०५ नारद-व्यास-संवादः

विषयः

नारद-व्यास-संवादः, भगवद्-गुण-कर्म-वर्णनस्य महत्त्वं,
देवर्षि-नारद-कर्तृकं स्वकीय-पूर्व-जन्म-वृत्तान्त-कथनं च ।

॥ १.५.१ ॥

सूत उवाच—

अथ तं सुखम् आसीन उपासीनं बृहच्-छ्रवाः ।

देवर्षिः प्राह विप्रर्षिं वीणा-पाणिः स्मयन्न् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

पञ्चमे सर्व-धर्मेभ्यो हरि-कीर्तन-गौरवम् ।

व्यास-चित्त-प्रसादाय नारदेनोपदिश्यते ॥*॥

उप समीपे आसीनं विप्रर्षिं व्यासम् । बहु-श्रवा महा-यशाः । स्मयन्न् ईषद् धसन्न् इवेत्य् अनेन मुख-प्रसत्तिर् द्योत्यते । यद् वा इवेत्य् अनधिकारार्थम् । अहो महान् अपि मुह्यतीति स्मयमानः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

पञ्चमे ज्ञान-कर्मादेर् वैयर्थम् उपपादयन् ।

भक्तिं कीर्तन-मुख्याङ्गां नारदस् तम् उपादिशत् ॥*॥

उपासीनम् आतिथ्यार्थम् आसनार्घ्य-पाद्यादिभिः उपासनां कुर्वन्तम् एवाह । स्मयन्न् इव ओष्ठाधराभ्यां स्मितं निष्क्रमयन्निव सर्वज्ञतया तं प्रत्यन्तः-प्रसादम् । नाना-प्रश्न-कौतुकार्थम् अवहित्थया गोपयितुम् अशक्नुवन्न् इत्य् अर्थः ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

रुक्षस्य ज्ञान-कर्मादेर् वैफल्यं नारदो वदन् ।
भक्तेः कीर्तन-भूयस्याः साफल्यं प्राह पञ्चमे ॥

\

अथार्घाद्य् आनन्तरं सुख-समासीनः बृहच्-छ्रव महा-कीर्तिर् देवर्षिस् तम् उपासीनं सन्निधिस्थं विप्रर्षिं व्यासं प्राह, स्मयन्न् इवेति प्रसादः सूच्यते ॥१॥

———————————————————————————————————————

॥ १.५.२ ॥

नारद उवाच—

पाराशर्य महा-भाग भवतः कच्चिद् आत्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **शारीर-मानसयोर् अभेदाद् उभयथापि युज्यते । स्वतन्त्रत्वाद् आत्मनैव ह्य् अलं बुद्धिः ॥२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : शारीरः शरीराभिमान्य् आत्मा आत्मना तेन शरीरेण कच्चित् किं परितुष्यति ?मानस आत्मा मनोऽभिमानी, तेन मनसा परितुष्यति कच्चिद् नो वा ? ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :शारीरः शरीराभिमानी आत्माआत्मना तेन शरीरेण किं तुष्यति ?**मानस आत्मा **मनोऽभिमानी, तेन मनसा । कच्चिद् इति प्रश्ने । किं परितुष्यति नो वा । पाराशर्य इति महा-भाग इत्य् आभ्यां पैतृक-स्वीय-प्रभाववतोऽपि कोऽयं विषाद इति विस्मयो व्यञ्जितः ॥२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कुशलं पृच्छति—पाराशर्येति । हे महा-भाग! ज्ञान-बलैश्वर्याद्य्-अनन्त-स्वानुबन्धि-गुण-निधे! भवतस् तव **शारीरो-मानसश् **च आत्मा कृतावतार-कार्य आत्मना तेन तेन स्वरूपेण **परितुष्यति । कच्चिद् **इति प्रश्ने । कच्चित् स्यात् प्रश्न-काम्ययोः इति हलायुधः । ईश्वरस्य शरीर-मनसोर् आत्मा-भेदाच्-छारीर इत्य्-आद्य्-उक्तिः । देह-देहि-भिदा चैव नेश्वरे विद्यते क्वचित् [कौर्मे] इति स्मृतेः । उभयत्र स्वार्थिकः प्रज्ञाद्यन् । सम्बोधनाभ्याम् ईदृशस्य ते हृद्-वितापो न युक्त इति सूच्यते ॥२॥

———————————————————————————————————————

॥ १.५.३ ॥

जिज्ञासितं सुसम्पन्नम् अपि ते महद्-अद्भुतम् ।

कृतवान् भारतं यस् त्वं सर्वार्थ-परिबृंहितम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ते जिज्ञासितं ज्ञातुम् इष्टं धर्मादि यत् तत् सर्वं सुसंपन्नं सम्यग् ज्ञातम् । अपि-शब्दाद् अनुष्ठितं चेत्य् अर्थः । अयीति पाठे संबोधनम् । सुसंपन्नत्वे हेतुः—महद्-अद्भुतम् इत्य्-आदि । सर्वैर् अर्थैर् धर्मादिभिः परिभृंहितं परिपूर्णम् ॥३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कृतवान् भारतम् इत्य् अस्य विरोधि यन् मात्स्ये श्रूयते—

अष्टादश-पुराणानि कृत्वा सत्यवती-सुतः ।
भारताख्यानम् अखिलं चक्रे तद्-उपबृंहितम् ॥ इति ।

तत्र—

स संहितां भागवतीं कृत्वानुक्रम्य चात्म-जम् ।
शुकम् अध्यापयाम् आस निवृत्ति-निरतं मुनिः ॥ [भा।पु। १.७.८]

इति सप्तमाध्याय-वाक्येन समाधानं दृश्यते । प्रथमतः सामान्यतया कृत्वा श्री-नारदोपदेशानन्तरम् अनुक्रम्य तत्-सम्मत्य्-अनुक्रमेण विशेषतः कृत्वेति ह्य् अत्रार्थः ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च तव शास्त्र-ज्ञानं किञ्चिद् अपेक्षितव्यं तद्-अलब्धि-मूलकोऽयं विषाद इति वाच्यम् । यतो जिज्ञासितम् इत्य्-आदि ॥३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कृतावतार-प्रयोजनत्वाच् च स नोचित इत्य् आह—जिज्ञासितं ज्ञातुम् इष्टऊ यद्-वेद-व्यसन-धर्मादि तत्तव सुसम्पन्नं संसिद्धम् । महत् स्वरूपतः, अद्भुतं बोधतः, यस्त्वं भारतं कृतवान् प्रकटयाञ्चकार्थ सर्वैर् धर्मादिभिर् अर्थैः परिबृंहितं परिपूर्णम् ॥३॥

———————————————————————————————————————

॥ १.५.४ ॥

जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् ।

तथापि शोचस्य् आत्मानम् अकृतार्थ इव प्रभो ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **शोचसि प्रकाशयसि । अजस्रेण शोचिषाशोशुचान इति हि श्रुतिः ॥४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कीं च, यत् सनातनं नित्यं परं ब्रह्म, तच् च त्वया जिज्ञासितं विचारितम् अधीतम् अधिगतं प्राप्तं चेत्य् अर्थः । अथापि शोचसि तत् किम्-अर्थम् इति शेषः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चानुभव-ज्ञानम् अपेक्षितव्यम् इत्य् अपि वाच्यः यतः सनातनं नित्यं ब्रह्म व्यापकं निर्विशेष-स्वरूपं यत् तद् अपि जिज्ञासितं वेदान्त-सूत्र-करणैर् विचारितम् । न केवलं जिज्ञासितम् एव अपि तु अधीतम् अवगतम् अनुभव-गोचरीकृतम् इत्य् अर्थः । अत्र अधीतम् अधिगतं प्राप्तम् इत्य् अर्थ इति श्री-स्वामि-चरणाः ॥४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सनातनं नित्यं यद्-ब्रह्म-परतत्त्वं तत्त्वया जिज्ञासितं चतुर्भिर् लक्षणैर् विचारित मधीतं च स्मृतम् अनुभूतम् इत्य् अर्थः । एवं कृतावतार-प्रयोजनस् त्वं तथाप्य् अकृतार्थ इव तद्-विलक्षणवद् आत्मानं शोचसि, को हेतुः? ॥४॥


॥ १.५.५ ॥

व्यास उवाच—

अस्त्य् एव मे सर्वम् इदं त्वयोक्तं

तथापि नात्मा परितुष्यते मे ।

तन्-मूलम् अव्यक्तम् अगाध-बोधं

पृच्छामहे त्वात्म-भवात्म-भूतम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

ज्ञान-शक्ति-स्वरूपोऽपि ह्य् अज्ञाशक्तं वदेद् धरिः ।
अज्ञानां मोहनायेशस् तेन मुह्यन्ति मोहिताः ॥ इति पाद्मे ॥५ ॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्मा शारीरो मानसश् च । तन्-मूलं तस्यापरितोषस्य कारणम् । अव्यक्तम् अस्फुटम् । हे नारद, त्वा त्वां पृच्छाम । आत्म-भवो ब्रह्मा तस्यात्मनो देहाद् उद्भूतस् त्वम् । अत एवागाधोऽतिगम्भीरो बोधो यस्य तं त्वाम् ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यापरितोषस्य मूलः कारणम् अव्यक्तम् अस्माभिर् दुर्ज्ञेयं त्वां वयं पृच्छाम अत्र हे इति सम्बोधनेन न चाहम् अभिजानामीति वाच्यम् । यत आत्म-भवो ब्रह्मा तस्यात्मनो देहात् भूतं जातम् इति पैतृक-प्रभावः । अगाध-बोध इति स्वीयश् च प्रभावस् तज्-ज्ञाने कारणम् अस्त्य् एवेति भावः ॥५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवं पृष्टः प्राह—अस्त्य् एवेति । तन्-मूलं तस्यापरितोषस्य कारणम् । अव्यक्तं दुर्ज्ञेयं त्वां पृच्छामः । कीदृशम् इत्य् आह—आत्म-भवस्य विरञ्चेरात्मनो भूतं जातम् इति विशेषणाभ्यां तत्-कथने सामर्थ्यम् उक्तम् ॥५॥

———————————————————————————————————————

॥ १.५.६ ॥

स वै भवान् वेद समस्त-गुह्यम्

उपासितो यत् पुरुषः पुराणः ।

परावरेशो मनसैव विश्वं

सृजत्य् अवत्य् अत्ति गुणैर् असङ्गः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अगाध-बोधतां प्रपञ्चयन्न् आह—स वेति द्वाभ्याम् । सर्व-गुह्य-ज्ञाने हेतुः—यद् यस्मात् पुराणः पुरुष उपासितस् त्वया । कथंभूतः । परावरेशः कार्य-कारण-नियन्ता । मनसैव सङ्कल्प-मात्रेण गुणैः कृत्वा विश्वं सृजतीत्यादि ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वया यत् पुराणः पुरुष उपासितः तेन पराशर-पुत्रत्वेन महा-भागत्वेन चतुर्वेदज्ञत्वेन ब्रह्मानुभवित्वेन च त्वयाहम् उक्तस् त्वं तु ब्रह्मणः पुत्रोऽगाध-बोधं सर्वज्ञो भगवद्-उपासक इति मत्तः सर्वतहिवातितराम् एव विशिष्ट इति भावः । परावरेश इत्य्-आदि-विशेषणकः स वै निश्चितं भवान् एव तव भगवद्-अवतारत्वाद् अतो भवान् समस्तानां समस्तं च गुह्यं वेद ॥६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उक्तम् अगाध-बोधत्वम् आह—स इति । समस्त-गुह्य-वेत्तृत्वे हेतुः—यत् पुराणः पुरुषः कृष्णस् त्वयोपासितः, परेषां मुक्तानाम् अवरेषां चामुक्तानाम् ईशः, यो मनसा सङ्कल्पेनैव गुणैर् विश्वं सृजतीत्य्-आदि । असङ्गस् तैर् अस्पृष्टः । तथा च पाराशर्यत्वादि-गुणकान्-मत्तस् त्वं ब्रह्म-पुत्रत्वादि-धर्मातिशयी सर्व गुह्यवेत्तेति ॥६॥

———————————————————————————————————————

॥ १.५.७ ॥

त्वं पर्यटन्न् अर्क इव त्रि-लोकीम्

अन्तश्-चरो वायुर् इवात्म-साक्षी ।

परावरे ब्रह्मणि धर्मतो व्रतैः

स्नातस्य मे न्यूनम् अलं विचक्ष्व ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, त्वं त्रि-लोकीं पर्यटन्न् अर्क इव सर्व-दर्शी । योग-बलेन प्राण-वायुर् इव सर्व-प्राणिनाम् अन्तश्-चरः सन्न् आत्म-साक्षी बुद्धि-वृत्ति-ज्ञः । अतः परे ब्रह्मणि धर्मतो योगेन निष्णातस्य । तद् उक्तं याज्ञवल्क्येन (१.८)—

इज्याचार-दमाहिंसा-दान-स्वाध्याय-कर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्म-दर्शनम् ॥ इति ।

अवरे च ब्रह्मणि वेदाख्ये व्रतैः स्वाध्याय-नियमैर् निष्णातस्य मेऽलम् इत्य् अर्थं यन् न्यूनं तद् विचक्ष्व वितर्कय ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

भगवत्-सन्दर्भः (७०.३): त्वम् इति । त्वमर्क इव त्रिलोकीं पर्यटन्, तथा वैष्णव-योग-बलांशेन च प्राण-वायुर् इव सर्व-प्राणिनाम् अन्तश्चरः सन् आत्मनां सर्वेषाम् एव साक्षी बहिर् अन्तर् वृत्ति-ज्ञः । अतः परे ब्रह्मणि धर्मतो योगेन निष्णातस्य । तद् उक्तं याज्ञवल्क्येन—

इज्याचार-दयाहिंसा-दान-स्वाध्याय-कर्मणाम् ।
अयं परमो लाभो यद् योगेनात्म-दर्शनम् ॥ इति ।

अवरे च ब्रह्मणि वेदाख्ये व्रतैः स्वाध्याय-नियमैर् निष्णातस्यापि मेअलम् अत्यर्थं यन् न्यूनं तत् स्वयम् एव विचक्ष्व वितर्कय ॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-लोक-हितार्थम् एव पुराण-पुरुषस् तद्-रूपेणावतीर्णस् तन् ममाद्य हितं कुरुष्वेत्य् आह । त्रिलोकीं पर्यटन् अर्क इव सर्व-दर्शी वायुर् इवान्तश्चरआत्म् एव साक्षी बुद्धि-वृत्तिज्ञः । अतः परे ब्रह्मणि धर्मतः योगेन निष्णातस्य तद् उक्तं याज्ञवल्क्येन—

इज्याचार-दम-हिंसा-दान-स्वाध्याय-कर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्म-दर्शनम् ॥ इति ।

अवरेब्रह्मणि वेदाख्ये व्रतैः स्वाध्याय-नियमैः निष्णातस्यअलम्अत्यर्थं यन्न्यूनं तद् विचक्ष्व वितर्कय ॥७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पुराण-पुरुषोपासनया तव महती शक्तिर् इत्य् आह—त्वम् इति । त्रिलोकीं पर्यटन्न् अर्क इव सर्व-दर्शी, योग-बलेन प्राण-वायुर् इव प्राणिनाम् अन्तश्-चरः सन्न् आत्म-साक्षी प्रसृतया प्रज्ञया तेषां धी-वृत्तिवित् परे ब्रह्मणि हरौ धर्मतो योगेन । **अवरे ब्रह्मणि **वेदे व्रतैः स्वाध्याय-नियमैर् निष्णातस्य मे यद् अलम् अतिशयितं न्यूनं तद् विचक्ष्व ब्रूहि ॥७॥

———————————————————————————————————————

॥ १.५.८ ॥

श्री-नारद उवाच—

भवतानुदित-प्रायं यशो भगवतोऽमलम् ।

येनैवासौ न तुष्येत मन्ये तद् दर्शनं खिलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुदित-प्रायम् अनुक्त-प्रायम् । अमलं भगवद्-यशो विना येनैव धर्मादि-ज्ञानेन असौ भगवान् न तुष्येत, तद् एव दर्शनं ज्ञानं खिलं न्यूनं मन्येऽहम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (भगवत्-सन्दर्भः, ७०.४): भगवद्-यशो-वर्णनोपलक्षणं भजनं विना येनैव रुक्ष-ब्रह्म-ज्ञानेन असौ भगवान् तु तुष्येत, तद् एव दर्शनं ज्ञानं खिलंन्यूनंमन्ये, तद् एव स्पष्टयेति ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भवता इति । यशो-वर्णनाभाव-मयेन ब्रह्म-ज्ञानेनापि खिलम् इति श्री-भगवद्-आख्य-पूर्ण-तत्त्वाविर्भावाभावात् ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :अनुदित-प्रायम् अनुक्त-प्रायम् । भगवतो यशः सर्व-स्वरूपेभ्यो भगवत्-स्वरूपस्योत्कर्षः, सर्वोत्कर्ष-द्योतिनी तस्य लीला भक्तिश् च । ननु मया ब्रह्म-मीमांसा-शास्त्रं वेदान्त-दर्शनङ्कृतं ? तत्राह—येनेति । तद्-दर्शनं दर्शन-शास्त्रम् अपि खिलं न्यूनम् एव मन्ये, तद्-दर्शन-कर्तुर् एव तवापि चित्ताप्रसादश् चेत् तर्हि अधीत्याधीत्य तद्-दर्शनाभ्यासीनाम् अपि कथं चित्तं प्रसीदन्तु ? इत्य् अत्र भवान् एव प्रमाणम् इति भावः ॥८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **न्यूनं ब्रवीति—भवतेति । अनुदित-प्रायम् अनुक्त-प्रायम् । ननु मया चतुर् लक्षणी-वेदान्त-दर्शनं प्रकटितम् अस्ति, यत्र पर-तत्त्व-निरूपणं? तत्राह—येनासौ हरिर्न तुष्येत, तद्-दर्शनं खिलं न्यूनं मन्ये, तत्र तद्-यशसोऽनुक्त-प्रायत्वात्, अन्यथा तत्-प्रकटयितुस् तव हृद्-वितापः कथम् इति भावः ॥८॥

———————————————————————————————————————

॥ १.५.९ ॥

यथा धर्मादयश् चार्था मुनि-वर्यानुकीर्तिताः ।

न तथा वासुदेवस्य महिमा ह्य् अनुवर्णितः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **धर्मादीनाम् अल्प-कथनेन पूर्तिः, न वासुदेव-महिम्नोऽति कथितस्यापि ॥९ ॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु भगवद्-यश एव तत्र तत्रानुवर्णितं तत्राह—यथेति । च-शब्दाद् धर्मादि-साधनानि च । तथा धर्मादिवत् प्राधान्येन वासुदेवस्य महिमा न ह्य् उक्त इत्य् अर्थः ॥९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथा तद्वद् अपि ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु पुराणेषु पाद्मादिषु भगवद्-यशो वर्णितम् एव ? इति तत्राह—यथेति । च-कारोऽप्य्-अर्थे धर्मादयोऽपि वासुदेव-महिमतोऽतिनिकृष्टा अपि यथा अर्था अनुकीर्तिताः पुरुषार्थत्वेनोक्तास् तथा वासुदेवस्य महिमा न वर्णितः । पुरुषार्थ-शिरोमणिर् अपि पुरुषार्थत्वेनापि न वर्णितः । वर्णितोऽपि भूरिशस् तत्र तत्र तन्-महिमा अन्ततो मोक्ष-साधनत्वेनोक्तः । अतोऽत्यादरणीयस्य वस्तुनः आदराभावश् चित्तस्याप्रसादम् अपि किं न करोत्व् इति भावः ।

ननु, अन्यत्र पुण्य-तीर्थेषु मुक्तिर् एव महा-फलम् । मुक्तैः प्रार्थ्या हरेर् भक्तिर् मथुरायां च लभ्यत इति ।

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ [गीता १८.५५]

इत्य्-आदिभिस् तत्र तत्र क्वचिन् मोक्षोपर्य् अपि भक्तिर् उक्तेत्य् अत आह—अन्व् इति । अन्व् अनु पौनः-पुन्येन न वर्णितः । आनन्दमयोऽभ्यासात् [वे।सू। १.१.१३] इत्य् अत्र अभ्यासस्यैव शास्त्र-तात्पर्य-ज्ञापकत्वेनोक्तत्वात् । अतो भगवन्-महिम्नि एव फलत्वेनोत्कर्षे पौनः-पुन्येन स्पष्टतया यदा वर्णयिष्यसि, तदैव ते चित्त-प्रसादो भावीति भावः ॥९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु भारते मया हरिः कीर्तितः? तत्राह—यथेति । -कारोऽप्य्-अर्थे, धर्मादयोऽपि तुच्छार्थाः, यथा प्राधान्येनानुकीर्तिताः, न तथा हरेर् महिमा, किन्तु किञ्चित् क्वचित् स वर्णितः, तथा च कर्करेषु माणिक्यम् इव धर्मादिषु निक्षिप्तः कुर्याद् एव स ते हृद्-वितापं । किं च, गृध्र-गोमाषु-विडालाखु-कथा-शवलं तव भारतं, कथं तेन तत्-तोषः? ॥९॥

