०३ अवताराः

विस्तारः (द्रष्टुं नोद्यम्)

भगवतस् चतुर्विंशत्य्-अवताराणां सङ्क्षेपतो वर्णनम् ।

॥ १.३.१ ॥

सूत उवाच—

जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः ।

सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **व्यक्त्य्-अपेक्षया जगृह इति । तथा हि तन्त्र-भागवते—

अहेयम् अनुपादेयं यद् रूपं नित्यम् अव्ययम् ।
स एवापेक्ष्य रूपाणां व्यक्तिम् एव जनार्दनः ॥
अगृह्णाद् व्यसृजच् चेति कृष्ण-रामादिकां तनुम् ।
पठ्यते भगवान् ईशो मूढ-बुद्धि-व्यपेक्षया ॥
तमसाद्य् उपगूढस्य यत् तमः पानम् ईशितुः ।
एतत्-पुरुष-रूपस्य ग्रहणं समुदीर्यते ॥
कृष्ण-रामादि-रूपाणां लोक-व्यक्तिम् अपेक्षया ॥ इति।

महद्-आदिभिः—सम्भूतम् अन्तर्गतं महद् आदि । न महद्-आदि शरीरम् । षोडश-कलम् । यस्मिन् नेताः षोडश-कलाः प्रभवन्ति इति श्रुतिः ।

यत् किञ्चिद् इह लोके वै देह-बद्धं विशां पते ।
सर्वं पञ्चभिर् आविष्टं भूतैर् ईश्वर-बुद्धि-जैः ॥
ईश्वरो हि महद्-भूतं प्रभुर् नारायणो विराट् ।
भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ॥
भूत-प्रलयम् अव्यक्तं शुश्रूषुर् नृप-सत्तम ॥
इति मोक्ष-धर्मे [म।भा। १२.३३५.१०-११]

नासीद् अहोनरात्रिर् आसीन् नासद् आसीत् तन् महद् वपुस् तद्-आभवद् विश्वरूपं सा विश्व-रूपस्य रजनि इति भाल्लवेय-श्रुतिः ।

न तस्य प्राकृता मूर्तिर् मांस-मेदोऽस्थि-सम्भवा ।
न योगित्वाद् ईश्वरत्वात् सत्य-रूपोऽच्युतो विभुः ॥ इति वाराहे ।
सर्वे नित्याः शाश्वताश् देहास् तस्य परात्मनः ।
हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वशः ।
सर्वे सर्व-गुणैः पूर्णाः सर्वे भेद-विवर्जिताः ॥
अन्यूनानधिकाश् चैव गुणैः सर्वैश् च सर्वतः ।
देहि-देह-भिदा चैव नेश्वरे विद्यते क्वचित् ॥
तत् स्वीकारादि-शब्दस् तु हस्त स्वीकारवत् स्मृतः ।
वैलक्षण्यान् न वा तत्र ज्ञान-मात्रार्थम् ईरितम् ॥
केवलैश्वर्य-संयोगाद् ईश्वरः प्रकृतेः परः ।
जातो गतस् त्व् इदं रूपं तद् इत्य्-आदि व्यवक्षते ॥ इति महा-वाराहे ।

एकम् एवाद्वितीयं नेह नानास्ति किञ्चन । एवं धर्मान् पृथक् पश्यन्न् इत्य्-आदि च । तस्यैवास्थूलत्वाद् वैश्वर्य-योगात् । तथा च कौर्मे—

अस्थूलश् चानणुश् चैव स्थूलोऽणुश् चैव सर्वतः ।
अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान-लोचनः ॥
ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ।
तथापि दोषाः परमे नैवाहार्याः कथञ्चन ।
गुणाविरुद्धा अपि तु समाहार्याश् च सर्वतः ॥ इति विष्णु-धर्मोत्तरे च ।
गुणाः सर्वेऽपि युज्यते ह्य् ऐश्वर्यात् पुरुषोत्तमे ।
दोषाः कथञ्चिन् नैवात्र युज्यन्ते परमो हि सः ॥
गुण-दोषौ माययैव केचिद् आहुर् अपण्डिताः ।
न तत्र माया-मायावी तदीयौ तौ कुतो ह्य् अतः ॥
तस्मान् न मायया सर्वं सर्वम् ऐश्वर्य-सम्भवम् ।
अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः ॥ इति ॥१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अवतार-कथा-प्रश्ने तृतीये तूत्तराभिधा ।

पुरुषाद्य्-अवतारोक्त्या तत्-तच्-चारित्र-वर्णनैः ॥

यद् उक्तम् अथाख्याहि हरेर् धीमन्न् अवतार-कथाः शुभाः [भा।पु। १.१.१८] इति तद्-उत्तरत्वेनावतारान् अनुक्रमिष्यन् प्रथमं पुरुषावतारम् आह—जगृह इति पञ्चभिः । महद्-आदिभिर् महद्-अहङ्कार-पञ्च-तन्मात्रैः संभूतं सुनिष्पन्नम् । एकादशेन्द्रियाणि पं च महा-भूतानीति षोडश कला आंशा यस्मिन् । यद्य् अपि भगवद्-विग्रहो नैवंभूतः, तथापि विराड् जीवान्तर्यामिणो1 भगवतो विराड्-रूपेणोपासनार्थम् एवम् उक्तम् इति द्रष्टव्यम् ॥१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **जगृह इति । तत्र ब्रह्मेति परमात्मेत्य् अत्र यो भगवान् निर्दिष्टः[भा।पु। १.२.३०2], स एवेदम् इत्य्-आदौ च यस्यैवाविर्भावा महत्-स्रष्ट्र् आदयो विष्णु-पर्यन्ता निर्दिष्टाः, स भगवान् स्वयं श्री-कृष्ण एवेति पूर्व-दर्शित-शौनकाद्य्-अभीष्ट-निजाभिमत-स्थापनाय परमात्मनो विशेषानुवाद-पूर्वकं दर्शयितुं तत्-प्रसङ्गेनान्यान् अवतारान् कथयितुं, तत्रैव ब्रह्म च निर्देष्टुम् आरभते—जगृह इति ।

यःश्री-भगवान् पूर्ण-षड्-ऐश्वर्यत्वेन पूर्वं निर्दिष्टः, स एव पौरुषं रूपं, पुरुषत्वेनाम्नायते यद् रूपं तद् एव आदौ सर्गारम्भे जगृहे, प्राकृत-प्रलये स्वस्मिन् लीनं सत् प्रकटतया स्वीकृतवान् ।

किम्-अर्थम् ? तत्राह—लोक-सिसृक्षया । तस्मिन्न् एव लीनानां लोकानां समष्टि-व्यष्ट्य्-उपाधि-जीवानां सिसृक्षया प्रादुर्भावनार्थम् इत्य् अर्थः ।

कीदृशं सत् तद्-रूपं लीनम् आसीत् ? तत्राह—महद्-आदिभिः सम्भूतं मिलितम्, अन्तर्भूत-महद्-आदि-तत्त्वम् इत्य् अर्थः । सम्भूयाम्भोधिम् अभ्येति महा-नद्यो नगापागाः [शिशु।व। २.१००] इति सम्भूतिर् मिलनार्थः । तत्र हि महद्-आदीनि लीनान्य् आसन्न् इति । तद् एवं,

विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।
एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् ।
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥

इति नारदीय-तन्त्रादौ महत्-स्रष्टृत्वेन प्रथमं पुरुषाख्यं रूपं यच् छ्रूयते, तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः [ब्र।सं। ५.८] इत्य्-आदि,

नारायणः स भगवान् आपस् तस्मात् सनातनात् ।
आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः ।
योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् ॥ [ब्र।सं। ५.१२]

इत्य्-आदि ब्रह्म-संहितादौ कारणार्णव-शायि-सङ्कर्षणत्वेन श्रूयते, तद् एव जगृहे इति प्रतिपादितम् ।

पुनः कीदृशं तद्-रूपम् ? तत्राह—षोडश-कलं, तत्-सृष्ट्य्-उपयोगि-पूर्ण-शक्तिर् इत्य् अर्थः । तद् एवं यस् तद्-रूपं जगृहे, स भगवान् । यत् तु तेन गृहीतम्, तत् तु स्व-सृज्यानाम् आश्रयत्वात् परमात्मेति पर्यवसितम् ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अवतार-कथा ब्रूहीत्य् अस्योत्तरतयोच्यते ।

भगवान् जन्म-कर्मभ्यां तृतीयेनैक-मूर्तिमान् ॥

पूर्वाध्यायान्ते लीलावतारानुरत [भा।पु। १.२.३४] इत्य् उक्तम् । तत्र कास् तस्य लीलाः ? के वा अवताराः ? इत्य् अपेक्षायां प्रथमं पुरुषावतारम् आह—जगृह इति पञ्चभिः । पौरुषं पुरुषाकारं पुरुष-सञ्ज्ञं वा ।

ननु जगृहे इति चेद् उच्यते—तर्हि तद्-रूपं पूर्वं नासीद् इत्य् अवगत्या तद्-रूपस्यानित्यत्वं प्रसक्तम् इत्य् अत आह—सम्यग् भूतं परम-सत्यं पूर्व-पूर्वम् अपि सदैव स्वरूपेण स्थितम् एव तत् जगृहे, लोक-सृष्ट्य्-अर्थम् उपादत्त ग्रहणस्य विद्यमान-वस्तु-विषयत्वात् । घटस्याविद्यमानत्वे घटं जग्राहेति प्रयोगादर्शनाच् च । राजा सेनान्यं दिग्विजिगीषया स्व-सङ्गे जग्राहेतिवत् । युक्ते क्ष्माद् आवृते भूतं प्राण्य्-अतीते समे त्रिष्व् इत्य् अमरः । उत्तरत्रापि स एव प्रथमं देव [भा।पु। १.३.६] इत्य् आदौ । सर्वत्र सम्भूतम् इति पदम् अनुवर्तनीयम् । महद्-आदिभिर् महत्-तत्त्वाहङ्कारादिभिर् लोकानां समष्टि-व्यष्टीनां भुवनानां वा या स्रष्टुम् इच्छा, तया **षोडशैव कला **यस्मिन्न् इति राका-चन्द्रम् इव मत्स्य-कूर्माद्य्-अवतारान् अपेक्ष्य परिपूर्णम् इत्य् अर्थः । कला तु षोडशो भाग इत्य् अभिधानात् । तत्र योऽयं भगवान् स पर-व्योमाधिनाथः, तेन गृहीतं यत् षोडश-कलं रूपं, स महा-विष्णुः प्रकृतीक्षण-कर्ता सङ्कर्षणांशः कारणार्णवशायी प्रथमः पुरुषो भागवतामृतोक्त-युक्त्या ज्ञेयः ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

पुरुषाद्य् अवताराणां जन्म-कर्म-कथाः शुभाः ।
तृतीयेऽस्मिन् प्रकीर्त्यन्ते याः पृष्टा मुनिभिः पुरा ॥

अथाख्याहि हरेर् धीमन्न् अवतार-कथाः इति [भा।पु। १.१.१८] प्राक् पृष्टास् तद् उत्तरत्वेनावतारान् अनुक्रमिष्यन्न् आदौ पुरुषावतारम् आह—जगृह इति पञ्चभिः । स ऐक्षत, लोकान्नु सृजा [ऐ।उ। १.१] इति श्रुत्युक्तो भगवान् । स्व-वीक्षण-विक्षुव्धायाः प्रकृतेः परिणामैर् महद् अहङ्कार-तन्-मात्रादिभि-लोक-सिसृक्षया तैर् भुवनानि सृजेयम् इति वाञ्छया हेतुना पौरुषं पुरुषाकारं पुरुष-सञ्ज्ञं वा रूपं विग्रहं जगृहे, स्थितम् एव तद्-रूपं लोक-सृष्ट्य् अर्थम् उपादत्त न्ययुङ्क्तेति यावत्, घटस्य स्थितत्वे तं गृहाणेति प्रयोगात् । एतद् बोधयितुं तं विशिनष्टि—सम्भूतम् इति, युक्ते क्ष्माद् आवृते भूतं प्राण्यतीते समे त्रिषु इति नानार्थ-वर्गात् सम्यक् सत्यम् इत्य् अर्थः । षोडश कलाः श्र्यादयो विमलादयश् च यस्मिंस् तद् इति प्रथम-पुरुषः सङ्कर्षणोऽयं कारणोदशयः ॥१॥

———————————————————————————————————————

॥ १.३.२ ॥

यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः ।

नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कोऽसौ भगवान् ? इत्य् अपेक्षायां तं विशिनष्टि—यस्याम्भसि एकार्णवे शयनस्य विश्रान्तस्य । तत्र च योगः समाधिस् तद्-रूपां निद्रां विस्तारयतो नाभिर् एव ह्रदस् तस्मिन् यद्-अम्बुजं तस्मात् सकाशाद् ब्रह्मासीद् अभूत् पाद्मे कल्पे । स पौरुषं रूपं जगृहे ॥२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्य पुरुष-रूपस्य विसर्ग-निदानत्वम् अपि प्रतिपादयितुम् आह सार्धेन । यस्य पौरुष-रूपस्य द्वितीयेन व्यूहेन ब्रह्माण्डं प्रविश्य अम्भसि गर्भोदके शयानस्येत्य् आदि योज्यम् । टीकायां पाद्म इत्य् अत्र ब्राह्म इति वाच्यम् ॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यस्य पुरुषस्य अम्भसि स्वरोम-कूपस्थ-ब्रह्माण्डान्तरे एकैक-प्रकाशेन प्रविश्य स्व-सृष्टे गर्भोदे शयानस्य योगः समाधिस् तद्-रूपां निद्रां विस्तारयतः । यस्य नाभि-ह्रदाम्बुजस्य अवयवानां संस्थानैः प्रदेश-विशेषैर् लोक-विस्तरः पातालादि-सत्यान्त-भुवन-विन्यासः इत्य् अयं पद्मनाभोऽनिरुद्धांशो गर्भोदशायी द्वितीयो ज्ञेयः । यस् तु पूर्वाध्याये हरि-विरिञ्च-हरेति सञ्ज्ञा इत्य् अत्र हरिर् इति पठितः । स क्षीरोदशायी अनिरुद्धांशस् तृतीयः पुरुषो ज्ञेय इति पुरुष-त्रयम् । तत्र प्रथमः प्रकृतिर् अन्तर्यामी । द्वितीयः समष्टि-विराजः । तृतीयो व्यष्टीनाम् इति । त्रय एवांशेनान्तर्यामिनः । तद् उक्तं—

एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् ।
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति ।

एवं चैतत् प्रकरण-व्यञ्जिता महा-विष्णोर् लीला-कथा-परिपाटी चेयम् । यदैव तस्य पुनर् अपि प्रदेश-विशेषे शयनेच्छा अजनिष्ट तदा कारणार्णवे शयान एव स्व-निश्वास-निष्क्रमण-प्रथम-क्षणे स्व-शक्तिं मायाम् ऐक्षिष्ट । तय च तद्-इङ्गित-ज्ञया तद्-इच्छा-बलाल् लब्ध-सामर्थ्यया महत्-तत्त्वादि-तत्त्वानि स्वत एव निष्कास्य ब्रह्माण्डं तैः सृष्ट्वा स्व-प्रभुर् विज्ञाप्यते स्म—हे नाथ शयितुम् आगच्छेति ततोऽसौ तत्र गत्वा निमेष-मात्रं शयित्वा यदैव पुनर् आगतवान् तदैव तद् ब्रह्माण्डं शयन-मन्दिरं निर्माल्यम् इव माययैव सा दूरीचकार । पुनर् अपि नवीन-मन्दिरे तं शाययितुम् एवं च ब्रह्मणः परार्ध-द्वयं गच्छति स्म । यद् उक्तं तृतीये निमेष उपचार्यत इति ॥२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यस्येति—यस्य भगवतोऽम्भसि सृष्टाण्ड गर्भोद-समुद्रे रूपान्तरेण शयानस्य नाभीह्रदाम्बुजाद् ब्रह्ह्मासीत् । योगः समाधिस् तद्-रूपां निद्रां वितन्वतः विश्वसृजां दक्षादीनां पतिर् इति ॥२॥

———————————————————————————————————————

॥ १.३.३ ॥

यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः ।

तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यस्यावयव-संस्थानैः । नाभ्या आसीद् अन्तरिक्षम् इत्य्-आदि ।

सत्त्वं साधु-गुणत्वं ज्ञान-बल-रूपं च ।
बल-ज्ञान-समाहारः सत्त्वम् इत्य् अभिधीयत ॥ इति मात्स्ये ॥३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कीदृशं रूपम् ? तद् आह—यस्येति । ननु कीदृशो विग्रहस् तस्य योऽम्भसि शेते स्म तद् आह । तत् तस्य भगवतो रूपं तु विशुद्धं रज-आदि-गुणान्तरेणासंभिन्नम् अत एवोर्जितं निरतिशयं सत्त्वम् ॥३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस्य च तादृशत्वेन तत्र शयानस्यावयव-संस्थानैः साक्षाच्-छ्री-चरणादि-सन्निवेशे लोकस्य विस्तरो विस्तारो विराड्-आकारः प्रपञ्चः कल्पितः । यथा तद्-अवयव-सन्निवेशस् तथैव पातालम् एतस्य हि पाद-मूलं [भा।पु। २.१.२६] इत्य्-आदिना नवीनोपासकान् प्रति मनः-स्थैर्याय प्रख्यापितः । न तु वस्तुतस् तद् एव यस्य रूपम् इत्य् अर्थः । यद् वा चन्द्रमा मनसो जातः इत्य् आरभ्य पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकान् अकल्पयत् [ऋक् १०.९०.१३-१४] इति श्रुतेस् तैर् हेतु-भूतैर् लोक-विस्तारो रचित इत्य् अर्थः ।

तथा च भारते मोक्ष-धर्म-नारायणीये गर्भोदके शयानस्य रूपान्तरेण श्वेतद्वीप-पतेर् वाक्यम्—

अस्मन् मूर्तिश् चतुर्थी या सासृजच् छेषम् अव्ययम् ।
स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्य् अजीजनत् ॥
प्रद्युम्नाद् अनिरुद्धोऽहं सर्गो मम पुनः पुनः ।
अनिरुद्धात् तथा ब्रह्मा तत्रादि कमलोद्भवः ॥
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च ॥ [म।भा। १२.३२६.६८-७०]

तत्रैव वेद-व्यासः—-

परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः ।
महापुरुष सञ्ज्ञां स लभते स्वेन कर्मणा ॥
तस्मात् प्रसूतम् अव्यक्तं प्रधानं तद् विदुर् बुधाः ।
अव्यक्ताद् व्यक्तम् उत्पन्नं लोकसृष्ट्य् अर्थम् ईश्वरात् ॥
अनिरुद्धो हि लोकेषु महान् आत्मेति कथ्यते ।
योऽसौ व्यक्तत्वम् आपन्नो निर्ममे च पितामहम् ॥ [म।भा। १२.३२७.२४-२६] इति ।

तद् एवं सङ्कर्षणस्य वैभवम् उक्त्वानिरुद्धस्याप्य् आह अनिरुद्धो हीति । लोकेषु प्रत्येक-ब्रह्माण्डेषु महान् आत्मा परमात्मा । व्यक्तत्वं प्राकट्यं प्रद्युम्नाद् इति शेषः । सुतेन त्व् अभेद-विवक्षया प्रद्युम्नः पृथङ् नोक्तः विष्णोस् तु त्रीणि रूपाणि इतिवत् । सेयं प्रक्रिया द्वितीय-स्कन्धस्य सष्ठे दृश्यते, यथा स एष आद्यः पुरुषः [भा।पु। २.९.३९] इत्य्-आदि-पद्ये टीका—स एष आद्यो भगवान् यः पुरुषावतारः सन् सृष्ट्य्-आदिकं करोति इत्य् एषा ।

