०४ नारदस्यागमनम्

विषयः

महर्षेर् व्यासस्यापरितोषः, तद्-आश्रमे देवर्षि-नारदस्यागमनं च ।

॥ १.४.१ ॥

व्यास उवाच—

इति ब्रुवाणं संस्तूय मुनीनां दीर्घ-सत्रिणाम् ।
वृद्धः कुल-पतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

तुर्ये भागवतारम्भ-कारणत्वेन वर्ण्यते ।

व्यासस्यापरितोषस् तु तपः-प्रवचनादिभिः ॥

इत्य् एवं प्रसन्नतया श्रावयिष्याम् इति ब्रुवानम् । मुनीनां बहूनां मह्द्ये एकेन वक्तव्ये यो वृद्धो वृद्धेष्व् अपि बहुषु यः कुल-पतिर् गण-मुख्यस् तेष्व् अपि बहुषु यो बह्व्-र्चः ऋग्-वेदी तेन वक्तव्यम् । अत एवं-भूतत्वाच् छौनकोऽब्रवीत् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

तुर्ये‘स्य शास्त्र-वर्यस्य वक्तुः श्रोतुश् च सर्वतः ।

श्रैष्ठ्यं व्यास-प्रसादश् च कथ्यते यद् विनैव हि ॥

वृद्धौ वयसा कुल-पतिर् इति कुलेन च बह्वृच इति वेदाभ्यासोत्थेन ज्ञानेन चेति शौनक एव प्रश्न-कर्तृत्वेन तैर् व्यवस्थापित इति भावः ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

चतुर्थे त्व् अस्य शास्त्रस्य वक्तृ-श्रोत्रोर् वरिष्ठता । \ व्यासस्य हृद्-वितापश् च यद्-विनेति प्रकीर्त्यते ॥

\

इत्य् एवं प्रसन्नतया वः श्रावयिष्यामीति ब्रुवाणं सूतं । मुनीनां मध्ये एकेन वक्तव्ये यो वृद्धः, वृद्धेष्व् अपि यः कुलपतिः, कुलपतिष्व् अपि यो बह्वृचः ऋग्वेदी तेन वक्तव्यम् । ईदृशत्वाच्-छौनकोऽव्रवीत् ॥१॥

———————————————————————————————————————

॥ १.४.२ ॥

शौनक उवाच—

सूत सूत महा-भाग वद नो वदतां वर ।
कथां भागवतीं पुण्यां यद् आह भगवा‘ छुकः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यत् यां कथाम् आह ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सूत सूतेति हर्षेण द्विरुक्तिं यत् याम् ॥२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सूत सूत्येत्य् आदराद्वीप्सा । यद्-याम् ॥२॥

———————————————————————————————————————

॥ १.४.३ ॥

कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।
कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कस्मिन् वा स्थाने । केन हेतुनेति महा-भारतादि-धर्म-शास्त्राणि कृतवतः पुनर् एतत्-संहिता-करणे किं कारणम् इत्य् अर्थः । कुत इति सार्वविभक्तिकस्तसिः । केन प्रवर्तित इत्य् अर्थः । कृष्णो व्यासः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कुत इति सार्व-विभक्तिकस् तसिः केनेत्य् अर्थः कृष्णो व्यासः ॥३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कुतः केन, सार्व-विभक्तिकस् तसिः । कृष्णो व्यासः ॥३॥

———————————————————————————————————————

॥ १.४.४ ॥

तस्य पुत्रो महा-योगी सम-दृङ् निर्विकल्पकः ।
एकान्त-मतिर् उन्निद्रो गूढो मूढ इवेयते ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **श्री-कृष्णार्पणम् अस्तु । निर्विकल्पकः । मदीयं त्वदीयम् इति भेदम् अपहाय सर्वम् ईश्वराधीनम् इति स्थितः ।

मायाम् ईश्वर-रूपेषु सर्वत्र तद्-अधीनताम् ।
पश्यति ज्ञान-सम्पत्त्या विनिद्रो यः स योगवित् ॥ इति ब्राह्मे ॥४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद् उक्तं स तु संश्रावयाम् आसेति [१.३.४२] तच्-छुकस्य व्याख्यानादिकं कथं घटितम् इति प्रष्टुं तस्यासङ्गोदासीनताम् आह द्वाभ्याम्—तस्येति । सम-दृक् समं ब्रह्म पश्यति । अतो निर्विकल्पकः, स्वार्थे कः, निरस्त-भेदः । किं च, एकस्मिन्न् एव अन्तः समाप्तिर् यस्यास् तथाभूता मतिर् यस्य सः । यत उन्निद्रो माया-शयनाद् उद्बुद्धः, या निशा सर्व-भूतानां तस्यां जागर्ति संयमी [गीता। २.६९] इति स्मृतेः । अत एव गूढोऽप्रकटः । मूढ इव प्रतीयते ॥४ ॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्विकल्पकः निर्भेद-ज्ञानवान् एकस्मिन्न् एव अन्तः समाप्तिर् यस्याः सा मतिर् यस्य सः । निद्रा अविद्या, तस्याः सकाशाद् उद्गतः । या निशा सर्व-भूतानां तस्यां जागर्ति संयमी [गीता। २.६९] इति स्मृतेः । ईयते प्रतीयते ॥४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स तु संश्रावयामास महा-राजं परीक्षितम् [भा।पु। १.३.४२] इत्य् उक्तं, तत् कथं घटितम् इति प्रष्टुं शुकस्यासङ्गत्वम् आह—तस्येति । महा-योगी समाधि-निष्ठः, समदृक् लोष्ट्राश्मकाञ्चनेषु तुल्य-दृष्टिः, निर्विकल्पक इदं मदीयम् एतद् अन्यदीयम् इति धीशून्यः । एकस्मिन्न् आत्मन्यन्तः समाप्तिर् यस्यास् तादृशी मतिर् यस्य, उदगता निद्रा यस्मात् स नष्टाविद्य इत्य् अर्थः । गूढोऽलक्ष्य-लिङ्गः, ईयते प्रतीयते ॥४॥