———————————————————————————————————————

॥ १.५.१० ॥

न यद् वचश् चित्र-पदं हरेर् यशो

जगत्-पवित्रं प्रगृणीत कर्हिचित् ।

तद् वायसं तीर्थम् उशन्ति मानसा

न यत्र हंसा निरमन्त्य् उशिक्-क्षयाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : वायसं तीर्थम् वयो-मात्रानुजीवि-शास्त्रम् ॥१०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वासुदेव-व्यतिरिक्तान्य-विषय-ज्ञानवद् एवान्य-विषयं वाक्-चातुर्यं च खिलम् एवेत्य् आह—नेति । चित्र-पदम् अपि यद् वचो हरेर् यशो न प्रगृणीत, तद् वायसं तीर्थं काक-तुल्यानां कामिनां रति-स्थानम् उशन्ति मन्यन्ते । कुतः ? मानसाः सत्त्व-प्रधाने मनसि वर्तमाना हंसा यतयो यत्र न निरमन्ति, कर्हिचिद् अपि नितरां न रमन्ते । उशिक्-क्षया उशिक् कमनीयं ब्रह्म, क्षयो निवासो येषां ते । यथा प्रसिद्धा हंसा मानसे सरसि चरन्तः कमनीय-पद्म-खण्ड-निवासास् त्यक्त-विचित्रान्नादि-युक्तेऽप्य् उच्छिष्ट-गर्ते काक-क्रीडा-स्थाने न निरमन्त इति श्लेषः1 ॥१०॥

———————————————————————————————————————

कैवल्य-दीपिका : न यद् इत्य्-आदि । वचो वाक्यं चित्रानि पदानि यत्र तत् तथा । जगत् पवित्रं यस्मात् तत् तथा । कर्हिचिद् उशन्ति मन्यन्ते मानसा हंसाः, ब्रह्म मनसि भवाः शनकादयः । विरमन्ति विशेषाद् रमन्ते । उशिक् उत्तमः क्षयो निवासो येषां ते तथा । काक-तीर्थ-पक्षे मानस-सरोवर-स्थाः ॥१०॥ [मु।फ। ८.२७]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यत्र तत्-सम्बन्ध-मात्रं नास्ति, तत् पुनर् अतिनिन्दितम् इत्य् आह—न यद् वच इति । कर्हिचित् कुत्रचिद् अपि, न प्र-कर्षेण केनाप्य् अंशेन गृणीत ॥१०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वासुदेव-महिम-वर्णनाभावे कवि-कृति-मात्रस्यैव जुगुप्सितत्वम् एवाह—न यद् इति । यद् वचः कर्तृ चित्राणि गुणालङ्कार-युक्तानि पदानि यत्र तत् श्लेषेण चित्रस्य विस्मयस्य स्थानम् अपि हरेर् यशो न प्रगृणीत । कीदृशं ? जगद् अपि पवित्रयतीति तत् स्व-श्रोतृ-वक्त्र् आद्य्-आत्मकं सर्वं जगद् अपि पुनाति, किं पुनः स्वम् इति । जीवन-तुल्येन तद्-यशस्य विना कवि-वचोऽलङ्कारादि-युक्तं मृत-शरीरम् इवापवित्रं भवतीति भावः । तद् वायसं तीर्थम् उच्छिष्टाविचित्रान्नादि-युक्तं गर्त-विशेषं काक-तुल्यानां कामिनाम् अभिलषणीयत्वात् । उशन्ति मन्यते । कुतः ? मानसा मानस-सरोवरस्था हंसाः, पक्षे मानसा हरेर् मनसि स्थिता भक्ता यत्र न नितरां रमन्ते, न सर्वथैव रमन्त इत्य् अर्थः । साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहं [भा।पु। ९.४.६८] इति भगवद्-उक्तेः ।

यद् वा, मानं तद्-वचस आदरम् अरमणात् स्यन्ति नाशयन्ति । यद् वा, मानसाः सनकादय इत्य् उशन्तीत्य् अस्य कर्तृ-पदं यत उशिक् कमनीयं सरो भगवद्-धाम च क्षयो निवासो येषां ते । अत्र वचः-शब्देन वाक्ये अभिधीयमाने,

नाभागो नभगापत्यं यं ततं भ्रातरः कविम् ।
यविष्ठं व्यभजन् दायं ब्रह्मचारिणम् आगतम् ॥ [भा।पु। ९.४.१]

इत्य्-आदीनां श्री-भागवतीयानाम् अपि पृथग्-वाक्यानां वायस-तीर्थत्वं प्रसज्जते । शास्त्रेऽभिधीयमाने व्यासादि-कृतेषु पुराणादिषु न कुत्रापि हरि-यशः सामान्याभाव इति न कस्यापि वायस-तीर्थत्वं स्यात् । तस्मात् —

कलि-मल-संहति-कालनोऽखिलेशो
हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् ।
इह तु पुनर् भगवान् अशेष-मूर्तिः
परिपठितोऽनु-पदं कथा-प्रसङ्गैः ॥ [भा।पु। १२.१२.६६]

इति द्वादशोक्तेर् अत्र वचः-शब्देनोत्तरत्र वाग्-विसर्ग-पदेन च कथा-प्रसङ्ग एवोच्यते । एवं च सत्य् अत्रत्यानि सर्गाण्य् एवोपाख्यानानि हरि-यशोऽलङ्कृतान्य् एव । अन्यत्र पूराणादौ बहून्य् एवाख्यानानि हरि-यशो-रहितानि वायस-तीर्थान्य् एवेति सङ्गतिः ॥१०॥

[अत्र यथा-श्लोकं पुनः १२.१२.५१-तम-पद्यं द्रष्टव्यम् । पुनर् उक्तिर् आदराद् इति ज्ञेयम् ॥]

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **हरि-महिम-सम्बन्धाभावे काव्यं निन्द्यम् इत्य् आह—न यद् इति । **चित्र-पदं **गुणालङ्कार-युक्त-पदशालि यद्-वचः कवेः काव्यं कर्तृ । जगत्-पवित्रं वक्तृश्रोतृ-निखिल-शुद्धिकरं हरेर् यशः कर्हिचिन् न गृणीत न वर्णयेत् । तद्-विज्ञा वायस-तीर्थं विकीर्ण-विचित्राच्छिष्टान्नं गर्तं मन्यन्ते । काक-समानां कामिनां काम्यत्वात्, यत्र वचसि हंसाः साधवो हृदयं मह्यम् [भा।पु। ९.४.६८] इत्य्-आदि-वक्ष्यमाणात् हरि-मनो-वर्तिनो भागवता न निरमन्ति यतस् ते उशिक्षया उशिक् मनोज्ञं हरि-पदम् एव क्षयं निवासो येषम् । क्षि निवासगत्योर् अधिकरणे कर्मणि च एरच् [पा। ३.३.५६] इत्यच् । प्रसिद्धा हंसा यथा मानसा मानसाख्य-सरो-निवासिन उशिक्षयास् तद्-वर्तिमनोज्ञ-कमल-वृन्द-प्राप्तारस् तादृशि वायस-तीर्थे न रमन्ति तद्वत् ॥१०॥


॥ १.५.११ ॥

तद्-वाग्-विसर्गो जनताघ-विप्लवो

यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि ।

नामान्य् अनन्तस्य यशोऽङ्कितानि यच्

छृण्वन्ति गायन्ति गृणन्ति साधवः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विनापि पद-चातुर्यं भगवद्-यशः-प्रधानं वचः पवित्रम् इत्य् आह—तद् इति । तद् वाग्-विसर्गः स चासौ वाग्-विसर्गो वाचः प्रयोगः जनानां समूहो जनता तस्या अघं विप्लावयति नाशयतीति तथा सः । यस्मिन् वाग्-विसर्गे अबद्धवत्य् अप्य् अप-शब्दादि-युक्तेऽपि प्रति-श्लोकम् अनन्तस्य यशसाङ्कितानि नामानि भवन्ति । तत्र हेतुः—यद् यानि नामानि साधवो महान्तो वक्तरि सति शृण्वन्ति । श्रोतरि सति गृणन्ति । अन्यदा तु स्वयम् एव गायन्ति कीर्तयन्ति ॥११॥

———————————————————————————————————————

कैवल्य-दीपिका : विष्णु-महिमा-शून्यं वाक्यं निन्दितत्वात् तत् सहितं स्तौति—तद् वाग् इति । वाग् विसर्गो वाक्य-प्रयोगः । जनता जन-समूहस् तस्या अघं पापं तस्य विप्लवो विनाश-हेतुः । कोऽसौ ? यस्मिन् अनन्तस्य नामानि अबद्धं दुष्टं पदं यद् यस्मात् तं वाग्-विसर्गं साधवः वक्तरि सति शृण्वन्ति, श्रोतरि सति गृणन्ति । उभयाभावे स्वयं गायन्ति ॥११॥ [मु।फ। ८.२८]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं व्यतिरेकेण तद् यशः स्तुत्वान्वयेनापि स्तौति । स वाचां प्रयोगो जन-परम्पराया अप्य् अघ-विप्लवो यस्मात् तथा-विधः । कीदृशोऽपि ? यस्मिन् श्लोक-वर्णनं प्रत्य् अबद्धवत्य् अपि तत्-तच्-छ्लोक-मात्रे यत्-किञ्चित्-प्रतीत-सङ्केतादित्वाद् असम्यग्-अर्थ-बोधकेऽपि तस्य यशो-वर्णन-लेश-संयोजितानि नाम-मात्राणि सन्ति, न तु वर्णन-चातुर्याणि, तादृशोऽपि । अहो ! तस्य नामाभास-मात्र-सिद्ध-जनताघ-विप्लव-मात्रत्वं कियन् माहात्म्यं यत् तादृश कनिष्ठ-वाग्-विसर्ग-मयम् अपि यशः साधवः पूर्वोक्त-प्रोज्झित-कैतवा अपि भक्ताः परमानन्दावेशाद् विविधतयानुशीलयन्तीत्य् आह—यच् छृण्वन्तीति ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यतिरेकेणोक्त्वा अन्वयेनाह—तद्-वाग् इति । स चासौ वाग्-विसर्गो वाचः-प्रयोगश् चेति स जनतायाः जन-समूहस्य अघं विप्लावयति नाशयतीति स प्रतिश्लोकम् अबद्धवत्य् अपि बन्धनोऽपि गाढः शिथिलो वा क्वापि श्लोके यत्र नास्ति, किं पुनर् अलङ्कारादिर् इत्य् अर्थः । अप-शब्दवत्य् अपि इति स्वामि-चरणाः तथा-भूतेऽपि तत्र वाग्-विसर्गे उपाख्याने नामानि सन्ति । किं च, यद् यद् एवोपाख्यानं शृण्वन्ति, श्रुत्वापि पुनर् गायन्ति**,** गीत्वापि पुनर् गृणन्ति**,** न तु तृप्यन्तीति भावः । यद् वा, वक्तरि सति शृण्वन्ति, श्रोतरि सति गृणन्ति, अन्यदा स्वयं गायन्ति ॥११॥

[अत्र यथाश्लोकं पुनः १२.१२.५२-तम-पद्यं द्रष्टव्यम् । पुनर् उक्तिर् आदराद् इति ज्ञेयम् ॥]

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गुणालङ्कार-चित्र-पदतां विनापि चेत् काव्यं हरि-यशो ऽङ्कितं स्यात्, तर्हि शुद्धि-करं तन्-निषेव्यम् इत्य् आह—तद् इति । स चासौ वाग्-विसर्गश् च वाग्-रचना जनतायाः प्राणि-समूहस्याघ-विप्लववो ऽविद्या-पर्यन्त—पापराशि-विनाशको भवति । प्रति-श्लोकम् अवद्धवत्य् अपि बन्ध-शैथिल्य-च्छन्दो-भङ्गाप-शब्द-जुष्टेऽपि यस्मिन् वाग्-विसर्गेऽनन्तस्य नामानि सन्ति, यद यानि साधवः शृण्वन्ति गायन्ति श्रुत्वा गीत्वा च पुनर् गृणन्ति, न तृप्यन्तीति भावः ॥११॥

———————————————————————————————————————

॥ १.५.१२ ॥

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं

न शोभते ज्ञानम् निरञ्जनम् ।

कुतः पुनः शश्वद् अभद्रम् ईश्वरे

न चार्पितं कर्म यद् अप्य् अकारणम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **परोक्ष-ज्ञानं न शोभते । अपरोक्ष-ज्ञानं न भक्त्या विनोत्पद्यते । यस्य देवे परा भक्तिः [श्वे।उ। ६.२३], यम् एवैष वृणुते तेन लभ्यः [क।उ। १.२.२३], यद् वासुदेव-शरण-विदुर् अञ्जसैवेत्य्-आदेः ॥१२॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भक्ति-हीनं कर्म शून्यम् एवेति2 कौमुत्य-न्यायेन दर्शयति—नैष्कर्म्यम् इति । निष्कर्म ब्रह्म, तद्-एकाकारत्वान् निष्कर्मता-रूपं नैष्कर्म्यम्, अज्यतेऽनेनेत्य् अञ्जनम् उपाधिः, तन्-निवर्तकं निरञ्जनम् । एवं-भूतम् अपि ज्ञानम् अच्युते भावो भक्तिः, तद्-वर्जितं चेत् अलम् अत्यर्थं न शोभते सम्यग्-अपरोक्षत्वाय न कल्पत इत्य् अर्थः । तदा शाश्वत् साधन-काले फल-काले च अभद्रं दुःख-स्वरूपं यत् काम्यं कर्म, **यद् अप्य् अकारणम् **अकाम्यं, तच् चेति च-कारस्यान्वयः । तद् अपि कर्म ईश्वरे नार्पितं चेत्कुतः पुनः शोभते ? बहिर् मुखत्वेन सत्त्व-शोधकत्वाभावात् ॥१२॥

———————————————————————————————————————

कैवल्य-दीपिका : अथ पञ्चभिः कर्म-योगाद् भक्तिम् उत्कर्षयन् एकेन भक्ति-हीनं कर्म निन्दति3नैष्कर्म्यम् इति । नैष्कर्म्यं ज्ञान-योगः । अच्युत-भावो विष्णु-भक्तिः । कुतः ? न शोभते यतोऽज्ञान-मलम्, अज्ञानं मलो दोषो यत्र तत् तथा । तत् कुतः ? यतो निरञ्जनम् । निर्गतम् अञ्जनं ब्रह्मणो व्यञ्जनं सत्त्वं यस्मात् तत् तथा ।

अयम् अर्थः—नैष्कर्म्यं हि ब्रह्म-ज्ञानं प्रधानम् । तच् च सत्त्व-गुणे ब्रह्मण्य् उपासिते भवति । नेतर-गुणे निर्गुणे वा । यदा भक्ति-हीनं मनः नैष्कर्म्यम् अपि न शोभते, तदा कर्म पुनः कुतः शोभते? न कुतोऽपीत्य् अर्थः । यतः शश्वद् अभद्रम् । अनुष्ठाने फले चामङ्गलम् । न चेश्वरेऽर्पितं नारायणायेति येनाभद्रत्व-हानिः ।

ननु किं काम्य-कर्म निन्द्यते ? नेत्य् आह—यद् अप्य् अकारणं नित्यं नैमित्तकं च कारणं कामना । नैष्कर्म्यम् अपीत्य् अपि-शब्दात् कर्म-निन्दायां तात्पर्यम् ॥१२॥ [मु।फ। ६.२]

———————————————————————————————————————

**जीव-गोस्वामी (भगवत्-सन्दर्भः, ७०.४): **यद् वा, निरञ्जनम् इति निरूपाधिकम् अपीत्य् अर्थः । परमादरणीयत्वाद् एव द्वादशान्ते [१२.१२.५३] श्री-सूतेनापि पुनः कृतम् इदं पद्यम् ॥१२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं यशो-वर्णनोपलक्षित-भक्तितो ब्रह्म-ज्ञानस्यापि न्यूनत्वे स-काम-निष्काम-कर्मणो न्यूनत्वं किम् उतेत्य् आह—नैष्कर्म्यम् इति तैः ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं वचो-मात्रम् एव भक्ति-रहितं व्यर्थम्, अपि तु श्रौत-वचसापि प्रतिपाद्यम् अपरोक्षं ज्ञानम् अपि भक्ति-रहितं व्यर्थं, किम् उत परोक्षं ज्ञानं, किम् उततरां निष्काम-कर्म, किम् उत्ततमां सकाम-कर्म व्यर्थम् इत्य् आह—नैष्कर्म्यम् इति ।

नैष्कर्म्य-रूपम् अच्युते भावश् चिद्-आनन्द-विग्रहत्व-भावनया या भक्तिह्, तद्-वर्जितं चेज् ज्ञानं न शोभते । तेन तस्मिन् माया-शवलता-लक्षणापकर्ष-भावनया भक्ति-सत्त्वेऽपि मोक्ष-साधकं न भवतीत्य् अर्थः । कीदृशम् ? अलम् अतिशयेन निरञ्जनम् अञ्जनम् उपाधिर् अविद्या, तद्-रहितम् अपरोक्षम् अपि, किं पुनः परोक्षम् इत्य् अर्थः । न च वाच्यम् उपाध्य्-अभावे मोक्षस्यासम्भावना नास्तीति । भगवतोऽचिन्त्य-शक्त्या नष्टस्याप्य् उपाधेः पुनः पुनः प्ररोहात् । तथा हि, वासना-भाष्य-धृतं परिशिष्ट-वचनम्—

जीवन्-मुक्ता अपि पुनर् बन्धनं यान्ति कर्मभिः ।
यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥ इति ।

तत्रैवान्यत्र च—

जीवन्-मुक्ता प्रपद्यन्ते क्वचित् संसार-वासनाम् ।
योगिनो न विलिप्यन्ते कर्मभिर् भगवत्-पराः ॥ इति ।

तथा, ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुतेऽर्जुन [गीता ४.३३] इति ज्ञान-कार्यं नैष्कर्म्यम् अपि न शोभते । तथा हि, रथयात्रा-प्रसङ्गे विष्णु-भक्ति-चन्द्रोदय-धृतं पुरानान्तर-वचनम्—

नानुव्रजति यो मोहाद् व्रजन्तं जगद्-ईश्वरम् ।
ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥ इति ।

अत एवाग्रे वक्ष्यते—आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः [भा।पु। १०.२.३२] इति । ज्ञानस्याप्य् अच्युत-भाव-वर्जितत्वे तस्मिन् विफलं, तदा कुतः पुनः शश्वत् फल-काले साधन-काले अभद्रं दुःख-रूपं कर्म-प्रवृत्ति-परं तद् अप्य् अकारणं निवृत्ति-परं च कर्म ईश्वरे अनर्पितं सत् न शोभते, साफल्याय न भवतीति ॥१२ ॥

[अत्र यथाश्लोकं पुनः १२.१२.५३-तम-पद्यं द्रष्टव्यम् । पुनर् उक्तिर् आदराद् इति ज्ञेयम् ॥]

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **न केवलं हरि-यशो ऽनङ्कितं वाग्-रचनम् एव विफलं, किन्तु वेदोपलब्धं ज्ञानं कर्म च हरि-भाव-शून्यं तथेत्य् आह—नैष्कर्म्यम् इति । ज्ञानं स्वात्म-विषयकं नैष्कर्म्यं मोक्षोपाय-भूतम् अप्य् अच्युत-भाव-वर्जितं न शोभते । जीव-स्वरूपं खलु प्रजापतिना छान्दोग्ये पठितम्—य आत्मापहत-पाप्ना विजरो विमृत्यु-विशोको विजिघत्सोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः [छा।उ। ८.७.१, ३] इति तस्याष्ट-गुणकस्य ज्ञानं कर्म-बन्ध-विनाश-पूर्वक-वाञ्छित-पूरकम् उक्तम् । विज्ञानं ब्रह्म चेद्-वेद तस्माच्-चेन् न प्रमाद्यति । शरीरे पाप्ननो हित्वा सर्वान् कामान् समश्नुते इति तैत्तिरीयके [२.५] । आत्मानं चेद्-विजानीयाद् अयम् अस्मीति पूरुषः । किम् इच्छन् कस्य कानाय शरीरम् अनुसञ्ज्वरेत् [बृ।आ। ४.४.१२] इति बृहद्-आरण्यके च । तादृशं ज्ञानं जातम् अपि हरि-प्रेम्नो-शून्यञ्चेत् अलम् अत्य् अर्थं न शोभते, पतित्यक्त-पत्नी-भूषण-धारणवन्-मोक्षानन्दाय न कल्पते इत्य् अर्थः । यतो निरञ्जनं अञ्जू व्यक्ति-म्रक्षण-कान्ति-गतिषु इति धातु-पाठः । हरि-लाभ-रहितम् इत्य् अर्थः, हरिः खलु भावेनैव गम्यते । भाव-ग्राह्यम् अनीडाख्यम् इति श्रुतेः । यदि ज्ञानम् अप्य् एवं तर्हि शश्वद् अभद्रं साधन-काले, फल-काले वाम-ङ्गलं यत् काम्यं यच्-चाकारणम् अकाम्यं कर्म तद् ईश्वरेऽनर्पितं कुतः शोभते, नैवेत्य् अर्थः ।

