विषयः
पूर्व-जन्म-वृत्तान्त-शेषांशः —
नारदस्य भगवद्-आराधन-पूर्वकं ब्रह्मणः सकाशाज् जन्म-ग्रहणम् ।
॥ १.६.१ ॥
सूत उवाच—
एवं निशम्य भगवान् देवर्षेर् जन्म कर्म च ।
भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवती-सुतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
व्यासस्य प्रत्ययार्थं च षष्ठे प्राग्-जन्म-संभवम् ।
स्व-भाग्यं नारदः प्राह कृष्ण-सङ्कथनोद्भवम्1 ॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विशेष-ज्ञानार्थं भूयः पप्रच्छ ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
षष्ठे गत्वा वनं कृष्ण-दर्शनं तद्-वचः-श्रुतिः ।
तद्-दत्त-चिन्मय-तनोर् नारदेनाप्तिर् उच्यते ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
ममारण्यं गतस्यासीत् कृष्णेक्षा तद्-वचः-श्रुतिः ।
चिन्मयो विग्रहश् चेति देवर्षिः प्राह षष्ठके ॥
एवम् इति—निशम्य श्रुत्व ॥१॥
———————————————————————————————————————
॥ १.६.२ ॥
व्यास उवाच—
भिक्षुभिर् विप्रवसिते विज्ञानादेष्टृभिस् तव ।
वर्तमानो वयस्य् आद्ये ततः किम् अकरोद् भवान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्वयम् अपि तथा चिकीर्षुर् गुरूपदेशान् अनन्तर-भावि तच्-चरितं पृच्छति—भिक्षुभिर् इति । विपरवसिते दूर-देश-गमने कृते सति । विज्ञानस्यादेष्टृभिर् उपदेश-कर्तृभिः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भिक्षुभिर् विप्रवसिते भिक्षूणां विशेषेण प्रवासे जाते सतीत्य् अर्थः ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विप्रवसिते तस्मात् प्रवासतो विच्युते सम्प्रसारणाभाव आर्षः । किम् अकरोद् इति त्वच्-छिष्योऽहम् अपि तथा चिकीर्षामीति ॥२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विप्र-वसिते ततः प्रवासाद्-विच्युते ततोऽन्यत्र गते सति । संप्रसारणाभाव आर्षः । ततः किम् अकरोद् इति त्वच्-छिष्योऽहम् अपि तथा करिष्यामीति । परम् उत्तरं वयः वर्तितं नीतम् । इदं दासी-पुत्र-भूतं कलेवरम् उदस्राक्षीत् ॥२-३॥
———————————————————————————————————————
॥ १.६.३ ॥
स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः ।
कथं चेदम् उदस्राक्षीः काले प्राप्ते कलेवरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परं वयः उत्तरम् आयुः । ते त्वया वर्तितं नीतम् । इदम् इति दासी-पुत्र-भूतं कलेवरम् उदस्राक्षीर् उत्सृष्टवान् असि ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : इदं सम्प्रति वर्ण्यमाणम् ॥३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदं दासी-पुत्र-भूतं कलेवरं कथम् उत्सृष्टवान् असि ॥३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
———————————————————————————————————————
॥ १.६.४ ॥
प्राक्-कल्प-विषयाम् एतां स्मृतिं ते मुनि-सत्तम ।
न ह्य् एष व्यवधात् काल एष सर्व-निराकृतिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एष कल्पान्त-लक्षणः कालस्ते स्मृतिङ्कथं न व्यवधान् न खण्डितवान् । अड्-आगमाभावस् त्व् आर्षः । हि यत एष सर्वस्य निराकृतिर् अपलापो यस्मात्, सः ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्यवधात् व्यवधाय न खण्डितवान् । अड्-आगमाभाव आर्षः । निराकृतिर् विनाशः ॥४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एष कल्पान्त-लक्षणः । व्यवधात् व्यवधाय नापनीतवान् । अडभावोऽत्रार्षः ॥४॥
———————————————————————————————————————
॥ १.६.५ ॥
नारद उवाच—
भिक्षुभिर् विप्रवसिते विज्ञानादेष्टृभिर् मम ।
वर्तमानो वयस्य् आद्ये तत एतद् अकारषम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अकारषं कृतवान् अहम् । रेफ-ष-कारयोर् विश्लेषश् छन्दोऽनुरोधेन ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अकारषम् इति रेफ-ष-कारयोर् विश्लेषश् छन्दोऽनुरोधेन । यद् उक्तं—मूर्ध-रेफारि-कल्प्यन्ते छन्दो-भङ्ग-भयाद् इह इति ॥५॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अकारषम् इति रेफस्य षाद्-विश्लेषश् छन्दोनुरोधात् । मूर्धरेफा विकल्प्यन्ते छन्दोभङ्गभयाद् इहेति वचनात् ॥५॥
———————————————————————————————————————
॥ १.६.६ ॥
एकात्मजा मे जननी योषिन् मूढा च किङ्करी ।
मय्य् आत्मजेऽनन्य-गतौ चक्रे स्नेहानुबन्धनम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र तावत् किंचित् कालं तत्रैव मातृ-स्नेह-यन्त्रितो न्यवसम् इत्य् आह त्रिभिः । एक एव अहम् आत्मजो यस्य सा । योषिद् इति मूढा इति च स्नेहानुबन्धे हेतुः ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकाहम् एव आत्मजो यस्याः सा ॥४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एकोऽहम् आत्मजो यस्याः सा । योषिन्-मूढेति स्नेहानुबन्धे हेतुः ॥६॥
———————————————————————————————————————
॥ १.६.७ ॥
सास्वतन्त्रा न कल्पासीद् योग-क्षेमं ममेच्छती ।
ईशस्य हि वशे लोको योषा दारुमयी यथा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किङ्करीत्य् अस्यार्थं प्रपञ्चयति—सेति । अस्वतन्त्रा सा, अतो न कल्पा न समर्था आसीत् । दारुमयीयोषा इत्य् अतिपारवश्ये दृष्टान्तः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्वतन्त्रा अतो न कल्पा न समर्था ॥७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **किङ्करीत्य् उक्तं प्रपञ्चयति—अस्वतन्त्रातो मम लालनेऽकल्पासमर्था । योगो जीविका, क्षेमं तस्याः पालनं, दारुमयी योषेत्य् अस्वातन्त्र्ये दृष्टान्तः ॥७॥
———————————————————————————————————————
॥ १.६.८ ॥
अहं च तद्-ब्रह्म-कुले ऊषिवांस् तद्-अपेक्षया2** ।**
दिग्-देश-कालाव्युत्पन्नो बालकः पञ्च-हायनः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं सा स्नेहं चक्रे, अहं च दिग्-आदिष्व् अनभिज्ञोऽतस् तत्रैव न्यवसम् इत्य् आह । अहं च तस्मिन् ब्रह्म-कुलेतस्या मातुः स्नेहानुबन्धस्य अवेक्षया । कदा विरमेद् इति प्रतीक्षयेत्य् अर्थः । ऊषिवान् वासं कृतवान् । पञ्च-हायनः पञ्च-वर्षः ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-अपेक्षया तत्-कर्त्रीका या अपेक्षा, तया सा मां न त्यजतीय् अहम् अप्य् अवसम् इत्य् अर्थः ॥८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद् अवेक्षया नेयं मां त्यजति कदा विरमेद् इति प्रतीक्षयेत्य् अर्थः । दिगादिष्व् अनभिज्ञश् चाहं यतो बालक इति ॥८॥
———————————————————————————————————————
॥ १.६.९ ॥
एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि ।