———————————————————————————————————————

॥ १.४.५ ॥

दृष्ट्वानुयान्तम् ऋषिम् आत्मजम् अप्य् अनग्नं

देव्यो ह्रिया परिदधुर् न सुतस्य चित्रम् ।

तद् वीक्ष्य पृच्छति मुनौ जगदुस् तवास्ति

स्त्री-पुम्-भिदा न तु सुतस्य विविक्त-दृष्टेः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निर्विकल्पकत्वं प्रपञ्चयति —दृष्ट्वेति । आत्मजं शुकं प्रव्रजन्तम् अनुगच्छन्तम् ऋषिं व्यासम् अनग्नम् अपि दृष्ट्वा जले क्रीडन्त्यो देव्योऽप्सरसो ह्रिया लज्जया परिदधुर् वस्त्र-परिधानं कृतवत्यः । अनग्नम् अपीत्य् अनेनार्थात् तत्-सुतो नग्न इत्य् उक्तम् । नग्नस्य पुरतो गच्छतः सुतस्य तु ह्रिया न परिदधुः । तच् चित्रं वीक्ष्य । इयं स्त्री अयं पुमान् इति भिदा भेदस् तवास्ति । विविक्ता पूता दृष्टिर् यस्य ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **दृष्ट्वेत्य् आदौ अप्य् अनग्नत्वस्यापि परिधाने हेतुत्वं, तेन मर्यादावत्त्वस्य लक्षितत्वान् निकटागमन-दृष्टि-क्षेपाद्य्-असम्भावनया तासां युक्तम् । सुते तु नग्नत्वस्य तद्-वैपरीत्येनापरिधाने हेतुत्वं युक्तम् इति यद्यपि स्यात्, तथापि यन् मद्-दर्शने परिदधुर्, न तु तद्-दर्शने, तच् चित्रम् । तस्माद् अमुं न ददृशुर् इति निश्चित्याप्य् उत्कण्ठया कथञ्चिद् ददृशुर् एवेति सम्भाव्य, तासाम् अपलाप-खण्डनार्थं दर्शनम् एव भङ्ग्या निश्चित्य पृच्छति सतीत्य् अर्थः ॥५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **निर्विकल्पकत्वं प्रमाणयति दृष्ट्वेति । आत्मजं शुकं प्रव्रज्य यान्तम् अनुजातम् ऋषिं व्यासम् अनग्नम् अपि दृष्ट्वा देव्यो जल-क्रीडनत उत्थिता लज्जया परिदधुः स्व-स्व-वस्त्राणीत्य् अर्थः, न तु सुतस्य शुकस्य दर्शने । तच् चित्रम् । “अहो ! युवानं तत्रापि नग्नं सर्वत्र स्पष्टं विलोकयन्तं मत्-पुत्रं वीक्ष्य एता न लज्जिताः ! मां तु वृद्धं स-वसनम् इतो युवतयः खेलन्तीति तद्-दिशि दृशम् अप्य् अददानं विलोक्य लज्जन्ते स्म । तद् इमा एव आर्जवेन कारणं पृच्छामि” इति मुनौ पृच्छति सति जगदुः, “इयं स्त्री अयं पुमान् इति तव स्ती-पुं-भिदा अस्ति, न तु तव सुतस्य ।”

ननु कथम् एतज् जातम् ? तत्राहुः—विविक्ता पूता दृष्टिर् यस्य तस्येति वयं युवति-जनाः कलाभिज्ञाः स्त्री-पुंसयोर् नयन-दर्शनेनैव तद्-अन्तस्-तत्त्वं सर्वं ज्ञातुं प्रभवाम इति भावः ॥५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रव्रजन्तम् आत्मजं शुकम् अनुयातमृषिं व्यासमनग्नम् अपि दृष्ट्वान्तसि क्रीडन्त्यो देव्यो ह्रिया वासांसि परिदधुः, अनग्नम् इत्य् उक्तेः सुतस्य नग्नत्वं प्राप्तं, सुतस्य ह्रिया न परिदधुर् इति चित्रं वीक्ष्य नग्नस्य यूनः पश्यतश् च दर्शनान् न हीः, तद्-विलक्षणस्य दर्शनात् कथं सेति मुनौ व्यासे पृच्छति सति ता जगदुः—तवास्तीत्य्-आदि । तरुण्यो हि पुंदृष्टि-परीक्षिका भवन्तीति तव् एश्वरत्वद् व्यथितस्य स्त्री-पुंभिदास्ति । सुतस्य तु न यतो विविक्त-दृष्टेः, विविक्ते देहादि-भिन्ने स्वात्मनि दृष्टिर् यस्येति महा-योगित्वं स्फुटम् । न च व्यासस्य शुकाद् अपकर्षः तस्येश्वरत्वेन नित्य-सिद्धोत्कर्षत्वात् ॥५॥

———————————————————————————————————————

॥ १.४.६ ॥

कथम् आलक्षितः पौरैः सम्प्राप्तः कुरु-जाङ्गलान् ।
उन्मत्त-मूक-जडवद् विचरन् गज-साह्वये ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं-भूतोऽसौ कथम् आलक्षितो ज्ञातः । कुरवो जाङ्गलाश् च देश-विशेषास् तान् संप्राप्तः प्रथमं, ततो गजसाह्वयेविचरन् । गजेन सहित आह्वयो नाम यस्य तस्मिन् हस्तिनापुरे । हस्ती नाम राजा तेन निर्मितत्वात् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुरु-जाङ्गलान् देश-विशेषान् गजेन सह आह्वयो नाम यस्य, तस्मिन् हस्तिनापुरे विचरन् ॥६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कथम् इति—पौरैर् इति तैः किं सोऽन्वेषित इति प्रष्टुर् भावः । कुरुजाङ्गलान् देश-भेदान् प्रथमं गज-साह्वयो गजेन सहाह्वयो नाम यस्य तस्मिन् हस्तिनापुरे विचरन्, हस्ती नाम राजा-भूत्तेन हि तत् पुरं निर्मितम् ॥६॥