ननु जैव-ज्ञानेन भगवद्-धाम-गतिर् अभिमता, एवं च तम् एव विदित्वाति मृत्युम् एति, नान्यः पन्था विद्यतेऽयनाय [श्वे।उ। ३.८] इति श्रुति विरोधः? मैवं, स्व-समाधेर् उपकारितया भगवद्-भुक्तेः सत्त्वान् न तद्-विरोधः, भाव-विरहात् तु न शोभत इत्य् उक्तम् ॥१२॥

———————————————————————————————————————

॥ १.५.१३ ॥

अथो महा-भाग भवान् अमोघ-दृक्

शुचि-श्रवाः सत्य-रतो धृत-व्रतः ।

उरुक्रमस्याखिल-बन्ध-मुक्तये

समाधिनानुस्मर तद्-विचेष्टितम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **शुचि-श्रवाः विष्णुः । समाधिना समाधि-भाषया । स्मरणं ग्रन्थ-कृतिः । स्मरन्ति चेत्य् आदेः ॥१३ ॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं भक्ति-शून्यानि ज्ञान-वाक्-चातुर्य-कर्म-कौशलानि व्यर्थान्य् एव यतः, अतो हरेश् चरितमे वानुवर्णयेत्य् आह । अथो अतः कारणात् । अमोघा यथार्था दृक् धीर् यस्य, शुचि शुद्धं श्रवो यशो यस्य, सत्ये रतः, धृतानि च व्रताणि येन स भवान् एवं महा-गुणस् तावत् । अत उरुक्रमस्य विविधं चेष्टितं लीलां समाधिना चित्तैकाग्र्येणाखिलस्य बन्ध-मुक्तये हे महा-भाग्य-निधे, त्वम् अनुस्मर, स्मृत्वा च वर्णयेत्य् अर्थः । एतच् च वाक्यान्तरम् इति मध्यम-पुरुष-प्रयोगो नानुपपन्नः ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यं तर्ह्य् अच्युते भाव एव सर्वोत्कृष्टत्वेन तवाभिमतः स च तन्-नाम-लीला-कीर्तन-श्रवणादिभिर् एव भवति । तत्र नाम राम-कृष्णेत्य् आदि प्रसिद्धम् एव । लीला कीदृशी तवाभिमता ताम् उपदिशेत्य् अपेक्षायाम् आह अथो इति । अमोघ-दृक् अव्यर्थ-ज्ञानः शुचिः शुद्धं श्रवो यशो यस्य तथाभूतो भवान् भवति । अतः सत्य-रतो दृढ-व्रतः सन् । अखिलानां जीवानाम् अखिलस्य बन्धस्य वा मुक्तये । तस्य विविधं चेष्टितं लीलाम् । समाधिना चित्तैकाग्र्येण स्मर । लीला हि भक्तिमति शुद्धे चित्ते स्वयम् एव स्फुरति तस्याः स्व-प्रकाशत्वाद् अनन्तत्वाद् अतिरहस्यत्वाद् अन्यथा केनापि वक्तुं गृहीतं चाशक्यत्वाद् इति भावः । स्मृत्या च वर्णय । तद् एवामोघ-दृक्त्वं शुद्ध-यशस्त्वम् अन्यथा नैवेति भावः । यद् वा, अमोघे दृशौ नेत्रे यस्य शुचिनी श्रवसी कर्णौ यस्येति काचिल् लीला नेत्राभ्यां दृष्टा काचित् कर्णाभ्यां श्रुता च तथा सत्य-रत इति धृत-व्रत इति आसक्ति-निश्चय-सूचिताभ्यां मनो-बुद्धिभ्याम् अपि काचिद् अतिरहस्य अदृष्टाश्रुताप्य् अवकलितैव सा सा सम्प्रति चित्तैकाग्र्येण स्मर्यतां स्मृत्वा च वर्ण्यताम् अत्रानुस्मरेति मध्यम-पुरुषो वाक्य-भेदात् ॥१३ ॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु मम पूर्वानुष्ठितं सर्वं न्यूनम् उक्तं भगवता? अथोदानीं ममनुष्ठेयम् उपदिशेति चेत्-तत्राह—अथो इति । भवान् अमोघ-दृक् अव्यर्थ-चतु-लक्षणी-ज्ञानः शुचिश्रवाः पवित्र-कीर्तिः सत्यरतो धृत-व्रतश् च वर्तते, अथो अखिलानां प्राणिनं बन्ध-विमुक्तये उरुक्रमस्य तद्-विचेष्टितं समाधिना चित्तैकाग्र्येणानुस्मर । चतुर् लक्षण्यां व्याप्तेश् च समञ्जसम्, सर्वाभेदाद् अन्यत्रेमे [वे।सू। ३.३.१०-११] इति सूत्राभ्यां तस्यानन्त-वीर्यस्य कृष्णस्य बाल्यदि-सम्बद्धास् तन्-महिम-बोधिका नित्या मनोहराः प्राणि-बन्धहराश् च या लीलाः सूचितास्ताः अनुस्मृत्य वर्णयेति । वाक्य-भेदाद् अनुस्मरेति मध्यम-पुरुष-प्रयोगो नानुपपन्नः ॥१३॥

———————————————————————————————————————

॥ १.५.१४ ॥

ततोऽन्यथा किञ्चन यद् विवक्षतः

पृथग् दृशस् तत्-कृत-रूप-नामभिः ।

न कर्हिचित् क्वापि च दुःस्थिता मतिर्

लभेत वाताहत-नौर् इवास्पदम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विपक्षे दोषान्तरम् आह—तत इति । तत उरुक्रम-चेष्टितात् पृथग्-दृशोऽत एवान्यथा प्रकारान्तरेण यत् किंचिद् अर्थान्तरं विवक्षतस् तया विवक्षया कृतैः स्फुरितै रूपैर् नामाभिश् च वक्तव्यत्वेनोपस्थितैर् दुःस्थितानवस्थिता सती मतिः कदाचित् क्वापि विषये आस्पदं स्थानं न लभेत, वातेनाहता आघूर्णिता नौर् इव । तद् उक्तम्—

व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन ।
बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनाम् ॥ [गीता २.४१] इत्य्-आदि ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्वयेनोक्त्वा व्यतिरेकेनाह तत इति । तत उरुक्रम-चेष्टिताद् अन्यथा यत् किंचनापि किं पुनर् बहु-विवक्षितो वक्तुम् इच्छतोऽपि । किं पुन वदतोऽपि किं पुनस् तन् मुखात् श्रुत्वा तद्-अनुष्ठितः सर्वत्र हेतुः पृथग्-दृशः । तच्-चेष्टितात् पृथग्-वस्तुन्य् एव दृक् दृष्टिस् तात्पर्यं यस्य तस्य । अतस् तत्-कृतै रूपैर् निरूपणीयैर् अर्थैर् नामभिस् तद्-वाचकैः शब्दैश् च दुःस्थिता अनवस्थिता मतिः कदाचिद् अपि काले क्वापि देशे आस्पदं स्थानं वाताहत-नौर् इवेति वा तेन घूर्णयित्वा नाना-स्थानं नीत्वा आहता व्याहतास् ततो निमज्जत एव यथा तथा तैर् ज्ञान-कर्म-काव्य-कौशलादिभिर् इति ॥१४ ॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विपक्षे क्षतिम् आह—तत उरुक्रम-विचेष्टिताद् अन्यथा यत् किञ्चनाल्पम् अपि विवक्षतो वक्तुम् इच्छतो न तु कथयतोऽपि पृथग्-दृशस् तद् अविचेष्टितात् पृथग्- भूतेऽर्थे दृक् यस्य तस्य कवेर् मतिस् तया विवक्षया कृतैर् विभातै-रूपैर् नामभिश् च वाच्यैर् वाचकैश् च दुःस्थिता चपला सती कर्हिचित् काले क्वापि देशे आस्पदं स्थानं न लभेत, वातेनाहता घूर्णिता नौरिवेति, सा यथा निमज्जेदेवं साप्य् अविद्यायाम् इति ॥१४॥

———————————————————————————————————————

॥ १.५.१५ ॥

जुगुप्सितं धर्म-कृतेऽनुशासतः

स्वभाव-रक्तस्य महान् व्यतिक्रमः ।

यद्-वाक्यतो धर्म इतीतरः स्थितो

न मन्यते तस्य निवारणं जनः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **प्रवृत्ति-धर्म-कृते ॥१५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं हरि-यशो विना भारतादिषु कृतं धर्मादि-वर्णनम् अकिंचित्-करम् इत्य् उक्तम् । प्रत्युत विरुद्धम् एव जातम् इत्य् आह—जुगुप्सितम् इति ।

जुगुप्सितं निन्द्यं काम्य-कर्मादि । तत्र स्वभावत एव रक्तस्य अनुरागिणः पुरुषस्य धर्मार्थमनुशासतः प्रेरयतस् तव महान् अयं व्यतिक्रमोऽन्यायः । कुतः ? इत्य् अत आह—यस्य वाक्यतोऽयम् एव मुख्यो धर्म इति स्थितैतरः प्राकृतो जनः । तस्य काम्य-कर्मादेर् अन्येन तत्त्व-ज्ञेन क्रियमाणं निवारणं स्वयम् एव वा त्वया क्रियमाणम् ।

यद् वा, न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः [कैवल्य-उ। ३] इत्य्-आदि श्रुत्या क्रियमाणं यथार्थम् एतद् इति न मन्यते, किं तु प्रवृत्ति-मार्गानधिकृत-विषयं तद् इति कल्प्यति । तद् उक्तं मतान्तरोपन्यासे भट्टैः—

तत्रैवं शक्यते वक्तुं येऽन्ध-पङ्गवादयो नराः ।
गृहस्थत्वं शक्ष्यन्ति कर्तुं तेषाम् अयं विधिः ॥
नैष्ठिकं ब्रह्मचर्यं वा परिव्राजकतापि वा ।
तैर् अवश्यं ग्रहीतव्या तेनादाव् एतद् उच्यते ॥ [तन्त्र-वार्तिका २.२] इत्य्-आदि ॥१५॥

———————————————————————————————————————

कैवल्य-दीपिका : मुमुक्षया जिज्ञासुम् उपस्थितं शिष्यं प्रति भक्तेर् अन्यं वर्णयतो विश्रद्ध-वञ्चन-दोषः स्याद् इत्य् आह—जुगुप्सितम् इति । जुगुप्सितम् अधर्म-साधनम् विषय-सेवनम् । तत्रैव स्वभावेन रक्तस्य धर्म-कृते धर्माय योऽनुशास्ति तस्य महान् व्यतिक्रमः । यस्याप्तत्वेन गृहीतस्य वाक्याद् अधर्मोऽपि धर्मोऽयम् इति निश्चित्य स्थितः । इतरः प्राकृतो जनःतस्य अन्यथा ग्रहणस्य निवारणम् अन्यैः क्रियमाणं न मन्यते । तस्योपदेष्टुर् अयं दोषः । तद् उक्तं—

कामिनो वर्णयन् कामान् लोभं लुब्धस्य वर्णयन् ।

नरः किं फलम् आप्नोति कूपेऽन्धम् इव पातयन् ॥ इति ॥१५॥ [मु।फ। ६.३]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं श्री-हरि-यशो गौणीकृत्य भारतादिषु कृतं जुगुप्सितं काम्य-कर्मादि-वर्णन-प्राचुर्यं लोकानां तद्-एक-निष्ठत्वाय जातम् इत्य् आह—जुगुप्सितम् इति । \

\

स्वभाव-रक्तस्यानादि-विषय-वासनया स्वभावत एव कामना-परस्य पुरुषस्य धर्म-कृते भगवद्-धर्म-पर्यन्तस्य निष्कामस्य धर्मस्य कृते भगवद्-धर्मम् एव । तत्र पर्यवसायितुम् अनु निरन्तरम् एव निन्द्यं काम्यं कर्म शासत उपदिशतः, न तु वेदे प्रवर्तनार्थं तत्-प्ररोचनया यत् किञ्चिद् अनूद्य मुहुर् अपवदतः कस्यचिद् अन्यस्यापि महान् व्यतिक्रमो वेद-तात्पर्य-ज्ञानेनान्यायः स्यात् । भवतः स्याद् इति तु कथं ब्रुवाणीति भावः ।

ननु वेदेऽपि तादृक्-काम्य-कर्म-कथनस्य निरन्तरता दृश्यते ? तत्राह—यद्-वाक्यत इति । यस्य तद्-विधस्य वाक्यतो दुरूह-वेदार्थ-निर्णायकाद् वाक्याद् वचन-मात्रात्, किम् उत ब्रह्म-लोक-प्रसिद्ध-शत-कोटि-विस्तर-पुराणेतिहासतः स्वेच्छया येन सङ्गृहीतात् तत्-तद्-वाक्याद् इतरो जनस् तद् एव कर्तव्यम् इति परामृशन् स्थितो यत्र निश्चलः स्यात्, तस्य तद्-विधस्य निवारणम् अन्यथा वक्तृतया चिन्तनं तव स्वल्पतम-वाक्येनान्यस्य प्रचुरतम-वाक्येनापि न मन्येतयद् यस्मात् तव शिष्याणाम् अपि जैमिन्य्-आदीनाम् अन्या प्रतिपत्तिर् दृश्यते, तस्मात् प्रवृत्तं निवृत्तं च धर्मं परित्यज्य, निवृत्त-तर्षैर् उपगीयमानात् [भा।पु। १०.१.४] इत्य्-आदि-रीत्या सर्वेषां सर्वापच्-छमकं काम्यं च यद् भगवद्-यशस् तद् एव वर्ण्यताम् इति भावः ।

अतो,

न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् ।
जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥ [गीता ३.२६]

इति श्री-गीत-वाक्यं तु ज्ञानाद्य्-उपदेष्टृ-विषयम् एव, न तु भगवद्-धर्म-महिमज्ञत्व-तादृश-विषयम् । तद् उक्तं श्रीमद्-अजितेन—

स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ [भा।पु। ६.९.५०] इति ।

तादृशोपदेशे सर्वेषाम् एव परम-विश्वासास्पदत्वाद् इति भावः ॥१५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु मया भगवद्-यश एव ग्राहयितुं भारतादि-शास्त्रं कृतं किन्तु कामि-लोकानां भगवद्-भक्तिम् अनिच्छूनां शास्त्रे प्रवर्तनार्थम् एव प्रथमं ग्राम्य-सुख-प्रक्षेपो दत्तः । न तु मे तत्र तात्पर्यम् ।

मुनिर् विवक्षुर् भगवद्-गुणानां
सखापि ते भारतम् आह कृष्णः ।
यस्मिन्न् नृणां ग्राम्य-सुखानुवादैर्
मतिर् गृहीतान् हरेः कथायाम् ॥ [भा।पु। ३.५.१२]

इति विदूरोक्तिर् एव प्रमाणम् इति चेत् सत्यम् । उपकारे प्रवृत्तात् त्वत्त एव लोकानाम् अप्रकार एवाभूद् इत्य् आह जुगुप्सितम् इति । धर्म-कृते विदुरोक्त-न्यायेन भगवद्-धर्म-ग्रहणार्थम् एव जुगुप्सितम् अनुशासतः । काम्य-धर्मानुपदिशतस् त्वत्तः सकाशाद् एव स्वभाव-रक्तस्य विषयेषूत्पत्तित एव रागिणो लोकस्य महान् व्यतिक्रम उपप्लवो जातः । कुत इत्य् अत आह यद् वाक्यतो वेद-व्यास-वाक्यतो धर्म इति इतरः प्राकृतो जनः देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाग् इत्य्-आदि विधाव् एव स्थितस् तस्य धर्मस्य निवारणम् । सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज इत्य्-आदि-वाक्येन क्रियमाणं न मन्यते किन्तु प्रवृत्ति-मार्गानधिकृत-विषयम् एतद्-वाक्यम् इति कल्पयति । तद् उक्तं मतान्तरोपन्यासे भट्टैः ।

तत्रैवं शक्यते वक्तुं येऽन्ये पङ्ग्व्-आदयो नराः ।
गृहस्थत्वं न शक्यन्ते कर्तुं तेषाम् अयं विधिः ॥
नैष्ठिक-ब्रह्मचर्यं वा परिव्राजकताथवा ।
तैर् अवश्यं गृहीतव्या तेनादाव् एतद् उच्यते ॥ इत्य्-आदि ॥१५ ॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु सकामान्-निवृत्तौ निनीयुणा मया तन्-मनोऽनुरोधेन काम्यं कर्मोपदिश्य पिता-पुत्रादि-संवादैर् अकाम्यं तद्-वहूपदिष्टम् उक्तं चैतद्-विदुरेण मुनिर् विक्षुर् भगवद् गुणानाम् [भा।पु। ३.५.१२] इत्य्-आदिनेति चेत्-तत्राह—स्वभावे नैव सकाम-कर्मणि रक्तस्य जनस्य धर्म-कृते निष्काम-कर्मानुष्ठानाय हिंसा-मिश्रत्वाज्-जुगुप्सितं निन्द्यं काम्यं कर्मानुशासतस् तव महान् व्यतिक्रमोऽन्यायः यस्य तव वाक्यतो धर्मोऽयम् इति स्थितः स्थिर-धीर् इतरः सकामस् तस्य तद् इतरस्य वा विदुषा निवारणं तत्-तत्-संवाद-वाक्यं न कर्मणा प्रेजया इत्य्-आदि [महा-नारायण ८.१४] श्रुति-वाक्यं च न मन्यते, किन्तु पङ्गृन्ध-वधिर-विषयं तद् इति कल्पयति । अथाच प्रवाह-प्रान्ते निमज्जतस् तन्-मध्य-प्रापकः क्षेप इवायं तवान्याय इति भावः ॥१५॥


॥ १.५.१६ ॥

विचक्षणोऽस्यार्हति वेदितुं विभोर्

अनन्त-पारस्य निवृत्तितः सुखम् ।

प्रवर्तमानस्य गुणैर् अनात्मनस्

ततो भवान् दर्शय चेष्टितं विभोः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु यद्य् एवं प्रवृत्ति-मार्गो निन्द्यते तर्हि निवृत्ति।मार्गे सर्व-क्रिया-त्यागेनैव पारमेश्वर-सुख-स्वरूपानुभूतेः किं तद्-यशः-कथनेनापि तत्राह—विचक्षण इति । विचक्षणो निपुणः । कश्चिद् एव निवृत्तितः सर्व-क्रिया-निवृत्त्यास्य विभोः सुखं निर्विकल्पक-सुखात्मकं स्वरूपं वेदितुं ज्ञातुम् अर्हति न पुनर् अविचक्षणः प्रवृत्ति-स्वभावः । विभुत्वे हेतुः—न अन्तः कालतः, पारं च देशतो यस्य तस्य विभोश् चेष्टितम् । ततः कारणात् हे विभो, अनात्मनो देहाद्य्-अभिमानिनोऽत एव गुणैः सत्त्वादिभिः प्रवर्तमानस्य जनस्य दर्शय भवान् इति । त्वम् इत्य् अर्थः । पाठान्तरे हे भवन्न् इति संबोधनम् ॥१६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पूर्वम् अभिप्रेतं यशो-वर्णनम् एव स्पष्टम् उपदिशति—विचक्षण इति । विचक्षणो भवान् इत्य् अन्वयः । हे विभो ! यतो विचक्षणो भवान् सर्वतो निवृत्ति-पूर्वकम् अस्य विभोः श्री-भगवतः सम्बन्धि सुखं भक्ति-रूपं वेदितुम् अर्हति, योग्यो भवति, ततो हेतोर् अनात्मनः पारमार्थिक-बुद्धि-हीनस्यात एव गुणैर् विषयैस् तत्-सुखेन प्रवर्तमानस्यापि जनस्य कृते तस्य चेष्टितं लीलाम् एव त्वं वर्णय ।

निवृत्त-तर्षैर् उपगीयमानाद्
भवौषधाच् छ्रोत्र-मनो-ऽभिरामात् । [भा।पु। १०.१.४]