सर्पोऽदशत् पदा स्पृष्टः कृपणां काल-चोदितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गेहान् निर्गताङ्गां दुहन्तीम् । हेतौ शतृ-प्रत्ययः, दोग्धुं निर्गताम् इत्य् अर्थः । पदा पादेन अस्पृष्ट ईषद् आक्रान्तः अदशद् अखादत् ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुहन्तीं दोग्धुम् ॥९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : दुहन्तीं दोग्धुम्, लक्षण-हेत्वोः क्रियायाः [पा। ३.२.१२६] इति सूत्रेण हेतौ शतृ-प्रत्ययः, हेतुर् इह फलम् ॥९॥
———————————————————————————————————————
॥ १.६.१० ॥
तदा तद् अहम् ईशस्य भक्तानां शम् अभीप्सतः ।
अनुग्रहं मन्यमानः प्रातिष्ठं दिशम् उत्तराम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तन् मातुर् मरणं भक्तानां शं कल्याणम् अभीप्सत ईशस्यानुग्रहं मन्यमानः प्रातिष्ठं प्रस्थितोऽस्मि ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन् मातुर् मरणम् ईशस्य मय्य् अनुग्रहं मन्यमानःप्रातिष्ठम् अकृत-तत्-साम्परायिक-विधिर् एव गतवान् । परस्मैपदम् आर्षम् ॥१०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तज्-जनन्या मरणं, शं निर्विघ्न-भजनं, प्रातिष्ठमगमं, परस्मैपदम् आर्षम् ॥१०॥
———————————————————————————————————————
॥ १.६.११ ॥
स्फीताञ् जनपदांस् तत्र पुर-ग्राम-व्रजाकरान् ।
खेट-खर्वट-वाटीश् च वनान्य् उपवनानि च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्फीतान् जनपदानतियातः सन् महद् विपिनम् अद्राक्षम् इति चातुर्थेनान्व्यः । जनपादिषु नाना-गुण-दोष-युक्तेषु सम-दृष्टिः सन्गतोऽहम् इति तात्पर्यार्थः । स्फीतान् समृद्धान् । जनपदान् देशान् । तत्र तस्यां दिशि । पुर-ग्राम-व्रजाकरान्—तत्र पुराणि राज-धान्यः, ग्रामा भृगु-प्रोक्ताः—
विप्राश् च विप्र-भृत्याश् च यत्र चैव वसन्ति ते ।
स तु ग्राम इति प्रोक्तः शूद्राणां वास एव च ॥ इति ।
व्रजा गोकुलानि, आकरा रत्नाद्य्-उत्पत्ति-स्थानानि, तान् । खेटाः कर्षक-ग्रामाः । खर्वटा गिरि-तट-ग्रामा भृगु-प्रोक्ता वा —
एकतो यत्र तु ग्रामो नगरं चैकतः स्थितम् ।
मिश्रं तु खर्वटं नाम नदी-गिरि-समाश्रयम् ॥ इति ।
वाट्यः पूग-पुष्पादीनां वातिकास् ताः । वनानि स्वतः-सिद्ध-वृक्षानां समूहाः । उपवनानि रोपित-वृक्षानां समूहाः । तानि च ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन-पदादीन् **अतिक्रम्य यातः सन् महद् विपिनम् अद्राक्षम् इति चतुर्थेनान्वयः । तत्र पुराणि राज-धान्यः । ग्रामा भृगु-प्रोक्ताः—
विप्राश् च विप्र-भृत्याश् च यत्र चैव वसन्ति ते ।
स तु ग्राम इति प्रोक्तः शूद्राणां वास एव च ॥ इति ।
व्रजा गोकुलानि । आकरा रत्नाद्य्-उत्पत्ति-स्थानानि, तान् । खेटाः कर्षक-ग्रामाः । खर्वटा गिरि-तट-ग्रामाः, भृगु-प्रोक्ता वा —
एकतो यत्र तु ग्रामो नगरं चैकतः स्थितम् ।
मिश्रं तु खर्वटं नाम नदी-गिरि-समाश्रयम् ॥ इति ।
वाट्यः पूग-पुष्प-वातिकाः । वनानि स्वतः-सिद्ध-वृक्षानां समूहाः । उपवनानि रोपित-वृक्ष-सङ्घाः ॥११॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्फीतानिति—तत्रोत्तरस्यां दिशि जनपदादीन् अतियातोऽहं महद्-विपिनम् अद्राक्षम् इति चतुर्थेन सम्बन्धः । स्फीतान् समृद्धान् जन-पदान् देशान्, नीवृज्जपदो देशः इत्य् अमरः । पुराणि राजधान्यः, ग्रामा बृगूक्ताः
विप्राश् च विप्र-भृत्याश् च यत्र चैव वसन्ति ते ।
स तु ग्राम इति प्रोक्तः शूद्राणां वास एव च ॥
इति, व्रजा गोष्ठानि । व्रजः स्याद् गोकुलं गोष्ठम् इति हलायुधः । आकरा हीरकाद्य् उत्पत्ति-स्थानानि । खनिः स्त्रियाम् आकरोहस्त्री इत्य् अमरः । खेटाः कर्षक-ग्रामाः, खर्वटा भृगूक्ताः
एकतो यत्र तु ग्रामो नगरं चैकतः स्थितम् ।
मिश्रन्तु खर्वटं नाम नदी-गिरि-समाश्रयम् ॥ इति,
वाट्यः क्रमुक-कुसुम-वाटिकाः, वनानि स्वतः-सिद्ध-तरुलतावृन्दानि । उपवनान्यारोपित-तद्-वृन्दानि ॥११॥
———————————————————————————————————————
॥ १.६.१२ ॥
चित्र-धातु-विचित्राद्रीन् इभ-भग्न-भुज-द्रुमान् ।
जलाशयाञ् छिव-जलान् नलिनीः सुर-सेविताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्रैर् धातुभिः स्वर्ण-जताद्यैर् विचित्रान् अद्रींश् च । इभैर् भग्ना भुजाः शाखा येषां ते द्रुमा येषु तान् । शिवानि भद्राणि जलानि येषां तान् । नलिणीः सरसीः ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चित्रैर् धातुभिः स्वर्ण-जताद्यैर् विचित्रान् अद्रीन् । इभैर् भग्ना भुजाः शाखा येषां ते द्रुमा येषु तान् । नलिणीः सरसीः ॥१२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **चित्रैः सुवर्ण-रजतादिभिर् धातुभिर् विचित्रानद्रीन् गिरीन् । इभैर् हस्तिभिः भग्ना भुजाः शाखा येषां ते द्रुम येषु तान् । शिव-जलान् स्वच्छ-स्वादु-पानीयान्, नलिनीः सरसीः ॥१२॥
———————————————————————————————————————
॥ १.६.१३-१४ ॥
चित्र-स्वनैः पत्र-रथैर् विभ्रमद् भ्रमर-श्रियः ।
नल-वेणु-शर-स्तम्ब- कुश-कीचक-गह्वरम् ॥
एक एवातियातोऽहम् अद्राक्षं विपिनं महत् ।
घोरं प्रतिभयाकारं व्यालोलूक-शिवाजिरम् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
मृगया-जीविनां खेटो वाटी पुष्पोजीविनाम् ।
ग्रामो बहु-जनाकीर्णो राज-राजाश्रयं पुरम् ।
जलस्थलायते स्फीतं पत्तनं कीर्त्यते बुधैः ॥ इति स्कान्दे ॥११-१४॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्राः स्वना येषां तैः पत्र-रथैः पक्षिभिस् तन्-नाद-प्रबुद्धैर् इत्य् अर्थः । विभ्रमद्भिर् भ्रमरैः श्रीः शोभा यासां ताः नलिनीरतियातोऽतिक्रम्य गतः सन् महद् विपिनं वनम् अद्राक्षम् । कीदृशम् ? नल-वेणु-शराणांस्तम्भैः कुशैः कीचकैश् च गह्वरं दुर्गतम् । तत्र वेणु-जातय एव विपुलान्तराल-गर्भाः कीचकाः घोरं दुःसहम् । प्रतिभयाकारं भयङ्कर-रूपम् । व्यालादीनाम् अजिरं क्रीडा-स्थानम् ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कीदृशीः ? पत्र-रथैः पक्षिभिर् हेतु-भूतैर् विभ्रमद्भिर् प्रबुद्धा इतस् ततश् चलद्भिर् भ्रमरैः श्रीः शोभा यासां ताः । अतियातः अतिक्रम्य यातः नलादिभिर् गह्वरंविपिनमद्राक्षम् इत्य् अन्वयः । स्तम्बो गुच्छस् तृणादिनः । वेणवः कीचकास् ते स्युर् ये स्वनन्त्य् अनिलोद्धताः इत्य् अमरः ॥१३॥
घोरं दुष्प्रेक्ष्यं यतः प्रतिभयाकारं भयङ्कर-रूपम् । व्यालादीनाम् अजीरं क्रीडा-स्थानं, तेषु तेषु बहु-विस्मयास्पदेषु भीत्यास्पदेषु च दृष्टेष्व् अपि न मे विस्मयो नापि भीतिर् अभूत् मन्-मनस् तदा भगवन्-माधुर्यास्वाद-मात्राविष्टत्वाद् इति भावः ॥१४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ताः कीदृशीर् इत्य् आह—पत्र-रथैः पक्षिभिर् हेतुभिर् विभ्रमद्भिर् भ्रमरैः श्रीः शोभा यासां ताः । पतत्रि-पत्रि-पतग-पतत्-पत्र-रथागुजाः इत्य् अमरः । नलादीनां स्तम्बैर् गुच्छैः कुशैः कीचकैश् च गह्वरं दुर्गमम् । वेणवः कीचकास् ते सुर्ये स्वनन्त्य-निलोद्धताः इत्य् अमरः ॥१३॥ \
\