———————————————————————————————————————

॥ १.४.७ ॥

कथं वा पाण्डवेयस्य राजर्षेर् मुनिना सह ।
संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं-भूतेन मुनिना सहयत्र संवादे एषा सात्वती भागवती श्रुतिः संहिता ॥७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्रुतिर् वेद-सारः ॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाण्डवेयस्य परीक्षितः, मुनिना शुकेन, श्रुतिः संहिता ॥७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पाण्डवेयस्य परीक्षितः, सात्वती भागवती श्रुतिः संहिता ॥७॥

———————————————————————————————————————

॥ १.४.८ ॥

स गो-दोहन-मात्रं हि गृहेषु गृह-मेधिनाम् ।
अवेक्षते महा-भागस् तीर्थी-कुर्वंस् तद् आश्रमम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतद् व्याख्यानं बहु-कालावस्थानापेक्षम्, तस्य त्व् एकत्रावस्थानं दुर्लभम् इत्य् आह—स इति । गो-दोहन-मात्रं कालं प्रतीक्षते, तद् अपि न भिक्षार्थम्, किं तु तेषाम् आश्रमं गृहं तीर्थी-कुर्वन् पवित्री-कुर्वंस् तस्माद् एवं-भूतोऽत्र वक्तेत्य् आश्चर्यम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अवेक्षते प्रारब्धाभासेन, न तु अत्राप्य् आवेशेनेति ज्ञेयम् । स्त्री-पुं-भिदा ज्ञानस्याप्य् अभावात् । अत एव तीर्थीकुर्वन्न् इति स्वभावत एव ॥८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शुकस्य तेन सह बहु-कालावस्थितिर् एतद्-व्याख्यानुरोधेनैव सम्भवेन् नान्यथेत्य् आह—स गो-दोहन-मात्रं कालं भिक्षा-मिषेण प्रतीक्षते, वस्तुतस् तु तेषाम् आश्रयं तीर्थीकुर्वन्, तत्रत्य-जीव-मात्रेभ्योऽपि सद्-गतिं प्रदातुम् इति भावः ॥८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **परीक्षिता साधं शुकस्य चिरस्थितिः श्री-भागवत-व्याख्यानुरोधाद् एव, नान्यथेत्य् आह—स शुकः । गो-दोहन-मात्रं कालम् अवेक्षते, तद् अपि न भिक्षार्थं किन्तु तेषाम् आश्रमं गृहं तीर्थी-कुर्वन् तद् आश्रमस्थान् सर्वान् पावयन्न् इति वक्तुर् वरिष्ठत्वम् ॥८॥

———————————————————————————————————————

॥ १.४.९ ॥

अभिमन्यु-सुतं सूत प्राहुर् भागवतोत्तमम् ।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्रोतुस् तु चरितम् अतीवाश्चर्यम् अतः कथयेत्य् आह—अभिमन्यु-सुतम् इति पञ्चभिः । गृणीहि कथय ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृणीहि कथय ॥९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **श्रोतुश् च तद् आह—अभीति पञ्चभिः, गृणीहि वर्णय ॥९॥

———————————————————————————————————————

॥ १.४.१० ॥

स सम्राट् कस्य वा हेतोः पाण्डूनां मान-वर्धनः ।
प्रायोपविष्टो गङ्गायाम् अनादृत्याधिराट्-श्रियम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सम्राट् चक्रवर्ती । वा इति वितर्के । कस्य वा हेतोः ? कस्मात् कारणात् ? अधिराट्-श्रियम् अधिराजानां श्रियं संपदम् अनादृत्य ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अधिकृत्य राजन्तीत्य् अधिराजो युधिष्ठिराद्याः, तेषाम् अपि श्रियं प्राप्ताम् अनादृत्य ॥१०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सम्राट् सर्व-भूमेर् ईश्वरः, अधिकृत्य राजन्तीत्य् अधिराजो युधिष्ठिरादयः तेषाम् अपि श्रियं सम्पदं प्राप्ताम् अनादृत्य हित्वा ॥१०॥

———————————————————————————————————————

॥ १.४.११ ॥

नमन्ति यत्-पाद-निकेतम् आत्मनः

शिवाय हानीय धनानि शत्रवः ।

कथं स वीरः श्रियम् अङ्ग दुस्त्यजां

युवैषतोत्स्रष्टुम् अहो सहासुभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य पाद-निकेतं चरण-पीठम् । स्फुटम् । धनान्य् आनीयशत्रवोनमन्तिअङ्ग हे सूत । युवा तरुण एव एषत ऐच्छत् । अत्रार्षम् आत्मनेपदम् । असुभिः प्राणैः सह ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाद-निकेतं पाद-पीठं, स्फुटं, युवा न तु वृद्धः, ऐषत ऐच्छत्, असुभिः प्राणैर् अपि सह ॥११॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पाद-निकेतं चरण-पीठं, ह स्फुटं, धनान्यानीय दत्त्वा, युवा न तु वृद्धः, ऐषत ऐच्छत्, असुभिः प्राणैश् च सह ॥११॥

———————————————————————————————————————

॥ १.४.१२ ॥

शिवाय लोकस्य भवाय भूतये

य उत्तम-श्लोक-परायणा जनाः ।

जीवन्ति नात्मार्थम् असौ पराश्रयं

मुमोच निर्विद्य कुतः कलेवरम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विरक्तस्य किं धनादिभिर् इति चेत् तत्राह—शिवायेति । लोकस्य शिवाय भवाय समृद्ध्यै भूतये ऐश्वर्याय च ते जीवन्ति, न त्व् आत्मार्थम् । एवं सत्य् असौ राजा निर्विद्य विरज्यापि परेषाम् आश्रयं कलेवरङ्कुतो हेतोर् मुमोच । न हि परोपजीवनं स्वयं त्यक्तुम् उचितम् इत्य् अर्थः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकस्य शिवाय मङ्गलाय, तद् एव द्विधा-भूतं विवृणोति । भवाय भवः संसारस् तन् निवृत्त्यै मशकाय धूम इतिवत् । यद् वा, भवं संहर्तुं क्रियार्थोपपदस्येत्य् आदिना चतुर्थी । भूतये सम्पत्त्यै पराश्रयं परेषाम् उपकारि । न हि परोपजीव्यं वस्तु निर्विद्यापि त्यक्तुम् उचितम् इति भावः ॥१२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु विरक्तस्य धनादिभिः किं? तत्राह—शिवाय मङ्गलाय । द्विधा-भूतं तद्-विवृणोति—भवाय ज्ञान-भक्ति-समृद्धये, भूतये ऐश्वर्याय च, पराश्रयं परोपकारि कलेवरं, न ह्य् एतादृग् वस्तु निर्विद्यापि मोक्तुं युक्तम् इति भावः ॥१२॥