इति तस्याप्य् अनायासेन तत्-सुख-प्राप्त्य्-उपपत्तेस् ततो निवृत्तानां तु सुतराम् एव, तद्-उद्भूतं भवेद् इति भावः । भवन्न् इति पाठे सम्बोधनम् । ततश् च विचक्षणो यो भवति, स एव सर्व-विषय-निवृत्त्या भजनानन्तरेण यद् अस्य भक्ति-रूपं सुखम्, तद् वेदितुम् अर्हति । अतो यद्यपि—

स संहितां भागवतीं कृत्वानुक्रम्य चात्म-जम् ।
शुकम् अध्यापयाम् आस निवृत्ति-निरतं मुनिः ॥ [भा।पु। १.७.८] इति ।

तथा—

हित्वा स्व-शिष्यान् पैलादीन् भगवान् बादरायणः ।
मह्यं पुत्राय शान्ताय परं गुह्यम् इदं जगौ ॥ [भा।पु। ९.२२.२२-३]

इति तस्यैव मुख्याधिकारित्वम् उक्तम्, तथापि निवृत्त-तर्षैः इत्य्-आदि-न्यायेन गुणैः प्रवर्तमानस्यापि हितार्थं तस्य चेष्टितम् एव दर्शयेत्य् आदि पूर्ववत् ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च तद् अपि त्वं धर्मान्तरं विनिन्द्य भगवद्-यश एव वर्णयेत्य् आह विचक्षण इति । इतरः प्राकृतो विवेक-शून्यो जनः स्थित इत्य् उक्तम् । विचक्षणः विवेकी जनस् तु अस्य विभोः सुखं निवृत्तितः तद् इतर-ग्राम्य-सुख-निवृत्त्या वेदितुम् अर्हति तत्र हेतुर् अनन्त-पारस्य न अन्तः कालतः पारं च प्रमाणतो यस्य तस्य तेन सान्ताद् अल्प-प्रमाणाच् च विषय-सुखान् निवृत्य अनन्तम् अपार-प्रमाणं च विभोः सुखं विदित्वा तद्-अर्थं भक्तिम् एव कर्तुम् अर्हतीति भावः । ततश् च विचक्षण-जनस्य भक्तौ प्रवृत्तिम् आलोक्य, यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः [गीता ३.२१] इति न्यायेनाविचक्षणोऽपि तत्रैव प्रवर्तेत इत्य् अतस् तद्-अर्थम् अपि भगवच्-चरित्रं वर्णयेत्य् आह गुणैः प्रवर्तमानस्य अतएवानात्मनो बुद्धि-विवेक-शून्यस्य जनस्य बन्द-विमुक्तये चेष्टितं लीलां दर्शय । हे विभो ! अत्र समर्थो यतोऽसाव् अपि सर्वतो निवृत्य शुद्धां भक्तिं कृत्वा तदीयं सुखं लभताम् इति भावः । यद् वा, एवम् अवतारणीयम् ।

ननु, यदि निवारणं जनो न मन्यते तर्ह्य् अधुनापि त्वद्-उपदेशेनाप्य् आरब्धेन तत्-तत्-सर्व-मत-निवर्तक-भक्ति-मात्र-प्रवर्तकेन शास्त्रेणालम् । मैवम् । न ह्य् अस्मिन् जगति सर्व एवाविवेकिनो विवेकिनोऽपि सन्तीत्य् आह विचक्षण इति । विभोः कथं भूतस्य अनन्त-पारस्य । तत्र कालतोऽन्ताभावम् आह । प्रकर्षेणाधुनापि वर्तमानस्य तेन तस्य तच्-चेष्टितस्य भूत-पूर्व-मात्रत्वं न ज्ञेयम् इति भावः । प्रमाणतोऽन्त-भावम् आह गुणैः सत्त्वादिभिर् न भवत्य् आत्मा देहो यस्य चिद्-आनन्द-मय-विग्रहस्येत्य् अर्थः । नहि घन-चिद्-वस्तु केनापि प्रमातुं शक्यते इति भावः ॥१६ ॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु न मन्यते निवारणम् इत्य् उक्तं, ततश् च श्रवणाद्य् अधिकार्य-भावात् तद्-विचेष्टित दर्शनं विफलं भावीति चेत्-तत्राह—विचक्षणः प्रवृत्ति-निवृत्ति-स्वरूप-फल-ज्ञान-निपुणे जनः विभोः सर्वेश्वरस्यास्य कृष्णस्य सुखं वेदितुम् अर्हति । कीदृशस्य? कालकोऽन्तो देशतः पारश् च यस्य नास्ति तादृशस्य । तथा चानित्यान्मिताच् च प्रवृत्ति-सुखान्-निवृत्त्या नित्यम् अमितं च विभोः सुखं जानन् स तन्-मयं तद् उपलम्भकं च तद्-विचेष्टितं श्रोष्यतीति न खलु विचक्षण-शून्यं जगत् । ततश् च यद्यद् आचरति श्रेष्ठस् तत्-तद् एवेतरो जनः [गीता ३.२१] इत्य्-आदि-न्यायेन तस्माद् अन्योऽपि तादृक् भावीति न विफलं तत्-प्रदर्शनम् । तस्माद् अनात्मनो विवेक-बुद्धि-शून्यस्य गुणैः सत्त्वादिभिः प्रवर्तमानस्य जनस्य बन्ध-विमुक्तये भवान् विभोर् विचेष्टितं दर्शयत्व् इति तत्-सम्प्रदायः प्रचरेद् एव । न हि तादृशे तद्-विचेष्टित-पीयूषे विदिते काम्य-सुखलेश-खातकोदके गृध्नुर्र् भवेद् इति भावः । आर्षो मध्यम-पुरुषः ॥१६॥

———————————————————————————————————————

॥ १.५.१७ ॥

त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्

भजन्न् अपक्वोऽथ पतेत् ततो यदि ।

यत्र क्व वाभद्रम् अभूद् अमुष्य किं

को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावत् काम्य-धर्मादेर् अनर्थ-हेतुत्वात्
तं विहाय हरेर् लीलैव वर्णनीयेत्य् उक्तम् ।
इदानीं तु नित्य-नैमित्तिक-स्वधर्म-निष्ठाम् अप्य् अनादृत्य
केवलं हरि-भक्तेर् एवोपदेष्टव्येत्य् आशयेनाह—त्यक्त्वा इति ।

ननु स्वधर्म-त्यागेन भजन् भक्ति-परिपाकेन यदि कृतार्थो भवेत्,
तदा न काचिच् चिन्ता,
यदि पुनर् अपक्व एव म्रियेत ततो भ्रश्येद् वा,
तदा स्वधर्म-त्याग-निमित्तोऽनर्थः स्याद्

इत्य् आशङ्क्याह ।

ततो भजनात् कथंचित् पतेद् भ्रश्येन् म्रियेत वा यदि
तद् अपि भक्ति-रसिकस्य कर्मानधिकारान् नानर्थ-शङ्का ।
अङ्गीकृत्याप्य् आह । वा-शब्दः कटाक्षे ।
यत्र क्व वा नीच-योनाव् अप्य् अमुष्य भक्ति-रसिकस्याभद्रम् अभूत् किम् । नाभूद् एवेत्य् अर्थः ।
भक्ति-वासना-सद्-भावाद् इति भावः । अभजद्भिस् तु केवलं स्वधर्मतः को वा अर्थः आप्तःअभजताम् इति षष्ठी तु सम्बन्ध-मात्र-विवक्षया ॥१७॥

———————————————————————————————————————

कैवल्य-दीपिका : कश्चिद् विष्णु-लीला-श्रवणादेः साकारोपासनस्यान्तरङ्गस्य बहिरङ्गे नाग्निहोत्रादिना व्यवधानं माभूद् इति स्व-धर्मं त्यजति । कश्चित् तु नित्याकरणे प्रत्यवाय-भयाद् ईश्वरार्पणे त्व् अयथावत् कृतं स्याद् इति च भक्ति-योगं त्यजति । तयोः प्रथमः श्रेयान् इति आह—त्यक्त्वा इति । अपक्वः साधकः । अन्त्य-भूमिकाम् अप्राप्तः । अथ नित्याकरण-प्रत्यव्यायाद् अनन्तरम् । ततः स्थानाद् यत्र क्वचन स्थाने यदि पतेत्अमुष्य पतितस्य किम् अभद्रम् अभूत् ? न किम् अपीत्य् अर्थः । विष्णु-भक्ति-वासना सद्-भावाद् इति भावः । अभजता भक्ति-हीनेन स्व-धर्मतः को वा अर्थः प्राप्तः ? न कोऽपीत्य् अर्थः । विषय-सुखे प्राप्तेऽप्य् अनर्थत्वाद् इत्य् अर्थः ॥१७॥

———————————————————————————————————————

सनातन गोस्वामी (ह।भ।वि। ११.५५४): नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १.५.१२] इत्य्-आदिना काम्य-कर्मादेर् अनर्थ-हेतुत्वात् तं विहाय हरेर् लीलादि-वर्णना-रूपा भक्तिः कार्येत्य् उक्त्वा । इदानीं तु नित्य-नैमित्तिकादि-स्वधर्म-निष्ठाम् अप्य् अनादृत्य केवलं हरि-भक्तिर् एव कार्येत्य् आह—त्यक्त्वेति । स्वधर्मं निज-निज-वर्णाश्रम-धर्मं त्यक्त्वा ।

ननु स्वधर्म-त्यागेन भजन-भक्ति-परिपाकेन यदि कृतार्थो भवेत्, तर्हि न काचिच् चिन्ता, यदि पुनर् अपक्व एव म्रियेत, ततो भ्रश्येत वा, तदा च स्वधर्म-त्याग-निमित्तोऽनर्थः स्याद्

इत्य् आह—ततो भजनात् पतेत् कथंचित् भ्रश्येत् म्रियते वा । यदि तथापि भक्ति-रसिकस्य कर्मानधिकारान् नानर्थ-शङ्का ।
अङ्गीकृत्याप्य् आह । वा-शब्दः कटाक्षे । यत्र क्व वा नीच-यानाव् अप्य् अमुष्य भक्ति-रसिकस्याभद्रम् अभूत् किम् ? नाभूद् एवेत्य् अर्थः । भक्ति-वासना-सम्भावनाद् इति भावः । अभजद्भिस् तु केवलं स्वधर्मतः को वा अर्थः प्राप्तः ? अभजताम् इति षष्ठी संबन्ध-मात्र-विवक्षया । अत एव श्री-भगवद्-गीतासु सर्वान्ते सर्वोपदेश-सारः—सर्व-धर्मान् परित्यज्य [गीता १८.६६] इति । एकादश-स्कन्धे च—तस्मात् त्वम् उद्धवोत्सृज्य [भा।पु। ११.१२.१४] इत्य्-आदि । तच् च सर्वम् अग्रे शरणापत्तौ लेख्यम् एव ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) :

इदानीं स्वधर्म-परित्यागेऽपि दोषः परिहरति—त्यक्त्वेति ।
अयम् अर्थः—स्व-धर्मं त्यक्त्वा यो भजन् स्यात्,
अमुष्याभद्रं तावन् न भवत्य् एव—
देवर्षि-भूताप्त-नृणां [भा।पु। ११.५.४१] इत्य् आदेः ।
तत्र यदि भगवत्-प्राप्तायोग्यः स्यात्,
आयुः-क्षयेण चित्रकेतुवद् अपराधेन वा देहान्तरं प्रानुयात्,
भरतवत् तस्मिन्न् एव देहेऽपि बाल्याविष्टः स्यात्
तदा तस्य भक्त्य्-अभाव-समयेऽपि
यः स्वधर्म-त्यागस्
तेनापि नाभद्रं भवेत्,
भक्ति-वासनायास् त्व् अविच्छित्ति-धर्मत्वात् ।
ततश् च यत्र क्व वाप्य् अवस्थायां तस्याभद्रं न स्याद् एव,
अभक्तानां तु को वार्थः सततम् अव्यभिचारी स्याद् इति ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

ननु—

न बुद्धि-भेदं जनयेद्
अज्ञानां कर्म-सङ्गिनाम् ।
योजयेत् सर्व-कर्माणि
विद्वान् युक्तः समाचरन् ॥ [गीता ३.२६]

इति श्री-गीतोपनिषद्-वाक्येन
कर्म-त्याजनं निषिद्धं

सत्यं - तज्-ज्ञानोपदेष्टृ-विषयम् एव ज्ञानस्यान्तःकरण-शुद्ध्य्-अधीनत्वात्,
तच्-छुद्धेस् तु निष्काम-कर्माधीनत्वात् ।

भक्तेस् तु स्वतः प्राबल्याद्
अन्तःकरण-शुद्धि-पर्यन्तानपेक्षत्वात्
न भुक्त्य्-उपदेष्टृ-विषयम् ।
यद् उक्तं श्रीमद्-अजितेन—

स्वयं निःश्रेयसं विद्वान्
न वक्त्य् अज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं
वाञ्छतोऽपि भिषक्तमः ॥
[भा।पु। ६.९.५०] इति ।

तस्मात्—

सर्व-धर्मान् परित्यज्य
माम् एकं शरणं व्रज [गीता १८.६६]

इति ।

धर्मान् सन्त्यज्य यः सर्वान्
मां भजेत स तु सत्तमः
[भा।पु। ११.११.३२]

इत्य्-आदि भगवद्-वाक्य-बलान्
नित्य-नैमित्तिक-स्वधर्म-निष्ठाया अपि त्याजनयैव
केवलैव हरि-भक्तिर् उपदेष्टव्येत्य् आशयेनाह त्यक्त्वेति ।
क्त्वा-प्रत्ययेन भजनारम्भ-दशायाम् अपि कर्मानुवृत्तिर् निषिद्धा
स्व-धर्मं त्यक्त्वा
यो भजन् स्याद्
अमुष्याभद्रं तावन् न भवेद् एव ।

देवर्षि-भूताप्त-नृणां पितृणं [भा।पु। ११.५.४१]

इत्य् आदेः।
यदि पुनर् अपक्वो भगवत्-प्राप्त्य्-अयोग्यो म्रियेत
जीवन्न् एव वा कथंचिद् अन्यासक्तस्
ततो भजनात् दुराचारतया वा पतेत् ।
तद् अपि कर्म-त्याग-निमित्तम् अभद्रं न भवेद् एव
भक्ति-वासनायास् त्व् अनुच्छित्ति-धर्मत्वात् सूक्ष्म-रूपेण ।
तद् अपि सत्त्वात् कर्मानधिकाराद् इत्य् आह ।

यत्र क्व वा जन्मनि
किम् अभद्रम् अभून् नाभूद् एव ।

वा-शब्दस्य कटाक्षार्थकत्वात्
तुष्यतु दुर्जन इति न्यायेनैव पाताभ्युपगमः
न तु वस्तुतः पातस् - तद्-धेतुकं नीच-योनित्वं च ।

न ह्य् अङ्गोपक्रमे ध्वंसो
मद्-धर्मस्योद्धवाण्व् अपि [भा।पु। ११.२९.२०]

इति श्री-भगवद्-वाक्याद्
अमोघ-भक्त्य्-अङ्कुरस्यावश्य-भाव्य-पत्र-पुष्प-फलादित्वाद् इति भावः ।
अत्र भवेद् इत्य् अनुक्त्वा भूत-निर्देशो वादिनः प्रत्य् आक्षेपं सूचयति ।
अभजताम् अभजद्भिस् तु
स्वधर्मतः को वा अर्थ आप्तो - न कोऽपीत्य् अर्थः ॥१७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **

ननु हरि-लीला-रसाभि-निवेशान्
नित्य-कर्मापि त्यजन्तः प्रत्यवायिनः स्युर्
अतो वेदाचार्येण मया
कथं तादृशं तत् प्रदर्शनीयं?

तत्राह—त्यक्त्वेति ।
स्व-धर्मं नित्य-कर्मापि त्यक्त्वा
हरेश् चरणाम्बुजं भजन् जनो
यद्य् अपक्वोऽलब्ध भक्ति-फलः पतेन् म्रियेत,
अर्थ विषय-सङ्गेन ततस् तद्-भजनाद् भ्रंशेत वा
तर्हि तत्र क्व वा जातस्यामुष्याभद्रं
तत्-पद-विच्युति-लक्षणम् अमङ्गलम् अभूत् किं?
भक्ति-बीजस्याक्षयत्वान्-नाभूद् इत्य् अर्थः । गीतञ्चैवं भगवता—

न हि कल्याण-कृत् कश्चिद्
दुर्गतिं तात गच्छति ।
प्राप्य पुण्यकृतां लोकान्
उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे
योग-भ्रष्टोऽभिजायते ॥ [गीता ६.४१-४२]

इत्य्-आदिभिः,
हरि-पदाम्बुज-प्रपन्नस्य तल्-लीला-रसिकस्य यतेर् इव
कर्मानधिकारान् न प्रत्यवाय-शङ्का,
प्रतिनिधिभिस् तत्-कर्मानुष्ठानाच् च न न्यूनता-लेशः । (5)

स्मरन्ति मम नामानि
ये त्यक्त्वा कर्म चाखिलम् ।
तेषां कर्माणि कुर्वन्ति
ऋषयो भगवत्-पराः ॥
[आदि-पुराणे]

इत्य्-आदि-स्मरणात् ।

न च स्व-धर्म-कृतां नानर्थ-शङ्केति वाच्यम्

इत्य् आह—को वेति ।
अभजताम् इति सम्बन्ध-सामान्ये षष्ठी ।
हरेश्-चरणाम्बुजम् अभजद्भिस् तु स्व-धर्मतः को वार्थ आप्तः,
तदाप्तस्य विनाशित्वान् न कोऽपीति ।
तस्मान्-नित्य्-आदि-कर्म-निष्ठामनादृत्य भक्तिः शुद्धैव त्वया वर्णेति ॥१७॥

———————————————————————————————————————

॥ १.५.१८ ॥

तस्यैव हेतोः प्रयतेत कोविदो

न लभ्यते यद् भ्रमताम् उपर्य् अधः ।

तल् लभ्यते दुःखवद् अन्यतः सुखं

कालेन सर्वत्र गभीर-रंहसा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु स्वधर्म-मात्राद् अपि कर्मणा पितृ-लोक इति श्रुतेः पितृ-लोक-प्राप्ति-फलम् अस्त्य् एव तत्राह—तस्यैवेति । तस्यैव हेतोस् तद्-अर्थं यत्नं कुर्यात् । **यद् उपरि **ब्रह्म-पर्यन्तम् अधः स्र्थावर-पर्यन्तं च भ्रमद्भिर् जीवैर् न लभते । षष्ठी तु पूर्ववत्4तत् तु विषय-सुखम् अन्यत एव प्राचीन-कर्मणा सर्वत्र नरकादाव् अपि लभ्यतेदुःखवत् । यथा दुःखं प्रयत्नं विनापि लभ्यते तद्वत् । तद् उक्तम्—

अप्रार्थितानि दुःखानि यथैवायन्ति देहिनाम् ।
सुखान्य् अपि तथा मन्ये दैन्यम् अत्रातिरिच्यते ॥ इति ॥१८॥

———————————————————————————————————————

कैवल्य-दीपिका : अनर्थत्वम् एवाह—तस्यैवेतिहेतोर् इति सप्तम्य्-अर्थे षष्ठी । यत् स्वतः सुखं भ्रमद्भिर् न लभ्यते । कारकोऽस्य शेषत्व-विवक्षायां षष्ठी । तद्-अर्थं प्रयतेत । यत् त्व् अन्यतः विषय-जन्यं सुखं, तत् सर्वत्र लभ्यते । नहि दुःखं केनापि प्रार्थ्यते । तत्र हेतुः कालेन इति । गभीर-रंहसा दुर्लक्ष्य-वेगेन ॥१८॥ [मु।फ। ६.५]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्यैव हेतोर् इति । कर्मणा योऽर्थ आपते, स पुनर् अर्थाभास एव नार्थ इति भावः । तल् लभ्यत इति—तस्माद् ऐहिकार्थं सुतरां कर्म न कर्तव्यम् इति भावः । कालोऽत्र प्राचीन-कर्म-भोगावसरः ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कर्मणा पितृ-लोक इति, अपाम् असोमम् अमृता अभूम इत्य्-आदयः श्रुतयोऽदृष्ट-स्वर्गादि-सुखे तथा कृषि-वाणिज्यादयो दुष्टे च सुखे जनान् प्रवर्तयन्ते तत् तत् सुखम् अनपेक्ष्य स्व-धर्मं त्यक्त्वा कथं भक्तौ जनाः प्रवर्तन्ताम् इति चेत् सत्यं कोविदस् तु नैव तैः प्रतारितः स्याद् इत्य् अत आह तस्यैवेति । कोविदो विवेकी तस्यैव हेतोः प्रयतेत प्रयत्नं कुर्यात् । यद् वस्तु उपरि ब्रह्म-लोक-पर्यन्तम् अधः स्थावर-पर्यन्तं च भ्रमतां भ्रमद्भिर् जीवैर् न लभ्यते तत् तु विषय-सुखम् अन्यतः प्राचीन-कर्मत एव सर्वत्र नारक-शूकर-जन्मादाव् अपि लभ्यते दुःखवत् । यथा दुःखं प्रयत्नं विनापि लभ्यते । तद् उक्तं—

अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते ॥ इति ॥१८ ॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु वैदिकेन ज्योतिष्टोमादि-कर्मणा स्वर्गादि, लौकिकेन कृष्यादि-कर्मणा च भोजनादि-सुखं शास्त्राणि बोधयन्ति, तत्-तत्-सुखकराणि तत्-तत्-कर्माणि विहाय जनः कथं हरि-भक्तौ प्रवर्तेत? तत्राह—कोविदो वस्तु-तत्त्व-वित्तस्यैव हेतोस् तद् अर्थम् एव प्रयतेत यत्नं कुर्यात्, यद् वस्तूपरि विरञ्चि-लोक-पर्यन्तम् अधः स्तम्ब-पर्यन्तं च भ्रमभिर् जीवैर् न लभ्यते । षष्ठी प्राग्वत् । तच् च हरि-पदम् एव विशुद्ध-सुखमयम् विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.३४] इत्य्-आदि-श्रवणात् । दुःखवत् सुखं स्वर्गादि-भोजनादि-जनितम् अन्यतः प्राचीन-कर्मतो हेतोः सर्वत्र पश्वादि-योनाव् अपि कालेन लभ्यते । यद् वा—तत् सुखं दुःखम् इवान्यतो लभ्यते ।

अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्य् अपि तथा मध्ये दैवम् अत्रातिरिच्यते इत्य् उक्तेः ॥१८॥


॥ १.५.१९ ॥

न वै जनो जातु कथञ्चनाव्रजेन्

मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् ।

स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर्

विहातुम् इच्छेन् न रस-ग्रहो जनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद् उक्तं यत्र क्व वाभद्रम् अभूद् [भा।पु। १.५.१७] इति तद् उपपादयति—न वै इति । मुकुन्द-सेवी जनो जातु कदाचित् कथंचन कुयोनि-गतोऽपि संसृतिंनाव्रजेन् नाविशेत् । अङ्ग अहो । अन्यवत् केवल-कर्म-निष्ठवद् इति वैधर्म्ये दृष्टान्तः । कुत इत्य् अत आह । मुकुन्दाङ्घ्रेर् उपगूहनम् आलिङ्गनं पुनः स्मरन्विहातुं नेच्छेत् । यतोऽयं जनो रस-ग्रहः रसेन रसनीयेन गृह्यते वशी-क्रियते । यद् वा, रसे रसनीये ग्रह आग्रहो यस्य । तद् उक्तं भगवता—

यतते च ततो भूयः संसिद्धौ कुरु-नन्दन ।
पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि स ॥ [गीता। ६.४३-४४] इति ॥१९॥

———————————————————————————————————————

कैवल्य-दीपिका : त्यक्त्वेति श्लोके स्व-धर्म-त्यागेन भजतः पतनम् अभुपेत्याभ्दरत्व-हानिम् उक्त्वा इदानीं तु पतनम् एव नास्तीत्य् आह—न वै इति । कदाचित् प्रमादेनापि संसृतिं नाव्रजेत । अन्यवद् भक्ति-हीन-स्वधर्म-निष्ठवत् । स यथा स्खलित-स्थानाच् च्यवते, तथा नायम् इति व्यतिरेके दृष्टान्तः । अङ्ग ! अहो व्यास ! उपगूहनं मानसालिङ्गनम् । रसे रसवति वस्तुनि ग्रहो आग्रहो यस्य स तथा । अत एव कथञ्चिद् विस्मृतम् अपि भक्ति-सुखं पुनर् झटिति स्मरति । अत एव न च्यवते ॥१९॥ [मु।फ। ६.६]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तर्हि किं संसार-ध्वंस एव पुरुषार्थः ? इत्य् आशङ्क्य, तत्राप्य् अस्ति वैशिष्ट्यम् इत्य् आह—स्मरन्न् इति । यस् तु तद्-भक्ति-रस-ग्रहः, स पुनर् इत्य् अन्वयः । वक्ष्यते च—

त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ-
स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ [भा।पु। ११.२.५३] इति ।
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं [भा।पु। ११.१४.१४] इत्य्-आदि ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तं यत्र क्व वाभद्रम् इति तद् उपपादयति—न वा इति । मुकुन्द-सेवी जनः जातु कदाचिद् अपि कथञ्चन दुरभिनिवेशादि-वशाद् अपि । अन्यवत् कर्मि-जनादिवत् कर्म-फल-भोग-मयीं संसृतिं नाव्रजेत् । तस्य भगवद्-उत्थ-शुभाशुभ-फल-भोगवत्त्वात् तद्-उत्थ-शुभाशुभयोः कर्म-जन्यत्वाभावाद् इति भावः । त्वद्-अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोः [भा।पु। १०.८७.४०] इति श्रुत्य्-उक्तेर्, न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते इति पाद्मोक्तेश् च ।

ततश् च पूर्वाभ्यासाद् एव मुकुन्दस्याङ्घ्र्योर् उपगूहणं मनसा परिष्वङ्गं स्मरन् पुण्यस् त्यक्तुं न इच्छेत् । अत्राङ्घ्री स्मरन्न् इत्य् अनुक्त्वा तद्-उपगूहनम् इति पुनर् इति पादाभ्याम् एक-द्वि-त्रि-वारं स्वेच्छयैव दुरभिनिवेश-वशाद् भजनं त्यक्त्वापि कियतः समयाद् अनन्तरं स्व-पूर्वापर-दशयोस् तत्-स्मरण-सुखम् अस्मरण-दुःखं च स्मृत्वा, कृतानुतापो “हन्त हन्त दुर्बुद्धिर् अहं किम् अकरवम् ? भवतु नाम, अतः परं तु न प्रभोर् भजनं हास्यामि” इति पुनर् अपि भजनम् आरभत एवेत्य् अर्थः ।

अत्र विजह्याद् इत्य् अनुक्त्वा विहातुं नेच्छेद् इत्य् अनेन तस्य गर्व-राहित्यं सूचितं, “भजनं न हास्यामीतीच्छा-मात्रं मया क्रियते, तन्-निर्वाहस् त्व् ईश्वरस्यैव पाणौ” इति तद्-आशयः । तत्र हेतुः—रसे ग्रह आग्रहो यस्य, रस एव ग्रह इव यं न त्यजतीति वा । अयम् अर्थः—भजनम् एव निष्ठा-रुच्य्-आसक्त्य्-अन्ते रति-दशायां साक्षाद् एव रसो भवेत्, अतो भजनस्य प्रथमारम्भ-दिनेऽपि प्रच्छन्नतया रसांशत्वम् अस्त्य् एव । यद् उक्तं—

भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायोऽनु-घासम् ॥ [भा।पु। ११.२.४२]

इति स च स्वाद-विशेषो भक्तेन दुस्तजस् तेन च भक्त इति । ततश् च भजनस्याविच्छेदे उत्पद्यमाने भजनीयस्य मुकुन्दस्याचिराद् एव प्राप्तिर् इत्य् अत्र कः सन्देह इति भावः ॥१९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यत्र क्व वा [भा।पु। १.५.१७] इत्य् उक्तं विशदयति—नेति । मुकुन्द-सेवी जनः जातु कदाचित् **कथञ्चन **दुरभिनिवेशेनापि संसृतिं नाव्रजेत्अन्यवत् स्व-धर्म-निष्ठवद् इति । व्यतिरेकी दृष्टान्तः । कुतः? इत्य् अत्राह—मुकुन्दाङ्घ्र्योर् उपगूहनम् आश्लेषम् आनन्द-रूपं पुनः स्मरन् विहातुं तन् नेच्छेत्, यद् असौ रस-ग्रहो लब्ध-तद्-आस्वादः । गीतं चैवं भगवता—

यतते च ततो भूयः संसिद्धौ कुरुनन्दन!
पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि सः [गीता ६.४३-४४] इति ।

अन्यस् तु प्राचीन-कर्मोदये दुर्योनि-गतः स्व-धर्मम् अपि त्यजेद् इति भावः ॥१९॥

———————————————————————————————————————

॥ १.५.२० ॥

इदं हि विश्वं भगवान् इवेतरो

यतो जगत्-स्थान-निरोध-सम्भवाः ।

तद् धि स्वयं वेद भवांस् तथापि ते

प्रादेश-मात्रं भवतः प्रदर्शितम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **इतरोऽपि भगवान् विश्वम् इव स्वातन्त्र्यात् ॥२०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं भगवल्-लीलां प्राधान्येन वर्णयेत्य् उक्तम्, तत्र को भगवान्, काश् च तस्य लीला ? इत्य् अपेक्षायाम् आह—इदं विश्वं भगवान् एव । स त्व् अस्माद् विश्वस्माद् इतरः । ईश्वरात् प्रपञ्चो न पृथग्, ईश्वरस् तु प्रपञ्चात् पृथग् इत्य् अर्थः । तत्र हेतुः—यतो भगवतो हेतोर् जगतः स्थित्य्-आदयो भवन्ति । अनेनैव लीला अपि दर्शिताः ।

यद् वा, इदं विश्वं भगवान् । इतर इव यः स जीवोऽपि भगवान् । चेतनाचेतनः प्रपञ्चस् तद्-व्यतिरेकेण नास्ति, स एवैकस् तत्त्वम् इत्य् अर्थः । हि-शब्देन सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इत्य्-आदि प्रमाणं सूचितम् । तद् धि स्वयम् एव भवान् वेदप्रादेश-मात्रम् एक-देश-मात्रम् । आचार्यवान् पुरुषो वेद [छा।उ। ६.१४.२] इत्य्-आदि-श्रुत्य्-अर्थ-संपादनाय प्रदर्शितम् ॥२०॥

———————————————————————————————————————

**जीव-गोस्वामी (परमात्म-सन्दर्भः, ६०): **तद् एवं जगत्-कारण-शक्ति-विशिष्टात् परमात्मनोऽनन्यद् एवेदं, जगतस् त्व् असाव् अन्य एवेत्य् आह—इदं हि विश्वं इति । इदं विश्वं भगवान् इव भगवतोऽनन्यद् इत्य् अर्थः । तस्माद् इतरस् तटस्थाख्यो जीवश् च स इवेति पूर्ववत् । अत एव ऐतदात्म्यम् इदं सर्वम् [छा।उ। ६.८.७] इति, सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इति श्रुतिः । यतो भगवतः । भवतो भवन्तं प्रति **प्रादेश-मात्रं **किञ्चिन्-मात्रं दर्शितम् इत्य् अर्थः ॥२०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इति श्रूयते । ब्रह्म च भगवद्-एक-रूपम् एव । ततः कथं भगवत एव तादृशत्वम् ? तत्राह—इदं हीति । हियस्माद् इदं विश्वं भगवान् इव, न तु भगवान् एव स्यात् । यतोऽसौ विश्वस्माद् इतरो विलक्षणः ।

कथं विश्वं भगवान् इव ? कथं भगवान् विश्वस्माद् इतरः ? तत्राह—यत इति । विश्वस्य तत्-कार्य-रूपत्वात् केनचिद् अंशेनैव तद्-रूपत्वं निरूप्यते । भगवतस् तत्-कारणत्वात् परत्वम् । न तत्-समश् चाभ्यधिकश् च दृश्यते [श्वे।उ। ६.८] इति श्रुत्य्-अन्तरात् ।

तत्र सर्वज्ञस्यापि भवतः सम्प्रत्य् अपरितोष एवायं प्रमाणम् इत्य् आह—तद् धीति । मया तु यत् किञ्चिद् एवोपदिश्यत इत्य् आह—तथापीति । तद् एवम् अपि परमात्म-सन्दर्भे यद् अन्यथा व्याख्यातम्, तत् तु नातिहृद्यम् इति मन्तव्यम् ॥२०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं भक्तिम् उपदिश्य भजनीयेश्वरस्यैतावद् एव ज्ञानं भक्तैः प्रथमम् अपेक्षितव्यम् इति तद् उपदिशति । इदं दृश्यमानं विश्वं भगवान् इव सद् इव चेतनम् इव आनन्द-रूपम् इव, न तु साक्षात् सच्चिदानन्द-रूपो भगवान् एवेत्य् अर्थः । भगवतः सत्त्वादीनां सार्वकालिकत्वात् विश्वस्य सत्त्वादीनां च क्वचित्-कालिकत्वाद् इति भावः । **यतोऽसौ **भगवान् इतरः, अस्माद् विश्वस्माद् अन्यः ।

कथं विश्वं भगवान् इव, कथं भगवान् विश्वस्माद् इतरः ? तत्राह—यत इति । यस्मान् माया शक्तिमतो भगवतः सकाशाज् जगतः स्थान-निरोध-सम्भवा इति विश्वस्य कार्य-रूपत्वात् केनचिद् अंशेनैव तद्-रूपत्वं निरूप्यते । भगवतस् तत्-कारणत्वात् तद्-इतरत्वम् इति । अतः सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इत्य्-आदि-श्रुतिभिर् अपि ब्रह्म-कार्यत्वाद् एव ब्रह्मत्वातिदेशो ज्ञाप्यते ।

तत् सर्वं भवान् भगवतोऽवतारत्वात् स्वयं वेद, तद् अप्य् आचार्यवान् पुरुषो वेद [छा।उ। ६.१४.२] इति न्यायेन प्रादेश-मात्रं दिङ्-मात्रं कोटी-परार्धाद् अप्य् अधिक-प्रमाणस्य भगवतस् तदीयाया भक्तेश् च तद्-ऐश्वर्य-ज्ञानस्य च प्रादेश-मात्रं दशाङ्गुल-मात्रं प्रदर्शितम् । प्रादेश-ताल-गोकर्णास् तर्जन्य्-आदि-युते तते इत्य् अमरः ॥२०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विभोर् लीलां प्रदर्शयेत्य् उक्तं, तत्-प्रदर्शनं च तत्-स्वरूप-गुण-याथात्म्य-बोधं विना न सम्भवेद् अतस् तम् उपदिशति—इदं हीति । यथा भगवान् सत्यस्तथैवेदं विश्वं सत्यम् इत्य् उभयं पारमार्थिक-सत्त्वाकम् इत्य् अर्थः । उक्तं च भारते—

ब्रह्म सत्यं तपः सत्यं सत्यञ्चैव प्रजापतिः ।
सत्याज्जातानि भूतानि सत्यं भूतमयं जगत् ॥

इति, त्रिसर्गो यत्रामृषेति चोक्तं प्राक् [भा।पु। १.१.१] किमद्वैतमभिमतं? नैवेत्याह—इतर इति । विश्वस्माद् भिन्न इति चिज्-जडात्मकाद-नित्यात्-तस्मान्-नित्य-विज्ञानानन्द् अमूर्तिः सोऽन्यस् तत्-स्पर्शशून्य इति स्वरूपयाथात्म्यम् उक्तम् । गुण-याथात्म्यम् आह—यतो भगवत-स्त्रि-शक्तिकाज्-जगतः स्थानादयो भवन्तीति जगत्-पालकत्वादयः तस्य गुणाः पारमार्थिकाः, सर्वज्ञ-कृतत्वात्-तत्-पालनदीनां जगतो रज्जु-भुजङ्गादिवत् कल्पितत्वे कविर् मनीषीति [ईश। ८] तत्-कृतत्व-वचनं यथातथ्य-पदं च व्याकुप्येत् । ब्रह्म सत्यम् इत्य् आदिकं च पीड्येत । तद् इदं भवान् स्वयम् उपदेशं विनैव वेद, तथास्य आचार्यवान् पुरुषो वेद [छा।उ। ६.१४.२] इति श्रुत्य् अर्थ-रक्षायै भवतस् तव प्रदेश-मात्रं किञ्चिन्-मया प्रदर्शितम् ॥२०॥

———————————————————————————————————————

॥ १.५.२१ ॥

त्वम् आत्मनात्मानम् अवेह्य् अमोघ-दृक्

परस्य पुंसः परमात्मनः कलाम् ।

अजं प्रजातं जगतः शिवाय तन्

महानुभावाभ्युदयोऽधिगण्यताम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **न च तवाचार्यापेक्षा ईश्वरावतारत्वाद् इत्य् आह—त्वम् इति । हे अमोघ-दृक्, त्वम् आत्मना स्वयम् आत्मानम् अजम् एव सन्तं जगतः शिवाय प्रजातमवेहि । कुतः ? **परस्य पुंसः कलाम् **अंश-भूतम् । तत् तस्मान् महानुभावस्य हरेर् अभ्युदयः पराक्रमः अधि अधिकं गण्यतां निरूप्यताम् ॥२१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एव विशिष्याह—त्वम् इति । हे अमोघ-दृक् ! त्वम् आत्मना स्वयम् आत्मानं स्वं परस्य पुंसः कलाम् अंश-भूतम् अवेहि अनुसन्धेहि । पुनश् च जगतः शिवाय अधुनैव श्री-कृष्ण-रूपेण यश् चाजोऽपि प्रजातस् तम् अवेहि । तद् एतद् द्वयं ज्ञात्वा महानुभावस्य सर्वावतारि-वृन्देभ्योऽपि दर्शित-प्रभावस्य तस्य श्री-कृष्णस्यैवाभ्युदयो लीला अधि अधिकं गण्यतां निरूप्यताम् । स्वयम् ईश्वरोऽपि भवान् निजाज्ञान-रूपां मायां न प्रकटयत्व् इति भावः ॥२१॥ [श्री-कृष्ण-सन्दर्भ ६१]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्वयं वेदेति यद् उक्तं तद् उपपादयति—त्वम् इति । हे अमोघ-ज्ञान ! तत् तस्मात् महानुभावस्य हरेर् अभुयुदयः परम-मङ्गलं यशः अधिकं गण्यतां निरूप्यताम् ॥२१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद् एव स्फुटयति—आत्मना स्वयम् एव त्वम् आत्मानम् ऐषि । हे अमोघ-दृक्, लड्-अर्थे लोट्, अन्यथा-मोघदृग् इत्य् असङ्गतं स्यात् । कीदृशम्? अजम् एव सन्तं जगतः शिवाय प्रजातमाविर्भूतं, यतः परस्य पुंसः कृष्णस्य परमात्मनः कलां भागं स्वांशम् इत्य् अर्थः । तत्ततो महानुभावस्य तस्यांशिनोऽभ्युदयोऽधिगण्यतां प्रभावशालि यशोऽधिकं निरूप्यताम् । तस्यावतारे शुद्ध भक्ति-दानं यथा मुख्यं प्रयोजनन्तथा तवापि भूयाद् इति भावः ॥२१॥


॥ १.५.२२ ॥

इदं हि पुंसस् तपसः श्रुतस्य वा

स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः ।

अविच्युतोऽर्थः कविभिर् निरूपितो

यद् उत्तमश्लोक-गुणानुवर्णनम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनेनैव तप-आदि सर्वं तव स-फलं स्याद् इत्य् आह—इदं हीति । श्रुतादयो भावे निष्ठाः । इदम् एव हि तपः-श्रवणादेर् अविच्युतो नित्योऽर्थः फलम् । किं तत् ? उत्तम-श्लोकस्य गुणानुवर्णनम् इति यत् ॥२२॥

———————————————————————————————————————

कैवल्य-दीपिका : इदम् इति । सर्वस्य सत्-कर्मणो विष्णु-भजनं फलम् इति श्लोकार्थः । सूक्तं सद्-उपदेशः । तस्य ग्रहणं श्रुतं [तस्यार्थावधारणाद् बुद्धम्] तस्यानुध्यानं स्विष्टम्दत्तं तपश् च । अविच्युत अविनाशी ॥२२॥ [मु।फ। ८.२९]

———————————————————————————————————————

सनातन गोस्वामी (ह।भ।वि। १०.५३०): भगवल्-लीला-कथा-कीर्तनेनैव तप-आदि सर्वं सफलं स्यात् । यद् वा, भगवल्-लीला-कथा-कीर्तनम्क् एव तप-आदीनां फलम् इत्य् आह—इदं हीति । श्रुतादयो भावे निष्ठा । इदम् एव तपः-श्रवणादेः अविच्युतो नित्योऽर्थः फलम् । किं तत् ? उत्तम-श्लोकस्य गुणानुवर्णनम् इति यत् ॥५३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवं धर्मान् परित्यज्य भक्त्यैव कृतार्थी-भवतीत्य् उक्तम् । इदानीं कस्यचिद् भक्तस्य केषुचिद् धर्मेषु यदि स्पृहा स्यात्, तदा ते धर्मा अपि भक्त्यैव भवन्तीत्य् आह—इदं हीति । पुंसस् तप-आदीनाम् अविच्युतोऽव्यभिचारी । अर्थो हेतुः इदम् उत्तमः-श्लोक-गुणानुवर्णम् एव निरूपितः ।

अर्थो विषयानर्थयोर् धन-कारण-वस्तुनि ।
अतिधेये च शब्दानां निवृत्तौ च प्रयोजने ॥ इति मेदिनी ।

यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य्-आदि भगवद्-वाक्याद् भक्त्या तप-आदि-फलानाम् अपि सिद्धिर् भवेत्, किं पुनस् तेषाम् ?