घोरं दुर्निरीक्ष्यं यतः प्रतिभयाकारं भयङ्कर-रूपं भयङ्करं प्रतिभयम् इत्य् अमरः । व्यालाः सर्पाः, उलूकाः घूकाः, शिवाः शृगाल्यः तेषाम् अजिरं क्रीडा-स्थानम् । तथा च विस्मय-भयास्पदेषु तेषु दृष्टेष्व् अपि न मे विस्मयभये, केशवाविष्ट-मनस्कत्वात् ॥१४॥
———————————————————————————————————————
॥ १.६.१५-१६ ॥
परिश्रान्तेन्द्रियात्म् आहं तृट्-परीतो बुभुक्षितः ।
स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गत-श्रमः ॥
तस्मिन् निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः3** ।**
आत्मनात्मानम् आत्मस्थं यथा-श्रुतम् अचिन्तयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परिश्रान्तानीन्द्रियाण्य् आत्मा देहश् च यस्य । तृषा परीतो व्याप्तः । उपस्पृष्ट आचान्तः ॥१५॥ पिप्पलोपस्थे अश्वत्थ-मूले । आश्रितः उपविष्टः । आत्मना बुद्ध्या मनसा वा । आत्म-स्थं हृदि-स्थम् । आत्मानं परमात्मानम् ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **परिश्रान्तेति युग्मकम् ॥१५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पिप्पलोपस्थे अश्वत्थ-मूले । आश्रितः उपविष्टः । आत्मना बुद्ध्या । **आत्म-स्थम् **उपपन्न-प्रेमत्वान् मनस्य् अविच्छेदेनैव कृत-वासम् । आत्मानं परमात्मानम् । तथापि यथा-श्रुतं मन्त्रोपदिष्ट-ध्यानम् अतिक्रम्य अचिन्तयम् ॥१६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : परीति—आत्मा देहः, तृषा परीतो व्याप्तः, उपस्पृष्टः कृताचमनः ॥१५॥ \
\
पिप्पलोपस्थे ऽश्वत्थामूले आश्रित उपविष्टः, आत्मना बुद्ध्या, आत्मनि जात-प्रेमणि मनसि स्थितं स्फुरन्तम् आत्मानं केशवम-चिन्तयम् ।
आत्मा पुंसि स्वभावे च प्रयत्न-मनसोर् अपि ।
धृताव् अपि मनीषायां शरीर-ब्रह्मणोर् अपि ॥ इति मेदिनी ॥१६॥
———————————————————————————————————————
॥ १.६.१७ ॥
ध्यायतश् चरणाम्भोजं भाव-निर्जित-चेतसा ।
औत्कण्ठ्याश्रु-कलाक्षस्य हृद्य् आसीन् मे शनैर् हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भावेन भक्त्या निर्जितं वशी-कृतं यच् चेतस् तेन । औत्कण्ठ्येनाश्रु-कला-युक्ते अक्षिणी यस्य ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भाव-निर्जितेन प्रेम-वशीकृतेन चेतसा मनसा हृदि मनस्य् एव ध्यायतोमम हरिः शनैः क्रमेण आसीत्, आगत्याग्रे बभूव । यद् वा, शनैर् इति प्रथमं हृद्य् आविर्बभूव । ततो हृद्-वृत्तिषु तिसृषु नासिका-श्रोत्र-चक्षुष्व् अपि साङ्ग-सौरभ्य-नूपुर-सौस्वर्य-श्री-मुख-सौन्दर्य-ग्रहणार्थम् आविर्बभूव । कीदृशस्य मम ? औत्कण्ठ्येनाश्रूणि कलयतो धारयतोऽक्षिणी यस्य तस्य ॥१७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भावेन प्रोम्णा निर्जितं वशीकृतं यच्-चेतो मनस् तेन । औत्कण्ठ्येनाश्रुकले वाष्पवर्षिणी अक्षिणी यस्य । शनैर् इति रूप-भूषण-स्वर-च्छवि-क्रमेणेत्य् अर्थः ॥१७॥
———————————————————————————————————————
॥ १.६.१८ ॥
प्रेमातिभर-निर्भिन्न- पुलकाङ्गोऽतिनिर्वृतः ।
आनन्द-सम्प्लवे लीनो नापश्यम् उभयं मुने ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :उभयं द्वितीयं नापश्यं, तम् एवापश्यम् ॥१८॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेम्णोऽतिभरेण निर्भिन्न-पुलकान्य् अङ्गानि यस्य । आनन्दानां संप्लवे महा-पुरे परमानन्दे । उभयम् आत्मानं परं च ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेम्णोऽतिभरेण अत्याधिक्येन निर्भिन्नानि अतिभिन्नानि पुलक-युक्तानि च अङ्गानि यस्य सः । प्रेम-रूपाण्य् एव सर्वाण्य् अङ्गानि तदानीम् अभवन्न् इत्य् अर्थः । यद् वा, निःशेषेण भिन्नानि विदीर्णानीव वोढुम् असामर्थ्याद् एवेति भावः । आनन्द-सम्प्लवे लीनो लब्धानन्द-मूर्च्छ इत्य् अर्थः । उभयम् आत्मानं परं च नापश्यम् ॥१८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रेम्णोऽतिभरेणाधिक्येन निर्भिन्नानि मिश्रितानि पुलकवन्त्य् अङ्गानि यस्य सः, कदम्ब-कलिकोपम-काय इत्य् अर्थः । अति-निर्वृतः प्रहृष्टः । आनन्दानां संप्लवे प्रवाहे लीनोऽतिसुख-मूर्च्छितः । उभयं स्वमन्यं च नापश्यम् नाविदम् औत्कण्ठ्य-विवृद्धये हरेस् तिरोधानम् अभूद् इत्य् आह—रूपम् इति । शुचापहं शोकहरं सहसा तद्-रूपम् अपश्यन्न् अहम् उत्तस्थौ व्यत्थितः । उत्तमणलि रूपम् । दुर्मना इवेति प्राप्त-विच्युतानर्घ-रत्नो यथा तद्वत् ॥१८-१९॥
———————————————————————————————————————
॥ १.६.१९ ॥
रूपं भगवतो यत् तन् मनः-कान्तं शुचापहम् ।
अपश्यन् सहसोत्तस्थे4** वैक्लव्याद् दुर्मना इव ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मनसः कान्तम् अभीष्टम् । शुचा शोकस् ताम् अपहन्तीति तथा तत् । उत्तस्थे व्युत्थितोऽस्मि ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पुनश् च सहसैव तद् रूपमपश्यनुत्तस्थे उत्थितोऽस्मि । यथा प्राप्त्य्-अच्युत-निधिर् जनो दुर्मना भवति, तथैवेत्य् अर्थः ॥१९॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
———————————————————————————————————————
॥ १.६.२० ॥
दिदृक्षुस् तद् अहं भूयः प्रणिधाय मनो हृदि ।
वीक्षमाणोऽपि नापश्यम् अवितृप्त इवातुरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हृदि मनः प्रणिधाय स्थिरी-कृत्या अवितृप्तोऽहम् आतुरैव अभवम् इति शेषः ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रणिधाय स्थिरीकृत्य ॥२०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रणिधाय स्थिरी-कृत्य ॥२०॥
———————————————————————————————————————
॥ १.६.२१ ॥
एवं यतन्तं विजने माम् आहागोचरो गिराम् ।
गम्भीर-श्लक्ष्णया वाचा शुचः प्रशमयन्न् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गिराम् अगोचरः संवेदनस्य5 विषय-भूत ईश्वरः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गिराम् अगोचरः, **यतो वाचो निवर्तन्ते [तै।उ। २.७.१] इति श्रुतेः । सर्वैर् एव वचन-गोचरी-कर्तुम् अशक्योऽपि भगवान् माम् आह—स्वीय-वचन-सौस्वर्यं श्रवणाभ्यां माम् अनुभावयामास । एवं नारदस्य वैध-भक्तिमत्त्वाद् भगवत्-सौरभ्य-सौन्दर्य-सौस्वर्याणां त्रयाणाम् एव माधुर्याणाम् अनुभवः साधक-देहे, अन्येषां सर्वेषां तु तन्-माधुर्याणां सिद्ध-देह एव भावी ज्ञेयः । शुचस् तद्-दर्शनोद्भूत-दुःख-शोकान् प्रशमयन् दूरीकुर्वन् । अत्र वियोगौत्कण्ठ्यवतः प्रेम्णः सर्वथा तृप्त्य्-अभाव-धर्मत्वाद् इव-शब्दः ॥२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गिरां वाचां कार्त्स्न्येनागोचरो गुणानन्त्यात् । शुचो रूपादर्शनजान् शोकान् । इव-शब्देर् वियोगोत्कं च्यवतः प्रेम्णोऽतृप्ति-धर्मत्वात् ॥२१॥
———————————————————————————————————————
॥ १.६.२२ ॥
हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति ।