———————————————————————————————————————

॥ १.४.१३ ॥

तत् सर्वं नः समाचक्ष्व पृष्टो यद् इह किञ्चन ।
मन्ये त्वां विषये वाचां स्नातम् अन्यत्र छान्दसात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् किंचन पृष्टोऽसि तत् सर्वं नोऽस्मभ्यं समाचक्ष्वयद् यस्माद् वाचां विषये गिरां गोचरेऽर्थे स्नातं पारङ्गतं त्वां मन्येछन्दसाद् अन्यत्र वैदिक-व्यतिरेकेण । अत्रावर्णिकत्वात् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : छान्दसाम् इति वेद-पुराणयोः ब्राह्मण-परिव्राजक-न्यायवद् भेदाभेद-व्यवस्थयोक्तम् । माध्यन्दिन-श्रुतौ च वेद-पुराणेतिहासानाम् अपौरुषेयत्वेनाभेद-निर्देशः कृतः । यथा—एवं वा अरेऽस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्-वेदो यजुर् वेदः साम-वेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः [बृ।आ।उ। २.४.१०] इत्य्-आदिना । ब्रह्म-यज्ञाध्यायनेऽपि विनियोगो दृश्यतेऽमीषां—यद् ब्राह्मणानीतिहास-पुराणानि इत्य् अनेन च प्रणवादि-मयं छन्दः सुपर्णं यद् वाक्यम् अत्रास्ति, तत्रापि तस्याधिकारित्वं दर्शितम् । किन्त्व् अत्र कश्चिद् उच्चारो भेदको गम्यः । यः खलु स्वर-प्लुतादि-वैशिष्ट्य-मयो वैदिकस् तद्-अभावात् । न चैवं सूताधिकारात् पुराणादीनां न्यूनत्वम् आशङ्क्यम् । सकल-निगम-वल्ली-सत्-फले श्री-भगवन्-नाम्नि सर्वेषाम् अधिकारात् सर्व-यज्ञाद्य्-अधिक-श्री-भगवद्-भक्त्य्-अन्तरवत् श्री-भागवते तु आत्माराम-शिरोमणेः श्री-शुकस्यापि सर्वस्ववद् आवेशात् ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्नातं पारगं वक्तुम् अतिसमर्थम् इत्य् अर्थः । छान्दसाद् वैदिकाद् वाक्याद् अन्यत्र तत्रानधिकाराद् इत्य् अर्थः । न चैवं सूताधिकाराद् वेदेभ्योऽस्य शास्त्रस्य न्यूनत्वम् आशङ्क्यं सकल-निगम-वल्ली-सत्-फले भगवन्-नाम्नि सर्वेषाम् अधिकारात् । निगम-कल्प-तरोः फलम् [१.१.३] इति, अखिल-श्रुति-सारम् [२.१.५] इत्य् अत्रैवोक्तेः ॥१३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद् इति—वाचां विषये गोचरेऽर्थे त्वं स्नातं पारगं वक्तुम् इति समर्थं मन्ये । छान्दसाद् वैदिकाद्-वाक्याद् अन्यत्रेति तत्रानधिकाराद् इत्य् अर्थः । नन्व् अस्यापि शास्त्रस्य वेदैक-भागत्वात् कथम् एतद्-वक्तृत्वं सूतस्येति चेत्? उच्यते—अग्न्याधनाङ्गे वेदम् अन्त्रे रथ-कारस्येवेतिहास-पुराण-भागे वेदेऽपि सूतस्याधिकारोऽस्तीति निगम [भ।पु। १.१.३] इति पद्ये व्याख्यातमस्तीति नास्य न्यूनत्वं, किन्तु श्रैष्ठ्यम् एव, सर्व-वेदेतिहासानां सारं सारं समुद्धृतम् [भा।पु। १.३.४१] इत्य् उक्तेः ॥१३॥