स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥

इत्य्-आदि पाद्म-वाक्यतः सर्वेषाम् अपि धर्माणां किं पुनस् तप-आदि-मात्राणाम् इति । यद् वा, तपस इति तपः श्रुतादि-विधायक-श्रुति-वाक्यानां भगवद्-भक्ति-विधान एव तात्पर्यात् । हरि-कीर्तनम् एवाविच्युतोऽभिधेयः—धर्मो यस्यां मद्-आत्मक [भा।पु। ११.१४.३] इति भगवद्-उक्तेः, सर्व-शास्त्र-वाक्यानां श्री-भगवत्य् एव तात्पर्यम् इति श्री-मधुसूदन-सरस्वती-व्याख्यानाच् च ॥२२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्वधर्मान् त्यक्त्वा हरिं भजन् कृतार्थः स्याद् इत्य् उक्तम्, अथ कश्चित्-तप-आदीनि वाञ्छन् भवेत्, तस्य तान्य् अपि तद् उजनेनैव स्यरित्य् आह—इदं हीति । श्रुतादयो भाव-निष्ठान्ताः । पुंसस् तप आदीनाम् अविच्युतोऽर्थोऽव्यभिचारी हेतुर् उत्तम श्लोकस्य गुणानुवर्णनं भक्तिर् एव कविभिर् निरूपितः ।

अर्थः प्रकारे विषये वित्तकारण-वस्तुषु ।
अभिधेये च शब्दानां निवृत्तौ च प्रयोजने । इति विश्वः,

वक्ष्यति चैवं पुण्डरीकाक्षः सत्-कर्मभिर् यत्-तपसा [भा।पु। ११.२०.३२] इत्य्-आदि । तानि भक्तस्य पृष्ठलग्नानीति भावः । यद् वा—अर्थः प्रयोजनं, सति फले वृक्षं कश्चर्वे दिति भावः ॥२२॥

———————————————————————————————————————

॥ १.५.२३ ॥

अहं पुरातीत-भवेऽभवं मुने

दास्यास् तु कस्याश्चन वेद-वादिनाम् ।

निरूपितो बालक एव योगिनां

शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सत्-सङ्गतो हरि-कथा-श्रवणादि-फलं स्व-वृत्तान्तेन प्रपञ्चयति—अहम् इति । अहं पुरा पूर्व-कल्पेऽतीत-भवे पूर्व-जन्मनि वेद-वादिनां दास्याः सकाशाद् अभवं जातोऽस्मि । निरूपितो नियुक्तः । क्व ? योगिनां शुश्रूषणे । प्रावृषि वर्षोपलक्षिते चातुर्मास्ये । निर्विविक्षितां निर्वेशम् एकत्र वासं कर्तुम् इच्छताम् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यादृच्छिकी भगवद्-भक्त-कृपैव शुद्धाया उक्त-लक्षणाया भक्तेर् हेतुर् नान्यत् तप-आदिकम् इति वक्तुं स्व-पूर्व-वृत्तान्तम् आह अहम् इति । पुरा पूर्व-कल्पे अतीत-भवे पूर्व-जन्मनि वेद-वादिनां कस्याश्चन दास्याः सकाशाद् अभवं जातोऽस्मि प्रावृषि वर्षा-काले निर्विविक्षतां निर्वेशम् एकत्र-वासं कर्तुम् इच्छतां योगिनां तत्रान्वहं कृष्ण-कथाः प्रगायतां [भा।पु। १.५.२६] इत्य् अग्रे वक्ष्यमाणत्वाद् भक्ति-योगवतां शुश्रूषणे निरूपितः नियुक्तोऽस्मि ॥२३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उक्तैषा विशुद्धा कृष्ण-फला गुरु-प्रभावा भक्तिः सत्-कृपयैव स्याद् इति स्व-वृत्तान्तेनाह—हे मुने व्यास! पुर्वा पूर्व कल्पेऽतीते भवे जन्मनि वेद-वादिनां दास्याः सकाशद् अहम् अभवं जातः । तैरहं बालक एव चापल्यादि वानेव योगिनां कृष्ण-ध्यायिनां शुश्रषणे परिचर्यायां निरूपितो न्ययोजि । कीदृशाम् इत्य् आह—प्रावृषि चातुर्मास्ये निर्विविक्षताम् एकत्र निर्वेशं स्थितिम् इच्छताम् ॥२३॥

———————————————————————————————————————

॥ १.५.२४ ॥

ते मय्य् अपेताखिल-चापलेऽर्भके

दान्तेऽधृत-क्रीडनकेऽनुवर्तिनि ।

चक्रुः कृपां यद्यपि तुल्य-दर्शनाः

शुश्रूषमाणे मुनयोऽल्प-भाषिणि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अपेतानि गतान्य् अखिलानि चापलानि यस्मात् तस्मिन् । दान्ते नियतेन्द्रिये । अधृत-क्रीडनके त्यक्त-क्रीडा-साधने । अनुवर्तिन्य् अनुकुले ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **दान्ते नियतेन्द्रिये, अधृत-क्रीडनके बाल्योचितं क्रीडनम् अप्य् अकुर्वति । यद्यपि ते तुल्य-दर्शनाः सुशीलेषु दुःख-शीलेषु च सत्-कुर्वत्सु तिरस्कुर्वत्सु च सद्-आचारेषु दुराचारेषु च जगज्-जनेषु यद्यपि सम-दृष्टयः, ‘को वा तेषाम् अनुग्राह्यः, को वा निग्राह्यः ?ऽ तद् अपि मयि कृपां चक्रुः । सर्वत्र साम्येऽपि महत्सु भरत-प्रह्लादादिषु कृपाया वैषम्य-दर्शनाद् इति भावः ।

अत्र मत्-सौशील्यानुवृत्त्य्-आदिकम् अनपेक्ष्यैव प्रथमं कृपां चक्रुः । ततश् च तत्-कृपा-जन्य-सौशील्यानुवृत्त्य्-आदिकं पुनर् अपि तेषां कृपातिशयस्यैव कारणम् अभूद् इति तेषां निरुपाधिकरणत्वम् अप्य् अवश्यम् एव व्याख्येयम् । ते यद्यपि तुल्य-दर्शनास् तद् अपि अचापल्यादि-गुण-विशिष्टे मयि कृपां चक्रुर् इति व्याख्याने गुण-दोष-दर्शन-प्रसक्त्या तेषां तुल्य-दर्शनत्वं व्याहन्येत । प्रथम-कृपायाश् च निरुपाधित्वं न स्याद् इति न तथा व्याख्येयम् ।

कृपा हि द्विविधा—गुण-मयी निर्गुणा च । तत्राद्या सर्वेषां सांसारिकाणाम् अपि सर्वत्र गुणोपाधिका यथा-सम्भवं भवेत्, गुणापाये तद्-अपायश् च दोषे द्वेषादयश् च । द्वितीया तु निस्तीर्ण-संसाराणां तादृशानां परम-भक्तिमतां निरुपाधिकैव सर्वत्र साम्येन मायिकम् अपि गुणम् अनपेक्ष्य,

गिरयो मुमुचुस् तोयं क्वचिन् न मुमुचुः शिवम् ।
यथा ज्ञानामृतं काले ज्ञानिनो ददते नवा ॥ [भा।पु। १०.२०.३४]

इति शुकोक्त-न्यायेन कदाचित् कम् अपि जनं विषयीकरोति साह्यन्तः-करणस्य गुण-कृतायाः कठोरताया भगवद्-भक्त्यैव ध्वंसे सति तयैव द्रवीभावम् आदिते तत्रैवान्तः-करणे आविर्भवेत् । यद् उक्तं—रुचिभिश् चित्त-मसृण-कृद् असौ भाव उच्यते [भ।र।सि। १.३.१] इति । एवं सतां कृपा, महत्-सेवा, श्रद्धा, गुरु-पादाश्रयः इति भूमिका-चतुष्टयं सूचितम् ॥२४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ते योगिनो यद्यपि तुल्य-दर्शनास् तथापि निर्हेतुकया कृपया स्वीकृते बालके मयि तयैवापेतखिल-चापलादि-लक्षणे सति स्वोच्छिष्ट-दानादि-लक्षणं कृपाञ्चक्रुर् इति तुल्य-दृष्टीनाम् अपि कृष्ण-भक्ति-स्वभावान्-मयि निर्हेतुक-कृपोदयः प्राग् अभूत्, ततो गुणवति मयि कृपा-विशेष इति निर्हेतुकैव सत्कृपा भक्ति-हेतुः । एतेन सत्-कृपा-सत्-सेवा-श्रद्धा-गुर्वाश्रयणानि दर्शितानि ॥२४॥

———————————————————————————————————————

॥ १.५.२५ ॥

उच्छिष्ट-लेपान् अनुमोदितो द्विजैः

सकृत् स्म भुञ्जे तद्-अपास्त-किल्बिषः ।

एवं प्रवृत्तस्य विशुद्ध-चेतसस्

तद्-धर्म एवात्म-रुचिः प्रजायते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उच्छिष्टस्य लेपान् पात्र-लग्नांष् तैर् द्विजैर् अनुज्ञातः सन् भुञ्जे स्म । तेन भोजनेनापास्त-किल्बिषो जातोऽस्मि । तेषां धर्मे परमेश्वर-भजने एवात्मनो मनसो रुचिः प्रजायते स्म इत्य् अनुषङ्गः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च उच्छिष्टस्य लेपान् तेषां भोजन-पात्रे लग्नान् ओदनान् सकृद् एक-वारं भुञ्जे स्म । कीदृशः ? द्विजैस् तैस् तद्-अर्थं मया प्रार्थितैर् अनुमोदितः दत्तानुज्ञः तेनैव अपास्तानि विनष्टानि किल्बिषाणि भक्ति-प्रतिबन्धका अनर्था यस्य सः । ततश् च नित्यम् एव भुक्त-तद्-उच्छिष्टस्य मम श्रवण-कीर्तन-स्मरणात्मिका भक्तिर् अनायासेनैवाभवद् इत्य् आह । एवं प्रवृत्तस्यान्यस्यापि जनस्य भक्तानाम् उच्छिष्टं यो भुङ्क्ते, तस्य तेषाम् एव धर्मे श्रवण-कीर्तनादाव् आत्मनो मनसो रुचिः प्रकर्षेणावश्यम् एव जायते । एवं भजनेषु स्पृहा, भक्तिः, अनर्थापगमः, ततः निष्ठा, रुचिर् इति पं च भूमिका अनेन श्लोकार्थेन सूचिता ज्ञेयाः ॥२५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कृपा-विशेषम् आह—उच्छिष्ट-लेपान् भोजन-पात्र-लग्नानोदनान् अहं सकृत् भुञ्जेस्म, तैर् अनुमोदितो भुङ्क्ष्वैतानित्य् अनुज्ञातः । तद् अपास्त-किल्बिषः तद्-भोजन-विध्वस्त-भक्ति-प्रतिबन्धि-सर्वन् अर्थोऽहमभवम् । ततश् च नित्यम् एवं प्रवर्तमानस्य मे तेषां योगिनं धर्मे कृष्ण-लीला-श्रवण-कीर्तनादा वात्मनो मनसो रुचिरजायत । एवं च भक्ति-स्पृहा-भक्त्यननिर्थवृत्ति-भक्तिर् उचयो दर्शिताः ॥२५॥

———————————————————————————————————————

॥ १.५.२६ ॥

तत्रान्वहं कृष्ण-कथाः प्रगायताम्

अनुग्रहेणाशृणवं मनोहराः ।

ताः श्रद्धया मेऽनुपदं विशृण्वतः

प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः5** ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अशृणवं श्रुतवान् अस्मि । मे श्रद्धया ममैव स्वतः-सिद्धया, न त्व् अन्येन बलाज् जनितया । अतो मम इत्य् अस्यापौनरुक्त्यम् । अनुपदं प्रतिपदम् । प्रियं श्रवो यशो यस्य तस्मिन् ॥२६॥

———————————————————————————————————————

**कैवल्य-दीपिका : **अथ वैराग्यं संसार-भीरुता तत्त्व-ज्ञान-वीत-राग-परिशीलन-परमेश्वरानुग्रह-तपोवन-विविक्त-सेवादि-विभावं यम-नियमाध्यात्म-तत्त्व-चिन्तन-सर्व-भूत-समत्व-दर्शन-परार्थ-कारित्वाद्य्-अनुभावं धृति-स्मृति-मति-निर्वेद-हर्षादि-व्यभिचारिणं शम-स्थायि-भावं शान्ति-रसम् आरभते—शान्तेति ।

शान्त-रसे नारदः—तत्र इत्य्-आदि । तव मुनि-समीपे अशृणवं श्रुतवान् अहम् अनुपदं पदे पदे । पदार्थोऽपि न तिरोहित इत्य् अर्थः । प्रिय-श्रवसि श्री-कृष्णे रतिर् भक्तिः । श्रद्धया मे रतिर् ममेत्य् अकृत्रिमतार्थम् । अङ्ग अहो व्यास ॥२६॥ [मु।फ। १७.१]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्रेति । कृष्ण-कथाः श्री-नन्द-नन्दनस्य जन्मादि-लीलाः । यच् छृण्वतोऽपैत्य् अरतिर् वितृष्णा [भा।पु। १०.७.२] इत्य्-आदेः । प्रियं सर्वेषां प्रीति-विषयं श्रवः कीर्तिर् यस्य ॥२६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ताः श्रद्धयेति । श्रद्धा-पदेनासक्तिर् दशमी भूमिका । अनुपदं प्रतिक्षणं प्रति सुप्-तिङ्-अन्तं पदं वा मे मम प्रियं श्रवो यशो यस्य तस्मिन् प्रिय-श्रवसि कृष्णे मम रतिर् अभूद् इत्य् अतो ममेत्य् अस्यापौनरुक्तं । कृष्णे रतिर् इत्य् एकादशी ॥२६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथासक्तिरती प्राह—तत्रेति । ताः कथाः श्रद्धया भक्त्या, अनुपदं प्रतिक्षणं प्रिय-श्रवसि प्रेम-जनक-कीर्तौ कृष्णे रतिर् अभवत् । मे श्रद्धया । स्वतो जातया मच्छ्रद्धयेति योजनान्मम् एति न पुनर् उक्तिः ॥२६॥

———————————————————————————————————————

॥ १.५.२७ ॥

तस्मिंस् तदा लब्ध-रुचेर् महा-मते

प्रियश्रवस्य् अस्खलिता मतिर् मम ।

ययाहम् एतत् सद्-असत् स्व-मायया

पश्ये मयि ब्रह्मणि कल्पितं परे ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **मयि स्थिते ब्रह्मणि । स्थीयताम् अत्रेतीश्वरेच्छया परिकल्पितम् ॥२७॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रियं श्रवो तस्मिन् भगवति लब्ध-रुचेर् ममास्खलिताप्रतिहता मतिर् अभवद् इत्य् अनुषङ्गः । यया मत्या परे प्रपञ्चातीते ब्रह्म-रूपे मयि सद्-असत्-स्थूलं सूक्षं चैतच् छरीरं स्व-मायया स्वाविद्यया कल्पितं न तु वस्तुतोऽस्तीति तल्-लक्षणम् एव पश्यामि ॥२७॥

———————————————————————————————————————

**कैवल्य-दीपिका : **ननु किरन्त्येति चेत् तत्राह—तस्मिन्न् इति । तस्मिन् श्री-कृष्णे प्रिय-श्रवसि अस्खलिता मतिः निःसंशयं ज्ञानं, यत्रैव रतिस् तत्रैव मतिर् इत्य् अर्थः । यया मत्या सद्-असत् स्थूल-सूक्ष्मं रूप-द्वयं ममैव मायया मय्य् एव ब्रह्म-रूपे कल्पितम् आरोपितं रज्जु-भुजङ्गवत्6पश्ये अद्यापि पश्यामि । एतद् इदम् इति पद-द्वयेन यथान्यत्र सत्योऽमुत्रङ्गो रज्ज्वाम् आरोपितः न तथा अन्यत्र सत्यं रूप-द्वयं ब्रह्मण्य् आरोपितम्। किं त्व् इदम् इदम् एव इत्य् उक्तम् । अनिर्वाच्यम् इत्य् अर्थः ॥२७॥ [मु।फ। १७.२]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततश् च स्वस्मिन् भगवति चापरमार्थारोपस्य मृषात्व-दर्शकः परम-परमार्थ-तदीय-स्वरूप-रूप-गुण-चिन्तनावेशो जात इत्य् आह—तस्मिन्न् इति द्वाभ्याम् । यया मत्याहम् एतत् सद्-असद्-व्यष्टि-समष्ट्य्-आत्मकं यज् जगत् तद्-व्यष्ट्य्-अंशं मयि जीव-रूपे स्व-विषयक-भगवन्-मायया कल्पितं पश्ये । परे ब्रह्मणि तु समष्ट्य्-आत्मकं त्वया कल्पितं पश्ये ज्ञातवान् अस्मि । तत्र तत्र तत्-सम्बन्धः पुनर् मम नास्फुरद् एवेत्य् अर्थः ॥२७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **लब्ध-रुचेर् लब्ध्वास्वाद-विशेषस्य स्खलन-शून्या मतिर् अभूत् । स्व-मायया हेतुना मयि वर्तमानं यद् एतत् स्थूलं सूक्ष्मं च शरीरं तत् यया मत्या परे ब्रह्मणि श्री-कृष्णे विषये एव कल्पितं पश्ये पश्यामि कल्पितं कॢप्तीकृतं स्थापितम् इति यावत् । तथा हि, स्थूलं शरीरं भगवज्-जल-कलस-वहन-दण्डवत् प्रणत्यादौ न तु स्वीये व्यवहारिके क्वापि कृत्ये । सूक्ष्मं श्रवण-नयन-मनो-बुद्ध्य्-आदिकं तदीय-गुण-रूप-माधुर्यास्वादाव् एव कल्पितं न तु वैषयिके क्वापि स्व-भोग्ये वस्तुनि इति । पश्ये इति यत् पूर्वं बह्व्-आयासेनापि भगवति कॢप्तं नासीत् तद् एव मनो-नयनादिकं रतौ जातायां स्वं स्वं बहु-कालाभ्यस्तम् अपि विषयं त्यक्त्वा तत्रैव कॢप्तम् इति साक्षाद् अनुभवामीत्य् अर्थः ॥२७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **लव्धा रुचिर् आस्वाद-विशेषो येन तस्य मे मतिः प्रिय-श्रवसि कृष्णेऽस्खलितातिस्थिर् अभूत् यया मत्या एतं सद् असत् स्थूलं सूक्ष्मं च शरीरं स्वाधिकारिण्या मायया मयि वर्तमानम् अहं परे ब्रह्मणि कृष्णे कल्पितं पश्ये । स्थूलं तत्-प्रणामादौ सूक्ष्मं च श्रोत्र-नेत्र-मनो-बुद्धि-लक्षणं तच्-छ्रवण-दर्शन-ध्यानादौ कल्पितं नियोजितम् अपश्यं, न तु व्यावहारिक-कृत्ये न वा भोग्य-वस्तुनीति । बहु-प्रयासेनापि यत् [स्थूलं सूक्ष्मञ् च] तस्मिन् कप्तं नाभूत्, तद् अनायासाद् एव कप्तम् अभूवम् इति मतेर् महिमातिशयः ॥२७॥

———————————————————————————————————————

॥ १.५.२८ ॥

इत्थं शरत्-प्रावृषिकाव् ऋतू हरेर्

विशृण्वतो मेऽनुसवं यशोऽमलम् ।

सङ्कीर्त्यमानं मुनिभिर् महात्मभिर्

भक्तिः प्रवृत्ताऽऽत्म-रजस्-तमोऽपहा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं शुद्धे त्वं-पदार्थे ज्ञाते देहादि-कृत-विक्षेप-निवृत्तेस् तत्-कारण-भूत-रजस्-तमो-निवर्तिका दृढा भक्तिर् जातेत्य् आह—इत्थम् इति । हरेर् यशः अनुसवं त्रि-कालम् ॥२८॥

