विषयः
सूत-प्रतिवचनम्, भगवत्-कथायाः श्रवण-कीर्तनयोर् निः-श्रेयस्करत्वं भगवद्-भक्तेर् माहात्म्य-वर्णनं च ।
॥ १.२.१ ॥
व्यास उवाच—
इति सम्प्रश्न-संहृष्टो विप्राणां रौमहर्शणिः ।
प्रतिपूज्य वचस् तेशां प्रवक्तुम् उपचक्रमे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
तद् एवं प्रथमेऽध्याये षट् प्रश्ना मुनिभिः कृताः ।
द्वितीये तूत्तरं सूतश् चतुर्णाम् आह तेष्व् अथ ॥
विप्राणाम् इत्य् एवं-भूतैः सम्यक् प्रश्नैः हृष्टो रोमहर्षणस्य पुत्र उग्रश्रवास् तेषां वचः प्रतिपूज्य सत्-कृत्य प्रवक्तुम् उपचक्रमे उप्रक्रान्तवान् ॥१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **[चूर्णिकायां] टीकायां—षट्-प्रश्नाः । तत्र तत्राञ्जसा [भा।पु। १.१.९] इत्य्-आदिना, सूत जानासि [भा।पु। १.१.१२] इत्य्-आदिना, को वा [भा।पु। १.१.१६] इत्य्-आद्य्-अन्तेन कृष्णावतार-प्रयोजन-कृष्ण-चरितयोः प्रश्नौ, वयं तु [भा।पु। १.१.१९] इत्य्-आदि द्वयम्, सूत जानासि [भा।पु। १.१.१२] इत्य् एतत्-प्रश्नस्यैवानुवादः । तत्रोभयत्रैवोत्तरम्, भावयत्व् एष सत्त्वेन [भा।पु। १.२.३४] इति लोक-पालनं हि तच्-चरित्रम् अपि । एवम् एव हि प्रथमाध्याये टीका-प्रतिज्ञाताः षट्-प्रश्ना उपपद्यन्ते । तत्र द्वितीयेऽध्याये चत्वार्य् उत्तराणि । चतुर्थस्य तत्-प्रश्नोत्तरस्य तत्रान्यत्रादर्शनात् । तस्य कर्माणि [भा।पु। १.१.१७] इत्य्-आदिना विश्व-सृष्ट्य्-आडि-लीला-प्रश्नः, तस्योत्तरम् । स एवेदं ससर्जाग्रे [भा।पु। १.२.३०] इत्य्-आदिना, अथाख्याहि [भा।पु। १.१.१८] इत्य्-आदिनावतार-कथा-प्रश्नः, तस्योत्तरं तृतीयोऽध्यायः । ब्रूहि योगेश्वरे [भा।पु। १.१.२३] इत्य्-आदिना धर्माश्रय-प्रश्नस्योत्तरम्—कृष्णे स्वधामोपगते [भा।पु। १.३.४३] इत्य्-आद्यं तृतीयाध्याय-पद्यम् एव ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
द्वितीये त्व् अभिधेया श्री-भक्तिः प्रेमा प्रयोजनम् ।
विषयो भगवान् अत्रेत्य् अर्थ-त्रय-निरूपणम् ॥
रोमहर्षणस्य पुत्र उग्रश्रवाः ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
द्वितीये भग्वद्-भक्तिः प्रेमा तस्याः प्रयोजनम् ।
भगवान् देवकीपुत्रो विषयश् च निगद्यते ॥ \
इति पूर्व-दर्शितैः प्रश्नैः संहृस्टः रोम-हर्षणस्य पुत्रो रोम-हर्ष-णिरुग्रश्रवाः, प्रति-पूज्य संश्लाघ्य प्रवक्तुम् अपचक्रमे आरेभे ॥१॥
———————————————————————————————————————
॥ १.२.२ ॥
सूत उवाच—
यं प्रव्रजन्तम् अनुपेतम् अपेत-कृत्यं
द्वैपायनो विरह-कातर आजुहाव ।
पुत्रेति तन्-मयतया तरवोऽभिनेदुस्
तं सर्व-भूत-हृदयं मुनिम् आनतोऽस्मि ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अनुपेतं देहादिभिः अनभिमानात् । अकातरः कातरवद् अदर्शयत् । उक्तं च स्कान्दे—