———————————————————————————————————————

॥ १.४.१४ ॥

सूत उवाच—

द्वापरे समनुप्राप्ते तृतीये युग-पर्यये ।
जातः पराशराद् योगी वासव्यां कलया हरेः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :तृतीये द्वापर-युग-पर्यवसाने प्राप्ते सति ॥१४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कस्मिन् युग इत्य्-आदि-प्रश्नानां व्यास-जन्म-कथन-पूर्वकन् उत्तरम् आह—द्वापर इति । द्वापरे समनुप्राप्ते । कदेत्य् अपेक्षायाम् आह । तृतीयेयुगस्यपर्यये परिवर्ते । वासव्याम् उपरिचरस्य वसोर् वीर्याज् जातायां सत्यवत्यां योगी ज्ञानी व्यासो जातः ॥१४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **युगस्य तस्य द्वापराख्यस्य तृतीय-युग-पर्यये यत्र युग-त्रयम् अन्यद् अतिक्रम्यातिक्रम्य वैवस्वत-मन्वन्तरादितस् तृतीये आगमने सतीत्य् अर्थः । पर्ययोऽतिक्रमस् तस्मिन्न् अतिपात उपात्ययः इत्य् अमरः ॥१४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कस्मिन् युग इत्य्-आदि प्रश्नानाम् उत्तरं वक्तुं व्यास-जन्म-कर्माण्य् अपि सङ्क्षेपेणाह—द्वापर इति । युगानां सत्यादीनां बहूनां पर्ययोऽतिक्रमो यत्र तस्मिन् । पर्ययोऽतिक्रमस् तस्मिन्न् अतिपात उपात्यय इत्य् अमरः । बहु-युगातिक्रमे यद् द्वापरं तस्मिन् तच् च कृष्णावतार-सम्बन्ध्य् एव ज्ञेयम् । तद्-अवतारश् च वैवस्वत-मन्वन्तरीयाष्टाविंशतितमे द्वापरे व्याख्यास्यते । कीदृशे ? तृतीये सन्ध्या-रूप-युग-रूप-सन्ध्यांश-रूपाणीति सर्व-युगानि त्रि-रूपाणि भवन्ति, अतस् तृतीये सन्ध्यांश-रूपे । वासव्याम् उपरिचरस्य वसोर् वीर्याज् जातायां सत्यवत्यायाम् ॥१४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कस्मिन् युगे [भा।पु। १.४.३] इत्य्-आदि-प्रश्नानाम् उत्तरं वक्तुं व्यास-जन्माद्य् अपि सङ्क्षेपेणाह—द्वापरे इति । युगानां सत्य् आदीनां बहूनां परयोऽतिक्रमस् तस्मिन् बहु-युगातिक्रमे यद् वापरं तस्मिन्न् इत्य् अर्थः । पर्ययोऽतिक्रमस् तस्मिन्न् अतिपात उपात्ययः इत्य् अमरः । कीदृशीत्य् आह—तृतीये इति सन्ध्यांशे इत्य् अर्थः । सन्ध्या-युग-सन्ध्यांशतया सर्वाणि युगानि त्रि-रूपाणि हि भवन्ति । वैवस्वत-मन्वन्तरीयाष्टाविंशति-चतुर्युग-द्वापर-सन्ध्यांशे इति बोध्यम् । वासव्याम् उपरिचरस्य वसोर् वीर्याज्जातायां सत्यवत्यां मातरि पराशरात् पितुर् जातः ॥१४॥

———————————————————————————————————————

॥ १.४.१५ ॥

स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः ।
विविक्त एक आसीन उदिते रवि-मण्डले ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : जलम् उपस्पृश्य जले स्नानादिकं कृत्वेत्य् अर्थः । आसीनो बभूवेति शेषः । विविक्ते देश इत्य्-आदि चित्तैकाग्र्यार्थम् उक्तम् । अनेनैव बदरिकाश्रम-स्थानं सूचितम् ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स कदाचित् इत्य् अस्य टीकायाम्—बदरिकाश्रम-स्थानं सूचितम् इति । सरस्वत्यास् तत्र श्रवणात् । शम्याप्राशः इत्य् एव तु तस्य नाम वक्ष्यते ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपस्पृश्य आचम्य सर्व-वर्णाश्रमाणां यद् धितं तद् दध्याव् इति चतुर्थेनान्वयः ॥१५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स पाराशर्यः सरस्वत्या जलम् उपस्पृश्य तत्र स्नानादि विधाय विविक्ते तत्-तटे आसीनः कृतासनोऽभूद् इति शेषः । तादृशस्यैव हि ध्यानम् आसीनः सम्भवात् [वे।सू। ४.१.७] इति न्यायात् ॥१५॥

———————————————————————————————————————

॥ १.४.१६-१८ ॥

परावर-ज्ञः स ऋषिः कालेनाव्यक्त-रंहसा ।
युग-धर्म-व्यतिकरं प्राप्तं भुवि युगे युगे ॥**

भौतिकानां च भावानां शक्ति-ह्रासं च तत्-कृतम् ।
अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥**

दुर्भगांश् च जनान् वीक्ष्य मुनिर् दिव्येन चक्षुषा ।
सर्व-वर्णाश्रमाणां यद् दध्यौ हितम् अमोघ-दृक् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

नित्य-ज्ञानस्य चिद्-दृष्टिर् लोक-दृष्टि-व्यापेक्षया ।
सर्वज्ञोऽप्य् अज्ञवद् देवः सर्व-शक्तिर् अशक्तवत् ।
प्रत्यापयति लोकानाम् अज्ञानं मोहनाय च ॥ इति कौर्मे ॥१६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र च स ऋषिर् युग-धर्म-व्यतिकरादिकं वीक्ष्य सर्व-वर्णाश्रमाणां यद् धितं तद् दध्याव् इति तृतीयेनान्वयः । परावर-ज्ञोऽ तीतानागत-वित् । अव्यक्तं रंहो वेगो यस्य तेन कालेन युग-धर्माणां व्यतिकरं सङ्करं प्राप्तं वीक्ष्य । तथा भुवि युगे युगे ॥१६॥ भौतिकानां भावानां शरीरादीनाम् । तत्-कृतं काल-कृतम् । निःसत्त्वान् धैर्य-शून्यान् । दुर्मेधान् मन्द-मतीन् ॥१७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **परावरज्ञ इति त्रिकम् ।_।_१६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परावरज्ञ अतीतान् आगत-विज्ञः युग-धर्माणां व्यतिकरं कालेन नाशम् । भौतिकानां शरीरादीनां तत्-कृतं काल-कृतं निःसत्त्वान् रजस्-तमो-मयान् ॥१६-१८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **परावरज्ञो भूत-भविष्यद्वित्, तत्रासीनः कालेन भुवि युगे युगे युग-धर्माणां व्यतिकरं साङ्कं प्राप्तं वीक्ष्य सर्व-वर्णाश्रमाणां यद्-धितं तद्-दध्याव् इति परेणान्वयः ॥१६॥ \

\

भावानां शरीर् आदीनां तत्-कृतं काल-रचितं, निःसत्त्वान् धैर्यहीनन् । दुर्मेधान् मन्द-बुद्धीन् ॥१७॥ \