एवम् आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४२] इत्य् अत्र टीका परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तको यस्य सहस्र-शीर्षा [ऋक् १०.९०.१] इत्य् आद्य्-उक्तो लीला-विग्रहः स आद्योऽवतारः इत्य् एषा । तथा तृतीयस्य विंशे देवेन [भा।पु। ३.२०.१२] इत्य्-आदिकं सोऽनु इत्य् अन्तं स-टीकम् एव प्रकरणम् अत्रानुसन्धेयम् । तस्माद् विराट्त्वेन तद्-रूपं न व्याख्यातम्। तस्माच् च वासुदेव-स्थानीयो भगवान् पुरुषाद् अन्य एवेत्य् आयातम् ।

अथ तस्य रूप-द्वयस्य सामान्यत एकत्वेन स्वरूपम् आह—तद् इति । तच् छ्री-भगवतः पौरुषं रूपम् । वै प्रसिद्धौ । विशुद्धोऽर्जित-सत्त्वादिभिर् व्यक्तत्वाच् छक्ति-स्वरूपयोर् अभेदाच् च तद्-रूपम् एवेत्य् अर्थः । उक्तं च द्वितीयं पुरुष-व्यूहम् अधिकृत्य स्वरूपत्वं तद्-रूपस्य—नातः परं परम यद् भवतः स्वरूपं [भा।पु। ३.९.३] इत्य् अत्र । विशुद्धं जाड्यांशेनापि रहितम्, स्वरूप-शक्ति-वृत्तित्वात् । ऊर्जितं सर्वतो बलवत् परमानन्द-रूपत्वात्—को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१] इति श्रुतेः । तस्माच् छाक्षाद् भगवद्-रूपे तु कैमुत्यम् एवायातम् ॥३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तन्-मूर्तीनाम् अप्राकृतत्वम् आह । विशुद्धं रज आद्य-मिश्रम् अत एवोर्जितं श्रेष्ठम् अप्राकृतं सच्-चिद्-आनन्द-घनम् इत्य् अर्थः ॥३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यस्य रूपस्यावयव-संस्थानैः पादाद्यङ्ग-सन्निवेशैस् तत्-सादृश्येन लोक-विस्तरः पातालादि-सत्यान्तः कल्पितः । पातालम् एतस्य हि पाद-मूलम् [भा।पु। २.१.२६] इत्य्-आदि-वाक्यैः स्थूलधियां चित्त-स्थैर्यायोपदिष्टः । येन रूपेण शेते तद्-रूपं वै निश्चये विशुद्धं जाड्यांशेनापि रहितं स्व-प्रकाशता-शक्ति-लक्षणं सत्त्वम्, अत उर्जितं बलवत् स्मृतं सत् प्रकृतेर् निरासकम् इत्य् अर्थः ॥३॥

———————————————————————————————————————

॥ १.३.४ ॥

पश्यन्त्य् अदो रूपम् अदभ्र-चक्षुषा

सहस्र-पादोरु-भुजाननाद्भुतम् ।

सहस्र-मूर्ध-श्रवणाक्षि-नासिकं

सहस्र-मौल्य्-अम्बर-कुण्डलोल्लसत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतच् च योगिनां प्रत्यक्षम् आह—पश्यन्तीति । अदभ्रम् अनल्पं ज्ञानात्मकं यच् चक्षुस् तेन । सहस्रम् अपरिमितानि यानि पादादीनि तैर् उद्भुतम् । सहस्रं मूर्धादयो यस्मिंस् तत् । सहस्रं यानि मौल्य्-आदीनि तैर् उल्लसच् छोभमानम् ॥४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं पुरुषस्य द्विधा स्थान-कर्मणी उक्त्वा स्वरूपवद् आकारं त्व् एक-प्रकारम् आह—-पश्यन्तीति । अदः पौरुष-रूपम् अदभ्र-चक्षुषा भक्त्य्-आख्येन । पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया [गीता। ८.२२] इत्य् उक्तेः । भक्तिर् एवैनं नयति, भक्तिर् एवैनं दर्शयति इत्य्-आदि श्रुतेश् च । तत्र प्रथम-पुरुषस्य सहस्र-पादादित्वं परमात्म-सन्दर्भे व्यञ्जितम् । तृतीयस्याष्टमे तु द्वितीयं पुरुष-व्यूहम् उपलक्ष्य—वेणु-भुजाङ्घ्रिपाङ्घ्रेः [भा।पु। ३.८.२४] इति, दोर् दण्ड-सहस्र-शाखं [भा।पु। ३.८.२९] इति, किरीट-साहस्र-हिरण्य-शृङ्गं [भा।पु। ३.८.३०] इति च । तथा नवमस्य चतुर्दशे श्री-शुकेन—

सहस्र-शिरसः पुंसो नाभि-ह्रद-सरोरुहात् ।
जातस्यासीत् सुतो धातुर् अत्रिः पितृ-समो गुणैः ॥ [भा।पु। ९.१४.२] इति ॥४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतच् च भक्ति-सिद्धानां प्रत्यक्षम् इत्य् आह—पश्यन्तीति । अदभ्रम् अनल्पम् अप्राकृतं यच् चक्षुस् तेन ॥४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एतच् च रूपं भक्त्या सिद्धानां चाक्षुषञ्चेत्य् आह—पश्यन्त इति अदभ्रमन् अल्पं यद्-भक्ति-संस्कृतं चक्षुस् तेन । मौलयः शिरोऽवतंसाः । स्फुटम् अन्यत् ॥४॥

———————————————————————————————————————

॥ १.३.५ ॥

एतन् नानावताराणां निधानं बीजम् अव्ययम् ।

यस्यांशांशेन सृज्यन्ते देव-तिर्यङ्-नरादयः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **निधानम् अत्रैकीभवन्त्य् अन्तत इति । अंशांशेन सामर्थ्यैक-देशेन । ब्राह्मे च यच्-छक्त्यैकं च सम्भूतं जगद् एतच् चराचरम् इति ॥५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् तु कूट-स्थं, न त्व् अन्यावतारवद् आविर्भाव-तिरोभाववद् इत्य् आह—एतद् इति । एतद्-आदि नारायण-रूपम् । निधीयतेऽस्म्निन्न् इति निधानम्, कार्यावसाने प्रवेश-स्थानम् इत्य् अर्थः । बीजम् उद्गम-स्थानम् । बीजत्वेऽपि नान्य-बीज-तुल्यं किं त्व् अव्ययम् । न केवलम् अवताराणाम् एव बीजं, किं तु सर्व-प्राणिनाम् अपीत्य् आह । यस्यांशो ब्रह्मा, तस्य अंशो मरीच्य्-आदिः, तेन ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र श्री-भगवन्तं सुष्ठु स्पष्टीकर्तुं गर्भोदक-स्थस्य द्वितीयस्य पुरुषस्य व्यूहस्य नानावतारित्वं विवृणोति—एतद् इति । ब्रह्माण्डस्थम् इत्य् अर्थः । निधानं सागराणां समुद्र इव सदैवाश्रयः । अत एवाव्ययम् अनपक्षयम् । बीजम् उद्गम-स्थानम् । न केवलम् अवताराणां बीजं जगतोऽपीत्य् आह यस्यांशांशेनेति ॥५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **षोडश-कलत्वेन यत् पूर्णत्वम् उक्तं तद् दर्शयति—एतद् इति । बीजत्वेऽपि नाना-बीज-तुल्यं किन्तु निधानं निधिर् अंशीभूतम् इत्य् अर्थः । वक्ष्यमाणा अवतारा एतस्यांशा इति भावः । न व्यतीत्य्-अव्ययं नित्यं यस्यांशो ब्रह्मा तस्यांशो मरीच्य्-आदिस् तेनेति । देवादयो विभूतय उक्ताः ॥५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एतद्-रूपं वक्ष्यमाणानाम् अवतारणाम् अवतारीत्य् आह—एतद् इति । निधानम् अंशि, बीजत्वेऽपि नान्य-बीज-तुल्यम् इत्य् आह—अव्ययं नित्यं, यस्यांशो विरञ्चिस् तस्यांशो । मरीच्यादिस् तेनेति देवादयो । विभूतयः सृज्यन्ते—इति द्वितीयः पुरुषः प्रद्युम्नोऽयं गर्भोदशयः । यस् तु प्राक् सत्त्वं रजस् तमः इति पद्ये [भा।पु। १.२.१३] हरिर् उक्तः, स खलु तृतीयः पुरुषोऽनिरुद्धो । बोध्यः । एयां एयाणां सङ्कर्षणादित्वं ब्रह्म-संहितायां व्यक्तं—प्रथमः प्रकृतेर् अन्तर्यामी, द्वितीयो विरञ्चेः, तृतीयस् तु प्रादेश-मात्रः सन्नस्मदादिजीवानाम् इति ज्ञेयम् । पुरुष-सञ्ज्ञत्वञ् च सात्वत-तन्त्रे—

विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः ।
एकन् तु महतः स्रष्ट्र द्वितीयन्त्व् अण्ड-संस्थितम् ।
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति,

ननु नारायणीये [शान्ति-पर्व ३३९.७२-७४] पठ्यते—

अस्मन्-मूर्तिश् चतुर्थी या सासृजच्-छेषव्य् अयम् ।
स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्य् अजीजनत् ।
प्रद्युम्नाच्-चानिरुद्धोऽहं सर्गो मम पुनः पुनः ।
अनिरुद्धात्-तथा ब्रह्मा तन्-नाभिकमलोद्भवः । इति ।

अनिरुद्धो हि लोकानां महानत्मेति कथ्यते । योऽसौ व्यक्तत्वम् आपन्नो निर्ममे च पितामहम् । [शान्ति-पर्व ३४०.३०-३१] इति च । अत्रानिरुद्धाद्-विरञ्चेर् जन्म यद् उच्यते, तत्-तु तस्य प्रद्युम्नाभेदेनैव सङ्गमनीयम्, अन्यथा यस् ताम्भसि [भा।पु। १.३.२] इत्य् एतद्-व्याकुप्येत् ॥५॥

———————————————————————————————————————

॥ १.३.६ ॥

स एव प्रथमं देवः कौमारं सर्गम् आश्रितः ।

चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

कुमारो नाम भगवान् स्वयं स्वस्माद् अजायत ।
दिदेश ब्रह्मणे ब्रह्म ब्रह्मचर्य-स्थितो विभुः ॥
यस्मात् सनत्-कुमारश् च ब्रह्मचर्यम् अपालयत् ।
यः स्थाणोः स्थाणुतां प्रादाद् भगवान् अव्ययो हरिः ॥ इति ब्राह्मे ॥६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सनत्-कुमाराद्य्-अवतारं तच्-चरित्रं चाह—स एवेति । कौमार आर्षः प्राजापत्यो मानव इत्य् आदीनि सर्ग-विशेष-नामानि । यः पौरुषं रूपं जगृहे स एव देवः कौमाराख्यं सर्गम् आस्थितः सन् ब्रह्मा ब्राह्मणो भूत्वा ब्रह्मचर्यं चचार । प्रथम-द्वितीयादि-शब्दा निर्देश-मात्रापेक्षया ॥६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ प्राचुर्येण तद्-अवतारान् कथयंस् तद्-ऐक्य-विवक्षया तद्-अंशांशिनाम् अप्य् अविर्भाव-मात्रं गणयति विंशत्या । तत्र स एवेति । योऽम्भसि शयानः, यश् च सहस्र-पादादि-रूपः, स एव पुरुषाख्यो देवः । एते चांश-कलाः पुंसः [भा।पु। १.३.२८] इत्य् उपसंहारस्यापि संवादात् । कौमारं चतुःसन-रूपम् । ब्रह्मा ब्रह्मणो भूत्वा ॥६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सनत्-कुमाराद्य्-अवतारं तच्-चरित्रं चाह—स एवेति । यस्यांशांशेन देवादयः सृज्यन्ते, स एव पद्मनाभ इत्य् अर्थः । कौमारं सर्गम् आश्रितः । कुमारेषु प्रादुर्भावं प्राप्तः सन् ब्रह्मा ब्राह्मणो भूत्वा ब्रह्मचर्यं चचार, स्वयम् आचरणं लोकेषु प्रचारयामासेत्य् अर्थः । प्रथम-द्वितीयादि-शब्दा निर्देश-मात्रापेक्षया ॥६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ सनत्कुमाराद्य् अवतारांस् तत्-कर्माणि चाह—स एवेति । स गर्भोदकशयः स्वयंप्रभोः कृष्णस्य स्वांशः कौमारं सर्गं कुमारेषु प्राकट्यम् आश्रितः प्राप्तः, ब्रह्मा विप्रो भूत्वाखण्डितं ब्रह्मचर्यञ्चचार लोकान् शिक्षयन् इति चतुर्भिर् एकोऽयम् अवतारः । अत्र प्रथमादि-शब्दाः सङ्ख्या-पूर्त्य् अपेक्षा न तु क्रमापेक्षा बोध्याः ॥६॥

———————————————————————————————————————

॥ १.३.७ ॥

द्वितीयं तु भवायास्य रसातल-गतां महीम् ।

उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वराहावतारम् आह—द्वितीयम् इति । अस्य विश्वस्य भवायोद्भवाय महीम् उद्धरिष्यन्न् इति कर्मोक्तिः । एवं सर्वत्रावतारस् तत्-कर्म चोक्तम् इत्य् अनुसन्धेयम् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भवाय क्षेमाय उद्धरिष्यन्न् इति कर्मोक्तिः । एवं सर्वत्रावतारस् तत् कर्म चोक्तम् इत्य् अनुसन्धेयम् ॥७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **द्वितीयन्व् इति—स देवः शौकरं वपु-रुपादत्त प्रकटितवान् । अस्य विश्वस्य भवाय मङ्गलाय प्रलये रसातल-गतां महीमुद्धरिष्यन्न् इति कर्मोक्तिः । एवं सर्व त्रावतारस्य तत्-कर्मणश् चोक्तिर् भव्या, स्वायम्-भुवीये ब्रह्मनासिकातो जातोऽयम् ॥७॥

———————————————————————————————————————

॥ १.३.८ ॥

तृतीयम् ऋषि-सर्गं वै देवर्षित्वम् उपेत्य सः ।

तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अवतारस् तृतीयोऽस्य देवर्षिः प्रथितो दिवि ।
महि-दासस् त्व् ऐतरेयो यस् तन्त्रं नारदेऽवदत् ॥ इति च ॥८॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नारदावतारम् आह—तृतीयम् इति । ऋषि-सर्गम् उपेत्य । तत्र च देवर्षित्वम् उपेत्येत्य् अर्थः । सात्वतं वैष्णवं तन्त्रं पञ्चरात्रागमम् आचष्टोक्तवान् । यतस् तन्त्रात् निर्गतं3 कर्मत्वं बन्धु-हेतुत्वं, येभ्यस् तानि निष्कर्माणि, तेषां भावो नैष्कर्म्यम् । कर्मणाम् एव मोचकत्वं यतो भवति, तद् आचष्टेत्य् अर्थः ॥८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ऋषि-सर्गम् उपेत्य तत्रापि देवर्षित्वं नारदत्वम् उपेत्य । सात्वतं वैष्णवम् । तन्त्रं पञ्चरात्रागमम् । कर्मणा कर्माकारेणापि सतां श्री-भगवद्-धर्माणां यतस् तन्त्रान् नैष्कर्म्यं कर्म-बन्ध-मोचकत्वेन कर्मभ्यो निर्गतत्वं तेभ्यो भिन्नत्वं प्रतीयते इति शेषः ॥८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ऋषिषु सर्गं प्रादुर्भावम् उपेत्य तत्र च देवर्षित्वं नारदत्वम् उपेत्येत्य् अर्थः । सात्वतं पञ्चरात्रागमं यतस् तन्त्रात् कर्मणां तत्रोक्तानां भगवद्-धर्माणां नैष्कर्म्यं कर्म-बन्ध-मोचकत्वम् ॥८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तृतीयम् इति—ऋषिषु सर्गं प्राकट्यं, तत्र च देवर्षित्वं नारदत्वम् उपेत्य सात्वतं पञ्च-रात्रं तन्त्रं, यतस् तन्त्रात् कर्मणां नैष्कर्म्यम् ईश्वरापणात् परिशोधित विष-पारद-न्यायेन कर्म-बन्ध-हारित्वं भवति ॥८॥

———————————————————————————————————————

॥ १.३.९ ॥

तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी ।

भूत्वात्मोपशमोपेतम् अकरोद् दुश्चरं तपः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **धर्म-कला सर्गः धर्मस्वांशावतारः । लोक-दृष्ट्यात्म-शमोपेतम् ॥९॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नर-नारायणावतराम् आह—तुर्ये इति । **तुर्ये **चतुर्थेऽवतारे । धर्मस्य कला अंशः, भार्येत्य् अर्थः । अर्धो वा एष आत्मनो यत् पत्नी इति श्रुतेः । तस्याः सर्गेऋषी भूत्वेत्य् एकावतारत्वं दर्शयति ॥९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तुर्य इति स्पष्टम् ॥९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तुर्ये चतुर्थेऽवतारे । धर्मस्य कला अंशः, भार्येत्य् अर्थः । अर्धो वा एष आत्मनो यत्-पत्नी इति श्रुतेः । तस्याः सर्गे प्रादुर्भावे ऋषी भूत्वेति द्वाभ्याम् एकावतारं दर्शयति ॥९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तुर्ये चतुर्थे ऽवतारे । धर्मस्य कला भागस् तद्-भार्येत्य् अर्थः । अर्धो वा एष आत्मनो यत् पत्नी इति श्रवणात् । तस्याः सर्गे स देवो नर-नारायणाव् ऋषी भूत्वा । दुश्चरं तपोऽकरोत् इति द्वाभ्याम् एकोऽयम् अवतारः । हरि-कृष्णाव् अनयोः सोदरौ तौ चैतद् अभिन्नाव् एवेत्य् अन्यत्र ॥९॥

———————————————————————————————————————

॥ १.३.१० ॥

पञ्चमः कपिलो नाम सिद्धेशः काल-विप्लुतम् ।

प्रोवाचासुरये साङ्ख्यं तत्त्व-ग्राम-विनिर्णयम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **तन्त्रं साङ्ख्यम् । वेदानुसारि । पाद्मे च—

कपिलो वासुदेवाख्यस् तन्त्रं साङ्ख्यं जगाद ह ।
ब्रह्मादिभ्यश् च देवेभ्यो भृग्व्-आदिभ्यस् तथैव च ॥
तथैवासुरये सर्व-वेदार्थैर् उपबृंहितम् ।
सर्व-वेद-विरुद्धं च कपिलोऽन्यो जगाद ह ।
साङ्ख्यम् आसुरयेऽन्यसमै कुतर्क-परिबृंहितम् ॥ इति च ॥१०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कपिलावतारम् आह—पञ्चम इति । आसुरये तन्-नाम्ने ब्राह्मणाय । तत्त्वानां ग्रामस्य सङ्घस्य विनिर्णयो यस्मिन् शास्त्रे तत् साङ्ख्यम् ॥१०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पञ्चम इति आसुरि-नाम्ने विप्राय ॥१०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आसुरये तन्-नाम्ने ब्राह्मणाय ॥१०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पञ्चम इति—आसुरये तन्-नामे शिष्याय अयं कार्दमिर् ईश्वरः निरीश्वर-साङ्ख्य-प्रवक्ता त्व् अग्नि-वंशोद्भवो जीव एव दुर्मतिर् इति पाद्माद् विज्ञेयम् ॥१०॥