अविपक्व-कषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हन्तेति सानुकम्प-संबोधने । मा इति मां द्रष्टुं नार्हति । यतो न विपक्वा दग्धाः कसाया मला कामादयो येषां, तेषां कुयोगिनाम् अनिष्पन्न-योगानाम् ॥२२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भक्तिः प्रवृत्तात्म-रजस्-तमोपहा [भा।पु। १.५.२८] इत्य् उक्तत्वात् । कषायोऽत्र सात्त्विको वन-वासाद्य्-आग्रहः—
वनं तु सात्त्विको वासो ग्राम्यो राजस उच्यते ।
तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् ॥ [११.२५.२५] इत्य्-आदि ।
उत्कण्ठा-वर्धनार्थं चेदम् ॥२२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विमोहेत्य् अत आह—हन्त इति सानुकम्पा-सम्बोधनम् । अस्मिन् जन्मनि साधक-देहे मा इति मांद्रष्टुं नार्हति । न विपक्वाः न दग्धाः कषाया मलाः कामादयो येषां तेषां कुयोगिनामहं दुर्दर्शः अदृश्यः । तुभ्यं तु दर्शनं दत्तम् एवेति त्वं तु कुयोगी न भवसीति भावः ॥२२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद् उक्तम् आह—हन्तेत्य् अनुकम् पायाम्, अस्मिन् जन्मनि साधक-देहे भवान् मां द्रष्टूं मार्हति, युद् अहम् अविपक्व-कषायाणान् अनिर्दग्ध-कामादि-मलानां कुयोगिनां दुर्दशः । स्वात्म-मात्र-ध्यायिनाम् अदृश्य इत्य् अर्थः । त्वन्तु कुयोगी नेत्यतो दर्शनं ते दत्तम् इति भावः ॥२२॥
———————————————————————————————————————
॥ १.६.२३ ॥
सकृद् यद् दर्शितं रूपम् एतत् कामाय तेऽनघ ।
मत्-कामः शनकैः साधु सर्वान् मुञ्चति हृच्-छयान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कुतस् तर्हि दृष्टोऽसि ? तत्राह—सकृद् दर्शितं मयेति यद् एतत् कामाय मय्य् अनुरागाय । त्वत्-कामेन किम् ? इत्य् अत आह—मत्-कामः पुमान् । हृच्-छयान् कामान् ॥२३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथैवाह—सकृद् इति । येन कषाया अपि नश्यन्तीत्य् आह—मत्-काम इति । हृच्छयान् अन्य-वासनाः ॥२३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तर्हि हा हा ! पुनर् अप्य् एक-वारं दर्शनं देहि ! इत्य् अत आह—सकृद् इति । एतद् एक-वार-दर्शनं ते कामाय तन् मनोरथं साधयितुं योग्यम् इत्य् अर्थः, न तु मुहुर् दर्शनम् । औत्कण्ठस्यानतिवृद्ध्या प्रेम्णोऽप्य् अनतिवृद्धस् तस्य तारुण्यं न स्याद् इति भावः । अत एव जात-प्रेम्णे भक्ताय साधक-देहे एक-वारम् एव दर्शनं ददामीति मम नियमः । यथा साधक-देहे बाल-भूतः प्रेमा वियोगौत्कण्ठ्येन लब्धातिवृद्धिः सिद्ध-देहे तरुणः सन्, स्वाधारं भक्तं मुहुर् अपि मां दर्शयति, साक्षात् सेवयति चेति स्व-भक्त-मनोरथ-पूर्ति-प्रकारम् अहम् एव जानामि, न तु मे स्व-भक्त इति भावः ।
मत्-कामः—यो हि मां कामयते, मात्रं मद्-दर्शनालाभेऽपीत्य् अर्थः । हृच्-छयान् विषय-वासनाः । अत्रापि सर्वान् मोक्ष्यसि हृच्छयान् इत्य् अनुक्तेर् नारदं प्रति नेदं वाक्यं, किन्तु स्व-भक्तेः स्वभावं त्वं ज्ञापयामासेत्य् एवात्र तत्त्वम् । सर्वम् इदं दैन्य-वर्धनार्थम् इत्य् एके ॥२३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तर्हि कृपया पुनर् अपि दर्शनं देहीति चेत्-तत्राह—यद् एतद्-रूपं सकृद्-दर्शितं, तत्ते कामाय, कामं तृष्णां वर्धयितुम् इत्य् अर्थः । तृष्णा-वृद्ध्य् अभावे प्रेम्णस् तस्य तारुण्यासिद्धेस् तेन सिद्ध-देहे मद्-रूपानुभवं कृत्स्नं न विन्देद् इति भावः । मत्-कामो मयि सतृष्णः साधुः हृच्छयान् वासनाः, साधारणम् इदं वाक्यं, न तु नारदं प्रतीति बोध्यम् ॥२३॥
———————————————————————————————————————
॥ १.६.२४ ॥
सत्-सेवयादीर्घयापि जाता मयि दृढा मतिः ।
हित्वावद्यम् इमं लोकं गन्ता मज्-जनताम् असि ॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : अदीर्घयापि सतां सेवया । अवद्यं निन्द्यम् । इमं लोकं देहं हित्वा । मज्-जनतां मत्-पार्षदतां गन्तासि ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : मतिर् इति—अस्खलिता मतिः [भा।पु। १.५.२७] इति स्वयम् उक्ता या, सैव । मतेः फलम् आह—हित्वेति ॥२४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदीर्घया अल्पयापि अवद्यं निन्द्य-लोकं सांसरिक-जनावासं त्रिभुवनम् एव त्यक्त्वा मज्-जनतां मत्-पार्षदत्वं गमिष्यसि ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सत्-प्रसङ्ग-लभ्योऽहम् इत्य् आह—सदिति । अदीर्घयाल्पयापि अवद्यम् अनित्यत्वान्-निन्द्यम् इदं लोकं हित्वा मज्-जनतां मत्-पार्षदतां गन्तासि ॥२४॥
———————————————————————————————————————
॥ १.६.२५ ॥
मतिर् मयि निबद्धेयं न विपद्येत कर्हिचित् ।
प्रजा-सर्ग-निरोधेऽपि स्मृतिश् च मद्-अनुग्रहात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रजानां सर्गे सृष्टौ निरोधे संहरेऽपि । प्रजा-सर्गस्य निरोध इति वा ॥२५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु यद्य् अन्तरैव सा नश्येत्, तर्हि किं कर्तव्यम् ? तत्राह—मतिर् मयीति । मतिर् इति किं वक्तव्यम् ? स्मृतिश् चेज् जन्म-विषया ॥२५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न विपद्येत यतो मयि निबद्धा, मयि बद्ध्वा स्थापिता प्रेम्णैवेत्य् अर्थः । मम नित्यत्वात् मतिर् अपि नित्यैवेत्य् अर्थः ॥२५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मतिर् निखिल-कारणत्व-माया-स्पृष्टत्व-विज्ञान-घनत्व-स्वामित्व-सुहृत्त्वादि-गुण-विषया ते बुद्धिः प्रेम्णा मयि निबद्धा कर्हिचिद् अपि न विपद्येत न विनश्येत् । मम नित्यत्वात् सा नित्यं स्थिरा तिष्ठेद् इत्य् अर्थः । प्रजा-सर्ग-निरोधे प्रलये भवान्तरेऽपि स्मृतिश् च पूर्व-सर्वार्थ-विषया न विपद्येतेति प्राक्कल्प-विषया म् इत्य् अस्योत्तरम् ॥२५॥
———————————————————————————————————————
॥ १.६.२६ ॥
एतावद् उक्त्वोपरराम तन् महद्
भूतं नभो-लिङ्गम् अलिङ्गम् ईश्वरम् ।
अहं च तस्मै महतां महीयसे
शीर्ष्णावनामं विदधेऽनुकम्पितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् प्रसिद्धं **महद्-भुतम्,**अस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्-वेद [बृ।आ।उ। २.४.१०] इत्य्-आदि-श्रुतेः । कीदृशम् ? ईश्वरं सर्व-नियन्तृ । नभसि लिङ्गं मूर्तिर् यस्य तन् नभो-लिङ्गम् । सन्निहितम् अपि न लिङ्ग्यत इत्य् अलिङ्गं,तस्मै अदृष्टाय भगवतेऽवनामं प्रणामं विदधे कृतवान् अहम् । तेनानुकम्पितः सन् ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महद्-भूतम् इति क्लीब्-लिङ्गं भगवन्-नाम—अस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्-वेद [बृ।आ।उ। २.४.१०] इत्य्-आदि-श्रुतेः । तेन यस्य निःश्वसितम् एव चत्वारो वेदास् तस्य वचनं ततोऽप्य् अतिप्रमाणम् इति भावः । ईश्वरम् अतिनिकृष्टाय दासी-पुत्रायापि मह्यं तथा वर-प्रदानं यद् इदम् अपि तस्यैकम् ईश्वरत्वम् इति भावः । नभसिआकाश एव लिङ्गं चिह्नं श्री-मुख-वचन-रूपं यस्य तत् यतो न लिङ्ग्यते न लक्ष्यते चक्षुर्भ्याम् अदृष्टत्वाद् अलिङ्गम् ॥२६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भूतं सत्यं, तस्य वा एतस्य महतो भूतस्य [बृ।आ।उ। २.४.१०] इति । श्रवणात्, अन्वर्थ-तदाख्यं वा, उपरराम तूष्णीम् अस्थात् । तत् कीदृक्? नभस्याकाशे श्री-मुख-वाक्य-रूपं लिङ्गं यस्य तत् । न लिङ्ग्यते ज्ञायते भक्ति-हीनैर् इन्द्रियैर् इत्य् अलिङ्गं, दासी-पुत्रायापि मह्यम् ईदृक्-पदार्पणाद् ईश्वरम्, अवनामं प्रणामम् ॥२६॥