———————————————————————————————————————

कैवल्य-दीपिका : महानुभाव-प्रसङ्गाद् अचिरेणैव तत्त्व-ज्ञान्म् उत्पद्यते इत्य् आह—इत्थम् इति । इत्थम् अनुसवम् अवसर-विसारे किम्-भूता भक्तिः आत्मनोऽन्तःकरणस्य **रजस्-तमसी अपहन्ति **इति । तथा शुद्ध-सत्त्वात्मिकेत्य् अर्थः । सा ज्ञानस्यैव पराकाष्ठा । यस्याम् अभ्युदितायां प्रत्युदितख्यातिर् एवं मन्यते प्राप्तं मे प्रापणीयं क्षीणाः क्षेतव्याः क्लेशाः [व्यास-भाष्य २.११-१३] इति । [छिन्नः क्लिष्टो वाभव-सङ्क्रमो यस्या अविच्छेदाज् जनित्वा म्रियते, मृत्वा च पुनर् जायत इति] । अत्र च, ते मय्य् अपेताखिल चापल [भा।पु। १.५.२४] इति पूर्व-श्लोकेन सकल-चापल-त्यागाद् आत्मा शमः स्थायी उक्तः । मुक्त-सङ्गः श्रद्धा कथा श्रवणं चेत्य् उद्दीपन-विभावाः भगवान् आलम्बनम् । सर्वत्रात्मैक्य-कथनम् अनुभावः । अस्खलिता मतिर् व्यभिचारी । एवम् एव विभावानुभाव-व्यभिचारि-सम्प्रयोगाद् रसः शान्तो निष्पद्यते । न च शमस्य सर्व-चित्त-वृत्त्य्-उपरमात्मकत्वेन रत्य्-आद्य्-अभाव-रूपत्वाद् भावत्वम् विप्रतिषिद्धम् इति शङ्क्यम् । प्रशान्त-वाहिता-रूप-वृत्ति-सद्भावेन भावत्वोपपत्तेः । प्रशान्तम् एव हि चित्तं तत्-तत्-कारण-वशाद् रतिर् हासादि-परिणामम् अनुभवतीति रत्य्-आदीनां मूल-भूतत्वाद् अस्य नाना-भाव-रूपत्वं न हि शक्यं वक्तुम् । घटाभावो मृत्तिका पटाभावस् तन्तव इति । निरतिशयानन्द-हेतुत्वेन चास्य रसेषु श्रैष्ठ्यम् । यद् आहुः—

यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् ।

तृष्णा-क्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ।

ननु, एते ह्य् अष्टौ रसाः प्रोक्ता द्रुहिणेन महात्मना इति वदतो भरतस्य शृङ्गारादाव् अष्ट-रसके रसत्वम् अभिप्रेतम् । तत् त्व् अस्मिन् नवमे तत् कथम् उच्यते ? सत्यं, किन्तु नाट्य-विषयेऽष्टानाम् एव रसत्वं नान्यस्येति तस्याभिप्रायः । अत एव अष्टौ नाट्य-रसाः स्मृताः इति तेनैवोक्तम् । सर्वस्यैव शान्तापलाप इति तु तद्-व्याख्याने,

तुष्यन्ति तरुणाः कामे मोक्षे चापि विरागिणः ।

धर्मो धर्म-प्रवृत्तानां कामः कामोपसेविनाम् ॥

इत्य्-आदि तस्यैव वचनं विरुध्येत, अत एवाभिनव-गुप्त-पादैर् महता सम्भ्रमेण प्रतिष्ठापितः । महाभारतादौ चास्यैव साम्राज्यम् ।

ननु तथाप्य् अस्य विषय-जुगुप्सा-रूपत्वात् बीभत्सान्तर्## युज्यते इति चेत्, न, इह जुगुप्सायाः सञ्चारित्वेनावस्थापितत्वात् । पर्यन्त-निर्वाहे तस्य मूलत एव विच्छेदात् । यत्र तु बीभत्सो नो विरज्यते । तत्र बीभत्स एव यथा,

लालां वक्त्रासवं वेत्ति मांस-पिण्डौ पयोधरौ ।

मांसास्थि-पिण्डे जघने जनः काम-ग्रहातुरः ॥ [द।रू। ४.७३]

तथा

उत्तानोच्छून-मण्डूक-पाटितोदर-संनिभे ।

क्लेदिनि स्त्री-व्रणे सक्तिर् अकृमेः कस्य जायते ॥ [का।प्र। ३०४] इति ।

नाप्य् अस्य धर्म-शरीरेऽन्तर्-भावः । तस्याभिमान-मयत्वेन व्यवस्थानात् । अस्य चाह—हार-प्रशमैक-रूपत्वात् । तथापि तयोर् एकत्वं परिकल्पने वीर-रौद्रयोर् अपि तथात्व-प्रसङ्गः धर्म-वीरादीनां चित्त-वृत्ति-विशेषाणां सर्वाकाराणाम् अहङ्कार-रहितत्वे शान्त-रस-भेदत्वम् इति व्यवस्थाप्यमाने न कश्चिद् विरोधः । तस्माद् बीभत्सादिभ्यः पृथग्-भूत-शम-स्थायि-भाव उत्तम-प्रकृतिर् अहङ्कार-शैथिल्यात्मकोऽस्तु शान्त-नामा रस इत्य् अनिच्छताप्य् अवश्यम् अभ्युपेतव्यम् ॥२८॥ [मु।फ। १७.३]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततः किं वृत्तम् ? इत्य् आशङ्क्याह—इत्थम् इति । या पूर्वोक्ता **रजस्-तमोपहा **मति-रूपा भक्तिः । सैव प्रवृत्ता । नदीव प्रकर्षेण मुहुर् वर्धमानाभूद् इत्य् अर्थः ।

[अत्र ययाहम् एतत् इत्य् आदौ कल्पितं परे इत्य् अन्ते पद्यार्धके भगवद्-विज्ञान-सूचकं, भा।पु। १.२.२०-पद्यं, भा।पु। १.१८.२२-पद्यं च द्रष्टव्यम् ।] ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऋतू ऋतु-द्वयं व्याप्य । अनुसवं प्रतिसमयं । भक्तिः प्रेमा । आत्मनां जीव-मात्राणाम् अपि रजस्-तमसी अपहन्तीति सा । तदा तां भगवद्-भक्तिं दृष्टवताम् अन्येषाम् अपि रजस्-तमसोर् नाशोऽभूद् इत्य् अर्थः । भूमिकेयं द्वादशी । ततो दर्शन-साक्षान्-माधुर्यानुभवाव् उत्तराध्याये वक्ष्येते ॥२८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रेमाणम् आह—इत्थम् इति । ऋतू चतुरो मासान् व्याप्य, अनुसवं प्रति-समयं भक्तिः प्रेम-लक्षणा । कीदृशी ? इत्य् आह—आत्मनां तां भक्तिं श्रुतवतां प्राणिनां रजस् तमसी अपहन्तीति तथा । अनेन वर्त्मना तद्-दर्शनं पराध्याये वक्ष्यते ॥२८॥

———————————————————————————————————————

॥ १.५.२९-३० ॥

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।

श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥

ज्ञानं गुह्यतमं यत् तत् साक्षाद् भगवतोदितम् ।

अन्ववोचन् गमिष्यन्तः कृपया दीन-वत्सलाः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्येति । ज्ञान-शुद्ध-त्वं-पदार्थस्य दृढ-भक्तिमतो मे । प्रश्रितस्य विनीतस्य ॥२९॥ गुह्यतमम् इति । साधन-भूत-धर्म-तत्त्व-ज्ञानं गुह्यम् । तत्-साध्यं विविक्तात्म-ज्ञानं गुह्यतरम् । तत्-प्राप्येश्वर-ज्ञानं गुह्यतमम्भगवतोदितं भागवतं शास्त्रम् अन्ववोचन्न् उपदिष्टवन्तः ॥३०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्येति युग्मकम् । एतद्-अनन्तरं परम-रहस्यम् अन्यद् अप्य् उपदिदिशुर् इत्य् आह—ज्ञानम् इति । ज्ञान-विज्ञानादि-संवलितं चतुःश्लोकी-रूपम् इत्य् अर्थः । तस्य रहस्याख्य-भक्त्य्-एक-तात्पर्यत्वाद् इति भावः । साक्षाद् भगवतोदितम् इति, पुरा मया प्रोक्तम् अजाय [भा।पु। ३.४.१३] इत्य्-आदिकं स्मारयति । गुह्यतमं ब्रह्म-परमात्म-ज्ञानाद् अपि रहस्यतमम् ॥२९-३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यइवंभूतस्य मे मम उत्पन्न-प्रेम-भक्तेः साक्षद्-भगवता देवकी-नन्दनेन उदितम् । ज्ञायतेऽनेनेति ज्ञानं ज्ञान-शास्त्रं, तच् च केवल-ज्ञान-प्रधानात् भक्ति-मिश्र-ज्ञान-प्रधानं शास्त्र-गुह्यम् । ततोऽपि ज्ञान-मिश्र-भक्ति-प्रधानं गुह्यतरम् । ततोऽपि केवल-भक्ति-प्रधानं गुह्यतमं, यद् उद्धवं ब्रह्माणं च प्रति श्री-भागवतम्, अर्जुनं प्रति श्री-गीताभिधं च । गमिष्यन्तः श्वो वयं यास्याम इति विभाव्य अन्ववोचन् उपदिष्टवन्तः ॥२९-३०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथावाप्त-रतिर् अयं बालः साङ्ख्यादिभिः शास्त्रैः प्रतारितो मा भूद् इति जिगमिषवस् ते स्व-सिद्धान्तन् चोपदिदिशुर् इत्य् आह द्वाभ्याम् । तेष्व् अनुरक्तस्य प्रश्रितस्य विनीतस्य, अनुचरस्य सेवमानस्य ॥२९॥ \

ज्ञानं ज्ञान-साधनं शास्त्रं, देहादि-विविक्त-जीव-स्व-स्वरूप-विषयकं गुह्यं, प्रपञ्च-विविक्तेश्वर-विषयकं गुह्यतरं, भक्त्य्-एक-वश्य-तद्-विषयकं तु गुह्यतमम्साक्षाद् भगवता श्री-कृष्णेन यद् विरञ्चिम् उद्धवम् अर्जुनं च प्रत्य् उदितम् ॥३०॥

———————————————————————————————————————

॥ १.५.३१ ॥

येनैवाहं भगवतो वासुदेवस्य वेधसः ।

मायानुभावम् अविदं येन गच्छन्ति तत्-पदम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एव ज्ञानं पूर्वोक्त-त्वं-पदार्थ-ज्ञानाद् विवेकेन दर्शयति—येनैवेति । अविदं ज्ञातवान् अहम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अविदं हेयत्वेन ज्ञातवान् अस्मि । स्व-मते माया-शब्दस्य चिच्-छक्ति-वाचित्वे तूपदेयत्वेन । तत्-पदं तस्य चरणारविन्दं गच्छन्ति, परम-प्रीत्या साक्षात्-कुर्वन्ति—इमं स्व-निगमं [भा।पु। १.५.३९] इति-आदि-वक्ष्यमाणात्, श्री-नारदत्व-प्राप्तौ तत्-फल-पराकाष्ठा-दर्शनाच् च ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येनैव श्री-भागवतेन भगवतोमायायाश् चिच्-छक्तेर् ऐश्वर्य-माधुर्य-ज्ञानस्य कृपा-शक्तेस् त्रिगुण-माया-शक्तेश् च अनुभावं कार्यं, प्रभावं वा अविदं ज्ञातवान् अस्मि ।

त्रिगुणात्मिकाथ ज्ञानं विष्णु-शक्तिस् तथैव च ।
माया-शब्देन भण्येत शब्द-तत्त्वार्थ-वेदिभिर् ॥ इति शब्द-महोदधिः ।

माया च वयुनं ज्ञानम् इति निर्घण्टुः, माया स्याच् छम्बरी-बुद्ध्योर् इति त्रिकाण्ड-शेषः, माया दम्भे कृपायां च इति विश्वः । अत एव स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः । अतो माया-मयं विष्णुं प्रवदन्ति सनातनम् इति माध्व-भाष्य-प्रमाणिता श्रुतिश् च । एवम् अग्रिमेषु ग्रन्थेष्व् अपि माया-शब्देन यथा-सम्भवं चिच्-छक्ति-त्रि-गुण-शक्त्य्-आदयो वाचनीयाः ॥३१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : येन शास्त्रेण, मायानुभावं कृपा-प्रभावम् अहम् अविदं । माया दम्भे कृपायां च इति विश्वः । येन तत्-पदं तद्-भक्ता गच्छन्ति ॥३१॥

———————————————————————————————————————

॥ १.५.३२ ॥

एतत् संसूचितं ब्रह्मंस् ताप-त्रय-चिकित्सितम् ।

यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् साधन-धर्म-रहस्यं च सूचितम् इत्य् आह—एतद् इति । ताप-त्रयस्य्अ आध्यात्मिकादेश् चिकित्सितं भेषजं निवर्तकम्, सत्त्व-शोधकम् इति यावत् । किं तत् ? भगवति भावितं समर्पितं यत् कर्म, तत् । कथं-भूते भगवति ? ईश्वरे सर्व-नियन्तरि । एवम् अपि च ब्रह्मण्य् अप्रच्युत-पूर्ण-रूपे ॥३२॥

———————————————————————————————————————

**जीव-गोस्वामी (भक्ति-सन्दर्भः): **तद् एव कर्मार्पणम् उपपादयति त्रिभिः—एतद् इति । ब्रह्मन् ! हे श्री-वेद-व्यास ! एतत् ताप-त्रयस्य चिकित्सितं चिकित्सा, तैश् चातुर्मास्य-वासिभिः परमहंसैः सूचितम् । किं तत् ? भगवति कर्म यत् समर्पितं भवति । तत्र कर्म-समर्पणम् एवेत्य् अर्थः । कथं-भूते ? स्वयं भगवति पूर्ण-स्वरूपैश्वर्यादि-मत्तया सर्वांशिन्य् एव । केनचिद् अंशेन जीवादि-नियन्तृतया ईश्वरे परमात्म-शब्द-वाच्ये, स्वरूप-भूत-विशेषणेन विना केवल-चिन्-मात्रतया प्रतिपाद्यत्वेन ब्रह्मनि तच्-छब्द-वाच्ये ॥३२॥ [भक्ति-सन्दर्भ २१९]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं स्व-चरित-द्वारा सर्व-निरपेक्ष-महद्-द्वारक-श्री-भगवद्-यशः-श्रवणम् एव परम-श्रेयस्त्वेनोक्तम् । अत्र यत् पूर्वं—इदं हि पुंसस् तपसः श्रुतस्य वा [भा।पु। १.५.२२] इत्य्-आदिना तप-आदि-जन्यम् उत्तमश्लोक-गुणानुवर्णनम् उक्तम् । तत् तु तस्य तद्-आसक्तानां तद्-द्वाराविर्भावित्वम् एवेति ज्ञापितम् । अथ तस्य तद् अप्य् उपपादयितुं सामान्यतस् तावत् त्रिविध-परम-तत्त्वाविर्भावे समर्पितस्य कर्मणो माहात्म्यम् आह—एतद् इति त्रिभिः । संसूचितं शास्त्रज्ञैः । ईश्वरः परमात्मा तस्मिन् वा, भगवति वा, **ब्रह्मणि **वा इत्य् अर्थः ॥३२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं च निर्गुणां भक्तिं मयि प्रेम-पर्यन्तां प्रवर्त्य अनुभाव्य च भक्तेः साक्षाद्-वाचकं भगवद्-उक्तं श्री-भागवत-शास्त्रं चोपदिश्य ज्ञान-कारणं ज्ञानं च मोक्ष-पर्योजनकम् अजिज्ञासवेऽपि मह्यम् । सम्प्रति बालस्यास्य वयो-वृद्धाव् आयत्यां कदाचित् जिज्ञासा जनिष्यते वेति विभाव्य नैरपेक्ष्यर्थं भङ्ग्या ज्ञापितम् इत्य् आह—एतद् इति । संसूचितं न तु साक्षाद् उक्तं, मत्-प्रयोजनाभावद् इति भावः । किं तत् ? ताप-त्रयस्य आध्यात्मिकादेश् चिकित्सितं भेषजं निवर्तकम् । तद् एव किं ? यत् स्व-स्वभावानुसारेण ईश्वरे परमात्मनि वा, भगवति षड्-ऐश्वरवति वा, ब्रह्मणि तदीय-निर्विशेष-स्वरूपे वा कर्मभावितं समर्पितम् ॥३२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **शुद्धां भक्तिं तत्-प्रतिपादकं शास्त्रं च मयि प्रवर्त्य न्यूनतात्र काचिन् मा भूद् इति निष्काम-कर्म-योगं च व्यञ्जन्न् इत्य् आह—एतद् इति । संसूचितं न तु साक्षाद् गदितं मत्-प्रयोजनाभावाद् इत्य् अर्थः । किं तत् ? ताप-त्रयस्य चिकित्सितं भेषजं निवर्तकं, तद् एव किं? यत् कर्म स्व-वर्णाश्रम-विहितं भगवति भावितम् अर्पितम् ॥३२॥

———————————————————————————————————————

॥ १.५.३३ ॥

आमयो यश् च भूतानां जायते येन सुव्रत ।

तद् एव ह्य् आमयं द्रव्यं न पुनाति चिकित्सितम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु संसार-हेतोः कर्मणः कथं ताप-त्रय-निवर्तकत्वम् ? सामग्री-भेदेन घटत इति स-दृष्टान्तम् आह द्वाभ्याम् । य आमयो रोगो येन घृतादिना जायते, तद् एव केवलम् आमय-कारण-भूतं **द्रव्यं **तम् आमयं न पुनाति, न निवर्तयतीत्य् अर्थः । किं तु चिकित्सितं द्रव्यान्तरैर् भावितं सत् पुनात्य् एव यथा ॥३३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु, उत्पत्त्यैव तत्-तत्-सङ्कल्पेन विहितत्वात् संसार-हेतोः कर्मणः कथं ताप-त्रय-निवर्तकत्वम् ? उच्यते—सामग्री-भेदेन घटत इति, यथा—आमय इति । आमयो रोगो येन घृतादिना जायते, तद् एव केवलम् आमय-कारणं द्रव्यम् । तम् आमयं न निवर्तयति, किन्तु चिकित्सितं द्रव्यान्तरैर् भावितं सत् निवर्तयत्य् एव ॥ [भक्ति-सन्दर्भ २२०]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु संसार-हेतोः कर्मणः कथं ताप-त्रय-निवर्तकत्वं ? सत्यं, सामग्री-भेदेन घटत इति स-दृष्टान्तम् आह द्वाभ्याम् । य आमयो रोगः येन घृतादिना जायते, तद् एव घृतादि-द्रव्यं चिकित्सितम् औषधान्तर-वासितं सत् आमयं न पुनाति न रक्षति, नाशयतीति यावत् । पुनातिर् अत्र रक्षनार्थको ज्ञेयः ॥३३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु कर्मणस् तापक-स्वभावस्य कथं तन्-निवर्तकत्वम् ? तत्राह—यो रोगो येन घृतादिना भूतानां प्राणिनां जायते, तद् एव केवलम् आमय-जनकं घृतादि-द्रव्यं चिकित्सितम् औषधान्तर-वासितं सदामयं तं न पुनाति न रक्षति, विनाशयत्य् एव, पुनातिर् इह रक्षणार्थः, धातूनाम् अनेकार्थ-स्वीकारात् ॥३३॥

———————————————————————————————————————

॥ १.५.३४ ॥

एवं नृणां क्रिया-योगाः सर्वे संसृति-हेतवः ।

त एवात्म-विनाशाय कल्पन्ते कल्पिताः परे ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तथा आत्म-विनाशाय कर्म-निवृत्तये कल्पन्ते समर्था भवन्ति । परे ईश्वरे कल्पिता अर्पिता सन्तः । अत्र प्रथमं महत्-सेवा, ततश् च तत्-कृपा, ततस् तद्-धर्म-श्रद्धा, ततो भगवत्-कथा-श्रवणम्, ततो भगवति रतिः, तया च देह-द्वय-विवेकात्म-ज्ञानम्, ततो दृढा भक्तिः, ततो भगवत्-तत्त्व-ज्ञानम्, ततस् तत्-कृपया सर्वज्ञत्वादि-भगवद्-गुणाविर्भाव इति क्रमो दर्शितः ॥३४॥