———————————————————————————————————————

॥ १.३.११ ॥

षष्ठम् अत्रेर् अपत्यत्वं वृतः प्राप्तोऽनसूयया ।

आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **आन्वीक्षकीं तत्त्व-विद्याम् । आन्वीक्षकी कुतर्काख्या तथैवान्वीक्षकी परा इति मात्स्ये ॥११॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दत्तत्रेयावतारम् आह—षष्ठम् इति । अत्रेर् अपत्यत्वं तेनैव वृतः सन् प्राप्तः अत्रेर् अपत्यम् अभिकाङ्क्षत आह तुष्ट [भा।पु। २.७.४] इति वक्ष्यमानत्वात् । कथं प्राप्तः ? अनुसूयया मत्-सदृशापत्य-मिषेण माम् एवापत्यं वृतवान् इति दोष-दृष्टिम् अकुर्वन्न् इत्य् अर्थः । आन्वीक्षिकीम् आट्म-विद्याम् । प्रह्रादादिभ्यश् च । आदि-पदाद् यदु-हैहयाद्या गृह्यन्ते ॥११॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्रिणा तत्-सदृश-पुत्रोत्पत्ति-मात्रं प्रकटं याचितं [भा।पु। ४.१.२०] इति चतुर्थाद्य्-अभिप्रायः । एतद्-वाक्येनानसूयया तु कदाचित् साक्षाद् एव श्रीमद्-ईश्वरस्यैव पुत्र-भावो वृतोऽस्तीति लभ्यते । उक्तं च ब्रह्माण्ड-पुराणे पतिव्रतोपाख्याने—

अनसूयाब्रवीन् नत्वा देवान् ब्रह्मेश-केशवान् ।
यूयं यदि प्रसन्ना मे वरार्हा यदि वाप्य् अहम् ।
प्रसादाभिमुखो भूत्वा मम पुत्रत्वम् एष्यथ ॥ इति ।

आन्वीक्षिकीम् आत्म-विद्याम् । श्री-विष्णोर् एवावतारोऽयम् ॥११॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अनुसूयया अत्रेः पत्न्या वृतः सन्न् अपत्यत्वं प्राप्तः । यद् उक्तं ब्रह्माण्ड-पुराणे पतिव्रतोपाख्याने—

अनसूयाब्रवीन् नत्वा देवान् ब्रह्मेश-केशवान् ।
यूयं यदि प्रसन्ना मे वरार्हा यदि वाप्य् अहम् ।
प्रसादाभिमुखो भूत्वा मम पुत्रत्वम् एष्यथ ॥ इति ।

आन्वीक्षिकीम् आत्म-विद्यां प्रह्लादादिभ्यश् च ॥११॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **दत्तात्रेयावतारम् आह—षष्ठम् इति । अनसूययात्रेः पत्न्या वृतः सन्न् अपत्यत्वं प्राप्तः । एवम् उक्तं ब्रह्माण्डे [पति-व्रतोपाख्याने]

अनसूया-ब्रवीन्नत्वा देवान् ब्रह्मेश-केशवान् ।
यूयं मदि प्रसन्ना मे वरार्हा यदि वाप्यहम् ।
प्रसादाभिमुखाः सर्वे मत्-पुत्रत्वम् उपेष्यथ इति,

आन्विक्षिकीम् आत्म-विद्याम् ॥११॥

———————————————————————————————————————

॥ १.३.१२ ॥

ततः सप्तम आकूत्यां रुचेर् यज्ञोऽभ्यजायत ।

स यामाद्यैः सुर-गणैर् अपात् स्वायम्भुवान्तरम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यज्ञावतारम् आह—तत इति । स यज्ञो यामाद्यैः स्वस्यैव पुत्रा यामा नाम देवास् तद्-आद्यैः सह स्वायम्भुवं मन्वन्तरं पालितवान् । तदा स्वयम् इन्द्रोऽभूद् इत्य् अर्थः ॥१२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स यज्ञस् तदा स्वयम् इन्द्रोऽभूद् इत्य् अर्थः ॥१२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स यज्ञो यामाद्यैः स्वस्यैव पुत्रा यामा नाम देवास् तद्-आद्यैः सह स्वायंभुवं मन्वन्तरं पालितवान् । तदा स्वयम् इन्द्रोऽभूद् इत्य् अर्थः ॥१२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यज्ञावतारम् आह—तत इति । रुचेः पितुर् आकुत्यां मातरि यज्ञोऽभ्यजायत, स यज्ञः, यामाद्यैः स्व-पुत्रैः सुरगणैः सह स्वायम्-भुवं मन्वन्तरम् अपात्, तदा स्वयम् इन्द्रोऽभूदित्य् अर्थः ॥१२॥

———————————————————————————————————————

॥ १.३.१३ ॥

अष्टमे मेरु-देव्यां तु नाभेर् जात उरुक्रमः ।

दर्शयन् वर्त्म धीराणां सर्वाश्रम-नमस्कृतम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऋषभावतारम् आह—अष्टम इति । सर्वाश्रम-नमस्कृतम् अन्याश्रमं पारमहंस्यं वर्त्म धीराणां दर्शयन् नाभेर् आग्नीध्र-पुत्राद् ऋषभो जातः ॥१३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उरुक्रम ऋषभो जातः ॥१३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नाभेर् आग्नीध्र-पुत्राद् ऋषभो जातः ॥१३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ऋषभावतारम् आह—अष्टमे इति । नाभेर् आग्नीध्र-पुत्रान् मेरु-देव्यां जातो देव ऋषभ-नामा सर्वाश्रम-नमस्कृतं धीराणां वर्त्म पारमहंस्यं दर्शयन् ॥१३॥

———————————————————————————————————————

॥ १.३.१४ ॥

ऋषिभिर् याचितो भेजे नवमं पार्थिवं वपुः ।

दुग्धेमाम् ओषधीर् विप्रास् तेनायं स उशत्तमः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **पृथु-शरीराविष्ट-रूपम् । आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः इति पाद्मे । उश इच्छायां सत्यकामः ॥१४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पृथ्व्-अवतारम् आह—ऋषिभिर् इति । पार्थिवं वपुः राज-देहं पृथु-रूपम् । पाठान्तरे पृथोर् इदं पार्थवम् । औषधीर् इत्य् उपलक्षणम् । इमां पृथ्वीं सर्वाणि वस्तूनि दुग्ध अदुग्ध । अड्-आगमाभावस् त्व् आर्षः । हे विप्राः, तेन पृथ्वी-दोहनेन सोऽयम् अवतार उशत्तमः कमनीयतमः । वश कान्ताव् इत्य् अस्मात् ॥१४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पार्थिवं राज-देहं पृथु-रूपम् । उशत्तमः कमनीयतमः ॥१४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पार्थिवं वपुः राज-देहं पृथु-रूपम् । पार्थवम् इति पाठे पृथु-सम्बन्धे । औषधीर् इत्य् उपलक्षणम्, इमां पृथ्वीं सर्वाणि वस्तूनि दुग्ध अडागम् आ-भाव आर्षः । तेन हेतुना सोऽयम् अवतार उशत्तमः कमनीयतमः । वश कान्ताव् इत्य् अस्मात् ॥१४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पृथुवतारम् आह—ऋषिभिर् इति । पार्थिवं राजदेहं पृथु-रूपं वपुर् भेजे । इमां पृथिवीम् औषधीः सर्वाणि वस्तुन्य-दुग्ध, अडभाव आर्षः । तेन तद्-दोहनेन हेतुना सोऽयम् अवतारः उशत्तमोऽतिकमनीयः ॥१४॥

———————————————————————————————————————

॥ १.३.१५ ॥

रूपं स जगृहे मात्स्यं चाक्षुषोदधि-सम्प्लवे ।

नाव्य् आरोप्य मही-मय्याम् अपाद् वैवस्वतं मनुम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मत्स्यावतारम् आह—रूपम् इति । चाक्षुष-मन्वन्तरे य उदधीनां संप्लवः संश्लेषस् तस्मिन् । यद्य् अपि मन्वन्तरावसाने प्रलयो नास्ति तथापि केनचित् कौतुकेन सत्य-व्रताय माया प्रदर्शिता यथाऽकाण्डे मार्कण्डेयायेति द्रष्टव्यम् । मही-मय्यां नावि, नौका-रूपायां मह्याम् इत्य् अर्थः । अपाद् रक्षितवान् । वैवस्वतम् इति भाविनी सञ्ज्ञा ॥१५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **चाक्षुष-मन्वन्तरे य उदधि-सम्प्लवस् तस्मिन् । वैवस्वतम् इति भाविनी सञ्ज्ञा सत्यव्रतस्य । प्रतिमन्वन्तरावसानेऽपि प्रलयः श्रूयते । श्री-विष्णु-धर्मोत्तरे प्रथम-काण्डे—मन्वन्तरे परिक्षीणे कीदृशी द्विज जायते [१.७५.१] इति श्री-वज्र-प्रश्नस्य मन्वन्तरे परिक्षीणे इत्य्-आदि मार्कण्डेय-दत्तोत्तरे—

ऊर्मि-माली महा-वेगः सर्वम् आवृत्य तिष्ठति ।
भूर्लोकम् आश्रितं सर्वं तदा नश्यति यादव ॥
न विनश्यन्ति राजेन्द्र विश्रुताः कुल-पर्वताः ।
नौर् भूत्वा तु महा-देवी [१.७५.५-६, ९] इत्य्-आदि च ।

एवम् एव मन्वन्तरेषु संहार इत्य्-आदि प्रकरणं श्री-हरि-वंशे तदीय-टीकासु च स्पष्टम् एव । अतश् चाक्षुषे वैवस्वतम् इत्य् उपलक्षणम् ॥१५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **चाक्षुष-मन्वन्तरे य उदधीनां संप्लवः । चाक्षुषान्तर-सम्प्लव इति च पाठः । मही-मय्यां नावि नौका-रूपायां मह्याम् इत्य् अर्थः । अपाद् रक्षितवान् वैवस्वत इति भाविनी सञ्ज्ञा । यद्यपि मन्वन्तरावसाने प्रलयो नास्ति, तथापि केनचित् कौतुकेन सत्यव्रताय माया दर्शिता, यथा मार्कण्डेयाय इति श्रीधर-स्वामि-पादाः । विष्णुधर्मोत्तरे तु मन्वन्तरे परिक्षीणे कीदृशी द्विज जायते इत्य्-आदि वज्र प्रश्नान्ते मार्कण्डेयोत्तरम्—

ऊर्मि-माली महा-वेगः सर्वम् आवृत्य तिष्ठति ।
भूर्लोकम् आश्रितं सर्वं तदा नश्यति यादव ॥
न विनश्यन्ति राजेन्द्र विश्रुताः कुल-पर्वताः ।
नौर् भूत्वा तु महा-देवी [१.७५.५-६, ९] इत्य्-आदि च ।

एवम् एव मन्वन्तरे तु संहार इत्य्-आदि प्रकरणम् । अत एव भागवतामृते प्रतिमन्वन्तरान्त एव प्रलय उक्तः । श्री-हरि-वंशे तदीय-टीकासु च । तद् अप्य् अत्र चाक्षुष एवोक्तिः सत्यव्रतस्य मनोर् मत्स्य-देव-परम-भक्तत्वाद् भक्तोत्कर्षाद् एव भगवत्-प्रादुर्भावस्याप्य् उत्कर्षात् भक्तेच्छोपात्त-देहायेत्य् आदिभिर् युक्ति-सिद्धात् सर्व-मन्वन्तराण्य् एवोपलक्षयति ॥१५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मत्स्यावतारम् आह—रूपं स इति । चाक्षुषेऽन्तरे य उदधि-संप्लवस् तस्मिन् स देवे । मात्स्यं रूपं जगृहे । महीमयां नावि नौरूपायां मह्याम् आरोप्य वैवस्वतं मनुम् अपात्, वैवस्वतम् इति भाविनी सञ्ज्ञा सत्य-व्रतस्य । चाक्षुषान्तरान्ते प्रलयोऽत्रोक्तः, विष्णु-धर्मोत्तरे तु सर्व-मन्वरान्ते स वर्ण्यते ॥१५॥

———————————————————————————————————————

॥ १.३.१६ ॥

सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् ।

दध्रे कमठ-रूपेण पृष्ठ एकादशे विभुः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कूर्मावतारम् आह । कमठः कूर्मस् तद्-रूपेणाकादशेऽवतारे विभुर् दध्रे दधार ॥१६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्पष्टम् ॥१६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सुरासुराणाम् अमृतोत्पादनार्थम् इति शेषः । कमठ-रूपेण कच्छप-रूपेण ॥१६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कूर्मावतारम् आह—सुरेति । सुधोत्पादनार्थम् उदधिं मथ्नतां सुरासुराणां मध्ये कमठ-रूपेण कूर्म-वपुषा पृष्ठे मन्दराचलं दध्रे ॥१६॥

———————————————————————————————————————

॥ १.३.१७ ॥

धान्वन्तरं द्वादशमं त्रयोदशमम् एव च ।

अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धन्वन्तर्य्-अवतारम् आह । धान्वन्तरं धन्वन्तरि-रूपम् । द्वादशमादि-प्रयोगस् त्व् आर्षः । त्रयोदशमम् एव रूपं तच्-चरितेन सह दर्शयति । अपाययद् इत्य् अत्र सुधाम् इत्य् अध्याहरः । मोहिन्या स्त्रिया तद्-रूपेण अन्यान् असुरान् मोहयन् । धन्वन्तरि-रूपेणामृतम् आनीय मोहिन्याऽपाययद् इत्य् अर्थः ॥१७॥

———————————————————————————————————————

कैवल्य-दीपिका : अविरति-हानार्थं मोहिनीम् आह—धान्वन्तरम् इति । धन्वन्तरि-रूपं स्त्री-रूपं च सुरान् अपाययत् सुधाम् इति शेषः । अन्यान् सुरान् । मोहयन् केन रूपेणामृतानयनम् । पायनं मोहिनी-स्त्री-रूपेणेत्य् अर्थः ॥१७॥ [मु।फ। ३.२४]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **बिभ्रद् इत्य् उत्तरेणान्वयः । द्वादशमं धान्वन्तरं रूपं बिभ्रत् । त्रयोदशं मोहिनी-रूपं बिभ्रत् । सुरान् अपाययत् सुधाम् इति शेषः । केन रूपेण ? मोहिन्या स्त्रिया तद्-रूपेणेत्य् अर्थः । किं कुर्वन् ? अन्यान् असुरान् मोहयन्, धन्वन्तरि-रूपेण सुधां चोपहरन्न् इति शेषः । अजितस्यावतारा एते त्रयः [कूर्म-धन्वन्तरि-मोहिनीति] ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धान्वन्तरं धन्वन्तर्य्-अवतार-स्वरूपं द्वादशं भवतीत्य् अन्वयः । सुधा-कलसानयनः चास्य कर्म ज्ञेयम् । द्वादशमम् इत्य्-आदि-प्रयोगस् त्व् आर्षः । त्रयोदशमं बिभ्रत् **सुरान् अपाययत्, **सुधाम् इत्य् शेषः । केन रूपेण ? मोहिन्या स्त्रिया अन्यान् असुरान् मोहयन् ॥१७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **धन्वन्तर्य् अवतारं मोहिन्य् अवतारञ् चाह—धान्वन्तरं स्वरूपं द्वादशमं भवतीत्य् अन्वयः । अमृत-घटानयनम् अस्य कर्म बोध्यम् । द्वादशमम् इत्य् आदि-प्रयोग आर्षः । त्रयोदशमं स्वरूपं बिभ्रत् सुरान् अपाययत्, सुधाम् इति शेषः । केन रूपेणेत्य् आह—मोहिन्या स्त्रियान्यान् असुरान् मोहयन् ॥१७॥

———————————————————————————————————————

॥ १.३.१८ ॥

चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रम् ऊर्जितम् ।

ददार करजैर् वक्षस्य् एरकां कट-कृद् यथा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नृसिंहावतारम् आःअ । नारसिंहं रूपं बिभ्रत् । एरकां निर्ग्रन्थि तृणम् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एरका निर्क्ग्रन्थि तृण-विशेषः ॥१८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नृसिंहावतारम् आह—चतुर्दशम् इति । करजैर् नखैः । दैत्येन्द्रं हिरण्यकशिपुं कट-कृत्तणास्तरण-कर्ता यथैरकां दीर्घ-निर्ग्रन्थि-तृण-विशेषम् ॥१८॥

———————————————————————————————————————

॥ १.३.१९ ॥

पञ्चदशं वामनकं कृत्वागाद् अध्वरं बलेः ।

पद-त्रयं याचमानः प्रत्यादित्सुस् त्रि-पिष्टपम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वामनावतारम् आह—पञ्चदशम् इति । दुष्टानां मदं वांअयतीति वामनकं रूपम् । ह्रस्वं वा । प्रत्यादित्सुस् तस्माद् आच्छिद्य ग्रहीतुम् इच्छुः ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रत्यादित्सुस् तस्माद् आच्छिद्य ग्रहीतुम् इच्छुः ॥१९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **वामनावतारम् आह—पञ्च-दशम् इति । त्रिपिष्टपं प्रत्यादित्सु स्तस्माद् आच्छिद्य गृहीतुम् इच्छुः ॥१९॥

———————————————————————————————————————

॥ १.३.२० ॥

अवतारे षोडशमे पश्यन् ब्रह्म-द्रुहो नृपान् ।

त्रिः-सप्त-कृत्वः कुपितो निः-क्षत्राम् अकरोन् महीम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परशुरामावतारम् आह—अवतार इति । त्रिस् त्रिगुणं यथा भवति तथा सप्त-कृत्वः सप्त-वारान् एक-विंशति-वारान् इत्य् अर्थह् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सप्त-कृत्वः सप्त-वारान् । कीदृशान् ? त्रिस् त्रिगुणितान् अत्र सप्त-कृत्व इति कृत्वः सूचाभिहिताया अभ्यावृत्ति-क्रियायाः पुनर् अभ्यावृत्ति-गणने न सुच्-प्रत्ययः ॥२०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **परशुरामावतारम् आह—अवतारे इति । सप्त-कृत्वः सप्त-वारान् । कीदृशान् इत्य् आह त्रिस्त्रिगुणितान् एकविंशति-वारान् इत्य् अर्थः । सप्त-कृत्व इति कृत्वसुचाभिहितायाः क्रियाभ्यावृत्तेः पुनस् तस्या गणने सुच्-प्रत्ययः ॥२०॥

———————————————————————————————————————

॥ १.३.२१ ॥

ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।

चक्रे वेद-तरोः शाखा दृष्ट्वा पुंसोऽल्प-मेधसः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **रामात् पूर्वम् अप्य् अस्ति व्यासावतारः । तृतीयं युगम् आरभ्य व्यासो बहुषु जग्मिवान् इति कौर्मे ॥२१॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **व्यासावतारम् आह—तत इति । अल्प-मेधसोऽल्प-प्रज्ञान् पुंसो दृष्ट्वा तद्-अनुग्रहार्थं शाखाश् चक्रे ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अल्प-मेधसोऽल्प-ज्ञान् चक्रे व्यासः ॥२१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **व्यासावतारम् आह—तत इति । अल्पमेधसो मन्द-मतीन् सत्यवत्यां पराशराज्-जात इत्य् अस्य व्यासस्येश्वरत्वम् ।

कृष्ण-द्वैपायनं व्यासं विद्धि नारायणं स्वयम् ।
को ह्य् अन्यः पुण्डरीकाक्षान्-महाभारत-कृद्-भवेत् ॥ [वि।पु। ३.४.५] इति वैष्णव वाक्यां ॥२१॥
———————————————————————————————————————

॥ १.३.२२ ॥

नर-देवत्वम् आपन्नः सुर-कार्य-चिकीर्षया ।

समुद्र-निग्रहादीनि चक्रे वीर्याण्य् अतः परम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रामावतारम् आह—नरेति । नर-देवत्वं राघव-रूपेण प्राप्तः सन् । अतः परम् अष्टादशे ॥२२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नरदेवत्वं श्री-राघव-रूपेण । अतः परम् अष्टादशे । अयं साक्षात् पुरुष एव । स्कान्दे श्री-राम-गीतायां विश्व-रूपं दर्शयतस् तस्य ब्रह्म-विष्णु-रुद्र-कृत-स्तुतिः श्रूयते ॥२२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नर-देवत्वं श्री-रामत्वं समुद्र-निग्रहादीनि समुद्र-निग्रस्यैवाद्यापि सेतुबन्ध-रूपेण दृश्यमानत्वात् तत्रैव च महैश्वर्याविष्काराच् च तस्यैव प्राधान्येन निर्देशः ॥२२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **रघुनाथावतारम् आह—नर-देवत्वं नृपतित्वं राम-चन्द्र-वपुषापन्नः सन् । अतः परमष्टादशे । सेतु-निर्माण-कृतस्य समुद्र-निग्रहस्य महैश्वर्य-बोधकत्वत्तत्-प्राणान्येनोक्तिः ॥२२॥