॥ १.६.२७ ॥
नामान्य् अनन्तस्य हत-त्रपः पठन्
गुह्यानि भद्राणि कृतानि च स्मरन् ।
गां पर्यटंस् तुष्ट-मना गत-स्पृहः
कालं प्रतीक्षन् विमदो विमत्सरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्तस्य6नामानिपठन्न् अनवरतं गृणन् हत-त्रपस् त्यक्त-लज्जो विमत्सरो जातोऽस्मीति शेषः ॥२७॥
———————————————————————————————————————
कैवल्य-दीपिका : नामानि इति । ईदृशस्य च कृत-कृत्यतया प्रियातिथित्वत् मृत्युं प्रतीक्षकत्वात् न किञ्चिद् वै कल्यम् अस्तीत्य् आह—नामानि इति । त्रपा लज्जा । कृतानि कर्माणि । कालं मृत्युम् । अपदः अस्वीकृत-स्थान-विशेषः । इत आरभ्य नारदः कुन्तीत्य्-आदि-शब्दौ वक्तृ-निर्देश-मात्र-विवक्षया न तु भक्ति-विवक्षयेति ज्ञेयम्, विष्णु-ग्रहणस्य ज्ञापकत्वात् ॥२७॥ [मु।फ। १९.२७]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) :गुह्यानि गोप्यानि यानि भद्राणि सर्वोत्तमानि कृतानि, प्रेयस्य्-आदिभिः सह प्रेम-परिपाटी-मय-लीलाः, तानि तु यथाधिकारं स्मरन्न् एव, न तु प्रकाशयन् । तत एव तुष्ट-मनाः स्पृहान्तर-शून्यश् च सन् पूर्वत एव तु विमदो विमत्सरश् च सन्, केवलं कालं तत्-कृपावसरं प्रतीक्षमाणोऽहं बभूवेति शेषः ॥२७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृतानि चरितानि कालं प्रतीक्षन्,“स कालो मे कदा भविष्यति यत्र तत्-पार्षदतां यास्यामीति भगवत्-पार्षदो भविष्यामि ? कोऽन्यो वराको मत्-समः ?” इत्य् एवं मद-मत्सरौ मम नाभूताम् ॥२७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कृतानि चरितानि, गां पृथिवीं, कालं प्रतीक्षन् स कालो मे कदायास्यति यत्र तज्-जनता भाविनीति तम् अपेक्षमाणः, कोऽन्यो वराको मत्-तुल्ये भवेद् इति मद-मत्सर-शून्यः ॥२७॥
॥ १.६.२८ ॥
एवं कृष्ण-मतेर् ब्रह्मन् नासक्तस्यामलात्मनः ।
कालः प्रादुरभूत् काले तडित् सौदामनी यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : काले स्वावसरे कालो मृत्युः प्रादुरभूद् आविर्बभूव । अकस्मात् प्रादुर् भावे दृष्टान्तः—तडिद् इवेति । सौदामनीति विशेषणं स्फुटत्व-प्रदर्शनार्थम् । तथा हि सुदामा7 माला, तत्र भवा सौदमनी मालाकारेत्य् अर्थः । यद् वा, सुदामा-नामा कश्चित् स्फटिक-पर्वतः । ततः तेनैक-दिग् इति सूत्रेणाण् । स्फटिकादि-मय-पर्वत-प्रान्ते भवा हि विद्युद् अति-स्फुटा भवति, तद्वद् इत्य् अर्थः । यद् वा, तडिद् इत्य् अन्तिके इत्य् अर्थः । तडिद् इत्य् अन्तिक-वधयोर् इति नैरुक्त-स्मरणात् ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कालस् तत्-कृपावसरः प्रादुरभूत् । काले प्रारब्ध-क्षये । यथावग्रह-क्षये तडित्सौदामनीति—गो-बलीवर्द-न्यायेन चानधिकार्थम् इदम् ॥२८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काले मम स्थूल-देह-भङ्ग-समये कालः प्रादुरभूत्, यं कालं प्रतीक्षमाणः पूर्वं चिराद् अभूवं स इत्य् अर्थः । राज्ञो गमन-समये तस्य गमन-समयम् इतिवत् । बुद्धिर् हि भगवति अभेदेऽपि भेदं जनयतीत्य् अनुन्यासः कालयोस् तयोर् अकस्माद् युगपद् एवाधाराधेय-भावेन प्रादुर्भावे दृष्टान्तः । तडिति विद्युति सौदामनी यथा । एकस्यां सौदामिन्यां तथैवान्या सौदामिनी कदाचिद् यथा भवति, तथैव मम पाञ्चभौतिक-देह-भङ्ग-काले एव पार्षद-देह-प्राप्ति-कालेऽभूद् इत्य् अर्थः ॥२८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **काले प्राकृत-मद्-देह-भङ्ग-समये कालो मम तज्-जनतार्पकः प्रादुर् अभूत् यं चिरात् प्रतीक्षमाणोऽहम् अभूवं सोऽभ्यागमदित्य् अर्थः । कालः सर्वदास्तीति । वद् एकस्यैक-कालस्य विशेषाद् आधाराधेय-भावः । तथात्वे दृष्टान्तः—तड् इति यथा सौदामिनीति एकस्यां विद्युति यथान्या भवति तद्वत्, ताडयतीति तडिद् आघातकरी, सुदामा स्फटिक-गिरिस् तत्-प्रान्ते भवात् सौदामनी प्रकाशकरी । तेनैक दिक् [पा। ४.३.११२] इति सूत्रादण् । एवं पूर्वः कालः प्राण-हरः, परस्तु तज्-जनतार्पक इति भावः ॥२८॥
———————————————————————————————————————
॥ १.६.२९ ॥
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्ध-कर्म-निर्वाणो न्यपतत् पाञ्च-भौतिकः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रयुज्यमाने मयि ताम् इति । अयम् अर्थः—हित्वावद्यम् इमं लोकं गन्ता मज्-जनताम् असि [१.६.२४] इति या भागवती भगवत्-पार्षद-रूपा शुद्धा सत्त्व-मयी तनुः प्रतिश्रुता, तां प्रति भगवता मयि प्रयुज्यमाने नीयमाने आरब्धं यत् कर्म तन्-**निर्वाणं **समाप्तं यस्य, आरब्ध-कर्मणो निर्वाणम् एव यस्येति वा, स **पञ्च-भूतात्मको **देहो न्यपतत् । अनेन पार्षद-तनूनाम् अकर्मारब्धत्वं शुद्धत्वं नित्यत्वम् इत्य्-आदि
सूचितं भवति ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (प्रीति-सन्दर्भः, ११) : हित्वावद्यम् इमं लोकं गन्ता मज्जनताम् असि [भा।पु। १.६.२४] इति या तनुः श्री-भगवता दातुं प्रतिज्ञाता, तां भागवतीं भगवद्-अंश-ज्योतिर् अंश-रूपां शुद्धां प्रकृति-स्पर्श-शून्यां तनुं प्रति श्री-भगवतैव मयि प्रयुज्यमाने नीयमाने आरब्धं यत् कर्म तन्-निर्वाणं समाप्तं यस्य, स पाञ्चभौतिकोन्यपतद् इति । प्राक्तन-लिङ्ग-शरीर-भङ्गोऽपि लक्षितः । तादृश-भगवन्-निष्ठे प्रारब्ध-कर्म-पर्यन्तम् एव तत्-स्थितेः । इत्थम् एव टीका च—अनेन पार्षद-तनूनाम् अकर्मारब्धत्वं शुद्धत्वं नित्यत्वम् इत्य्-आदि सूचितं भवति इत्य् एषा ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भागवतीं भगवद्-अङ्ग-ज्योतिर् अंश-रूपां शुद्धां प्रकृति-स्पर्श-शून्याम् । न्यपतद् इति प्राक्तन-लिङ्ग-शरीर-भङ्गोऽपि लक्षितः । तादृश-भगवन्-निष्ठे प्रारब्ध-कर्म-पर्यन्तम् एव तत्-स्थितेः । इत्थम् एव तीका च—अनेन पार्षद-तनूनाम् इत्य्-आदि ॥२९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तां पूर्वोक्तां हित्वावद्यम् इमं लोकं गन्ता मज्-जनताम् असि [भा।पु। १.६.२४] इति भगवता प्रतिश्रुतां शुद्धां शुद्ध-सत्त्वमयीं यतो भागवतीं, न तु मायिकीं, तनुं प्रति मयि प्रयुज्यमाने भगवतैव नीयमाने सति मम पाञ्चभौतिको देहो न्यपतत् । गोषु दुह्यमानासु गत इति दोहन-गमनयोर् इव मम भौतिक-देह-त्याग-चिन्मय-देह-प्राप्त्योस् तुल्य-कालत्वम् एवाभूद् इत्य् अर्थः । हित्वावद्यम् इमं लोकम् इति भवद्-उक्तौ क्त्वा-प्रत्ययस् तुल्य-काल एव । यद् उक्तम्—क्वचित् तुल्य-कालेऽपि उपविश्य भुङ्क्ते ऋणत्-कृत्य पतति चक्षुः संमील्य हसति मुखं व्यादाय स्वपितीत्य् आदिकम् उपसङ्ख्येयम् इति भाषा-वृत्तौ, अनेन पार्षद-तनूनाम् अकर्मारब्धत्वं शुद्धत्वं नित्यत्वम् इत्य्-आदि सूचितं भवति इति श्रीधर-स्वामि-चरणाः ।