\

दुर्भगान् भाग्य-शून्यान् ॥१८॥

———————————————————————————————————————

॥ १.४.१९ ॥

चातुर् होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।
व्यदधाद् यज्ञ-सन्तत्यै वेदम् एकं चतुर् विधम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततश् च होत्रोपलक्षिताश् चत्वार ऋत्विजश् चतुर् होतारः, तैर् अनुष्ठेयं कर्म चातुर् होत्रम्शुद्धं शुद्धि-करम् । यज्ञ-सन्तत्यै यज्ञानाम् अविच्छेदाय ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च ज्ञान-योग-भक्त्य्-अयोग्यानां सर्वासां प्रजानां कर्मैव शुद्धं शुद्धि-करं ? कीदृशं होता उद्गाता अध्वर्युर् ब्रह्मेति चत्वारोऽपि होतारः, तैर् निर्वृत्तं चातुर्होत्रम् ।यज्ञानां सतत्यै अविच्छेदाय ॥१९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **व्यासस्य सर्वहित-विधानम् आह—चातुर्होत्रम् इति । होतोद्गाताध्वर्युर् ब्रह्मा चेति चत्वारो होतृ-शब्देन लक्ष्यन्ते, चतुर्भिर् होतृभिर् निवृत्तं चातुर्होत्रं तद्-वैदिकं कर्म प्रजानां ज्ञान-भक्त्य् अयोग्यानां शुद्धं हृद्-विशोधकं वीक्ष्य वेदम् एकं चतुर् विधं व्यदधात्, यज्ञ-सन्तत्यै तद् अविच्छेदाय ॥१९॥

———————————————————————————————————————

॥ १.४.२० ॥

ऋग्-यजुः-सामाथर्वाख्या वेदाश् चत्वार उद्धृताः ।
इतिहास-पुराणं च पञ्चमो वेद उच्यते ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **चातुर्विध्यम् एवाह—ऋग् इति । उद्धृताः पृथक् कृता ॥२०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इतिहासेति । तथा च साम्नि कौथुमीय-शाख्यायां छान्दोग्योपनिषदि च—ऋग्-वेदं भगवोऽध्येमि यजुर् वेदं साम-वेदम् आथर्वणं चतुर्थम् इतिहासं पुराणं पञ्चमं वेदानां वेदं [छा।उ। ७.१.२] इत्य्-आदि । अन्यत्र च—वेदान् अध्यापयामास महाभारत-पञ्चमान् [म।भा। १२.३४०.११] इति । अन्यथा पञ्चमत्वं नावकल्पेत समान-जातीय-निवेशितत्वात् सङ्ख्यायाः । तृतीय-स्कन्धे च वक्ष्यते—

इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः ।
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः ॥ [भा।पु। ३.१२.३९] इति ।

पञ्चमत्वे कारणं वायु-पुराणे सूत-वाक्यम्—

एक आसीद् यजुर् वेदस् तं चतुर्धा व्यकल्पयत् ।
चातुर्होत्रम् अभूत् तस्मिंस् तेन यज्ञम् अकल्पयत् ॥
आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथैव च ।
औद्गात्रं सामभिश् चैव ब्रह्मत्वं चाप्य् अथर्वभिः ॥ [वायु।पु। ६०.१७-१८]
आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिर् द्विज-सत्तमाः ।
पुराण-संहिताश् चक्रे पुराणार्थ-विशारदः ॥
यच् छिष्टं तु यजुर्वेद इति शास्त्रार्थ-निर्णयः । [वायु।पु। ६०.२१-२२]

इति स्कान्दम् आग्नेयम् इत्य्-आदि-समाख्यास् तु प्रवचन-निबन्धनाः काठकादिवत् ॥२०॥ [तत्त्व-सन्दर्भ १२-१३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उद्धृताः पृथक्-कृतः । पञ्चमो वेद इति तन्-निश्वसित-भागत्वात् ॥२०॥

———————————————————————————————————————

॥ १.४.२१-२२ ॥

तत्र र्ग्-वेद-धरः पैलः सामगो जैमिनिः कविः ।
वैशम्पायन एवैको निष्णातो यजुषाम् उत ॥**

अथर्वाङ्गिरसाम् आसीत् सुमन्तुर् दारुणो मुनिः ।
इतिहास-पुराणानां पिता मे रोमहर्षणः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दारुणः क्रूरः अथर्वोक्ताभिचारादि-प्रवृत्तेः ॥२१-२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एक एवेति पैलादिष्व् अप्य् अन्वितम् ॥२१॥ अथर्वाङ्गिरसाम् अथर्वाणाम् ॥२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दारुणोऽभिचारादि-प्रवृत्तेः ॥२१-२२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कविर् द्वादश-लक्षणी-प्रणेता । एक इति व्यास-निरत-मनस्कत्वान्-मुख्यः ॥२१॥ \

\

दारुणो निष्कृपः, स्ववेदोक्ताभिचार-देशिकत्वां ॥२२॥

———————————————————————————————————————

॥ १.४.२३ ॥

त एत ऋषयो वेदं स्वं स्वं व्यस्यन्न् अनेकधा ।
शिष्यैः प्रशिष्यैस् तच्-छिष्यैर् वेदास् ते शाखिनोऽभवन् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यस्यन् विभक्तवन्तः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ते पैलादयः स्वं स्वं वेदं व्यस्यन् व्यभजन् ॥२३॥

———————————————————————————————————————

॥ १.४.२४ ॥

त एव वेदा दुर्मेधैर् धार्यन्ते पुरुषैर् यथा ।
एवं चकार भगवान् व्यासः कृपण-वत्सलः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वेद-विभाग-प्रयोजनम् आह—त एवेति । ये पूर्वम् अतिमेधाविभिर् धार्यन्ते स्म त एव ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ये वेदाः पूर्वं मेधाविभिर् ध्वतास् ते दुर्मेधैर् अल्प-बुद्धिभिर् यथा धार्यन्ते, एवं चकार । कृपण-वत्सलो दीनदयालुः ॥२४॥

———————————————————————————————————————

॥ १.४.२५ ॥

स्त्री-शूद्र-द्विजबन्धूनां त्रयी न श्रुति-गोचरा ।

कर्म-श्रेयसि मूढानां श्रेय एवं भवेद् इह ।
इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