———————————————————————————————————————

॥ १.३.२३ ॥

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।

राम-कृष्णाव् इति भुवो भगवान् अहरद् भरम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **आवेशो बलभद्रे ।

शङ्ख-चक्र-भृद् ईशेशः श्वेत-वर्णो महा-भुजः ।
आविष्टः श्वेतकेशात्मा शेषांशं रोहिणी-सुतम् ॥ इति महा-वाराहे ॥२३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **राम-कृष्णावतारम् आह । एकेनेति विंशतितम इति वक्तव्ये त-कार-लोपश् छन्दोऽनुरोधेन । राम-कृष्णाव् इत्य् एवं नामनी जन्मनी प्राप्य ॥२३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भगवान् इति साक्षात् श्री-भगवत एवाविर्भावोऽयम्, न तु पुरुष-सञ्ज्ञस्यानिरुद्धस्येति विशेष-प्रतिपत्त्य्-अर्थं तत्र तस्य साक्षाद्-रूपत्वात् श्री-कृष्ण-रूपेण निजांश-रूपत्वाद् राम-रूपेणापि भार-हारित्वं भगवत एवेत्य् उभयत्रापि भगवान् अहरद् भरम् इति श्लिष्टम् एव । अतो रामस्याप्य् अनिरुद्धावतारत्वं प्रत्याख्यातम् । श्री-कृष्णस्य वासुदेवत्वाच् छ्री-रामस्य च सङ्कर्षणत्वाद् युक्तम् एव च तद् इति ॥२३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विंशतितम इति वक्तव्ये त-कार-लोपश् छन्दोऽनुरोधेन । राम-कृष्णाव् इति नामभ्याम् इत्य् अर्थः । जन्मनी प्रादुर्भाव-द्वयं प्राप्येत्य् अर्थः ॥२३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **बलभद्रावतारं श्री-कृष्णावतारञ्चाह—एकोनेति । विंशतितमे इति वाच्ये त-लोपश् छन्दोनुरोधात् । राम-कृष्णाव् इति-नामभ्यां जन्मनी प्राकट्य-द्वयं प्राप्येत्य् अर्थः ॥२३॥

———————————————————————————————————————

॥ १.३.२४ ॥

ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर-द्विषाम् ।

बुद्धो नाम्नाञ्जन-सुतः कीकटेषु भविष्यति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

मोहनार्थं दानवानां बाल-रूपी पथि-स्थितः ।
पुत्रं तं कल्पयामास मूढ-बुद्धिर् जिनः स्वयम् ॥
ततः संमोहयामास जिनाद्यानसूरांशकान् ।
भगवान् वाग्भिर् उग्राभिर् अहिंसा विपचिभिर् हरिः ॥ इति ब्रह्माण्डे ॥२४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **बुद्धावतारम् आह—तत इति । अजनस्य सुतः । जिन-सुत इति पाठे जिनोऽपि स एव । कीकटेषु मध्ये गया-प्रदेशे ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अञ्जन-सुतोऽजिन-सुतश् चेति पाठ-द्वयं कीकटेषु मध्ये गया-प्रदेशे ॥२४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **बुद्धावतारम् आह—तत इति । अजिनस्य सुतः कीकटेषु मध्ये गया-प्रदेशे धर्मारण्ये ॥२४॥

———————————————————————————————————————

॥ १.३.२५ ॥

अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु ।

जनिता विष्णु-यशसो नाम्ना कल्किर् जगत्-पतिः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कल्क्य्-अवतारम् आह—अथेति । युग-सन्ध्यायाम् । कलेर् अन्ते विष्णु-यशसो ब्राह्मणात् सकाशाज् जनिता जनिष्यते ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विष्णु-यशसो ब्राह्मणात् सकाशात् ॥२५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कल्क्य् अवतारम् आह—अथासाव् इति । युग-सन्ध्यायां कलेर् अन्ते । विष्णु-यशसस् तन्-नामकान् विप्रात् जनिता भविष्यति । एषु कुमार-नारद-पृथु-भार्गव-कल्किनो महत्तमा जीवा आवेशावताराः ।

आविष्टोभूत् कुमारेषु नारदे च हरिर् विभुः ।
आविवेश पृथुं देवः शङ्खी चक्री गदाधरः ।
एतत् ते कथितं देवि जामदग्नेर् महात्मनः ।
शक्त्य् आवेशावतारस्य चरितं शार्ङ्गणः प्रभो इति पाद्मात् [प।पु। ६.९३]
कलेर् अन्ते च संप्राप्ते कल्किनं ब्रह्म-वादिनम् ।
अनुप्रविश्य कुरुते वासुदेवो जगत्-स्थितिम् इति विष्णु-धर्माच् च ।

एभ्योऽन्ये तु सर्वे ईश्वर । इति बोध्यम् ॥२५॥

———————————————————————————————————————

॥ १.३.२६ ॥

अवतारा ह्य् असङ्ख्येया हरेः सत्त्व-निधेर् द्विजाः ।

यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विदासिनः उन्नतात् भिन्नाद् वा । त्रिविधाः पुरुषा लोके नीचम् अध्यविदासिन इति ब्राह्मे । चतुर्धा वर्ण-रूपेण जगद् एतद् विदासितम् इति च ॥२६॥ \

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनुक्त-सर्व-सङ्ग्रहार्थम् आह—अवतारा इति । असङ्ख्येयत्वे दृष्टान्तः—यथेति । अविदासिन उपक्षय-शून्यात् । दसु उपक्षये इत्य् अस्मात् । सरसः सकाशात् कुल्याः क्षुद्र-प्रवाहाः ॥२६॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्दर्शिनी): सत्त्वम् अत्र परम-कारुण्यम् । अत एव असङ्ख्येया अवताराः अविदासिनः उपक्षय-शून्यात् सरसः सकाशात् कुल्याः क्षुद्र-प्रवाहा इवेति ॥२६॥** **[बृ।भा। १.५.९]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ श्री-हयग्रीव-हरि-हंस-पृश्निगर्भ-विभु-सत्यसेन-वैकुण्ठाजित-सार्वभौम-विश्वक्सेन-धर्मसेतु-सुधाम-योगेश्वर-बृहद्भान्व्-आदीनां शुक्लादीनां चानुक्तानां सङ्ग्रहार्थम् आह—अवतारा इति । हरेर् अवतारा ह्य् असङ्ख्येयाः सहस्रशः सम्भवन्ति । हि प्रसिद्धौ । असङ्ख्येयत्वे हेतुः सत्त्व-निधेः सत्त्वस्य स्व-प्रादुर्भाव-शक्तेः सेवधि-रूपस्य । तत्रैव दृष्टान्तः—यथेति । अविदासिनोऽपक्षय-शून्यात् सरसः सकाशात् कुल्यास् तत्-स्वभाव-कृता निर्झरा अविदासिन्यः सहस्रशः सम्भवन्तीत्य् अर्थः । अत्र येऽंशावतारास् तेषु चैष विशेषो ज्ञेयः । श्री-कुमार-नारदादिष्व् आधिकारिकेषु ज्ञान-भक्ति-शक्त्य्-अंशावेशः । श्री-पृथ्व्-आदिषु क्रिया-शक्त्य्-अंशावेशः । क्वचित् स्वयम् आवेशस् तेषां भगवान् एवाहम् इति वचनात् । अथ श्री-मत्स्य-देवादिषु साक्षाद्-अंशत्वम् एव । तत्र चांशत्वं नाम साक्षाद्-भगवत्त्वेऽप्य् अव्यभिचारि-तादृश-तद्-इच्छा-वशात् सर्वदैक-देशतयैवाभिव्यक्त-शक्त्य्-आदिकत्वम् इति ज्ञेयम् । तथैवोदाहरिष्यते रामादि-मूर्तिषु कला-नियमेन तिष्ठन् नानावतारम् अकरोत् [ब्र।सं। ५.५०] इति ॥२६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हयग्रीव-हंसाद्य्-अनुक्त-सर्व-सङ्ग्रहार्थम् आह—अवतारा इति । असङ्ख्येयत्वे हेतुः सत्त्वानां शुद्ध-सत्त्व-चिद्-आनन्दानां निधेः सेवधि-रूपस्य तत्र दृष्टान्तः यथेति । अविदासिनः अपक्षय-शून्यात् दस्यु अपक्षय इत्य् अस्मात् सरसः सकाशात् कुल्यस् तत्-स्वभाव-कृता निर्झरा अविदासिन्यः सहस्रशः स्युः । असङ्ख्याता इति श्लेषेणैते पुरुषाद्या एवावताराः ख्याताः अन्ये तु न सम्यक् ख्याता वर्तन्त एवेति ज्ञाप्यते । यद् उक्तं प्रह्लादेन—

इत्थं नृ-तिर्यग्-ऋषि-देव-झषावतारैर्
लोकान् विभावयसि हंसि जगत् प्रतीपान् ।
धर्मं महा-पुरुष पासि युगानुवृत्तं
छन्नः कलौ यद् अभवस् त्रि-युगोऽथ स त्वम् ॥ [भा।पु। ७.९.३८]

इति छन्नत्वाद् एवासख्याता इत्य् अर्थः ॥२६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **हयास्य-हंसाद्यानुक्त-सङ्ग्रहायाह—अवतारा इति । सत्त्वं स्वातन्त्र्यं तन्-निधीयतेऽस्मिन्न् इति स्वातन्त्र्यार्णवस्येत्य् अर्थः ।

सत्त्वं स्वातन्त्र्यम् उद्दिष्टं तच् च कृष्णे न चापरे ।
अस्वातन्त्र्यात्-तद् अन्येषाम् असत्त्वं विद्धि भारत इति भारतोक्तेः ।

स्वेच्छयावतरतो हरेः स्वयं-प्रभोर् अवतारा ह्य् असङ्ख्याताः, तत्र दृष्टान्तो यथेति । अविदासिनोऽपक्षय-शून्यात् दसु उपक्षये धातुः । सरसः सकाशात् कुल्यास् तत्-स्वभाव-प्रवृत्ता निझराः सहस्रशः स्युः ॥२६॥

———————————————————————————————————————

॥ १.३.२७ ॥

ऋषयो मनवो देवा मनु-पुत्रा महौजसः ।

कलाः सर्वे हरेर् एव सप्रजापतयः स्मृताः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विभूतीर् आह—ऋषय इति ॥२७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ विभूतीर् आह—ऋषय इति । कला विभूतयः । अल्प-शक्तेः प्रकाशाद् विभूतित्वं महा-शक्तेस् त्व् आवेशत्वम् इति भेदः ॥२७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अवतारान् उक्त्वा विभूतीर् आह—ऋषय इति ॥२७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ विभूतीर् आह—ऋषय इति ॥२७॥

———————————————————————————————————————

॥ १.३.२८ ॥

एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् ।

इन्द्रारि-व्याकुलं लोकं मृडयन्ति युगे युगे ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **एते प्रोक्ता अवताराः । मूल-रूपी कृष्णः स्वयम् ।

जीवास् तत् प्रतिबिम्बांशा वराहाद्याः स्वयं हरिः ।
दृश्यते बहुधा विष्णुर् ऐश्वर्यादिक एव तु ॥ इति ब्रह्म-वैवर्ते ॥२८॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र विशेषम् आह—एते चेति । पुंसः परमेश्वरस्य केचिद् अंशाः केचित् कला-विभूतयश् च । तत्र मत्स्यादीनाम् अवतारत्वेन सर्वज्ञत्व-सर्वशक्तिमत्त्वेऽपि यथोपयोगम् एव ज्ञान-क्रिया-शक्त्य्-आविष्करणम् । कुमार-नारदादिष्व् आधिकारिकेषु यथोपयोगम् अंश-कलावेशः । तत्र कुमारादिषु ज्ञानावेशः । पृथ्वादिषु शक्त्य्-आवेशः । कृष्णस् तु भगवान् साक्षान् नारायण एव । आविष्कृत-सर्व-शक्तित्वात् । सर्वेषां प्रयोजनम् आह । इन्द्रारयो दैत्यास् तैर् व्याकुलम् उपद्रतं लोकं मृडयन्ति सुखिनं कुर्वन्ति ॥२८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं परमात्मानं साङ्गम् एव निर्धार्य प्रोक्तानुवाद-पूर्वकं श्री-भगवन्तम् अप्य् आकारेण निर्धारयति—एत इति । “एते चांश-कलाः” इत्य् एव पाठः स्वामि-सम्मतः । ऊननवतितमे तथा टीकायां दर्शनात् । ततश् च एते पूर्वोक्ताः, च-शब्दाद् अनुक्ताश् च । प्रथमम् उद्दिष्टस्य पुंसः पुरुषस्यांश-कलाः । केचित् स्वयम् एवांशाः साक्षाद्-अंशत्वेनांशांशत्वेन च द्विविधाः । केचिद् अंशाविष्टत्वाद् अंशाः, केचित् तु कला-विभूतयः । इह यो विंशतितमावतारत्वेन कथितः स कृष्णस् तु भगवान् । एष हि पुरुषस्याप्य् अवतारी भगवान् इत्य् अर्थः । अत्र अनुवादम् अनुक्त्वैव न विधेयम् उदीरयेत् इति वचनात् कृष्णस्यैव भगवत्त्व-लक्षणो धर्मः साध्यते, न तु भगवतः कृष्णत्वम् इत्य् आयातम् । ततः श्री-कृष्णस्यैव भगवत्त्व-लक्षण-धर्मित्वे सिद्धे मूलत्वम् एव सिध्यति, न तु ततः प्रादुर्भूतत्वम् । एतद् एव व्यनक्ति स्वयम् इति । तत्र च स्वयम् एव भगवान्, न तु भगवतः प्रादुर्भूततया, न तु वा भगवत्त्वाध्यासेनेत्य् अर्थः । न चावतार-प्रकरणेऽपि पठित इति संशयः । पौर्वापर्ये पूर्व-दौर्बल्यं प्रकृतिवद् [पू।मी। ६.५.५४] इति न्यायात् । यथाग्निष्टोमे यद्य् उद्गाता विच्छिद्याद् अदक्षिणेन यजेत यदि प्रतिहर्ता सर्वस्व-दक्षिणेन इति श्रुतेस् तयोश् च कदाचिद् द्वयोर् अपि विच्छेदे प्राप्ते विरुद्धयोः प्रायश्चित्तयोः समुच्चयासम्भवे च परम् एव प्रायश्चित्तं सिद्धान्तितम्, तद्वद् इहापीति ।

अथवा “कृष्णस् तु भगवान् स्वयम्” इति श्रुत्या प्रकरणस्य बाधात् । यथा शङ्कर-शारीरिके भाष्ये श्रुत्य्-आदि-बलीयस्त्वाच् च न बाधः [वे।सू। ३.३.५०] इति सूत्रे, ते हैते विद्याचित एव इति श्रुतिर् मनश् चिद्-आदीनाम् अग्नीनां प्रकरण-प्राप्तं क्रियानुप्रवेश-लक्षणम् अस्वातन्त्र्यं बाधित्वा विद्याचित्त्वेनैव स्वातन्त्र्यं स्थापयति तद्वद् इहापीति । अत एतत्-प्रकरणेऽप्य् अन्यत्र क्वचिद् अपि भगवच्-छब्दम् अकृत्वा तत्रैव भगवान् इति, भगवान् अहरद् भरं [भा।पु। १.३.२३] इत्य् अनेन कृतवान् ।

ततश् चास्यावतारेषु गणनात् तु स्वयं भगवान् अप्य् असौ स्वरूप-स्थ एव निज-परिजन-वृन्दानाम् आनन्द-विशेष-चमत्काराय किम् अपि माधुर्यं निज-जन्मादि-लीलया पुष्णन् कदाचित् सकल-लोक-दृश्यो भवतीत्य् अपेक्षयैवेत्य् आयातम् । यथोक्तं ब्रह्म-संहितायाम्—

रामादि-मूर्तिषु कला-नियमेन तिष्ठन्
नानावतारम् अकरोद् भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत् परमः पुमान् यो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.३९]

अवताराश् च प्राकृत-वैभवेऽवतरणम् इति । श्री-कृष्ण-साहचर्येण श्री-रामस्यापि पुरुषांशत्वात्ययो ज्ञेयः । अत्र तु-शब्दोऽंश-कलाभ्यः पुंसश् च सकाशाद् भगवतो वैलक्षण्यं बोधयति । यद् वा, अनेन तु-शब्देन सावधारणा श्रुतिर् इयं प्रतीयते । ततश् च सावधारणा श्रुतिर् बलवती इति न्यायेन श्रुत्यैव श्रुतम् अप्य् अन्येषां महा-नारायणादीनां स्वयं भगवत्त्वं गुणीभूतम् आपद्यते ।

एवं पुंस इति भगवान् इति च प्रथमम् उपक्रमोद्दिष्टस्य तस्य शब्द-द्वयस्य तत्-सहोदरेण तेनैव-शब्देन च प्रतिनिर्देशात् ताव् एव खल्व् एताव् इति स्मारयति । उद्देश-प्रतिनिर्देशयोः प्रतीति-स्थगितता, तन्-निरसनाय विद्वद्भिर् एक एव शब्दः प्रयुज्यते, तत्-समो वा । यथा ज्योतिष्टोमाधिकरणे वसन्ते वसन्ते च ज्योतिषा यजेत इत्य् अत्र ज्योतिः-शब्दो ज्योतिष्ठोम-विषयो भवतीति ।

इन्द्रारीति पद्यार्धं तत्र नान्वेति । तु-शब्देन वाक्यस्य भेदनात् । तच् च तावतैवाकाङ्क्षा-परिपूर्तेः । एक-वाक्यत्वे तु च-शब्द एवाकरिष्यत । ततश् चेन्द्रारीत्य् अत्रार्थात् त एव पूर्वोक्ता एव मृडयन्तीत्य् आयाति । अत्र विशेष-जिज्ञासायां श्री-कृष्ण-सन्दर्भो दृश्यः । तत्-तत्-प्रसङ्गे च दर्शयिष्यते ॥२८॥ [कृष्ण-सन्दर्भ २८]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् एषां सर्वेषां तुल्यत्वम् एव वा अस्ति वा तारतम्यम् ? इत्य् अपेक्षायाम् आह—एते चेति । एते पूर्वोक्ताः च-शब्दाद् अनुक्तश् च पुंसः प्रथम-निर्दिष्टस्य पुरुषस्य अंश-कलाः केचिद् अंशाः मत्स्य-कूर्म-वराहाद्याः केचित् कलाः कुमार-नारदादयः आवेशा यद् उक्तं भागवतामृते—

ज्ञान-शक्त्य्-आदि-कलया यत्राविष्टो जनार्दनः ।
त आवेशा निगद्यन्ते जीवा एव महत्तमाः ॥
वैकुण्ठेऽपि यथा शेषो नारदः सनकादयः । [ल।भा। १.१.१८-१९] इति ।

यथा पाद्मे—

आविष्टोऽभूत् कुमारेषु नारदे च हरिर् विभुः ॥ [ल।भा। १.४.३६]

यथा तत्रैव—

आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः ॥
एतत् ते कथितं देवि जामदग्नेर् महात्मनः ।
शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥
कलेर् अन्ते च सम्प्राप्ते कल्किनं ब्रह्म-वादिनम् ।
अनुप्रविश्य कुरुते वासुदेवो जगत्-स्थितिम् ॥ [ल।भा। १.४.३७, ३९, ४२]