अत्र आरब्धानां कर्मणां तापकत्वाद् अग्नि-तुल्यानां निर्वाणो नाशो यत्र स इति बहुव्रीहिणा न केवलं तदानीम् एव प्रारब्ध-नाश इति लभ्यते, देह-पातात् पूर्व-कालेऽपि तन्-नाशे तत्-प्रयोग-सिद्धेः, न च जात-प्रेम्णो भक्तस्यापि प्रारब्धं तिष्ठतीति शुद्ध-भक्तानां मतं, साधन-दशायाम् एव तन्-नाशात् । यद् वक्ष्यते प्रियव्रत-कथायाम्—
नैवं-विधः पुरुष-कार उरुक्रमस्य
पुंसां तद्-अङ्घ्रि-रजसा जित-षड्-गुणानाम् ।
चित्रं विदूर-विगतः सकृद् आददीत
यन् नामधेयम् अधुना स जहाति तन्वम्8 ॥ [भा।पु। ५.१.३४]
अस्यार्थः—एवं-विधं पौरुषंन चित्रम् । चित्रं खल्व् एतद् एव । किं तद् ? इत्य् अत आह—_विदूर-विगतो_ऽन्त्यजोऽपि यन् नामधेयं सकृद् आददीत यः सः अधुना नाम-ग्रहण-सम-काल एव तन्वं तनूं जहाति । अत्र नाम-ग्रहण-सम-काल तनू-त्यागादर्शनात् तन्वारम्भकं प्रारब्ध-कर्मैव तनू-शब्देन लभ्यते इत्य् एके प्राहुः । अपरे तु भक्ति-सम्पर्कात् स्पर्श-मणि-न्यायेन त्रिगुण-मयी-तनूर् एव त्रिगुणातीता भवति, ध्रुवादौ तथा दर्शनात् । अत्र तस्यास् त्रैगुण्य-त्याग एव तनू-त्याग उच्यते ।
एतच् च रासारम्भे—जहुर् गुण-मयं देहं [भा।पु। १०.२९.११] इत्य् अत्र प्रपञ्चयिष्यते । क्वचित् तु मतान्तरोत्खाताभावार्थं स्व-भक्तानां देह-त्यागोऽपि भगवता दर्श्यत इत्य् आहुः, यथा जात-प्रेम्णोऽपि नारदस्य देह-त्यागस् तद् अपि प्रारब्ध-कर्म-नाशे भक्त्य्-आरम्भ एव व्याख्येयः । यद् उक्तं श्री-रूप-गोस्वामि-चरणैः नामाष्टके—
यद् ब्रह्म-साक्षात्-कृति-निष्ठयापि
विनाशम् आयाति विना न भोगैः ।
अपैति नाम स्फुरणेन तत् ते
प्रारब्ध-कर्मेति विरौति वेदः ॥ [नामाष्टक, ४] इति ।
प्रारब्ध-नाश एव देह-पात इत्य् अभिप्राये प्रारब्ध-कर्म-निर्वाणे न्यपतत् पाञ्चभौतिक इति सप्तम्य्-अन्तम् एव पदं प्रयुज्यते इत्य् अवधेयम् । तद् अप्रयुज्य बहुव्रीहि-प्रयोगेण भक्तानां प्रारब्ध-कर्म-निर्वाणाधिकरणीभूत एव देहः पतेत्, न तु ततोऽन्य इति ज्ञापितम् ॥२९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तदा तज्-जनताम् अगमम् इत्य् आह—तां मज्-जनतां गन्तासीति भगवता दातुं प्रतिज्ञातां शुद्धाममायैकीं यतो भागवतीं भगवत्-सङ्गल्प-प्रवृत्त-परख्य-शक्ति-सिद्धां तनुं प्रति मयि प्रयुज्यमाने भगवतैव नीयमाने सति पाञ्च-भौतिको देहो न्यपतत् । कीदृशः? आरब्धानां तद् इच्छयैव दग्ध-पट-न्यायेन स्थितानां कर्मणं वह्नि-तुल्यानां निर्वाणो यत्र सः । अत्र तत्पात-तत्-प्राप्त्योर् एक-कालत्वम्, उपविश्य भुङ्क्ते इत्य्-आदि । परात्मकत्वात् पूर्व-सिद्धो विज्ञानानन्द-रूपः पर-व्योम-शोभाभूतः पार्षद-विग्रह-व्युहो विभाति, तेनैकतमेन सद्-धर्म-भूत-ज्ञानारूढ-सायुज्यम् अभूत् । भगवद् अनुग्रहान्-मुक्तस्य पार्षद-तनुलाभः इति कठाः पठन्ति—यम् एवैष वृणृते तेन लभ्यस् तस्यैष आत्मा विवृणृते तनुं स्वाम् [क।उ। २.२२] इति । पूर्व-सिद्धा सा तनुः इति ताण्डिनः अश्व इव रोमाणि विधूय पापं धृत्वा शरीरम् अकृतं कृतात्मा ब्रह्म-लोकमभि सम्भवानि [छा।उ। ८.१३.१] इति । एवम् इहैव वक्ष्यात—
वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः ।
येऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् ॥ [भा।पु। ३.१५.१४] इति ॥२९॥
———————————————————————————————————————
॥ १.६.३० ॥
कल्पान्त इदम् आदाय शयानेऽम्भस्य् उदन्वतः ।
शिशयिषोर् अनुप्राणं विविशेऽन्तर् अहं विभोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदं त्रैलोक्यम् आदाय उपसंहृत्य उदन्वत एकार्णवस्य अम्भसि शयने श्री-नारायणो शिशयिषोः शयनं कर्तुम् इच्छोर् विभोर् ब्रह्मणोऽन्तर् मध्यम् अनुप्राणं निःश्वासेन सह विविशे प्रविष्टोऽहं,
ततोऽवतीर्य विश्वात्मा देहम् आविश्य चक्रिणः ।
अवाप वैष्णवीं निद्राम् एकी-भूयाथ विष्णुना ॥ इति कौर्मोक्तेः ।
“स्वायनेऽम्भसि” इति पाठे स्वायने स्वस्यायने आश्रयेऽ**म्भसि शिशयिषोर् ब्रह्मण **इति श्री-नारायणेनाभेद-विवक्षयोक्तम् इत्य् अवगन्तव्यम् ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : विविश इत्य्-आदि लीलयैवेति ज्ञेयम् ॥३०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु तव नित्य-तनुत्वे कथम् अस्मिन् कल्पे स्वायम्भुवे मन्वन्तरे उत्सङ्गान् नारदो जज्ञे इति ब्रह्मणः सकाशात् तव जन्म-प्रसिद्धिः ? सत्यम्, नित्य-तनोर् एव भगवतो लीला-विशेषार्थं देवक्य्-आदि-गर्भे प्रवेश इव ममापि ब्रह्म-पुत्रत्व-लीलार्थं पूर्व-कल्पान्त एव ब्रह्म-शरीरे प्रवेशोऽभूद् इत्य् आह—कल्पान्त इति । इदं त्रैलोक्यम् आदाय उपसंहृत्य उदन्वतः एकार्णवस्याम्भसि शयाने श्री-नारायणे शिशयिषोः शयनं कर्तुम् इच्छोर् विभोर् ब्रह्मणः अन्तर् मध्यम् अनु प्राणं विविशे प्रविष्टोऽहम् ।
ततोऽवतीर्य विश्वात्मा देहम् आविश्य चक्रिणः ।
अवाप वैष्णवीं निद्राम् एकीभूयाथ विष्णुना ॥ इति कूर्मोक्तः ।
“स्वायनेऽम्भसि” इति पाठे स्वायने स्वस्याधिकरणेऽम्भसीति नारायणेऽम्भसीत नारायणेनाभेद-विवक्षयेति मन्तव्यम् ॥३०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु चेन्-नित्य-तनुस् तत्-पार्षदस् त्वम् अभूस् तर्हि कल्पेऽस्मिन् स्वायम्भूवीयेऽस्तरे विरिञ्चात्तव जन्म कथम् उत्सङ्गान्-नारदो जज्ञे [भा।पु। ३.१२.२३] इति पठते? सत्यं, हरेर् लीला-विशेषाय देवकी-गर्भे इव ममापि विरिञ्च-पुत्रत्व-लीलार्थं पूर्व कल्पान्ते विरिञ्च-देहे प्रवेश इत्य् आशयेनाह—इदं त्रैलोक्यम् आदायोपसंहृत्य उदन्वत एकार्णवस्याम्भसि शयाने नारायणेऽधिकरणे शिशयिषोर् विभोर् विरिञ्चस्य अन्तर्मध्येऽनुप्राणं निश्वासेन सह विविशेऽहं प्रविष्टः ।
ततोऽवर्तीर्य विश्वात्मा देहम् आविश्य चक्रिणः ।
अवाप वैष्णवीं निद्राम् एकीभूयाथ विष्णुना ॥ इति कूर्म-वाक्यां ॥३०॥
———————————————————————————————————————
॥ १.६.३१ ॥
सहस्र-युग-पर्यन्ते उत्थायेदं सिसृक्षतः ।
मरीचि-मिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणेभ्य इन्द्रियेभ्योऽहं मरीचि-मिश्रास् तन्-मुख्या ऋषयश् च जज्ञिरे ॥३१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सहस्र-युगेति । युग-शब्दोऽत्र चतुर्युग-परः । जज्ञिमह इति वक्तव्ये जज्ञिर इत्य् आर्षम् । मरीचि-मिश्रा इत्य् अस्यायं भावः । यथा मरीच्य्-आदीनां ब्राह्म-कल्पाद् अनुवृत्तानां सम्प्रति सुप्त-प्रबुद्धतैव जन्मोच्यते, तथेति ज्ञेयम् । अत्रेदं विवेचनीयम्—