भारतं ब्राह्मणादीनां वेदार्थ-परिवृत्तये ।

त एव वेदास् त्व् अन्येषां त्व् एतद् वै कस्यचित् सुखम् ॥ इति स्कान्दे ।

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, स्त्री-शूद्रेति । द्विज-बन्धवस् त्रैवर्णिकेष्व् अधमास् तेषाम् । कर्म-रूपे श्रेयः-साधने एवं भवेद् अनेनैव प्रकारेण भवतु । इति अत एव तेषां कृपया भारताख्यानं मुनिना कृतम् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **द्विज-बन्धवस् त्रैवर्णिकेषु हीनाः कर्म-रूपे श्रेयसि श्रेयः-साधने ॥२५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **द्विज-बन्धवस् त्रैर्वणिकेषु निहीनाः, कर्म-रूपे श्रेयसि कल्याण-साधने मूढानां तेषां श्रेय एवं भवेद् इति विचार्य मुनिना भारतं कृतं प्रकटितम् ॥२५॥

———————————————————————————————————————

॥ १.४.२६-२७ ॥

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।
सर्वात्मकेनापि यदा नातुष्यद् धृदयं ततः ॥**

नातिप्रसीदद् धृदयः सरस्वत्यास् तटे शुचौ ।
वितर्कयन् विविक्त-स्थ इदं चोवाच धर्म-वित् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवम् अनेन प्रकारेण । भूतानां श्रेयसि हिते । सर्वात्मकेनापि कर्मणा ॥२६॥ न अतिप्रसीदत् हृदयं यस्य सः । चित्ताप्रसत्तौ हेतुं वितर्कयन्न् इदम् उवाच स्व-गतम् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्वात्मकेनापि सर्वात्मना स्वार्थे कः । न अतिशयेन प्रसीदद् धृदयं यस्य सः । चित्ताप्रसत्तौ हेतुं वितर्कयन्न् उवाच स्व-गतम् ॥२६-७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सर्वात्मकेन सर्वात्मना, स्वार्थे कः ॥२६॥ \

\

नातीति अति-शब्दः प्रशंसायाम् इति विश्वः । प्रशस्त-प्रसाद-रहित-चित्त इत्य् अर्थः । तादृशत्वे हेतुं वितर्कयन् स्वगतम् इदं चोवाच ॥२७॥

———————————————————————————————————————

॥ १.४.२८ ॥

धृत-व्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **आचारोपेक्षया धृतव्रतत्वादि परिपूर्णस्य ॥२८॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निर्व्यलीकेन निष्कपट-बुद्ध्या मानिताः पूजिताः ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **निर्व्यलीकेन निष्कपटेन धृतव्रतेन मया छन्द आदयो मानिताः पूजिताः । अनुशासनम् आज्ञा गुरूणां गृहीतं पालितम् ॥२८॥

———————————————————————————————————————

**॥ १.४.२९-३० ॥ **

भारत-व्यपदेशेन ह्य् आम्नायार्थश् च प्रदर्शितः ।
दृश्यते यत्र धर्मादि स्त्री-शूद्रादिभिर् अप्य् उत ॥**

तथापि बत मे दैह्यो ह्य् आत्मा चैवात्मना विभुः ।
असम्पन्न इवाभाति ब्रह्म-वर्चस्य-सत्तमः**1** ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : दैह्यः देह-रूपः । आत्मना विभुः स्वत एव व्याप्तः ।

तस्य सर्वावतारेषु न विशेषोऽस्ति कश्चन ।
देह-देहि-विभेदश् च न परे विद्यते क्वचित् ॥
सर्वेऽवतारा व्याप्ताश् च सर्वे सूक्ष्माश् च तत्त्वतः ।
ऐश्वर्य-योगाद् भगवान् क्रीडत्य् एवं जनार्दनः ॥ इति महा-संहितायाम् ।

अवतार-प्रयोजनासम्पत्त्या सम्पन्न इव । ब्रह्म-वर्च-संयुक्तानाम् उत्तमः ॥३०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : दैह्यः देहे भव आत्मा जीवो वस्तुतो विभुः परिपूर्ण एव । आत्मना स्वेन रूपेणासंपन्नस् तादात्म्यम् अप्राप्त इवाभाति । ब्रह्म-वर्चसं वेद-श्रवणाध्यापनोत्कर्षजं तेजः, तत्र साधवो ब्रह्म-वर्चस्यास् तेषु सत्तमोऽतिश्रेष्ठोऽपि । यद् वा, न केवलम् असम्पन्न इवाभाति प्रत्युत ब्रह्म-वर्चसी ब्रह्म-वर्चसवान् अप्य् असत्तम इवाभाति । पाठान्तरे2 कमनीयतमोऽपीति ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विभुः स्वतो ज्ञानादिना सम्पन्नोऽप्य् आत्मना भगवता असम्पन्न इव तद्-धेतुक-सम्पत्ति-विशेषम् अप्राप्त इवाभाति । यो हि वक्ष्यते श्री-नारदेन—इयं स्व-निगमं [भा।पु। १.५.३९] इत्य्-अन्तेन ग्रन्थेन । “उशत्तम” इति पाठे “ब्रह्म-वर्चसि” इति ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैह्यः देहस्थः आत्मना स्वरूपेण विभुस् तपो-ज्ञानादिभिः परिपूर्णोऽपि असम्पन्न इव अपूर्ण इव न केवलम् असम्पन्न इव, किन्तु ब्रह्म-वर्चसं वेद-श्रवणाध्यापनोत्कर्षजं तेजस् तद्वान् अपि असत्तम इव । “उशत्तम” इति पाठे कमनीयतमोऽपि तथा समासान्ताभावे मत्व्-अर्थीय-विन्-प्रत्ययेन ब्रह्म-वर्चस्वी असत्तम इति उशत्तम इत्य् आभ्यां व-कारवत् संयोगेन पाठ-द्वयम् ॥३०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **दृश्यते ज्ञायते ॥२९॥ अथापि वेद-व्यसन-ब्रह्म-सूत्राद्य्-आविर्भावम् अवतार-कार्यं कृतवतो मे दैह्ये देहाभिन्न आत्मात्मना विभुः पूर्णोऽप्य् असम्पन्ने ऽपूर्ण इवाभाति । दैह्ये इति स्वार्थे ष्यञ् । तद्-रूप आत्मेति देह-देहिनोर् अभेदात् । ब्रह्म-वर्चसं वेदाध्ययनजं तेजः, तत्र साधवो ब्रह्म-वर्चस्याः, तेषु सत्तमोऽपीति ॥३०॥