तत्र कुमार-नारदादिषु ज्ञान-भक्ति-शक्त्य्-अंशावेशः । पृथादिषु क्रिया-शक्त्य्-अंशावेशः । ते चावेशा महा-शक्त्या अल्प-शक्त्या चेति । द्विविधाः प्रथमाः कुमार-नारदाद्याः अवतार-शब्देनोच्यते । द्वितीयाः मरीचि-मन्व्-आद्याः विभूति-शब्देनेति भेदो ज्ञेयः । इह यो विंशतितमावतारत्वेन कथितः स कृष्णस् तु भगवान्, न त्व् अंशः, न चांशी पुरुषः, किन्तु भगवान् । जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः [भा।पु। १.३.१] इति पद्योक्तो यः पुरुषस्यावतारी भगवान् स एवेत्य् अर्थः । अनुवादम् अनुक्त्वैव न विधेयम् उदीरयेत् इति दर्शनात् कृष्णस्यैव भगवल्-लक्षणो धर्मः साध्यते न तु भगवतः कृष्णत्वं तेन कृष्ण एव भगवान् मूल-भूत इति ।

एतद् एव पुनः स्पष्टीकुर्वन्न् आह—स्वयम् इति । तेन पुरुषावतारिणौ भगवतो महा-नारायणाद् अपि कृष्णस्योत्कर्षः साधितः । अत एव छान्दोग्ये पञ्चम4-प्रपाठके—ज्यायांश् च पूरुषः [छा।उ। ३.१२.६], सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१], यत् प्राणा आदित्या [छा।उ। ३.१६.५?] इत्य् आद्य् उक्ता पश्चाद् उपसंहृतं कृष्णाय देवकी-पुत्राय [छा।उ। ३.१७.७] इत्य्-आदिना । तेनात्र पुरुषादिभ्योऽपि श्रेष्ठो देवकी-पुत्र इति ज्ञेयः ।

तद् अप्य् अवतार-मध्ये तस्य गणनम् । भूर्लोकस्थ-मथुरादि-धाम-विलासित्वान् नर-लीलात्वात् प्रापञ्चिक-लोकेषु करुणाधिक्याद् आविर्भाव-तिरोभावाभ्यां च । तथा च श्री-गोपाल-तापनी-श्रुतिश् च—स होवाचाब्ज-योनिर् योऽवताराणां मध्ये श्रेष्ठोऽवतारः को भवति येन लोकास् तुष्टा भवन्ति, यं स्मृत्वा मुक्ता अस्मात् संसारात् तरन्ति । कथं वास्यावतारस्य ब्रह्मता भवति [गो।ता।उ। २.२५] इति ।

ननु तत्रांशेनावतीर्णस्य विष्णोर् वीर्याणि शंस नः [भा।पु। १०.१.२३] इति । दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् अंशेन साक्षाद् भगवान् भवाय नः [भा।पु। १०.२.४१] इति । ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ [भा।पु। ४.१.५९] इत्य्-आदि बहु-वाक्य-विरोधे कृष्णस् तु भगवान् स्वयम् इत्य् एकेनैव वाक्येन कृष्णस्य पूर्णत्वं कथं व्यवतिष्ठताम् ? अत्रोच्यते—श्री-भागवत-शास्त्रारम्भे जन्म-गुह्याध्यायोऽयं सर्व-भगवद्-अवतार-वाक्यानां सूचकत्वात् सूत्रम् । तत्र च “एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम्” इति परिभाषा-सूत्रम् । यत्र यत्रावताराः श्रूयन्ते, तत्रान्यान् पुरुषांशत्वेन जानीयात्, कृष्णस् तु स्वयं भगवत्त्वेनेति । प्रतिज्ञा-रूपम् इदं सर्वत्रोपतिष्ठते । परिभाषा ह्य् एक-देशस्था सकलं शास्त्रम् अभिप्रकाशयति यथा वेश्म-प्रदीप इति प्राञ्चः । सा च शास्त्रे सकृद् एव पठ्यते न त्व् अभ्यासेनेति वाक्यानां कोटिर् अपि अनेनैकेनापि महाराज-चक्रवर्तिनेव शासनीया भवेद् इत्य् एतद् विरुद्धायमानानां तेषां वाक्यानाम् एतद् अनुगुणार्थतैव तत्र तत्र व्याख्येया । किं च, तेषां वाक्यां प्राकरणिकत्वेन दुर्बलत्वात् अस्य तु श्रुति-रूपत्वेन प्राबल्यात् । श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थ-विप्रकर्षाद् इति न्यायेन तान्य् एवार्थान्तरतया सङमनीयनि । न तु तद् अनुरोधेनैतद् इत्य् अतः श्रीधर-स्वामि-पादैर् अपि तत्र तत्र तथैव समाधितम् इति ।

ननु मत्स्य-कूर्माद्य्-अवताराणां कृष्णस्य च द्विभुजत्व-चतुर्भुजत्व-बालत्व-किशोरत्वाद्य्-आकाराणां च सर्वेषां नित्यत्व-श्रवणात् अनेकेश्वरत्व-प्रसक्तिः ? मैवम् । बहु-मूर्त्य्-एक-मूर्तिकं [भा।पु। १०.४०.७] इति दशमाद् यथा एकस्यैव जीवस्य काल-भेदेनाल्प-शक्तिक-बहु-शक्तित्वेन नश्वर-स्व-भिन्न-विग्रह-धारित्वं प्रतीयते । एवम् एकस्यैवेश्वरस्य सर्व-व्यापकस्याचिन्त्य-शक्त्या यौगपद्येनैवानन्त्य-नित्य-स्व-भिन्न-विग्रह-धारित्वम् । जीवानाम् अनन्तानाम् आनन्त्य ईश्वरस्यैकस्यैवानन्त्यम् इति जीव-दृष्ट्यैव तद्-विलक्षण ईश्वरश् च प्रत्येतव्य इति ।

नन्व् आनन्द-मात्रस्य चिद्-वस्तुनो व्यापकस्य परमेश्वरस्य किं नामांशित्वम् अंशत्वं वा परिच्छिन्नस्यैव वस्तुनो भाग-विभागादि-सम्भवात् ? यद् उक्तं महा-वाराहे—

सर्वे नित्याः शाश्वताश् च दहास् तस्य परात्मनः ।
हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ।
सर्वे सर्व-गुणैः पूर्णा सर्व-दोष-विवर्जिताः ॥ इति ।

सत्यम् । तद् अपि तस्य माधुर्यैश्वर्य-कारुण्यादि-शक्ति-प्राकट्य-तारतम्येनैवांशत्व-पूर्ण-व्यवस्था । आविर्भावित-पूर्ण-सर्व-शक्तित्वं पूर्णत्वम् । आविर्भावित-यथा-प्रयोजनाल्प-शक्तित्वम् अंशत्वम् । यद् उक्तं भागवतामृते—

शक्तेर् व्यक्तिस् तथाव्यक्तिस् तारतम्यस्य कारणम् ॥
शक्तिः समापि पूर्यादि-दाहे दीपाग्नि-पुञ्जयोः ।
शीताद्य्-आर्ति-क्षयेनाग्नि-पुञ्जाद् एव सुखं भवेत् ॥ [ल।भा। १.५.९०-९१] इति ।

एवं च पूर्णत्वांशत्वाभ्याम् उत्कर्षा-प्रकर्षौ महानुभाव-मुनीनाम् अप्य् अनुभव-सिद्धौ ज्ञेयौ । यथा तृतीये—

आसीनम् उर्व्यां भगवन्तम् आद्यं
सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् ।
विवित्सवस् तत्त्वम् अतः परस्य
कुमार-मुख्या मुनयोऽन्वपृच्छन् ॥
स्वम् एव धिष्ण्यं बहु मानयन्तं
यद् वासुदेवाभिधम् आमनन्ति ॥ [भा।पु। ३.८.३-४] इति ।

अतश् चिद्-वस्तुनः परमेश्वरस्यांशांशित्व-भेदो न विरुद्धः । यद् उक्तं वाराहे— स्वांशश् चाथ विभिन्नांश इति द्वेधांश इष्यते इत्य्-आदि, तत्र मत्स्यादीनाम् अवतारत्वेन सर्वज्ञत्व-सर्व-शक्तित्वेऽपि यथोपयोगम् एव ज्ञान-क्रिया-शक्त्य्-आविक्षरणम् । कुमार-नारदादिष्व् आधिकारिकेषु यथोपयोगम् अंश-कलावेश इति श्रीधर-स्वामि-पादाः ।

अत्र प्राचां कारिकाः—

नृसिंहो जामदग्न्यश् च कल्किः पुरुष एव च ।
भगवत्त्वे च तत्रादेर् ऐश्वर्यस्य प्रकाशकाः ॥
नारदोऽथ तथा व्यासो वराहो बुद्ध एव च ।
धर्माणाम् एव वैविध्याद् अमी धर्म-प्रदर्शकाः ॥
रामो धन्वन्तरिर् यज्ञः पृथुः कीर्ति-प्रदर्शिनः ।
बलरामो मोहिनी च वामनः श्री-प्रधानकाः ॥

श्रीर् अत्र सौन्दर्यम् ।

दत्तात्रेयश् च मत्स्यश् च कुमारः कपिलस् तथा ।
ज्ञान-प्रदर्शका एते विज्ञातव्या मनीषिभिः ॥
नारायणो नरश् चेति कूर्मश् च ऋषभस् तथा ।
वैराग्य-दर्शिनो ज्ञेयास् तत्-तत्-कर्मानुसारतः ॥
कृष्णः पूर्ण-षड्-ऐश्वर्य-माधुर्याणां महोदधिः ।
अन्तर्भूत-समस्तावतारो निखिल-शक्तिमान् ॥ इति ।

सर्वेषां साधारण-प्रयोजनम् आह—इन्द्रारयोऽसुरास् तैस् तन्-मतैश् च व्याकुलम् उपद्रुतं लोकं मृडयन्ति सुखिनं कुर्वन्ति । युगे युगे तत्-तत्-समये ॥२८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रपञ्चावतीर्णत्व-धर्म-सामान्येन मीन-कमठादिषु कृष्णं पठित्वाथ तद्-याथात्म्यं स्मरन्न् आह—एते इति । एते प्राग् उक्ताश् चादनुक्ताश् च पुंसो गर्भोदशयांश-कलाः मीनादयोंशाः कुमारादयो ज्ञान-भक्ति-क्रियांशावेशाः । तुर् भेदेऽवधारणे वा । तन्-मध्य-पठितः कृष्णस् तु स्वयं भगवान् । न तु मीनाद्य् अंशी पुमान्, स्वयं-दासास् तपस्विन इत्य् अत्र यथा तपस्वि-दास्यं स्वान्यानपेक्षि, तथास्य भगवत्त्वम् अन्यापेक्षि नेत्य् अर्थः । एवम् एव गोप्यस् तपः किम् अचरन् [भा।पु। १०.४४.१४] इत्य्-आदावानन्य-सिद्धम् इति वक्ष्यति । एतेन वासुदेवस्य परव्योमाधीशस्य वा कृष्णत्वं वदन्-निरस्तः । तथात्वे स्वयम् इत्य् आदि व्याकुप्येत् । इदं वाक्यं श्रुति-रूपं निरपेक्ष-रवत्वात् प्रबलं भवति । अंशत्व-वाक्यं यत् क्वचिद् वीक्ष्यते, तं प्राकरणिकताद्-दुर्बलम् । श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान समाख्यानां समवाये पारदौर्बल्यम् अर्थ-विप्रकर्षात् [मीमांसा-दर्शने ३.३.१४] इति पूर्वतन्त्र-निर्णयात् । ततश्-चांश-वाक्येनैतद् अनुगुणार्थकेन भाव्यम् । किं च शास्त्रारम्भे जन्म-गुह्याध्यायस्यास्य निखिलावतार-वाक्यानां सूचनं सूत्रत्वम् । तत्र चैते चांशेत्य् अस्य परिभाषात्वम् अनियमे नियमकृत्वात् । यत्र यात्रावताराः पठ्यन्ते, तत्रेतरे पुंसोऽम्शत्वेन बोध्याः कृष्णस् तु स्वयं भगवत्त्वेनेति सकृत् पठितापि सर्वत्र सञ्चरेत् । इह कृष्णस्य स्वयं-भगवत्वं साध्यते, न तु स्वयं भगवतः कृष्णत्वम् । अनुवादम् अनुक्त्वैव न विधेयम् उदीरयेत् इति ध्वनि-कृद् उक्तेः । अयम् अंशांशि-भावः सूत्रैर् अपि दर्शितः प्रकाशादिवन्-नैवं परः, स्मरन्ति च [वे।सू। २.३.४४–४५] इत्य्-आदिभिः ।

ननु निर्भेदस्यैकस्य भगवत्तत्त्वस्य कथं तद्-भाव इति चेच्-छक्ति-व्यक्ति-तारतम्याद् इति गृहाण । यथैकस्य विप्रस्य क्वचिद् उद्गृहीत-सर्व-शास्त्रस्य सर्व-ज्ञत्वं, क्वचिद् उद्गृहीतद्व्योक-शास्त्रस्य तस्यैव किञ्चिच्-छास्त्र-ज्ञत्वं, तद्वत् । तत्रांशित्वं सर्वदाविर्भावित-सर्व-शक्तित्वम्, अंशत्वन्तु सर्वदाविर्भावित-यथा-प्रयोजन-किञ्चिच्-छक्तित्वं बोध्यम् । अन्यथां शैरंश्यनुवृत्तिः शास्त्रावधृता विभज्येतेत्य् अन्यत्र विस्तरः ।

ननु तद्-भाववादे सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः इति महा-वाराह-वाक्यं पीड्येत, मैवं, तस्य स्वरूप-सत्-सर्व-गुणकत्व-निवेदनेनोपक्षीणत्वात् । अन्यथा तद्-भाव-बोधकानि वाक्यानि सूत्राणि च पीड्येरन्न् इति सिद्धस् तद्-भावः । अवताराणां साधारणं प्रयोजनम् आह—इन्द्रारीति इन्द्रारिभिर् असुरैर् व्याकुलम् उपद्रुतं लोकं भुवनं मृडयन्ति सुखयन्तीति, युगे युगे तत्-तद् अवसरे ॥२८॥

———————————————————————————————————————

वीरराघवः (व्याख्या) : (श्री-कृष्णाय नमः ) ॥ एतद्-वचनार्थम् एवाह एत इति । एते ऋषि-प्रभृतयस् तु पुंसोऽनिरुद्धाख्यस्य अंशकलाः अंशांश-संभूताः । कृष्णस् तु भगवान् स्वयम् इति श्री-कृष्णस्य पूर्णावतारत्वम् उक्तम् । उदाहृत-भगवद्-वचनेन विभूत्य्-आदिमतां जन्तूनां ममत्वेन निर्दिष्ट-श्री-कृष्णस्य तेजोऽंश-संभवत्वं श्री-कृष्णस्य पूर्णत्वं स्थापितम् । अत्रापि भगवान् इत्य् अनेन पूर्ण-षाड्गुण्यत्वम् अवगतम् । यद् वा, अत्रैतदित्यनेन पूर्वोक्तेषु हिरण्यगर्भसनकादिषु केषांचिद्-वराहनारायणमत्स्यकूर्ममोहिनीनृसिंहवामनश्रीरामावतारांआं पूर्णानां सत्त्वेपि द्वि-त्रि-न्यायेन सर्वेप्यवताराः परामृश्यते । तत्र पूर्णत्वं नाम षाड्गुण्यपूर्णत्वेन रूपेण साक्षादवतीर्णत्वम् । अंशांशसंभूतत्वं नाम तत्तज्जीवांतरात्मतयावस्थितस्य षाड्गुण्यपूर्णस्य भगवतः केनाय्यैश्वर्यवीर्यादिगुणलेशेन जीवद्वाराविभूतेन विशिष्टतया सञ्जातत्वं, निरंशस्य ब्रह्मस्वरूपस्यैकदेशभेदेनाविर्भावासंभवात् । ननु धर्मिस्वरूपैकदेशवाचिनोंशशब्दस्य कथं गुणपरत्वम् इति चेन्न, अपृथक्-सिद्धविशेणस्याप्यंशशब्दवाच्यत्वाद्विशिष्टवस्त्वेकदेशत्वस्यैवांशपदप्रवृत्ति-निमित्तत्वाद्विशिष्टवस्त्वेकदेशत्वस्यैवांशपदप्रवृत्तिनिमित्तत्वाद्विशिष्टवस्त्वेक देशत्वं च विशेषणविशेष्ययोरेकदेशतया द्वयोरप्यविशिष्टं वाराहाद्यवताराणां पूर्णत्वं तु तत्तत्पुराणादिभ्य एवावगंतव्यं, सर्वावतारसाधारणं प्रयोजनमुपसंहरति इन्द्रेति इन्द्रारिभिरसुरादिभिर्व्याकुलमुपद्रुतं लोकं युगे युगे प्रतियुगं मृडयन्ति ॥२८॥

———————————————————————————————————————

विजयध्वजः (पद-रत्नावली) : तर्हि के स्वरूपांशा इति तत्राह एत इति । स एव प्रथमम् इत्य् आरभ्याथासावित्यंतेन प्रोक्ता एते शेषशायिनः परमपुरुषस्य स्वांशकला।ह् स्वरूपांशावतारा।ह् न तत्रांशांशिनां भेदः प्रतिबिबांशवत् किमुक्तं भवति कृष्णो मेघश्यामः शेषशायी मूलरूपी पद्मनाभो भगवान् स्वयं तु स्वयम् एव न शाखिशाखावत् भेदाभेदोपीति भाव इत्याह इन्द्रारिभिर्देत्यैर्व्याकुलं जनं तत्स्थानं च युगे युगे अवतीर्य मृडयन्ति रक्षतीत्यन्वयः ॥२८॥

———————————————————————————————————————

शुकदेवः (सिद्धान्त-प्रदीपः) : एते पुंसः पुरुषावतारस्य अंशकलाः छत्रिणो यांतीति न्यायेन केचिदंशाः केचिकलाः केचिद्विभूतयः केचित्स्वरूपावतारा इति बोध्यम् । कृष्णस्तु भगवान् स्वयम् इत्य् अन्वयः । जगृहे पौरुषं रूपं भगवानिति प्रागुक्तो यस्य पुरुषोप्यवतारः स भगवान् श्री-कृष्ण इत्य् अर्थः । महत्स्रष्टुर् अपि पुरुषस्य श्री-कृष्णावतारत्वं त्वत्तः पुमान्समधिगम्यस्य ययास्यवीर्यं धत्ते महांतम् इव गर्भममोघवीर्यः । सोयं तयानुगत आत्मन आंडकोशं हैमं ससर्ज बहिरावरणैरुपेतम् इत्य् एकादशे प्रसिद्धम् एव—

शुद्धे महाविभूत्याख्ये परब्रह्मणि वर्तते ।
मैत्रेय भगवच्छब्दः सर्व-कारणकारणे ॥

इत्येवं श्रीपराशरादिभिर्व्याख्यातः स्वयं भगवान् विनिखिलेभ्यः परः ब्रह्मनारायणवासुदेवादिशब्दाभिवेयः श्री-कृष्ण इति भावः । मत्तः परतरं नान्यद् इति श्रीमुखोक्तेश् च । सर्वेषां प्रयोजनम् आह मृडयंतीति सुखिनं कुर्वंति ॥२८॥

———————————————————————————————————————

वल्लभाचार्यः (सुबोधिनी) : सर्वेषां सामान्यतः स्वरूपं प्रकृतिफलं चाह ऋषय इति द्वाभ्याम् । ऋषयः अर्यमादयः मनवः स्वायंभुवादयो देवाः वस्वादयः मनुपुत्राः प्रियव्रतादयः महौजसः अन्येष्वतिवीर्यवंतः एते सर्वे सत्त्वमूर्तेर्भगवतो विष्णो रिरक्षिषोः कलाधर्मावेशिन इति अर्थः । प्रजापतयो मरीच्यादयः चकारेणान्यसंबंधं वारयति स्मृता इति । प्रमाणं पूर्वोक्ताः कुमारादयस् तु केचन अंशाः केचन कलाः ते चावतारावेशभेदेन निरूपिताः, चकारादनुक्ता अपि पुंसो नारायणस्य ब्रह्मांडमूर्तेः अंशाः कलाश् च । कृष्णेति तथात्वं सामान्यतः प्राप्तं तुशब्देन व्यावर्त्तयति यस्यांशाः पुरुषादयः स भगवान् कृष्ण इत्य् अर्थः । सामान्यतः प्रयोजनम् आह इन्द्रेति । इंद्रारयो दैत्याः तैर्व्याकुलं जगन्मृडयंति सुखयंति प्रतियुगं चैतेऽवताराः प्रतिकल्पं चतुर्दशमन्वंतराणीव असङ्ख्यातानामुक्तत्वात् यथाप्रयोजनं सर्वत्रावतार इति बोद्धव्यम् ॥२७-२८॥