सर्वेषु वैकुण्ठेषु, सर्वेषु कालेषु च, श्री-नारदस्य नित्यता श्रूयत इति । यद्यप्य् एतन् न घटते, तथापि नित्य-श्री-नारद-सारूप्यादिकं प्राप्तं महा-भागधेयं जीव-विशेषम् अवलम्ब्य घटत इति ॥३१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सहस्र-युगस्य पर्यन्ते परिसमाप्तौ पूर्व-कल्पान्ते एतत्-कल्पादाव् इत्य् अर्थः । मरीचि-मिश्रा मरीच्य्-आद्यः प्राणेभ्यः इन्द्रियेभ्यः जज्ञिमह इति वक्तव्ये जज्ञिरे इत्य् आर्षम् ॥३१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सहस्र-युगस्य पर्यन्ते ऽवसाने एतत्-कल्पारम्भे विष्णोः सकाशाद् उत्थायेदं जगत् सिसृक्षते विरिञ्चस्य प्राणेभ्यो मरीचि-मिश्रास् तत्-प्रभृतयोऽहं च जज्ञिमहे प्रथम-पुरुष आर्षः ॥३१॥
———————————————————————————————————————
॥ १.६.३२ ॥
अन्तर् बहिश् च लोकांस् त्रीन् पर्येम्य् अस्कन्दित-व्रतः ।
अनुग्रहान् महा-विष्णोर् अविघात-गतिः क्वचित् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ये कर्मिणस् ते बहिर् न यान्ति, ये तप-आदिभिर् ब्रह्म-लोकं9 गतास् तेऽन्तर् न यान्ति । अहं तु महा-विष्णोर् अनुग्रहाद् अखण्डित-ब्रह्म-चर्य-व्रतः सन्न् अन्तर् बहिश् च पर्येमि पर्यटामि । क्वचिद् अप्य् अविघाता अप्रतिहता गतिर् यस्य सः ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्कन्दित-व्रतो निश्चल-भगवद्-भक्ति-नियमः । क्वचिद् वैकुण्ठादाव् अपि ॥३२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न च मरीच्य्-आदयः प्राकृताः स्व-स्व-कर्म-पतिताः इवाहं क्वापि कर्मणि नापि सनकाद्या इव ज्ञानेऽपि नियुक्तः, किं त्व् अहं प्रवृत्ति-निवृत्ति-धर्मातीतो हरिं भजन्न् एव स्वच्छन्देन वर्ते इत्य् आह—अन्तर् इति । ये कर्मिणस् ते बहिर् न यान्ति । अशक्तैः तप-आदिभिर् ब्रह्म-लोकं गता अन्तर् न यान्ति कर्म-बन्ध-भीतेः । अहं तु अखण्डित-स्व-भक्ति-निष्ठः सन्न् अन्तर् बहिश् च पर्येमि पर्यटामि । यद् वा, बहिर् ब्रह्माण्डात् महा-वैकुण्ठेऽपि अत एवोक्तं नारसिंहे—
सनकाद्या निवृत्ताख्ये ते च धर्मे नियोजिताः ।
प्रवृत्ताख्ये मरीचाद्या मुक्त्वैकं नारदं मुनिम् ॥ इति ॥३२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अस्कन्दितोऽखण्डितो व्रतो ब्रह्मचर्य-लक्षणो यस्य सोऽहं ब्रह्माण्डस्यान्तः तस्माद्-बहिश् च परम-व्योम्नि पर्येमीति मुक्तत्वं स्वसस्योक्तम् । श्रुतिश् च तस्यैवं भावम् आह— स स्वराड् भवति, तस्य सर्वेषु लोकेषु कामचारो भवति [छा।उ। ७.२५.२] इत्य्-आद्या, मरीच्याद्य् आस्त्वजात-मुक्तित्वात्तद् अन्तः सन्तीति ॥३२॥
———————————————————————————————————————
॥ १.६.३३ ॥
देव-दत्ताम् इमां वीणां स्वर-ब्रह्म-विभूषिताम् ।
मूर्च्छयित्वा हरि-कथां गायमानश् चराम्य् अहम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किम् इति पर्यटसि ? ईश्वराज्ञया लोक-मङ्गलार्थम् इत्य् आह चतुर्भिः । देवेन ईश्वरेण दत्ताम् । स्वरा निषाद-र्षभ-गान्धार-षड्ज-मध्यम-धैवत-पञ्चमा इति सप्त त एव ब्रह्म, ब्रह्माभिव्यञ्जकत्वात्, तेन विभूषिताम् । स्वतः-सिद्ध-सप्त-स्वराम् इत्य् अर्थः । मूर्च्छयित्वा मूर्च्छनालापवतीं कृत्वा ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : देवः श्री-कृष्ण एव । लिङ्ग-पुराणे उपरि-भागे तेनैव स्वयं तस्य वीणा-ग्राहणं हि प्रसिद्धम् । स्वरानां ब्रह्मत्वम् अत्र तस्यां वीणायां विन्यस्तानां तेषां सहसा श्री-कृष्ण-स्फोरकता-शक्तेः । सा च—शब्द-ब्रह्मणि निर्भात-हृषीकेश-पदाम्बुजं [भा।पु। ६.५.२२] इति तद्-विधानुभावात् । देव-दत्ताम् इति कृतोपकारकतायाः स्मर्यमाणत्वेन तम् अनुसन्धायैव तद्-उक्तेः ॥३३॥ [कृष्ण-सन्दर्भ ६०]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्वर्गापवर्ग-विलक्षणा सर्वैर् अन्यैर् दुर्लभा मम भोग-सामग्री तु सदा सर्वेत्रेत्य् आह द्वाभ्याम् । देवेन श्री-कृष्णेन दत्तां लिङ्ग-पुराणे तेनैव स्वयं तस्य वीणा-ग्राहणं हि प्रसिद्धम् । स्वराः षड्जादय एव ब्रह्म-स्फोरकत्वाद् ब्रह्म मूर्च्छयित्वा मूर्च्छनालापवतीं कृत्वा ॥३३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **किम् अर्थं पर्येषीति चेद् ईश्वराज्ञया लोक-मङ्गलायेत्य् आह—देवेति चतुर्भिः । देवेन कृष्णेन दत्ताम्, एवं लैङ्गे प्रसिद्धेः । स्वरा निषादादयस्त एव ब्रह्म-व्यञ्जकत्वाद्-ब्रह्म तेन विभूषितां स्वत-ःसिद्ध-सप्त-स्वराम् इत्य् अर्थः । मूर्छयित्वा मूर्छनालापवतीं कृत्वा ॥३३॥
———————————————————————————————————————
॥ १.६.३४ ॥
प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्व-प्रयोजनम् आह—प्रगायत इति ॥३४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्री-भगवतः प्रियश्रवस्त्वं नाम मत्तः सर्वेषां सुखम् एव भवतात् नैतरत् इति दया-मात्रापेक्षया, न तु स्व-प्रतिष्ठेच्छयेति विवेचनीयम् । अत्र यद्-रूपेण वीणा ग्राहिता, तद्-रूपेणैव चेतसि दर्शनं स्वारस्य-लब्धम् ॥३४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रियश्रवा इति । स्व-यशः-प्रियत्वाद् यत्र यत्र यशो-गानं तत्रायाति । **तीर्थ-पाद **इति यत्रायाति तत् तीर्थं भवति । आहूत इव आह्वानं विनापीति भगवतो भक्ति-वश्यत्वम् उक्तम् ॥३४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आहूत इवेति विनाप्य् आह्वानं, चेतसीत्य् उपलक्षणं
नाहं वसामि वैकुण्ठे योगिनां हृदये न च ।
मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥ इति भारतात् ॥३४॥
———————————————————————————————————————
॥ १.६.३५ ॥
एतद् ध्य् आतुर-चित्तानां मात्रा-स्पर्शेच्छया मुहुः ।
भव-सिन्धु-प्लवो दृष्टो हरि-चर्यानुवर्णनम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पर-प्रयोजनम् आह—एतद् धीति । मात्रा विषयास् तेषां स्पर्शा भोगास् तेषाम् इच्छया आतुराणि चित्तानि येषां तेषां हरि-चर्यानुवर्णनं यद् एतद् एव भव-सिन्धौ प्लवः पोतः । न केवलं श्रुति-प्रामाण्येन, किन्त्व् अन्वय-व्यतिरेकेभ्यां दृष्टः एवेत्य् अर्थः ॥३५॥
———————————————————————————————————————
सनातन गोस्वामी (ह।भ।वि। १०.५३१) : मुहुर् मात्राणां विषयाणाम् उपभोगस्येच्छया आतुराणि विकलानि चित्तानि येषां, तेषाम् अपि हरेः चर्याया लीलाया अनुवर्णनं यत् । यद् वा, मुहुर् आतुर-चित्तानां मात्रास्पर्शेच्छयापि यत् हरि-चर्यानुवर्णनम्, एतद् एव हि निश्चितं भव-सिन्धोःप्लवः पोतः सुखोत्तर-साधनम् । न केवलं श्रुति-प्रामाण्येन, किं तु अन्व्यय-व्यतिरेकाभ्यां दृष्ट एवेत्य् अर्थः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रकरणार्थम् उपसंहरति—एतद् इति । मात्रा विषयाः, तेषां स्पर्शा भोगाः, तद्-इच्छया व्याकुल-चित्तानां यो भव-सिन्धुः, तस्य प्लवः पोतः । **दृष्टो **मया साक्षात् प्रत्यक्षीकृतः, नात्र प्रमाणापेक्षेति भावः । एतद् एव हि हरि-चरितस्यानुवर्णनम् । अत्र सर्वत्रैव बह्व्-अङ्गाया अपि भक्तेः कीर्तनस्य मुख्यत्वात् कीर्तनोपलक्षिता सर्वैर् एव भक्तिर् ज्ञेयः ॥३५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रकरणार्थम् उपसंहरति—मात्राणां शब्द-स्पर्शादि-विषयाणां स्पर्शाः श्रोत्रादिभिर् अनुभवास् तेषाम् इच्छया आतुर-चित्तानां जनानां यो भव-सिन्धुस् तस्य प्लवः पोतो मयैतद्-दृष्टः प्रत्यक्षी-कृतः । न चात्र प्रमाणापेक्षेति भावः । एतत् किं? तत्राह—हरिचर्येति । अत्र भक्तेः कीर्तन-प्रधानत्वम् अभिमतम् ॥३५॥
