण-भवं मूर्धजाः केशास् तैः सहितं चिच्छेद । तेन शिरः-स्थम् अपि वस्तु-लक्षणया शिरः-शब्देनोच्यते इति शिरश्-छेद एव । अभिधया तु न शिरश्-छेद इत्य् अश्वत्थाम्नो वधोऽवधश् च कृत इत्य् अर्थः ॥५६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सहसाज्ञायेति—द्रौणेर् ब्राह्मणत्वाद् इदानीम् अशस्त्रपाणित्वेनाततायित्व-विरहाच् च तद्-वधो न हरेर् अभिमतः । नैनं पार्थेत्य् आदौ ब्रह्म-बन्धुं न जहि किन्तु त्रातुम् अर्हसीति तद्-वधस् तस्य हि श्रेयो न तु वध-कर्तुर् इति तद् असौ वध्यतां वन्धन-विषयः क्रियताम् इति श्लिष्टम् उक्तेश् च मयापि शिर आहरणं, न तु तच्-छेदनं प्रतिश्रुतम् । एतत् सर्वम् एवं कृते सिध्येद् इति विचार्येत्य् अर्थ । मूर्धजैः केशैः सहितं मूर्धन्यं मूर्ध्नि भवं मणिं जहार, तेन शिरस एकदेशोऽपि शिर एवेति वधावधौ जातावित्य् अर्थः ॥५५॥
———————————————————————————————————————
॥ १.७.५६ ॥
विमुच्य रशना-बद्धं बाल-हत्या-हत-प्रभम् ।
तेजसा मणिना हीनं शिबिरान् निरयापयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मणिना च हीनम् । निरयापयन् निःसारितवान् ॥५६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : निरयापयन् निर्गमयाञ्चकार ॥५६॥
———————————————————————————————————————
॥ १.७.५७ ॥
वपनं द्रविणादानं स्थानान् निर्यापणं तथा ।
एष हि ब्रह्म-बन्धूनां वधो नान्योऽस्ति दैहिकः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनेन श्री-कृष्णोक्तं सर्वं संपादितम् इत्य् आह—वपनम् इति ॥५७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तेन शास्त्रोक्तं धर्मम् एव कृतवान् इत्य् आह—वपनं शिरो-मण्डनम् ॥५७॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वपनं मुण्डनं, द्रविण-दानं वित्त-लुण्ठनं, स्थानान् ग्रामान् निर्यापणं निःसारणं चेत्य् एष ब्राह्मणाधमानां वधो, न तु दैहिकः ॥५७॥
———————————————————————————————————————
॥ १.७.५८ ॥
पुत्र-शोकातुराः सर्वे पाण्डवाः सह कृष्णया ।
स्वानां मृतानां यत् कृत्यं चक्रुर् निर्हरणादिकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्हरणं दाहार्थं नयनम् ॥५८॥
इति श्रीमद्-भागवते महा-पुराणे प्रथम-स्कन्धे
भावार्थाख्य-दीपिकायां टीकायां सप्तमोऽध्यायः ॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्हरणं दाहार्थं नयनम् ॥५८॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
प्रथमे सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्वानां ज्ञातीनां निर्हरणं दाहार्थं नयनं तद्[आदिकं यत् कृत्यं तच् चक्रुः ॥५८॥
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां सप्तमोऽध्यायः ॥७॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे द्रौणि-दण्डो नाम
सप्तमोऽध्यायः ।
॥७॥
(१.८)
-
‘जन्म कर्म परीक्षितःऽ इति क्वचित् पाठः । ↩︎
-
थे नुम्बेरिन्ग् स्य्स्तेम् इन् तत्त्व-सन्दर्भ इस् दिफ़्फ़ेरेन्त् फ़्रोम् थे ओथेर् सन्दर्भस्, बेइन्ग् रेफ़ोर्मत्तेद् अच्चोर्दिन्ग् तो थे चोम्मेन्तर्य् ओफ़् बलदेव। ↩︎
-
तत्त्व-सन्दर्भे द्रष्टव्यः । ↩︎
-
धनुश्-चिह्नान्तर्गतो भागः प्राचीन-पुस्तकेऽस्ति ↩︎
-
भगवत्-सन्दर्भे (७१) श्वामिनष् टीका पूर्णतयोद्धृता। ↩︎
-
श्रीधर-स्वामी तो ३.२४.३३। ↩︎
-
अत्र मनोर् विधिर् एतद्-विपरीत इति प्रतिभाति, यथा— गुरुं वा बाल-वृद्धौ वा ब्राह्मणं वा बहु-श्रुतम् । आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥ (८.३५०) ↩︎