———————————————————————————————————————

गिरिधरः (बाल-प्रबोधिनी) : एवमवताराणां मध्ये सामान्यतो गणनात् श्री-कृष्णस्याप्यवतारान्तरतुल्यत्वं प्राप्तमतस्तत्र विशेषमाह—एत इति । एते पूर्वोक्ताः—चकारादनुक्ता अपि-पुंसो नारायणस्य केचिदंशाः केचिच्च कलाः । कृष्णस्तु भगवान् ऐश्वर्यादिषड्गुणपूर्णो नारायणः स्वयम् एव । पूर्णत्वं नानाविर्भूतसर्वशक्तित्वम् । अंशकलात्वं च तत्तज्जीवप्रवेशेन तत्कार्यानुरूपाविर्भूतज्ञानक्रियाशक्तित्वम् । तत्रापि प्रविष्टस्य महाशक्त्याविर्भावेऽंशत्वव्यवहारः । अल्पशक्त्याविर्भावे तु कलाविभूतिरिति व्यवहारः । तथा चोक्तं पाद्मे—

आविष्टोऽभूत्कुमारेषु नारदे च हरिर्विभुः ।
आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः ॥
एतत्ते कथितं देवि जामदग्नेर्महात्मनः ।
शक्त्यावेशावतारस्य चरितं शाङ्गिणः प्रभोः ॥
कलेरन्ते च सम्प्राप्ते कल्किनं ब्रह्मवादिनम् ॥
अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम् इति ।

अन्यथा विभागरूपांशत्वे तु अच्युतत्वाविकारित्वाकारित्वादिप्रतिपादकशास्त्रविरोधापत्तेः । सर्वावताराणां साधारणं प्रयोजनम् आह—इन्द्रेति । इन्द्रारिभिर्दैत्यैर्व्याकुलमुपद्रुतं लोकं युगे युगे प्रतियुगं तत्तदवसरेऽवतारा मृडयन्ति सुखिनं कुर्वन्तीत्यर्थः ॥२८॥


॥ १.३.२९ ॥

जन्म गुह्यं भगवतो य एतत् प्रयतो नरः ।

सायं प्रातर् गृणन् भक्त्या दुःख-ग्रामाद् विमुच्यते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत्-कीर्तन-फलम् आह—जन्मेति । गुह्यम् अति-रहस्यं जन्म । प्रयतः शुचिः सन् । दुःख-ग्रामात् संसारात् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतत्-कीर्तन-फलम् आह—जन्मेति । गुह्यम् अति-रहस्यं यो गृणन् कीर्तयन् भवेत् ॥२९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एतत्-कीर्तनस्य फलम् आह—जन्मेति । गुह्यम् अतिरहस्यं भगवत एतज्-जन्म यो गृणन् कीर्तरन् भवेत्, दुःख-ग्रामात् संसारात् ॥२९॥

———————————————————————————————————————

॥ १.३.३० ॥

एतद् रूपं भगवतो ह्य् अरूपस्य चिद्-आत्मनः ।

माया-गुणैर् विरचितं महद्-आदिभिर् आत्मनि ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **एतज् जड-रूपम् ।

नारायण वराहाद्याः परमं रूपम् ईशितुः ।
जैवं तु प्रतिबिम्बाख्यं जडम् आरोपितं हरेः ।
एवं हि त्रिविधं तस्य रूपं विष्णोर् महात्मनः ॥ इति पाद्मे ॥३०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विमुच्यत इति यद् उक्तं तत्र कथं देह-द्वय-संबन्धे सति तद्- विमुक्तिर् इत्य् आशङ्क्य देह-द्वय-संबन्धस्य भगवन्-मायोत्थाविद्या-विलसितत्वाद् एतच्-छ्रवणादि-जनित-विद्यया तन्-निवृत्तिर् उपपद्यत इत्य् आशयेनाह—एतद् इति पञ्चभिः । अरूपस्य चिद्-एकरसस्यात्मनो जीवस्यैतत् स्थूलं रूपं शरीरं भगवतो या माया तस्या गुणैर् महद्-आदि-रूपैर् विरचितम् । क्व आत्मनि । आत्म-स्थाने शरीरं कृतम् इत्य् अर्थः ॥३०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवम् एतानि साक्षाद् रूपाण्य् आविष्ट-रूपाणि चोपदिश्योपासनार्थं शास्त्रेण भगवत्य् अरोपितं रूपम् उपदिशति—एतद् रूपम् इति । अरूपस्य प्राकृत-रूपासम्बन्धस्य माया-गुणैर् विरचितम् एवैतज् जगद्-आकारं रूपं तच् चात्मनि जीव एव विरचितं तत्-सम्बन्धतयैव कल्पितम् । न तु परमेश्वर-सम्बन्धतयेत्य् अर्थः । आसङ्गाद् अनासङ्गाच् चेति भावः ॥३०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु पातालम् एतस्य हि पाद-मूलं [भा।पु। २.१.२६] इत्य्-आदिना द्वितीय-स्कन्धादौ योऽयं विराड्-रूपी भगवान् प्रथमम् उपास्यत्वेनोक्तः । स कथम् अवतार-मध्ये न गणितः ? तत्राह—एतद् इति । एतत् समष्टि-व्यष्टि-विराड्-आत्मकं जगच् चिदात्मनश् चिन्मय-विग्रहस्य अत एवारूपस्य प्राकृत-रूप-रहितस्य भगवतो रूपं स्थूल-शरीरम् । किन्तु माया-गुणैर् महत्-तत्त्वादिभिः पृथ्व्यस् तैस् तत्त्वैर् विरचितम् आत्मनि स्वस्मिन्न् एतद्-अन्तर्यामिन्य् अधिष्ठाने स्थितम् इत्य् अर्थः । अतो विशुद्धं सत्त्व-रूप-मत्स्य-कूर्माद्य्-अवतार-मध्ये मायिक-रूपी विराड् एष न पठित इति भावः ॥३०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु पातालम् एतस्य हि पाद-मूलम् [भा।पु। २.१.१६] इत्य्-आदिभि द्वितीयादौ यद्-विराड्-रूपं वक्ष्यते, तद् एष्व् अवतारेषु किं नोक्तं? तत्राह—एतद् इति । अपरूपस्य प्राकृत-रूप-शून्यस्य चिदात्मनो विज्ञान-रूपस्य भगवत आत्मनि सर्वगे स्वरूपे माया-गुणैर् महद्-आदिभिर् विरचितं स्थूलधियां मनः-स्थैर्यार्थं तद्-रूपत्वेनोक्तम् इत्य् अर्थः । तथा च मायैकत्वात्-तद्-रूप-ममायिकेषु मीन-कमठादि-रूपेषु न पठितम् इति ॥३०॥

———————————————————————————————————————

॥ १.३.३१ ॥

यथा नभसि मेघौघो रेणुर् वा पार्थिवोऽनिले ।

एवं द्रष्टरि दृश्यत्वम् आरोपितम् अबुद्धिभिः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **दृश्यत्वं जड-रूपत्वम् ।

अविज्ञाय परं देहम् आनन्दात्मानम् अव्ययम् ।
आरोपयन्ति जनिमत्-पञ्च-भूतात्मकं जडम् ॥ इति स्कान्दे ॥३१॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कथम् इत्य् अपेक्षायां स्वरूपावरणेन तद् अध्यासत इति स-दृष्टान्तम् आह—यथेति । यथा वाय्व्-आश्रितो मेघौघो नभस्य् आकाशेऽबुद्धिभिर् अज्ञैर् आरोपितः । यथा वा पार्थिवो रेणुस् तद्-गतं धूसरत्वाद्य् अनिले । एवं द्रष्टर्य् आत्मनि दृश्यत्वं दृश्यत्वादि-धर्मकं शरीरम् आरोपितम् इत्य् अर्थः ॥३१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तर्हि कथं तस्यैतद्-रूपम् इत्य् उक्तम् ? पातालम् एतस्य हि पाद-मूलं [भा।पु। २.१.२६] इत्य्-आदिना च तथा वर्णयितव्यम् ? उच्यते—अङ्ग-दृष्ट्य्-अपेक्षया । तद्-उपासनार्थं तद्-अध्यासेनैवेत्य् आह—यथेति ॥३१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कस्मिन् किम् इवेत्य् अत आह । यथा नभसि आकाशे मेघ-समूहः । अनिले च पृथ्वी-विकारो रेणुस् तथैव आत्मनि । एतद् विराड्-रूपम् इति पूर्वेणैवान्वयः । तेन मञ्चस्थ-पुरुषौ यथा मं च उच्यते । तथा भगवति स्थितो विराड् अपि भगवान् उच्यते इत्य् अर्थः । एवम् एवाधिष्ठित-धर्मो दृश्यत्वम् अपि द्रष्टरि भगवत्य् अदृश्येऽपि आरोपितम् इत्य् अर्थः अबुद्धिभिः अल्प-बुद्धिभिः । यथा अदृश्ययोर् अपि नभोऽनिलयोर् नीलं नभ इति धूसरोऽनिल इति मेघ-रेणु-धर्मो नीलिम धूसरत्व-लक्षणं दृश्यत्वम् आरोपितं ततश् च भगवान् अयं विराड्-द्र्श्यः प्रथम-दशा-स्थैर् योगिभिर् आराध्य इत्य् उपपन्नम् ॥३१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु दुःख-ग्रामस्य सुख-दुःख-भोगस्य स्वाभाविकस कथं भगवज्-जन्मदि श्रवणेनैव निवृत्तिस् तत्राह—यथेति । नभसि यथा मेघौघस् तस्मिन् नीलं नभ इति कल्पने, पार्थिवो रेणुर् यथानिले धूसरोऽयम् इति कल्पने च हेतुर् अबुद्धीनं भवति, तयोर् अचाक्षुषत्वात्, एवं द्रष्टरि जीवे ज्ञान-घने मनुष्यो गौरः सुखी दुःखी चाहम् इति देहान्तः-करण-धर्मं दृश्यत्वम् अबुद्धिभिर् अज्ञैर् आरोपितं पङ्काक्ते वाससि मलिनत्ववत् । तथा चागन्तुकत्वाद् यथाम्बुना पङ्कम् एवं तच्-छ्रवणेन दुःख-ग्रामः क्षाल्यते ॥३१॥

———————————————————————————————————————

॥ १.३.३२ ॥

अतः परं यद् अव्यक्तम् अव्यूढ-गुण- व्यूहितम्5** ।**

अदृष्टाश्रुत-वस्तुत्वात् स जीवो यत् पुनर् भवः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अतः परं जडेश्वरयोः परम् । अव्यूढ-गुण-बृंहितम् । अनादि-काले कदाचिद् अप्य् अनवगत-सत्त्वादि-गुण-बृंहितम् । अदृष्टाश्रुत-वस्तुत्वात् पुनर् भवः ॥३२॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च अतः स्थूलाद् रूपात् परम् अन्यद् अपि रूपम् आरोपितम् इत्य् अनुषङ्गः । कथंभूतं तत् ? यद् अव्यक्तं सूक्ष्मं तत्र हेतुः—अव्यूढ-गुण-व्यूहितम् । व्यूहः कर-चरणादि-परिणामः । तथा अव्यूढा अपरिणता ये गुणास् तैर् व्यूहितं रचितम् । आकार-विशेष-रहितत्वाद् अव्यक्तम् इत्य् अर्थः । एतद् एव कुतस् तत्राह । अदृष्टाश्रुत-वास्तुत्वात् । यच् चाकार-विशेषवद् वस्तु तद्-अस्मद्-आदिवद् दृश्यते । श्रूयते वा इन्द्रादिवत् । इदं तु न तथा । तर्हि तस्य सत्त्वे किं प्रमाणं तत्राह । स जीवो जीवोपाधिः जीवो जीवेन निर्मुक्तो जीवो जीवं विहाय ]भा।पु। ११.२५.३६] इत्य् आदौ जीवोपाधौ लिङ्ग-देहे जीव-शब्द-प्रयोगात् । जीवोपाधितया कल्प्यत इत्य् अर्थः । ननु स्थूलम् एव भोगायतनत्वाज् जीवस्योपाधिर् अस्तु किम् अन्य-कल्पनयेत्य् अत आह । यद् यस्मात् सूक्ष्मात् पुनर् भवः पुनर् जन्म । उत्क्रान्ति-गत्यागतीनां तेन विनासंभवाद् इति भावः ॥३२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्य यथा स्थूलं रूपं तथा सूक्ष्मम् अपीत्य् आह—अतः परम् इति । अतः स्थूलाद् रूपात् परम् अन्यद् अपि यद् अव्यक्तं सूक्ष्मं तस्य रूपम् । सूक्ष्मत्वे तु हेतुः—अदृष्टेति । अदृष्टत्वाद् अदृष्टम् इत्य् अन्यतोऽप्य् अश्रुतत्वाच् चेत्य् अर्थः । तत्र हेतुः—अव्यूढेति । अस्पष्ट-शब्दादि-गुणम् इत्य् अर्थः । यद् यस्माद् एव रूपाद् धेतोर् यद् अंशावेशेनैवेत्य् अर्थः । स जीवोऽपि पुनर् भवो भवति—पुनः पुनर् जन्मादिकं लभत इत्य् अर्थः । तद् अपि माया-गुणैर् विरचितम् इति पूर्वेणानुषङ्गः । पूर्ववद् उपासनार्थम् एवेदं रूपम् आरोपितम् इति भावः । वक्ष्यते च—

अमुनी भगवद्-रूपे मया ते ह्य् अनुवर्णिते ।

उभे अपि न गृह्णन्ति माया-सृष्टे विपश्चितः ॥ [भा।पु। २.१०.३५] इति ॥३२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यथा स्थूलं रूपं भगवद्-रूपत्वेनोक्तम् अपि योगिभिर् उपास्यम् अपि माया-गुणैर् विरचितं तथैव सूक्ष्मम् अपि रूपम् अमूनी भगवद्-रूपे इत्य् अनेन भगवद्-रूपत्वेन प्रयुत्कम् अपि कर्णौ दिशः श्रोत्रम् अमुष्य शब्द इति । सर्वात्मनोऽन्तःकरणं गिरित्रम् इत्य् आद्य् उक्तेर् योगिभिर् उपास्यम् अपि मायिकम् एवेत्य् आह । अतः स्थूलाद् अन्यत् । अव्यक्तं सूक्ष्मं तत्र हेतुः अव्यूढः कर-चरणादित्वेनापरिणता ये गुणास् तैर् बृंहितं रचितम् आकार-विशेष-रहितम् इत्य् अर्थः । एतद् एव कुतस् तत्राह अदृष्टाश्रुत-वस्तुत्वात् । यच् चाकार-विशेषवद् वस्तु तद् अस्मद्-आदिवद् दृश्यते श्रूयते वा इन्द्रादिवत् इदं तु न तथा ।

ननु तस्य सत्त्वे किं प्रमाणं तत्राह—स जीवः । जीवोपाधिः जीवो जीवेन निर्मुक्तो जीवो जीवं विहाय च ]भा।पु। ११.२५.३६] इत्य् आदौ जीवोपाधौ लिङ्ग-देहे जीव-शब्द-प्रयोगात् जीवोपाधितया कल्प्यत इत्य् अर्थः ।

ननु स्थूलम् एव भोगायतनत्वात् जीवस्योपाधिर् अस्तु किम् अन्य-कल्पनया इत्य् अत आह—यद् यस्मात् सूक्ष्मात् पुनर्भवः पुनः पुनर् जन्म उत्क्रान्ति-गत्य्-आगतीनां तेन विना असम्भवाद् इति भावः । तेन च समष्टि-व्यष्टि-विराजां जीवत्वात् तत्-स्थूल-सूक्ष्मयो रूपयोर् मायिकत्वात् तत्र चेश्वरत्वम् आरोपितम् एव, न तु साहजिकम् इति भावः । यद् उक्तं—

विराड् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः ।
ईशस्य यन्त्रिभिर् हीनं तुरीयं तत् प्रचक्षते ॥6 इति ।

अत्रापि वक्ष्यते—

अमुनी भगवद्-रूपे मया ते ह्य् अनुवर्णिते ।
उभे अपि न गृह्णन्ति माया-सृष्टे विपश्चितः ॥ [भा।पु। २.१०.३५] इति ॥३२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भगवद्-वैमुख्याज्-जीवस्य तद्-ग्राम इत्य् आह—अतः स्थूलाद् रूपात् परमन्यद् यद् अव्यक्तं लिङ्गं, तद् अपि तत्रारोपितम् इति सम्बन्धः । अव्यक्तत्वे हेतुर् अव्यूढेति अव्यूढैर् अलव्ध-पाणिपादादि-रूप-परिणामैर् गुणैर् बृंहितं रचितम् आकार-विशेष-शून्यम् इत्य् अर्थः । यद्यतोऽव्यक्ताद्-धेतोः स जीवः पुनर् भवोऽसकृद् उत्पत्तिमान् भवति । तद् आरोपे हेतुर् अदृष्टेति—अदृष्टम् अःरुतं च वस्तु भगवत्-तत्त्वं येन तत्त्वादनादितद् वै-मुख्याद् इत्य् अर्थः । वक्ष्यति चैवं जनस्य कृष्णाद् विमुखस्य दैवाद् अधर्म-शीलस्य सुदुःखितस्य [भा।पु। ३.५.३] इति ॥३२॥

———————————————————————————————————————

॥ १.३.३३ ॥

यत्रेमे सद्-असद्-रूपे प्रतिषिद्धे स्व-संविदा ।

अविद्ययात्मनि कृते इति तद् ब्रह्म दर्शनम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अविद्यया जीव-कृते परमेश्वरे प्रतिषिद्धे इति ब्रह्म-दर्शनम् ॥३३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवम् उपाधि-द्वयम् उक्त्वा तद्-अपवादेन जीवस्य ब्रह्मताम् आह—यत्रेति । यत्र यदा इमे स्थूल-सूक्ष्मे रूपेस्व-संविदा श्रवण-मननादि-भक्त्या स्वरूप-सम्यग्-ज्ञानेन प्रतिषिद्धे भवतः । ज्ञानेन प्रतिषेधार्हत्वे तम् एव हेतुम् आह—यत्रेमे इति । अविद्ययात्मनि कृते कल्पिते इति हेतोः । तद् ब्रह्म, तदा जीवो ब्रह्मैव भवतीत्य् अर्थः । कथं-भूतम् ? दर्शनं ज्ञानैक-स्वरूपम् ॥३३॥