———————————————————————————————————————
॥ १.६.३६ ॥
यमादिभिर् योग-पथैः काम-लोभ-हतो मुहुः ।
मुकुन्द-सेवया यद्वत् तथात्माद्धा न शाम्यति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतद् एवेत्य् उक्तम् अवधारणम् अनुभावेन द्रढयति—यमादिभिर् इति । यमादिभिस् तथा न शाम्यतियद्वन् मुकुन्द-सेवयाद्धा साक्षाद् आत्मा मनः शाम्यति । कथञ्चिन् मुकुन्द-सेवा-मात्रेण शाम्यति, किं पुनस् तद्-गुण-वर्णनेनेति भावः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भक्ति-सद्-भाव एव निस्तार इति निर्धारेऽपि यथा केवलया भक्त्या आत्मा साक्षात् शाम्यति न तथा भक्ति-मिश्रैर् योग-ज्ञानादिभिर् इत्य् आह । यमादिभिस् तथा न शाम्यति यद्वन् मुकुन्द-सेवया अद्धा साद्षाद् एव । अत्र पुरेह भूमन्न् [भा।पु। १०.१४.६] इत्य्-आदिना, नैष्कर्म्यं [भा।पु। १.५.२२] इत्य्-आदिना च योगादीनां भक्ति-राहित्ये वैयर्थ्याभक्ति-मिश्रैर् एव यमादिभिर् इति लभ्यते । अतस् तैर् आत्मा यद्यपि शाम्यति तद् अपि यद्वन् मुकुन्द-सेवया यमादि-विना-भूतत्वात् केवलयेत्य् अर्थः । तत्र भवतानुदित-प्रायं [भा।पु। १.५.८] इत्य्-आदिना तथात्माद्धा न शाम्यतीत्य् अन्तेन ग्रन्थेन भक्तेर् एव निस्तारोपायत्वेनोक्तेऽपि तस्यास् त्रैविध्यं दृश्यते केवलत्वं प्राधान्यं गुण-भावश् च । त्यक्त्वा स्व-धर्मं [भा।पु। १.५.१७] इत्य्-आदिषु, अहं पुरातीत-भव [भा।पु। १.५.२३] इत्य्-आदिषु च केवलत्वम् ।
कुर्वाणा यत्र कर्माणि भगवच्-छिक्षयासकृत् ।
गृणन्ति गुण-नामानि कृष्णस्यानुस्मरन्ति च ॥ [भा।पु। १.५.३६] इत्य्-आदिषु प्राधान्यम् ।
यद् अत्र क्रियते कर्म भगवत्-परितोषणम् ।
ज्ञानं यत् तद्-अधीनं हि भक्ति-योग-समन्वितम् ॥ [भा।पु। १.५.३५]
तत्र केवलत्वे निष्कामाधिकारिणो भक्तिर् अनन्या शुद्धा निर्गुणा उत्तमा अकिञ्चनेत्य् आदि नाम्नी प्रेम-फला भवति । प्राधान्ये कर्म-मिश्रा-ज्ञान-मिश्रा-योग-मिश्रेत्य्-आदि-नाम्नी भक्तिः शान्ताधिकारिणो रति-फला कस्यचिन् मोक्ष-फलापि भवति । दास्यादि-भाव-वत् साधु-सङ्ग-वशात् कस्यचित् दास्याद्य्-अभिलाषिणो भक्तेर् अतिप्राधान्ये सत्य् ऐश्वर्य-प्रधान-दास्यादि-भाव-प्रदा प्रेम-फलापि भवति । गुण-भावे तु स्वीयं नाम-फलं चाप्रकाशयन्ती कर्म-ज्ञान-योगादीनां तया विना प्रति स्व-फलं सम्यक् साधयितुम् असमर्थानां तत्र साहाय्य-मात्रं कुर्वती स्वयं तटस्थेव भवति ततश् च भक्ति-मिश्रं कर्म ज्ञानं योगश् च मोक्षं साधयतीत्य् अतोऽत्र शास्त्रे भक्तिर् द्विविधैव । केवला प्रधानीभूता चेत्य् एतत् सर्वं नारदेनोपदिष्टो व्यासो द्वादशसु स्कन्धेषु प्रपञ्चयिष्यतीति ज्ञेयम् ॥३६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथाभिमतायाः शुद्धाया भक्तेः प्राबल्यम् आह—यमादिभिर् भक्ति-मिश्रैर् अपि योग-पथैर् आत्मा तथा न शाम्यति शुध्यति । कीदृशः? काम-लोभहतः, यथा मुकुन्द-सेवया यमादि-निरपेक्षयाभिमतया भक्त्या अद्धा साक्षात् शाम्यतीति । इह भवतानुदितप्रायम् [भा।पु। १.५.८] इत्य्-आदिन । तथात्माद्धा न शाम्यति [भा।पु। १.६.३६] इत्य् अन्तेन साधन-पद्धति-रुपदिष्टा । तत्र त्यक्त्वा स्व-धर्मम् [भा।पु। १.५.१७] इत्य्-आदिना अहं पुरातीत [भा।पु। १.५.२३] इत्य्-आदिना च निरपेक्षाणां विशुद्धा भक्तिर् उद्दिष्टा । कुर्वाणा यत्र कर्माणि भगवच्-छिक्षया [भा।पु। १.५.३६] इत्य्-आदि परिनिष्ठितानां कर्मोपसृष्टा भक्तिः, यद् अत्र क्रियते कर्म [भा।पु। १.५.३५] इत्य्-आदिना त्व् अन्तर्गत-ज्ञान-तद् अर्पितकर्म-रूपा सनिष्ठानां योगोपसृष्टा च सेत्येवं व्यासोऽपि वर्णयेदित्य् अपेक्ष्य ॥३६॥
———————————————————————————————————————
॥ १.६.३७ ॥
सर्वं तद् इदम् आख्यातं यत् पृष्टोऽहं त्वयानघ ।
जन्म-कर्म-रहस्यं मे भवतश् चात्म-तोषणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भवतो मनः-परितोषकं चाख्यातम् ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्वं भक्तेर् आविर्भाव-प्रकारो वृद्धिः फलं तद्वतो जनस्य चेष्टा-प्रारब्ध-कर्म-नाशः साधक-देह-त्याग-प्रकारोऽकर्मारब्ध-चिन्मय-देह-प्राप्तिश् च रहस्यं वेदान्त-दर्शिभिर् अप्य् अगम्यम् ॥३७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सर्वम् इति—भक्ति-प्राकट्य-तद्-वृद्धि-तत्-फल-रूपं भक्तस्योत्तर-चेष्टितारब्धविनाश-तन्-निर्मित-देह-निपात-पार्षदतनुलाभ-रूपञ्चेत्य् अर्थः । रहस्यं गोप्यम् ॥३७॥
———————————————————————————————————————
॥ १.६.३८ ॥
सूत उवाच—
एवं सम्भाष्य भगवान् नारदो वासवी-सुतम् ।
आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आमन्त्र्य अनुज्ञाप्य । यादृच्छिकः स्व-प्रयोजन-सङ्कल्प-शून्यः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आमन्त्र्य अनुज्ञाप्य । यादृच्छया चरतीति यादृच्छिको हेतु-शून्य-गमनादि-क्रिय इत्य् अर्थः । तेन च भक्तिर् यादृच्छिकी, भक्तोऽपि यादृच्छिकस्, तत्-सङ्गोऽपि व्यासस्य यादृच्छिक इति भक्तिमतां यादृच्छिक-त्रयी जीवातु ॥३८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आमन्त्रानुज्ञाप्य, यादृच्छिको निर्निमित्त-गमादिकः ॥३८॥
———————————————————————————————————————
॥ १.६.३९ ॥
अहो10** देवर्षिर् धन्योऽयं यत्-कीर्तिं शार्ङ्ग-धन्वनः ।**
गायन् माद्यन्न् इदं तन्त्र्या रमयत्य् आतुरं जगत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हरि-कथा-गायक-नारद-भाग्यं श्लाघते—अहो इति । माद्यन् कृष्यन् । तन्त्र्या वीणया ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अतो विस्मयं प्रकाशयन्न् आह—अहो इति । तन्त्र्या वीणया ॥३९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विस्मयं प्रकाशयन्न् आह—अहो इति । तन्त्र्या वीणया ॥३९॥
\
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां षष्ठोऽध्यायः ॥६॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे
व्यास-नारद-संवादो नाम
षष्ठोऽध्यायः ।
॥१.६॥
(१.७)
-
“कृष्ण-सङ्कीर्तनोद्भवम्” इति पाठः । ↩︎
-
उपेक्षया, अवेक्षया ↩︎
-
“आस्थितः” इति मूल-टीकयोः क्वचित् पाठः । ↩︎
-
“उत्तस्थौ” इत्य् अपि पाठः क्वचित् । तथाप्य् आत्मनेपद-पाठ एव युक्तः । ↩︎
-
वेद-वाचाम् अविषय इति पाठः । ↩︎
-
अनन्तस्येत्य् आदि गृणन्न् इत्य् अन्तः पाठः प्राचीन-पुस्तकेषु न दृश्यते । ↩︎
-
सुदामेत्य् आरम्भ्य नैरुक्त-स्मरणाद् इत्य् अन्तो ग्रन्थः प्राचीन-पुस्तकेषूपलब्धः । ↩︎
-
बन्धम् इति भागवत-मूले पाठः। ↩︎
-
‘बहि-लोकं गताऽ इत्य् अपि पाठः । ↩︎
- ↩︎