———————————————————————————————————————

**॥ १.४.३१ ॥ **

किं वा भागवता धर्मा न प्रायेण निरूपिताः ।
प्रियाः परमहंसानां त एव ह्य् अच्युत-प्रियाः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

पुनर् अपेक्षितत्वान् न प्रायेण हि निरूपिताः ।
यथा तु भारते देवो न तथान्येषु केषुचित् ।
उच्यते न तथापीशं जानन्त्य् अज्ञा जनार्दनम् ॥ इति स्कान्दे ॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **असम्पत्तौ हेतुं स्वयम् एवाशङ्कते—किं वेति । प्रायेण भूयस्त्वेन । हि यस्मात् त एव धर्मा अच्युतस्य प्रियाः ॥३१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्वयम् अपि तथैवाह—प्रिया इति _॥_३१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **असम्पत्तौ हेतुं स्वयम् एवाशङ्कते—किं वेति । प्रायेण भूयस्त्वेन । त एव परमहंसा एव । तत्र भागवत-धर्म-पदेन ज्ञानं व्याख्यातुं न शक्यते । किन्तु भक्तिर् एव, नामान्य् अनन्तस्य यशोऽङ्कितानि [भा।पु। १.५.११] इति, भरतानुदित-प्रायं यशो भगवतोऽमलं [भा।पु। १.५.८] इत्य्-आदेः । ततश् च परमहंस-पदेन भक्ता एवोच्यन्ते, न तु ज्ञानिनः । अतः पारमहंसी संहितेयं श्री-भागवतम् इति ज्ञानिभिर् अत्र स्वत्वं नारोपणीयम् ॥३१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **असम्पन्नत्वे हेतुम् आह—किं वेति । प्रायेणेति कर्मादि-तौल्येन भारते, सूत्रेषु तु गूढतयैव निरूपिताः । तान् धर्मान् स्तौति प्रिया इति । तैर् विना भक्तानां हरेश् च मयि प्रसादो नाभूद् इति कुतो मत्-परितोषः? ॥३१॥

———————————————————————————————————————

॥ १.४.३२ ॥

तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यतः ।
कृष्णस्य नारदोऽभ्यागाद् आश्रमं प्राग् उदाहृतम् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **खेदो अनलं बुद्धिः ।

अतुष्टिर् अप्रसादश् च खेदस् तृप्तिस् तथैव च ।
अनलत्वं वदन्त्य् एते सर्वे पर्याय-वाचकाः ॥ इति ब्राह्मे ।

मन्यमानस्य स्वेच्छया ॥३२॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **खिलं न्यूनम् । खिद्यतः खेदं प्राप्नुवतः । कृष्णस्य व्यासस्य । प्राग् उदाहृतं सरस्वती-तीर-स्थम् ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **खिलं न्यूनं कृष्णस्य व्यासस्याश्रमं प्राग् उदाहृतं सरस्वती-तटस्थम् । अत्र भगवद्-अवतारत्वाद् असम्भाविनाव् अप्य् असर्वज्ञता चित्ताप्रसादादौ व्यासस्य स्वयं भगवता श्री-कृष्णेनैव स्व-सदृशस्य सर्व-शास्त्र-शिरोमणेः श्री-भागवतस्य प्रार्दुर्भावार्थम् एव बलाद् उपपादिताव् इत्य् अवसीयते । यथा ब्रह्म-मोहन-प्रस्तावे स्व-लीला-सौन्दर्यार्थं बलदेवस्यापि असर्वज्ञता कल्पिता नारदोपदेशात् प्रादुर्भूते च सति यस्मिन् सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा [भा।पु। ११.२०.३०] इति,

किं वा योगेन साङ्ख्येन न्याय-स्वाध्यायोर् अपि ।
किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥ [भा।पु। ४.३१.१२]

इति वाक्याभ्यां सर्व-पुरुषार्थ-मुख्यो मोक्षोऽपि भक्त्यैव लभ्यते, न तु साधनान्तरेणेति सर्व-शास्त्र-विलक्षणोऽर्थः, सर्वैर् एव दृष्टो भवतीति ज्ञेयम् ॥३२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **खिलम् असम्पन्नं कृष्णस्य व्यासस्य प्राग् उदाहृतं सरस्वती-तटस्थम् । ईश्वरस्य व्यासस्यासार्वज्ञ्य-हृद्वितापौ श्री-भागवत-प्राकट्य-फलकौ कृष्ण-हेतुकौ पार्थस्यैव बोध्यौ ॥३२॥

———————————————————————————————————————

॥ १.४.३३ ॥

तम् अभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।
पूजयाम् आस विधिवन् नारदं सुर-पूजितम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तं नारदम् आगतम् अभिज्ञाय सहसा प्रत्युत्थाय विधिवत् पूजयाम् आस । सुर-पूजितम् इति ब्रह्म-लोकाद् आगतम् इत्य् अर्थः ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विधिवत् विधिं ब्रह्माणम् इव । इव वद्-वाचसादृश्ये इत्य् अभिधानम् । अत्र वत्-शब्देन सह समासः ॥३३॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् । \ चतुर्थः प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सहसा त्वरया ॥३३॥

इति वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां चतुर्थः ॥४॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्यां

प्रथम-स्कन्धे नारदागमनं नाम

चतुर्थोऽध्यायः

॥ १.४ ॥


(१.५)


  1. -वर्चस्य् उशत्तमः ↩︎

  2. पाठन्तरेऽउशत्तनःऽ इत्य् एवं-रूपे । ↩︎