———————————————————————————————————————

**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : **अन्यच् च, यत्रेमे इत्य्-आदि । इमे सद्-असद्-रूपे कार्य-कारण-रूपे यत्र प्रतिषिद्धे पृथक्त्वेन रोधिते । केन ? स्व-संविदा स्वेषां भक्तानां बोधन आत्मनि चिद्-अंशे मायया कृते इति । एवं तं श्री-कृष्णाख्यं धाम ब्रह्म-दर्शनं, ब्रह्मण आदर्शः, तद्-वैभवत्वात् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ जीव-स्वरूपे भगवत्-स्वरूपे च तत्-सम्बन्धं वारयति, पूर्वाध्यायोक्तं ब्रह्म च लक्षयति—यत्रेति द्वाभ्याम् । यत्र यस्मिन् दर्शने स्थूल-सूक्ष्म-रूपे शरीरे स्व-संविदा जीवात्मनः स्वरूप-ज्ञानेन प्रतिषिद्धे भवतः । केन प्रकारेण ? वस्तुत आत्मनि ते न स्त एव, किन्त्व् अविद्ययैव्आत्मनि कृते अध्यस्ते इति एतत्-प्रकारेणेत्य् अर्थः । तद् ब्रह्म-दर्शनम् इति यत्-तदोर् अन्वयः । ब्रह्मणो दर्शनं साक्षात्कारः । यत्र स्व-संविदेत्य् उक्त्या जीव-स्वरूप-ज्ञानम् अपि तद्-आश्रयम् एव भवतीति । तथा केवल-स्व-संविदा ते निषिद्धे न भवत इति च ज्ञापितम् । ततश् च जीवत एवाविद्या-कल्पित-माया-कार्य-सम्बन्ध-मिथ्यात्व-ज्ञापक-जीव-स्वरूप-साक्षात्करण-तादात्म्यापन्न-ब्रह्म-साक्षात्कारो जीवन्-मुक्ति-विशेष इत्य् अर्थः ।

ईदृशम् एव तन्-मुक्ति-लक्षणं श्री-कापिलेये मुक्ताश्रयं [भा।पु। ३.२८.३५-३८] इत्य्-आदि-चतुष्टये दर्शितम् । तस्माद् अस्य प्रारब्ध-कर्म-मात्राणाम् अनभिनिवेशेनैवोपभोगः । एवम् एवोक्तं, तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः [ईशोपनिषद् ७] इति ॥३३॥ [प्रीति-सन्दर्भ ३]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् एवं चेद् इदं सर्वं वस्तुतो माया-दर्शनम् एव, ब्रह्म-दर्शनं किं तद् ? इत्य् आकाङ्क्षायाम् आह—यत्र भगवति इमे सद्-असद्-रूपे उक्त-लक्षणे मायिके स्थूल-सूक्ष्म-रूपे प्रतिषिद्धे भवतः, तेनामायिकं तु रूपं तस्य न प्रतिषिद्धम् इति भावः । केन ? स्वेषां भक्तानां संविदा अनुभवेन । ते कथं भगवति न स्तः ? इत्य् अत आह—अविद्यया आत्मनि जीवे एव कृते अध्यास्ते, न त्व् ईश्वरे । यद् उक्तं—

देहाहङ्कारणाद् देहाध्यासो जीवे ह्य् अविद्यया ।
न तथा जगद्-अध्यासः परमात्मनि युज्यते ॥ इति ।

तत् ततश् च तस्य ब्रह्मणो दर्शनं साक्षात्कारः स्यात् ॥३३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यज्-जन्म-कीर्तनं जीवस्य दुःख-ग्रामाद् विमोचकम् उक्तं तत् परमात्म-वस्तु कीदृक्? कथं वा तस्य ज्ञानम्? इत्य् अत्राह—यत्रेति । यथा नभसि [भा।पु। १.३.३१] इत्य्-आदि-द्व्यार्थाद् आत्मनि जीवेऽविद्यया कृते इमे सद् असद्-रूपे स्थूल-सूक्ष्म शरीरे यत्र स्वसंविदा प्रतिषिद्धे धामा स्वेन सदा [भा।पु। १.१.१] इत्य् उक्ते निज-संविच्छक्त्या नित्य-निवृत्ते भवतस् तद्-ब्रह्म । इति शव्द आद्य् अर्थः । इति हेतु-प्रकरण-प्रकारादि-समाप्तिषु इत्य् अमरोक्तेः । इत्य्-आदि-रूपं तस्य दर्शनं ज्ञानं । तथा च माया-गन्धास्पष्टं सङ्कल्पेनैव विश्वेदयादि-कारणं श्री-महिलं विज्ञान-सुख-घनं परमात्म-वस्तु विज्ञाय तज्-जन्म-कर्म-कीर्तनात्-तत्-सम्मुख्यात्-ततो विमोचनं जीवस्येति ॥३३॥

———————————————————————————————————————

॥ १.३.३४ ॥

यद्य् एषोपरता देवी माया वैशारदी मतिः ।

सम्पन्न एवेति विदुर् महिम्नि स्वे महीयते ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विशारदः परमेश्वरः । तन्-मतिर् माया । यद् न एनं शोचयामीति उपरता तदा सम्पन्न एव ॥३४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तथापि भगवन्-मायायाः संसृति-कारण-भूताया विद्यमानत्वात् कथं ब्रह्मता ? तत्राह—यदीति । यदीत्य् असन्देहे सन्देह-वचनं, “यदि वेदाः प्रमाणं स्युः” इतिवत् । वैशारदी, विशारदः सर्व-ज्ञ ईश्वरः, तदीया देवी संसार-चक्रेण क्रीडन्ती एषा मायायद्य् उपरता भवति । किम् इत्य् उपरता भवेत् ? तत्राह—मतिर् विद्या ।

अयं भावः—यावद् एषाविद्यात्मनावरण-विक्षेपौ करोति, तावन् नोपरमति । यदा तु सैव विद्या-रूपेण परिणता, तदा सद्-असद्-रूपं जीवोपाधिं दग्ध्वा निरिन्धनाग्निवत् स्वयम् एवोपरमेद् इति । तदा संपन्नो ब्रह्म-स्वरूपं प्राप्त एवेतिविदुस् तत्त्व-ज्ञाः । किम् अतः ? यद्य् एवं स्वे महिम्नि परमानन्द-स्वरूपे महीयते पूज्यते, विराजत इत्य् अर्थः ॥३४॥

———————————————————————————————————————

**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : **एवं श्री-कृष्ण-ज्ञाने जनः कथं सम्पद्येत ? इत्य् आह—यद्य् एषेत्य्-आदि । एषा वैशारदी मतिःदेवी माया भगवती यद्य् उपरता भवति, तदा जनः श्री-कृष्णतया ज्ञान-सम्पन्नो भवतीति तत्त्व-ज्ञा विदुः । किं बहुना ? तदा जनः स्वे महिम्नि शुद्ध-भागवत-भावे महीयते, पूजितो भवतीत्य् अर्थः ॥३४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथान्तिमां ब्रह्म-साक्षात्कार-लक्षणां मुक्तिम् आह—यदीति । एषा जीवन्-मुक्ति-दशायां स्थिता । विशारदेन परमेश्वरेण दत्ता देवी द्योतमाना मतिर् विद्या, तद्-रूपा या माया स्वरूप-शक्ति-वृत्ति-भूत-विद्याविर्भाव-द्वार-लक्षणा सत्त्व-मयी माया-वृत्तिः । सा यदि उपरता निवृत्ता भवति, तदा व्यवधानाभासस्यापि राहित्यात् सम्पन्नो लब्ध-ब्रह्मानन्द-सम्पत्तिर् एवेति विदुर् मुनयः । ततश् च तत्-सम्पत्ति-लाभात् स्वे महिम्नि स्वरूप-सम्पत्ताव् अपि महीयते पूज्यते, प्रकृष्ट-प्रकाशो भवतीत्य् अर्थः ॥३४॥ [प्रीति-सन्दर्भ ४]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्य् एषा माया देवी उपरता स्यात्, तथा वैशारदी, विशारदो भक्तानां हिते निपुणो भगवान् एव, तदीया मतिर् “माम् अयं पश्यतु” इति कृपा-मयी तद्-इच्छा यदि प्रवृत्ता स्यात्, तस्यैव, नान्यथा—यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं स्वां [मु।उ। ३.२.३, क।उ। २.२३] इति श्रुतेः ।

यद् वा, वैशारदी भगवद्-विषयिणी मतिः पुरुषस्य स्यात् । सम्पन्न एव तन्-मतिमान् एव पुरुषः सम्पन्नोऽन्यस् तु दरिद्र इत्य् अर्थः । विदुस् तत्त्व-ज्ञाः स्वे महिम्नि स्वीये माहात्म्ये वर्तमानः स महीयते पूज्यते । अन्यथा स्व-माहात्म्याद् भ्रष्टः स निन्द्यत इति भावः ॥३४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **क्षीण-वैमुख्यस्य तत्-कीर्तयतस् तत्-प्राप्तिः कदा? इत्य् अत्राह—यदीति । यदा देवी देवस्य हरेः शक्तिर् मायोपरता स्ववृत्तेर् अविद्यायाः प्रवर्तने निवृत्ता भवति, विशारदस्य तत्-साम्मुख्यज्ञस्य देवस्य मतिर् मत्-पदमयं लभताम् इतीच्छा भवति, तदा स तत्-पदं संपन्न एवेति विदुर् विज्ञाः । तस्य तावद् एव चिरं यवन्न विमोक्ष्येऽथ संपत्स्ये [छा।उ। ६.१४.२] इति श्रुतेः । संप्रदाय-प्रचार-फलया तद् इच्छयैव किञ्चिद् अविलम्ब इति भावः । ततः स्वे-महिम्नि परमे व्योम्नि गतः स महीयते सत्कृतो भवति तद्-भक्तैः ॥३४॥

———————————————————————————————————————

॥ १.३.३५ ॥

एवं च जन्मानि कर्माणि ह्य् अकर्तुर् अजनस्य च ।

वर्णयन्ति स्म कवयो वेद-गुह्यानि हृत्-पतेः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :


>>>>> ग्द्२म्द्-ह्त्म्ल् अलेर्त्- देफ़िनितिओन् &दर्र्;&दर्र्; ओउत्सिदे ओफ़् देफ़िनितिओन् लिस्त्। मिस्सिन्ग् प्रेचेदिन्ग् तेर्म्(स्)?
(बच्क् तो तोप्)(नेxत् अलेर्त्)
>>>>>

**:**अप्रियत्वात् स्वतन्त्रत्वात् फलानां च विवर्जनात् ।
क्रियायाश् च स्वरूपत्वाद् अकर्तेति च तं विदुः ॥
कर्तृत्वं भ्रान्तिजं प्राहुर् अतत्-तत्त्व-विदो जनाः ।
ऐश्वर्यजं तु कर्तृत्वं सम्यक्-तत्-तत्त्व-वेदिनः ॥ इति पाद्मे ॥३५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यथा जीवस्य जन्मादि माया, एवम् ईश्वरस्यापि जन्मादि मायेत्य् आह—एवम् इति । अकर्तुः कर्माणि । अजनस्य जन्मानि । हृत्-पतेर् अन्तर्यामिणः ॥३५॥

**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : **उपसंहरति—एवम् इत्य्-आदि । येषां केषांचिद् अवताराणां जन्मादीन्य् एव वेद-गुह्यानि, किं पुनः सर्वेश्वरस्य श्री-कृष्णस्य ? ॥३५॥

———————————————————————————————————————

**जीव-गोस्वामी (भगवत्-सन्दर्भः, ३५): **यत्रेमे सद्-असद्-रूपे [भा।पु। १.३.३३-४] इत्य्-आदिभ्याम् अव्यवहित-पद्याभ्यां यथा स्वरूप-सम्यग्-ज्ञानेनैव कृतस्याविद्याकृतात्माध्यास-सद्-असद्-रूप-निषेधस्य हेतोर् ब्रह्म-दर्शनं भवति । यथा च मायोपरताव् एव स्वरूप-सम्पत्तिर् भवतीत्य् उक्तम् । एवम् एव _कवय_आत्मारामाः, _हृत्-पतेः _परमात्मनो जन्मानि कर्माणि च वर्णयन्ति । तत्-तत्-प्रतिषेधे तद्-उपरतौ चैव सत्यां तज्-जन्म-कर्मानुभव-सम्पत्ती भवत इत्य् अर्थः । सम्पत्तिर् अत्र साक्षाद् दर्शनम् । तस्मात् स्वरूपानन्दातिशयित-भगवद्-आनन्द-विलास-रूपाण्य् एव तानीति भावः । अत एव प्राकृत-वैलक्षण्याद् _अकर्तुर् अजनस्य_इत्य् उक्तम् । अत एव _वेद-गुह्यानि_अपि तानीति ॥३५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एवं भगवत्त्वं दर्शयित्वा ब्रह्मत्वं दर्शितम् । ननु ब्रह्मानुभवेनैव यदि मुक्तिः स्यात्, तर्हि कथं जन्म-गुह्यं [भा।पु। १.३.२९] इत्य्-आदिना तत्-कीर्तन-मात्रेण संसार-विमोक्ष उक्तः ? तत्राह—एवम् इति । यथैवाव्यवहित-पूर्वोक्ताविद्या-मायोपरताव् एव ब्रह्मानुभव-सम्पत्ती भवतः, एवं प्राकृत-जन्म-कर्म-रहितस्य हृत्-पतेः सर्व-बुद्ध्य्-अगोचरस्य जन्मानि कर्माणि च कवयो वर्णयन्ति । तत्-तद्-उपरताव् एव तज्-जन्म-कर्मानुभव-सम्पत्ती साधकानां भवत इति मन्यन्त इत्य् अर्थः । सम्पत्तिर् अत्र साक्षाल्-लब्धिः । अत एव वेद-गुह्यानीति तथोक्तं श्री-भगवता—

जन्म-कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥ [गीता ४.९] इति ।

तथैव तेषु श्री-शुकदेवादीनाम् अपि ब्रह्म-निष्ठा-परित्यागेनापि रागतः प्रवृत्तिर् वर्णयिष्यते द्वादशे—स्व-सुख-निभृत-चेताः [भा।पु। १२.१२.६८] इत्य् आदौ । अतो ब्रह्मवत् तन्-निदिध्यासनेनैव संसार-दुःखोपक्षयः स्यात्, तद्-अनुभव-सम्पत्ती च भवत इत्य् अर्थः । पृथग्-अर्थस् त्व् एवम् इत्य् अस्य व्यवहित-वाक्यार्थेनान्वयायोगात् कष्टाय सम्पद्यते चेति ॥३५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवम् अनेनोक्त-लक्षण-प्रकारेण मायिक-शरीर-द्वय-प्रतिषेधेनेत्य् अर्थः । अजनस्य जन्मानि अजायमानो बहुधाभिजायत इति श्रुतेः । अकर्तुः कर्माणि [श्वे।उ। ६.८], न चास्य कार्यं करणं च विद्यते इत्य् आदौ, स्वाभाविकी ज्ञान-बल-क्रिया च इति श्रुतेः ।

ननु जीवस्यापि वस्तुतोऽजनस्यैवाकर्तुर् एव जन्मानि कर्माणि दृश्यन्ते । सत्यम् । तस्य तानि माया-सम्बन्धेन अस्य तु माया-प्रतिषेधेनेत्य् एष एव भेद इत्य् आह—वेदेषु वेदैर् वा गुह्यानि रहस्यत्वेन परमोपादेयत्वेन च सत्कृत्य स्थापितानि तात्त्विकानि । जीवस्य तु तानि मायिकत्वेन हेयान्य-वास्तवानीत्य् अर्थः । यद् उक्तं गीतोपनिषदा—जन्म-कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः [गीता ४.९] इति । हृत्-पतेर् अन्तर्यामिनः ततो विराड्-रूपस्यैवं-भूतत्वाभावाद् अवतार-मध्ये तस्य न गणनेति प्रकरणार्थः ॥३५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवम् उक्तरीत्या सद् असद्-रूपयोः प्रतिषेधेन अजनस्य जन्मान्य् अकर्तुः कर्माणि च कवयस् तत्त्वज्ञा वर्णयन्ति अपूर्व-देह-योगाभावाद् अजनः, विधुवत्-प्राकट्यात् जन्मी च सः । अजायमानो बहुधा विजायते [मुद्गल। ३.१] इति श्रुतेः । स्वयम् एव कर्ता, कर्तारम् ईशम् [मु।उ। ३.१.३] इति श्रुतेः । प्रकृति-योगेन कर्तृत्व-विरहात् तु अकर्ता, सम्बन्धेन प्रधानस्य हरेर् नास्त्य् एव कर्तृता । अकर्तारम् अतः प्राहुः पुराणं तत्-पुराविदः इति स्मरणात्, हृत्-पतेर् अन्तर्यामिणः । तथा च विराड रूपस्यान् एवम्-भूतत्वान्नावतारेषु गणनेति प्रकरणार्थः ॥३५॥

———————————————————————————————————————

॥ १.३.३६ ॥

स वा इदं विश्वम् अमोघ-लीलः

सृजत्य् अवत्य् अत्ति न सज्जतेऽस्मिन् ।

भूतेषु चान्तर्हित आत्म-तन्त्रः

षाड्-वर्गिकं जिघ्रति षड्-गुणेशः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तर्हि जीवाद् ईश्वरस्य को विशेषः । स्वातन्त्र्येम् एव विशेष इत्य् आह—स वेति । षाड्-वर्गिकम् इन्द्रिय-षड्-वर्ग-विषयं जिघ्रति दूराद् एव गन्धवद् गृह्णाति न तु सज्जत इत्य् अर्थः । कुतः ? षड्-गुणेशः षड्-इन्द्रिय-नियन्ता ॥३६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ प्राकृतासङ्ग-रहितस्यानन्दैक-लीलात्वम् आह—स वा इति । षड्भिर् ऐश्वर्यादिभिर् गुणैर् भगाख्यैर् ईष्टे यः स षड्गुणेशः षाड्-वर्गिकं जिघ्रति—तेषु नाना-भेदत्वाद् वर्गात्मकेषु चरति यद् भक्तानां भक्ति-सुखम् । यद् वा—

तत् तेऽर्हत्तम नमः स्तुति-कर्म-पूजाः
कर्म स्मृतिश् चरणयोः श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षड्-अङ्गया किं
भक्तिं जनः परमहंस-गतौ लभेत ॥ [भा।पु। ७.९.५०]

इति श्रीमत्-प्रह्लाद-सम्मत्या षड्-अङ्ग-वर्ग-संसेवातः सञ्जातं यत् प्रेम-भक्ति-सुखम्, तद् एव जिघ्रति—अन्विष्यास्वादयतीत्य् अर्थः ॥३६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भगवतस् त्व् अन्यान्य् अपि ततो वैलक्षण्यानि बहूनि सन्ति तत्र प्रथमं निरङ्कुशम् ऐश्वर्यम् आह—स वा इति । षाड्वर्गिकम् इन्द्रिय-षड्-वर्ग-विषयं जिघ्रति दूराद् एव गन्धवद् गृह्णाति न तु सज्जत इत्य् अर्थः । कुतः षड्गुणेशः षड्-इन्दिर्य-नियन्ता । यद् वा, षड्भिर् गुणैर् भग-शब्द-वाच्यैर् ऐश्वर्याद्यैर् ईशः । अतः षड्-ऐश्वर्य-वर्गोत्थं सुखम् अनुभवति ॥३६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भगवतो जीवेभ्यो भेदकं महैश्वर्यम् आह—स इति । इदं विश्वं सृजति, अवति पालयति, अत्ति संहरति च । अस्मिन्न् ईदृशेऽपि कर्मणि न सज्जते तत्-फलं नेच्छति, तर्हि तत् कर्म विफलं स्यात्? नेत्य् आह— अमोघेति । जीवभोगार्थत्वाद् इति भावः । भूतेष्व् अन्तहितोऽवस्थितः । षण्णां गुणानां तद् इन्द्रियाणाम् ईशो नियन्ता । तद्-भोगम् आह—षाड्वर्गिकं स्वकीय-षडैश्वर्य-वर्गोत्थं सुखं जिघ्रत्य् अनुभवति, इन्द्रिय-षड्-वर्गविषयं नियम्यतयानुभवति, न तत्र सज्जते इत्य् एके ॥३६॥