———————————————————————————————————————

**जीव-गोस्वामी (भक्ति-सन्दर्भः) : परे **भगवति कल्पिताः कामनयाप्य् अर्पिताः सन्तः संसार-ध्वंस-पर्यन्त-फलत्वाद् आत्म-विनाशाय कर्म-निवृत्तये कल्पन्ते ॥ [भक्ति-सन्दर्भ २२१]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एवम् इति । आत्म-शब्दोऽत्र कर्म-जाति-परः ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रिया-योगाः कर्म-योगाः सर्वे नित्याः काम्याः नैमित्तिकाश् च निष्कामाः परमेश्वरे कल्पिताः समर्पिताः सन्तः आत्म-विनाशाय कर्म-निवृत्तये कल्पन्ते समर्था भवन्ति ॥३४॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : एवं सर्वे नित्य्-आदि-काम्यान्ता क्रिया-योगा नृणां संसृति-हेतवस् तापकरास् त एव परे भगवति कल्पिता निवेदिताः सन्तः आत्म-विनाशाय कल्पन्ते, भगवद्-अर्पण-गुण-भाविता औषध-भावित-घृतादिवत् स्व-निष्ठ-तापकतां नाशयन्ति, बलारोग्यम् इव तत्-तोषं जनयन्तीत्य् अर्थः । आत्मनो लिङ्ग-शरीरस्य विनाशायेत्य् एके ॥३४॥

———————————————————————————————————————

॥ १.५.३५ ॥

यद् अत्र क्रियते कर्म भगवत्-परितोषणम् ।

ज्ञानं यत् तद्-अधीनं हि भक्ति-योग-समन्वितम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु च ज्ञानेनाज्ञाने प्राप्त-कर्म-नाशस् तच् च ज्ञानं भक्ति-योगाद् भवति कथं कर्मणा कर्म-नाशः स्यात् ? तत्राह—यद् अत्रेति ॥३५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ भगवतः परितोषण्आत्मकस्य तस्य माहात्म्यं विशेषत आह—यद् अत्रेति । भक्ति-योगः कीर्तन-स्मरणादि-रूपः । तत्-समन्वितं तेन समवेतं यज् ज्ञानं भागवतम्, तद् अपि तद्-अधीनं तद्-अव्यभिचारि-फलम् इत्य् अर्थः ॥३५॥ [भक्ति-सन्दर्भः २२४]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवेश्वरार्पितं कर्म सत्त्व-शोधकत्वात् ज्ञान-साधनं भवतीत्य् आह—भगवद्-अर्पितत्वात् भगवत्-परितोषणं निष्कामं यत् कर्म तद्-अधीनं ज्ञानं तज्-जन्यत्वाद् इत्य् अर्थः । कीदृशं ? यद् भक्ति-योग-समन्वितम् अन्यस्य भक्ति-रहितस्य ज्ञानस्य तु मोक्ष-साधकत्वाशक्तेः—नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १.५.१२] इत्य्-आदिना तिरस्कार एव दृष्टः ॥३५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ज्ञान-भक्ती प्रकाश्य ते धर्मास् ताप-निवर्तका भवन्तीत्याहऋयद् इति । अत्र भगवत्-परितोषणं यत् कर्म क्रियते तत्-तद् उद्देश्यकत्वाद्-विसतन्तुवत्-तद् अधीनं तद्-विषयकं ज्ञानं जनयति भक्ति-योग-समन्वितं च यथा स्यात्तं तद्-योगं च जनयति, ज्ञानस्य तद्-योग-हेतुत्वात् ॥३५॥

———————————————————————————————————————

॥ १.५.३६ ॥

कुर्वाणा यत्र कर्माणि भगवच्-छिक्षयासकृत् ।

गृणन्ति गुण-नामानि कृष्णस्यानुस्मरन्ति च ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भगवद्-अर्पणेन क्रियमाणं कर्म भक्ति-योगं जनयतीति सद्-आचारेण दर्शयति । यत्र यदा भगवतः शिक्षया कर्माणि कुर्वाणा भवन्ति, तदा श्री-कृष्णस्य गुण-नामानि गृणन्त्य् अनुस्मरन्ति च कृष्णम् इत्य् अर्थः । इयं च भगवच्-छिक्षा—

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता। ९.२७] इति ॥३६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : कथम् ? तत्राह—कुर्वाणा इति । भगवच्-छिक्षया, **यत् करोषि यद् अश्नासि [गीता। ९.२७] इत्य्-आदिकया । यत्र भगवत्-सन्तोषण-निमित्ते कर्माण्य् अपि कुर्वाणास् तादृश-रुचि-स्वाभाव्येनासकृत् गृणन्तीत्य्-आदि श्री-शौनकादिवद् इति भावः ॥३६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं भक्ति-मिश्रेण कर्मणा भक्ति-मिश्रं ज्ञानं मोक्ष-साधनं भवतीति उक्तम् । इदानीं भक्ति-मिश्र-निष्काम-कर्मवतां तादृश-भक्त-सङ्ग-भाग्येन केषाञ्चित् कदाचित् कर्म-मिश्रा भक्तिर् अपि भवेद् इत्य् आह—कुर्वाणा इति । यत्र भक्ति-मिश्र-कर्मणि स्थिता अकस्माद् भक्त-सङ्ग-भाग्येन भगवच्-छिक्षया कर्माणि कुर्वाणाः सन्तः केचित् कृष्णस्य गुण-नामानि गृणन्ति स्मरन्ति च कीर्तन-स्मरणाद्य्-आत्मिकां भक्तिं कुर्वन्तीत्य् अर्थः । भगवच्-छिक्षा चेयम्—

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता। ९.२७] इति ।

शिक्षायाश् चास्या भक्ति-प्रकरण-पठितत्वात् न कर्मि-विषयतया व्याख्या युक्ता । कर्मिणो हि कर्म-वैफल्याभावार्थं वैदिकम् एव कर्मार्पयति । भक्तास् तु भगवत्-स्वामिकत्वेनैवात्मानं जानन्तः स्व-कर्तव्यं वैदिकं लौकिकं दैहिकं च कर्म स्व-प्रभु-प्रवर्त्यमानं प्रतियन्तः सर्वम् एव तस्मिन् समप्रयन्तीति महान् भेदः । अत एवात्र यद् अश्नासीत्य् उपन्यस्तम्, एवम् एव तत्र श्री-रामानुजाचार्य-चरणैर् अपि व्याख्यातम् । अत्र कुर्वाणा इति वरत्मान-निर्देशात् । भक्तिं कुर्वन्तीय् आख्यात-क्रियाया मुख्यत्वाच् चेयं कर्म-योग-सहिता भक्तिर् इत्य् अतो भक्तेर् अस्याः कर्म-मिश्रता ज्ञेया । कर्म-मिश्रया भक्त्या साध्या ज्ञान-मिश्रतया च साध्या मुक्ति-सहिता भगवद्-रतिं शान्त-भक्ति-नाम्नी आत्मारामाश् च मुनय [भा।पु। १.७.१०] इत्य् आदेर् ज्ञेया ॥३६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यत्रार्पित-कर्मणि स्थिताः परिनिष्ठित-सङ्गे यादृच्छिके सति भगवच्-छिक्षया कर्माणि कुर्वाणाः कृष्णस्य गुण-नामानि गृणन्त्य् अनुस्मरन्ति च । तच्-छिक्षा तु

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत्-तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् [गीत ९.२७] इति ।

सनिष्ठा वैदिकम् एव कर्मार्पयन्ति, तत्-प्रसङ्गात् परिनिष्ठिताः सन्तो लौकिकं दैहिकं च तद् अर्पयन्तीति भावः ॥३६॥

———————————————————————————————————————

॥ १.५.३७ ॥

ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कीर्तन-स्मरण-रूप-भक्ति-हेतुत्वम् उक्तम्, ज्ञान-हेतुत्वम् आह द्वाभ्याम्—नम इति । नमो धीमहि मनसा नमनं कुर्वीमहि ॥३७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ पञ्चरात्र-वक्तुः श्री-नारायणाद् एतज् जन्मनि लब्धं सप्रणव-मन्त्रं चोपदिशति—ॐ नम इति । चतुर्व्यूहात्मको भगवान् एवात्र देवता । तत्र श्री-वासुदेव-सङ्कर्षणौ वाम-दक्षिणयोर् मध्यतो ज्ञेयौ । प्रद्युम्नः सङ्कर्षणस्य दक्षिणे । अनिरुद्धो वासुदेवस्य वामे । सङ्कर्षणादि-क्रम-विपर्ययेण निर्देशस् तु श्री-कृष्ण-चतुर्व्यूहत्वं बोधयति । तत्-पुत्र-पौत्रत्वेन प्रद्युम्नानिरुद्धयोस् तन्-निकट-पाठात् ॥३७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवं भक्ति-रहितानां ज्ञान-कर्मादीनां नैष्कर्म्यं [भा।पु। १.५.१२] एत्य् आदिना निन्दया सर्वथा हेयत्वम् उक्त्वा, त्यक्त्वा स्वधर्मं [भा।पु। १.५.१७] इत्य्-आदि श्लोक-त्रय्या परमोपदेयां शुद्धां निर्गुणां भक्तिं स्तुत्वा, अहं पुरातीत-भवे [भा।पु। १.५.२३-२८] इत्य्-आदि-श्लोक-षट्केन तस्या एव भक्तेर् आविर्भाव-प्रकारं प्रेम-पर्यन्तां वृद्धिं चोक्त्वा, अधिकारि-विशेषे पुनर् उपादेयं भक्ति-मिश्रं ज्ञानं ततोऽधिकां कर्म-मिश्रां भक्तिं चोक्त्वा, इदानीं ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत [भा।पु। १.१.८] इत्य् उक्तेः श्री-गुरुभ्यः प्राप्तं स्व-मन्त्रम् अपि तम् उपदिदिक्षुस् तत्र श्रद्धाम् उत्पादयन्न् आह द्वाभ्यां—ॐ नम इति । त्रयस्त्रिंशद्-अक्षरात्मको मन्त्रश् चतुर्व्यूहात्मको भगवान् अत्र देवता सङ्कर्षणादि, क्रम-विपर्ययेण निर्देशस् तु श्री-कृष्ण-चतुर्व्यूहत्वं बोधयति तत्-पुत्र-पौत्रत्वेन प्रद्युम्नानिरुद्धयोस् तन्-निकट-पाठात् । यद् वा, प्रद्युम्नानिरुद्ध-सङ्कर्षणानां क्रमेण सृष्टि-स्थिति-संहार-कारणत्वात् तथोक्तिः । नमो धीमहि नमस्कारं ध्ययेम मनसा नमनं कुर्वीमहीत्य् अर्थः ॥३७॥

[अत्र प्रायो यथावत् भा। ६.१६.१८, १०.४०.२१, ११.५.२९-मन्त्रा द्रष्टव्याह् ।]

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इदानीं गुरु-लव्धं मन्त्रञ्चोपदिदिकूउर् आह—ॐ इति द्वाभ्यां । भगवते कृष्णाय वासुदेवादि-चतुर्व्यूहात्मकायेति त्रयस् त्रिंशदर्णो मन्त्रः सृष्टि-स्थिति-भङ्ग-क्रमात्-तत्-कर्तृणात् प्रद्युम्नादीनां क्रमः ॥३७॥

———————————————————————————————————————

॥ १.५.३८ ॥

इति मूर्त्य्-अभिधानेन मन्त्र-मूर्तिम् अमूर्तिकम् ।

यजते यज्ञ-पुरुषं स सम्यग् दर्शनः पुमान् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अमूर्तिकं मन्त्रोक्त-व्यतिरिक्त-मूर्ति-शून्यम् । यजते पूजयति स पुमान् सम्यग् दर्शनो भवति ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (भगवत्-सन्दर्भः, ७०.५) : मन्त्र-मूर्तिं मन्त्रोक्त-मूर्तिं, मन्त्रोऽपि मूर्तिर् यस्येति वा । अमूर्तिकं मन्त्रोक्त-व्यतिरिक्त-मूर्ति-शून्यं, प्राकृत-मूर्ति-रहितं वा, मूर्ति-स्वरूपयोर् एकत्वात्, प्राकृतवन् न विद्यते पृथक्त्वेन मूर्तिर् यस्य, तथा-भूतं वा । स पुमान् सम्यग्-दर्शनः साक्षाच्-छ्री-भगवतः साक्षात्-कर्तृत्वाद् इति भावः ॥३८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्त्र-मूर्तिं **तद्-उक्त-मूर्तिम् । तथाप्य् अमूर्तिकं प्राकृत-मूर्ति-रहितम् । यज्ञ-पुरुषं पूजायां ध्येयाकारम् इत्य् अर्थः । दर्शनस्य सम्यक्त्वं श्री-भगवद्-आविर्भावात्, न तु ब्रह्म-दर्शनवत् खिलत्वम् इति ॥३८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इति मूर्तीनां वासुदेवादीनाम् अभिधानेन नाम-चतुष्टयेन यजते पञ्चरात्रोक्त-विधिना वासुदेवाय नमः प्रद्युम्नाय नम इत्य् एवं षोडशोपचारैर् यः पूजयेत्, मन्त्र-मूर्तिं मन्त्र-ध्यानोक्त-मूर्तिं, मन्त्रेणैव जपितेनाविर्भवति मूर्तिः शरीरं यस्येति वा । अमूर्तिकं प्राकृत-मूर्ति-रहितम्, अकठिनं कृपार्द्रम् इति वा । मूर्तिः काठिन्य-काययोर् इत्य् अमरः । यज्ञ-पुरुषं यजनीयं पुरुषं, स सम्यग्-दर्शनः तं दृष्ट्वा अन्येऽपि कृतार्था भवन्तीत्य् अर्थः ।

यद् वा, दर्शनं ज्ञानम् । यद् वा, दृश्यतेऽनेनेति दर्शनं शास्त्रं, भक्ति-प्रतिपादकं पञ्चरात्रादि सम्यक् धन्यम् आत्म-प्रसादकत्वात् । न तु येनैवासौ न तुष्येत मन्ये तद्-दर्शनं खिलं [भा।पु। १.५.८] इत्य् उक्त-लक्षणं भक्ति-रहितं शास्त्रम् एव खिलम् इत्य् अर्थः । ततश् च, कृत-वेदान्त-दर्शनस्यापि तवायम् आत्मा न वै परितुष्टः, मम तु कृत-पञ्चरात्र-शास्त्रस्यात्मा सदा प्रसन्न एवेति भावः ॥३८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इत्य् आसां मूर्तीनाम् अभिधानेन नाम-पञ्चकेन यः पुमान् यज्ञ-पुरुषं यजनीयं कृष्णं यजते, स सम्यग्-दर्शनो यद्-दर्शनादन्ये कृतार्था भवन्तीति तथ्यज्ञान इत्य् एके । कीदृशं? मन्त्रे मन्त्र-प्रतिपाद्या वा मूर्तिर् यस्य तम्, अमूर्तिकम् अकठिनं कृपार्द्रं मूर्तिः काठिन्य-काययोः इत्य् अमरः । मायिक-काय-शून्यम् इति वा ॥३८॥

———————————————————————————————————————

॥ १.५.३९ ॥

इमं स्व-निगमं ब्रह्मन्न् अवेत्य मद्-अनुष्ठितम् ।

अदान् मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशवः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं कृतवति मयि हरिः स्व-सदृशं ज्ञानादिकं दत्तवान् इत्य् आह । इमं स्व-निगमं स्वोपदेशं मद्-अनुष्ठितं मयानुष्ठितम् अवेत्य ज्ञात्वा । भावं च प्रीतिं च ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-निगमं निजान्तरङ्ग-परम-वेद-रूपम् । प्रथमतो ज्ञानं स्वानुभवम् । तत ऐश्वर्यं स्वाणिमादि-रूपम् । ततस् तत्रानासक्तौ भावं स्व-महा-प्रेमाणं च ॥३९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-निगमं निजान्तरङ्ग-वेदोक्तं ज्ञानं प्रथमतः स्वानुभवम् । तत ऐश्वर्यं स्वाणिमादि-रूपम् । ततस् तत्र ममानासक्तिम् अभिप्रेत्य भावं स्व-महा-प्रेमाणं च अदात् । ततश् च मह्यम् अपीमं मन्त्रं कृपयोपदिशेति प्रार्थितेन श्री-नारदेन व्यासस् तम् एव मन्त्रम् उपदिष्टम् इति सुधीर्भिर् बोद्धव्यम् ॥३९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इमं मन्त्रं जपति मयि कृष्णस्य महान् प्रसादोऽभूद् इत्य् आह—स्वनिगमं स्वमन्त्रं मद् अनुष्ठितं मया जप्तम् अवेत्याति-प्रसन्नः केशवः स्व-विषयकं ज्ञानम् ऐश्वर्यञ्चाणमादिकम् अदात् तेनाप्य् अहृष्टाय मह्यं स्वस्मिन् भावं प्रेमाणञ्चादात्, ततश् च प्रार्थितो नारदः स्वं मन्त्रं व्यासम् उपादिक्षद् इति बोध्यम् ॥३९॥

———————————————————————————————————————

॥ १.५.४० ॥

त्वम् अप्य् अदभ्र-श्रुत विश्रुतं विभोः

समाप्यते येन विदां बुभुत्सितम् ।

प्राख्याहि दुःखैर् मुहुर् अर्दितात्मनां

सङ्क्लेश-निर्वाणम् उशन्ति नान्यथा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अतस् त्वम् अप्य् एवं कुर्व् इत्य् आह—त्वम् इति । अदभ्रम् अनल्पं श्रुतं यस्य, हे अदभ्र-श्रुत ! विभोर् विश्रुतं यशः प्रख्याहि कथय । येन विश्रुतेनबुद्धेन विदां विदुषां बुभुत्सितं बोद्धुम् इच्छा समाप्यते । यद् यतो दुःखैः पीडितानां क्लेश-शान्तिं प्रकारान्तरेण न मन्यन्ते ॥४०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस्माद् एवं मम तद् एतत्-पर्यन्तं सर्वं तद्-गुण-श्रवण-निदानकं तच्-छ्रवणम् एव तप-आदीनां परमं फलम् । तस्मात् त्वम् अपीति ॥४०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हे अदभ्र-श्रुत ! अनल्प-वेद-शास्त्र-ज्ञ ! हे सर्वज्ञ ! इत्य् अर्थः । विभोर्विश्रुतं यशः **प्रख्याहि **कथय, येन विश्रुतेन बुद्धेन विदां विदुषां बुभुत्सितं बोद्धुम् इच्छा **समाप्यते । **तद्-यशोऽमृत-स्वाद-निमग्नानां सदा तद्-एक-भक्तिमतां ज्ञानाय स्पृहैव न भवेद् इत्य् अर्थः । अन्यथा प्रकारान्तरेण दुःखैः पीडितानां जीवानां क्लेश-शान्तिं न उशन्ति न मन्यन्ते विवेकिनः ॥४०॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

प्रथमे पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवम् उपदिश्य् आह—त्वम् इति । हे अदभ्रश्रुत श्रुत-सर्व-शास्त्र! त्वं विभोः विश्रुतं यशः प्रख्याहि येन विदां बुभुत्सितं बोद्धुम् इच्छा समाप्यते, तेनैव सवेष्ट-लाभात्, अन्यथा विधान्तरेण क्लेशैर् मुहुर् अर्द्यमानानां तन्-निर्वाणं नाशं नेच्छन्ति तत्त्वविदः । न थलु दावाग्निर् वृष्टिम् अन्तरा विनश्येद् इति भावः ॥४०॥

इति वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां पञ्चमोऽध्यायः ॥५॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे व्यास-नारद-संवादो नाम

पञ्चमोऽध्यायः ।

॥१.५॥


(१.६)


  1. ‘इति शेषःऽ इति पाठो यद्य् अपि बहुत्र दृश्यते तथापि मूले तत्-पद-सत्त्वात् सोऽयुक्त एव । ↩︎

  2. अत्रऽबन्धनम् एवऽ इतिऽन्यूनम् एवऽ इति च पाठौ क्वचिद् दृश्येते । ↩︎

  3. भक्त्यानन्यया शक्यः अहम् एवं-विधोऽर्जुन [गीता ११.५४] ↩︎

  4. अस्याग्रेऽभगवद्-भक्ति-सुखार्थम् एव प्रयतेत तस्य दुर्लभत्वाद् इत्य् अर्थःऽ इत्य् अधिकः पाठः । ↩︎

  5. विस्ह्wअनथ् फ़वोर्स् थे रेअदिन्ग् रतिः अन्द् क़ुओतेस् इत् थत् wअय् इन् माधुर्य-कादम्बिनी ८.१२ अन्द् एल्सेwहेरे। थिस् मकेस् सेन्से, सिन्चे रुचिः अप्पेअरेद् इन् थे प्रेविओउस् वेर्से। ब्र्स् १.३.९ अल्सो रेअद्स् रतिः। ↩︎

  6. ब्रह्मातिरिक्त-वस्तुनोऽयाथार्थ्यात् मायातु ब्रह्मण्य् एव । रज्जुर् इति यथा रज्ज्वाम् अयं सर्प इति ज्ञानं नायं सर्प इति ज्ञानेनोत्तर-कालीनेन बाधकेन बाध्यस्य पूर्व-ज्ञानस्यारोपितत्वं तद्वत् इति ॥ ↩︎