———————————————————————————————————————

**॥ १.३.३७ ॥ **

न चास्य कश्चिन् निपुणेन धातुर्

अवैति जन्तुः कुमनीष ऊतीः ।

नामानि रूपाणि मनो-वचोभिः

सन्तन्वतो नट-चर्याम् इवाज्ञः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु किम् ईश्वरस्य सृष्ट्य्-आदि-कर्मभिर् विषय-भोगैर् वा तत्राह—न चेति । धातुर् जगद्-विधातुर् ईश्वरस्य ऊतीर् लीलाः कुमनीषः कुबुद्धिर् निपुणेन तर्कादि-कौशलेन नवैति न जानाति । मनसा रूपाणि वचसा नामानि संतवन्तः सम्यग् विस्तारयतः । वचोभिर् इति बहुत्वं श्रुत्य्-अभिप्रायेण7 । मनोभिः सहेति वा ॥३७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततश् च न चास्येति तादृश-तल्-लीलानभिज्ञानां कुमनीषित्वे, स वेदेति तादृश-तल्-लीला-तत्त्वस्य भक्त्यैकानुभवनीयत्वे च सङ्गमनीयम् । अत एव अथेह धन्याः [भा।पु। १.३.३९] इत्य् आदीनि सुष्ठु सङ्गतानि स्युः ॥३७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ज्ञानाद्य्-अगम्यत्वम् आह न चेति । निपुणेन ज्ञान-योगादि-नैपुण्येन ऊतीर् लीलाः नामानि रूपाणि मनो-वचो-वृत्तिभिर् नावैति मनो-वचसोर् अगम्यत्वाद् इति भावः । कुमनीष इति जन्तुर् इति । यो हि भक्ति-हीनो ज्ञानी नाम-रूपवद् वस्तु-मात्रम् एव मिथ्येत्य् आचष्टे तं प्रत्ययम् आक्षेपः । सम्भवतः अवतीर्यावतीर्य कृपया तानि विस्तारयतः । अज्ञाने दृष्टान्तः नटस्य चर्यां पाण्यादिभिर् अभिनीयमानस्य गीत-पदार्थस्य चन्द्र-कमलादेर् नाम-रूपादि-प्रदर्शनां यथा अज्ञो नावैति । अतो नास्वादं लभते ततश् च रसम् अमूलकं ब्रूते विज्ञः सत्यं तु सकल-सहृदय-साक्षिकं रसं साक्षाद् एवानुभवतीत्य् अर्थः ॥३७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भक्ति-हीनस्य तर्क-कुशलस्यापि न स गम्य इत्य् आह—न चेति । अस्य धातुर् जगत्-पालकस्य हरेर् उतीर् लीलाः कश्चिज्-जन्तुः कुमनीयः शुष्क-तर्क-निष्ठ-धीर् निपुणेन तत्-तर्क-कुशलतया मनो-वचोभिर् नावैति । कीदृशस्य? नामानि रूपाणि च जगति संतन्वतो विस्तारयतः । अज्ञो नटचर्याम् इव नटस्य चर्यां करादिभिर् विधु-पद्मादिनाम् अरूप-प्रदर्शनां यथा तद् अनभिज्ञो नाव इति, तद्वत् ॥३७॥


॥ १.३.३८ ॥

स वेद धातुः पदवीं परस्य

दुरन्त-वीर्यस्य रथाङ्ग-पाणेः ।

योऽमायया सन्ततयानुवृत्त्या

भजेत तत्-पाद-सरोज-गन्धम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भक्तस्8 तु कथंचिज् जानातीत्य् आह—स वेद इति । अमायया अकुटिल-भावेन । सन्ततया निरन्तरया । अनुवृत्त्या आनुकूल्येन भजेत ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भक्ति-गम्यत्वम् आह—स वेद इति ॥३८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भक्ति-मतां तु गम्य इत्य् आह—स वेद इति । दुरन्त-वीर्यस्य अनन्त-बलस्य, दुः स्यात् कष्ट-निषेधयोः इति विश्वः । अमायया कैतव-शून्यया अनुवृत्त्या भक्त्या । सन्ततया अनवच्छिन्नया ॥३८॥

———————————————————————————————————————

॥ १.३.३९ ॥

अथेह धन्या भगवन्त इत्थं

यद् वासुदेवेऽखिल-लोक-नाथे ।

कुर्वन्ति सर्वात्मकम् आत्म-भावं

न यत्र भूयः परिवर्त उग्रः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भक्ति-मार्गे प्रवृत्तान् ऋषीन् अभिनन्दति—अथेति । यतो भक्त एव भगवत्-तत्त्वं जानाति । अथातो भगवन्तः सर्व-ज्ञा भवन्तो धन्याः कृतार्थाः । कुतः ? यद् यस्माद् इत्थं प्रश्नैर् वासुदेवे आत्म-भावं मनो-वृत्तिं कुर्वन्ति । सर्वात्मकम् ऐकान्तिकम् । यत्र यस्मिन् भावे सति भूयः उग्रो9 गर्भ-वासादि-दुःख-रूपः परिवर्तो जन्म-मरणाद्य्-आवर्तो न भवति ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भक्ति-विहीना वयम् एवाक्षेप-विषयीभूता भवामेति विषीदतः शौनकादीन् आह—अथेहेति । भगवन्तः सर्वज्ञाः वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति वैष्णव-निरुक्तेः सर्वात्मकम् ऐकान्तिकम् आत्मनो मनसो भावं यत्र सति परिवर्तो जन्म-मरणाद्य्-आवर्तः ॥३९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यथा मूयम् इति दृष्टान्त-भावेनाह—अथेति । भगवन्तः सर्वज्ञाः भवन्तः सर्वात्मकम् ऐकान्तिकम् आत्मनो मनसो भावं वृत्तिं यत्र भावे सति उग्रः परिवर्तो जन्म-मृत्यु-रूपो भूयो न भवेत् ॥३९॥

———————————————————————————————————————

॥ १.३.४० ॥

इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।

उत्तम-श्लोक-चरितं चकार भगवान् ऋषिः ।

निःश्रेयसाय लोकस्य धन्यं स्वस्त्य्-अयनं महत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सूत किम् एतच् छास्त्रम् अपूर्वं कथयसि तत्राह । ब्रह्म-संमितं सर्व-वेद-तुल्यम् । उत्तम-श्लोकस्य चरितं यस्मिंस् तत् । ऋषिर् व्यासः ॥४०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तल्-लीला-मयत्वाद् एवास्य पुराणस्य सर्व-शास्त्र-सारत्वम् आह—इदम् इति सार्धकम् । ब्रह्म-सम्मितम् इति । नराकृति-पर-ब्रह्मणा श्री-कृष्णेन तुल्यम् इति वा । कृष्णे स्वधामोपगते [भा।पु। १.३.४३] इत्य्-आदि-वक्ष्यमाणत्वात् । धन्यं सर्व-पुरुषार्थावहम् । अत एव स्वस्त्ययनं सर्व-मङ्गलावहं महत् सर्वतः श्रेष्ठं च ॥४०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सूत किम् इदम् अपूर्वम् अश्रुत-चरं शास्त्रं कथयसीति तत्राह उदम् इति । ब्रह्म श्री-कृष्णस् तुल्याम् । ऋषिर् व्यासः ॥४०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अहो! सूत किम् इदम् अतिमनोज्ञम् अश्रतचरं शास्त्रं कथयसि? तत्राह—इदम् इति । ब्रह्म-सम्मितं कृष्ण-तुल्यम् । एत स्वरूपं च गारुडे—

अर्थोऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः ।
गायत्री-भाष्य-रूपोऽसौ वेदार्थ-परिबृंहितः ॥
पुराणानां साम-रूपः साक्षाद्-भगवतोदितः ।
द्वादश-स्कन्ध-युक्तोऽयं शत-विच्छेद-संयुतः ॥
ग्रन्थेऽष्टादश-सहस्रः श्रीमद्-भागवताभिधः ॥

इति मात्स्ये [५३.२०, २२-२३] च—

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः ।
वृत्रासुर-वधोपेतं तद्-भागवतमिष्यते ।
लिखित्वा तच् च यो दद्याद्-धेमसिंह-समन्वितम् ।
प्रौष्ठ-पद्यां पौर्णमास्यां स याति परमां गतिम् ॥
अष्टादश सहस्राणि पुराणं तत् प्रकीर्तितम् ॥

इति, स्कान्दे च—

ग्रन्थे ऽष्टादश-साहस्रो द्वादश-स्कन्ध-सन्मितः ।
हयग्रीव-ब्रह्म-विद्या यत्र वृत्रवधस् तथा ॥
गायत्र्या च समारम्भस् तद् वै भागवतं विदुः ॥

इति, पद्मे च—

अम्बरीष-शुक-प्रोक्तं नित्यं भागवतं शृणु ।
पठस्व स्वम् उखेनैव यद् ईच्छसि भवक्षयम् इति ।

एवम् अन्यत्र बहु द्रष्टव्यम् । चकार प्रकटयामास समुद्ध्रतम् इत्य् उक्तेः । ऋषिः पाराशर्यः धन्यम् अकिञ्चन भक्त-वशकर्तृ, धन-गणं लब्ध इति [पा। ४.४.८४] सूत्रात् ॥४०॥

———————————————————————————————————————

॥ १.३.४१ ॥

तद् इदं ग्राहयाम् आससुतम् आत्मवतां वरम् ।

सर्व-वेदेतिहासानां सारं सारं समुद्धृतम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्-संप्रदाय-प्रवृत्तिम् आह—तद् इदम् इति । सुतं शुकम् ॥४१।

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् इदं तल्-लीला-मयं महा-पुराणं ब्रह्मानुभवि-गुरुणा श्री-शुकेनाप्य् उपादेयत्वेन गृहीतम् इति । एवं जन्मानि कर्माणि [भा।पु। १.३.३५] इत्य् अस्योदाहरणत्वेनाह—तद् इदम् इति । वक्ष्यते च—परिणिष्ठितोऽपि नैर्गुण्ये [भा।पु। २.१.९] इत्य्-आदि । हित्वा स्व-शिष्यान् पैलादीन् [भा।पु। ९.२२.२२] इत्य्-आदि च । तस्माज् जन्म-कर्म-लीलामयेनानेन—दुःख-ग्रामाद् विमुच्यते [भा।पु। १.३.२९] इत्य् एतावन्-मात्रं किं वक्तव्यम् ? किन्तु तद्-विधानाम् अपि परम-पुरुषार्थ इति भावः । अत एवाह—सर्व-वेदेति । सर्व-वेदेतिहासानां समुद्धृतो यः सारस् तद्-रूपम् इति ॥४१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **दधि-मथनाद् उद्भूतं नवनीतम् इव यद् वेदादीनां सारं सारं वस्तु तद् एवेदं श्री-भागवताख्यं स्नेहेन सुतं शुकं ग्राहयामास । वेदादि-दधि-मथन-श्रमं च सफलीचकारेति भावः । आत्मवतां वरम् इति तादृशोऽपि सुतः स्वादाधिक्येनैवेदं लोभाद् गृह्णाति स्मेति भावः ॥४१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद् इति—इदं सर्वसारं नवनीतम् इवोद्धृतं सुतं ग्राहयामासेत्य् उद्धरण-श्रमं सफलं व्यधाद् इति भावः । आत्मवतां वरम् इति स्वात्मानुभवानन्दाद् अप्य् अतिस्वादुत्वात्-तेनातिलोभादिदं परिगृहीतम् इति सूच्यते ॥४१॥

———————————————————————————————————————

॥ १.३.४२ ॥

स तु संश्रावयाम् आसमहाराजं परीक्षितम् ।

प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रायोपविष्टं प्रायो मृत्यु-पर्यन्तानशनं तत् व्याप्य कृतोपवेशं गोदोहनम् आस्ते इतिवत् । प्रायो मरणानशने मृत्यौ बाहुल्ययोर् इति मेदिनी ॥४२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स तु तत्सुतः श्री-शुकः, प्रायेण मृत्यु-पर्यन्तानाशकेनोपविष्टम् इति परमवै राग्योक्त्या कथा-श्रवण-पात्रत्वं, प्रायो मरणानशने मृत्यौ बाहुल्य-तुल्ययोः इति मेदिनी ॥४२॥

———————————————————————————————————————

॥ १.३.४३ ॥

कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह ।

कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) :**धर्मः कं शरणं गत [भा।पु। १.१.२३] इत्य् अस्य तम् एव व्यास-रूपणम् इति परिहार उच्यते । इदं भागवतम् इत्य्-आदिना ॥४३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रायेण मृत्युर् पर्यन्तानाशकेनोपविष्टम् इति परम-वैराग्योक्तिः । हे विप्राः ! विप्रर्षेः सकाशात् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (श्री-कृष्ण-सन्दर्भः, ७९) : तथा श्री-कृष्ण-प्रतिनिधि-रूपत्वाद् अस्य महा-पुराणस्य श्री-कृष्ण एव मुख्योऽभिधेय इत्य् अप्य् आह—कृष्ण इति । स्पष्टम् ॥४३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् इदं पुराणम्, न तु शास्त्रान्तर-तुल्यम्, किन्तु श्री-कृष्ण-प्रतिनिधि-रूपम् एवेत्य् आह—कृष्ण इति । स्वस्य कृष्ण-रूपस्य धाम नित्य-लीला-स्थानम् उपगते सति श्री-कृष्णे । तत्र च धर्मः प्रोज्झित-कैतवोऽत्र [भा।पु। १.१.२], नैष्कर्मयम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १.५.१२] इति चानुसृत्य परम-प्रकृष्टतयावगते । भगवद्-धर्म-भगवज्-ज्ञानादिभिर् अपि सह स्व-धामोपगते सति, कलौ नष्ट-दृशां तादृश-धर्म-ज्ञान-विवेक-रहितानां कृते तद् इदं पुराणम् एवार्कः, न तु शास्त्रान्तरवद् दीप-स्थानीयं यत्, तथाविधोऽयं पुराणार्क उदितः, तादृश-धर्म-ज्ञान-प्रकाशनात् तत्-प्रतिनिधि-रूपेणाविर्बभूव । अर्कवत् तत्-प्रेरिततयैवेति भावः ॥४३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं बहुना ? यद् युष्माभिः पृष्टं धर्मः कं शरणं गतः [भा।पु। १.१.२३] इति तद् इदम् एव बुद्धस्वेत्य् आह—कृष्णे इति । स्व-धाम्नो द्वारकातः सकाशात् उप समीपं प्रभासं गते धर्म-ज्ञानादिभिः षड्भिर् ऐश्वर्यैः सह तत्रान्तर्दधाने सतीत्य् अर्थः । तल्-लीलाया भक्त-क्षोभ-कारित्वात् स्पष्टतयानुक्तिः । नष्ट-दृशां लुप्त-ज्ञानानां जनानां तत्र दृक्-पदेन तत्र चैक-देशान्ते दृष्टिः प्रणष्टा तमसि प्रविष्टेति प्रयुक्तेन कृष्णस्य षुर्यत्वम् । मथुराया उदय-शैलत्वम् । प्रभासस्य अस्ताचलत्वम् । शिष्टानां चक्रवाक्त्वम् । दुष्टानां नीहारत्वम् । पापानां तमस्त्वम् । भक्तानां कमल-वनत्वं च बोधितम् । अतस् तृतीये कृष्ण-द्यूमनि निम्लोचे [भा।पु। ३.२.७] इति सूर्यतया स्पष्टोक्तिः । एष पुराणार्क इति कृष्ण-सूर्योऽस्तमिते सति पुराण-सूर्योऽयम् उदित इति सूर्यस्य प्रतिमूर्तिः सूर्य एव भवेद् इति भावः ॥४३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पुराणं ब्रह्म-सम्मितम् इत्य् उक्तं स्फुटयन् धर्मः कं शरणं गतः [भा।पु। १.१.२३] इत्य् अस्योत्तरम् आह—**कृष्ण **इति । कृष्ण-द्युमणि-निम्लोचे [भा।पु। ३.२.७] इति वक्ष्यमाणात् कृष्ण-सूर्ये स्व-धामोपगते, नित्यं सन्निहितस् तत्र भगवान् [भा।पु। ११.३१.२४] इति च वक्ष्यमाणाज्-जनागोचरं द्वार्वत्याः प्रकाशान्तरं प्राप्ते धर्म-ज्ञानादिभिर् ऐश्वर्यैः सह तत्रैवान्तार्हिते सति नष्ट-दृशां विलुप्त-ज्ञानानां प्राणिनां ज्ञानाय पुराणार्क एष उदित इति तत् समम् एतत् ॥४३॥

———————————————————————————————————————

॥ १.३.४४ ॥

तत्र कीर्तयतो विप्रा विप्रर्षेर् भूरि-तेजसः ।

अहं चाध्यगमं तत्र निविष्टस् तद्-अनुग्रहात् ।

सोऽहं वः श्रावयिष्यामि यथाधीतं यथा-मति ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अध्यगमं ज्ञातवान् अस्मि । तत्र कीर्तयतस् तत्र निविष्ट इति चान्वय-भेदात् तत्र-पदावृत्तिर् अदोषः । यथाधीतं नतु स्व-मति-विलसितम् । तत्रापि यथामति स्वमत्य्-अनुसारेण । सङ्क्षेपतः कथितं विस्तरतः श्रावयिष्यामि ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र सभायां कीर्तयतो विप्रर्षेः शुकदेवात् सकाशात् अध्यागमम् इदं शास्त्रम् अधिगतवान् अस्मि तस्यानुग्रहम् अवाप्य तत्र सभैक-देशे निविष्ट एतां वक्षत्य् असौ सूत इति द्वादशोक्तेः । यथाधीतं न तु स्व-कपोल-कल्पितं तत्रापि यथा-मति स्व-बुद्ध्या यावद् अवधृतं तावद् एव सर्वम् अर्थ-जातं तु स एव शुकदेवो वेदेति भावः ॥४४॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
तृतीयः प्रथमेऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तत्र सदसि श्री-भागवतं कीर्तयतो विप्रर्षेः श्रीशुकात्, भूरितेजसः हृद्-विभात-कृष्णोच्-छलित-दीप्ति-पुञ्जात् तेजो दीप्तौ प्रभावे च इति मेदिनी । तत्र सदसि तत्-प्रान्ते तद् अनुग्रहान्-निविष्टः एतां वक्ष्यत्यसौ सूत [भा।पु। १२.४.४३] इति वक्ष्यति । यथाधीतं न तु स्वकपोल-कल्पितं, यथामतीति सङ्क्षेपात् कथितं-विस्तीर्य श्रावयैष्यामि । तत्र कीर्तयस् तत्र निविष्ट इत्य् अन्वय-भेदान् न दोषः ॥४४॥

इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां तृतीयोऽध्यायः ॥३॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे

नैमिषीयोपाख्याने जन्म-गुह्यं नाम

तृतीयोऽध्यायः ।

॥१.३॥


(१.४)


  1. देहान्तर्यामिण इति पाठोऽपि क्वचित् दृश्यते । ↩︎

  2. स एवेदं ससर्जाग्रे भगवान् आत्म-मायया । सद्-असद्-रूपया चासौ गुणमयागुणो विभुः ॥ इति पुरिदास-संस्कारेण निर्दिष्टम्। ↩︎

  3. अयं ग्रन्थो बहुषु प्राचीन-पुस्तकेषु नोपलभ्यते । ↩︎

  4. तृतीय-प्रपाठके। ↩︎

  5. ‘गुण-बृंहितम्ऽ इति पाठो मूले टीकायां चास्ति । अयम् एव समीचीनः । ↩︎

  6. स्रिधर् स्wअमिऽस् चोम्मेन्तर्य् तो ११.१५.१६। ↩︎

  7. ‘वृत्त्य्-अभिप्रायेणऽ इति क्वचित् पाठः । ↩︎

  8. प्राचीन-पुस्तके—ऽननु यदि कोऽपि न जानाति तर्ह्य् अनिर्मोक्ष-प्रसङ्गः स्याद् इत्य् आशङ्क्याह—स वेद इति । अमायया अकुटिल-भावेन । सन्ततया निरन्तरया । अनुवृत्त्या सेवा तत्-पाद-सरोज-गन्धं यो भजेतपदवीं स्वरूपम् । वेद जानातिऽ इति पाठः । ↩︎

  9. ‘उग्रऽ इतिय् आद्य् अधिकम् एकस्मिन् पुस्तके । ↩︎