नित्य-तृप्तः परानन्दो योऽव्ययः परमेश्वरः ।
यस्य पुत्र-फलं नैव यज् जातं जगद् ईदृशम् ॥
यद् अधीन-श्रियोऽपाङ्गाद् ब्रह्म-रुद्रादि-संस्थितिः ।
स पुत्रार्थं तपस् तेपे व्यासो रुद्रस्य चेश्वरः ॥
कातर्यं दर्शयामास वियोगे लौकिकं हरिः ।
कुतः कातरता तस्य नित्यानन्द-महोदधेः ॥ इति ।
ईशन्न् अपि हि लोकस्य सर्वस्य जगतो हरिः ।
कर्माणि कुरुते विष्णुः कीनाश इव दुर्बलः ॥ इति चोद्योगे ।
अहङ्कारात्मको रुद्रः शुको द्वैपायनात्मजः इति स्कान्दे ॥२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रवचनस्योपक्रमो नाम गुरुदेवता-नमस्कार इति । तम् आह—यम् इति त्रिभिः । तत्र स्व-गुरोः शुकस्यैश्वर्यं तच्-चरितेनैव द्योतयन्न् आह—यम् इति । यं प्रव्रजन्तं संन्यस्य गच्छन्तम् । अनुपेतं माम् उपनयस्वेत्य् अनुपनयार्थम् उपसन्नम्1 । यद् वा केनाप्य् अनुपेतम् अननुगतम् । एकाकिनम् इत्य् अर्थः । तत्र हेतुः—अपेत-कृत्य कृत्य-शून्यं कर्म-मार्गेऽप्रवर्तमानं नैष्टिकत्वात् । द्वैपायनो व्यासो विरहात् कातरो भीतः सन् पुत्रा३ इति प्लुतेनाजुहावाह्वतवान् । दूराद् आह्वने प्लुते सत्य् अपि सन्धिर् आर्षः । तदा तन्-मयतया शुक-रूपतया तरवोऽअभिनेदुः प्रत्युत्तरम् उक्तवन्तः । पितुः स्नेहानुबन्ध-परिहाराय यो वृक्ष-रूपेणोत्तरं दत्तवान् इत्य् अर्थः । तं मुनिम् आनतोऽस्मि । तन्-मयत्वोपपादनाय विशेषणम् । सर्व-भूतानां हृन् मनः अयते योग-बलेन प्रविशतीति सर्व-भूत-हृदयस् तम् ॥२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथोपक्रमे स्व-गुरुं नमस्कुर्वन् तत्-साद्गुण्यं स्मरति द्वाभ्याम् । तत्र यम् इत्य् अत्र तन्-मयतया इति तच्-छब्देन तत्-तादात्म्यापन्नः परमातोच्यते । स हि तदानीं ध्यानावेशेन प्राप्त-सर्वान्तर्यामि-तादात्म्यः—दृष्ट्वानुयान्तं [भा।पु। १.४.५] इत्य्-आदि वक्ष्यमाणत्वात् । यत एव तस्य तद्-उत्तर-दानानुसन्धान-राहित्ये सति तत्-पक्षपातेनान्तर्यामिणैव स्वयं तरूणाम् अपि द्वारा तद्-उत्तरं दत्तम् इति । यद् वा, न केवलं सर्वात्म-ब्रह्म-निष्ठत्वान् निरपेक्षेऽपि तस्मिन् पितैव स्निग्धो जातः । अपि तु तरवोऽपि जाता इत्य् आह—तन्-मयतया, तद्वत् स्नेह-मयतया तरवोऽपि अभि तद्-आभिमुख्येन नेदुः, किम् उतान्ये जीवा इत्य् अर्थः । एतच् च तत्-प्रभावाद् एव ज्ञेयम् अत एव सर्व-भूतानां हृदयं यस्मिन् तम् । अनपेतम् इति चित्सुख-पाठान्तरम् ॥२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अत्रैवं सुतस्य परामर्शः । एतत् प्रश्नस्योत्तरं सर्व-शास्त्र-सारं किम् अपि वस्त्व् अहं ब्रवीमि । तेन चेद् एषाम् आत्मा न प्रसीदेत् तर्हि किं भविष्यति येनात्मा सुप्रसीदतीत्य् उक्तत्वात् । ततश् च सारेष्व् अपि मध्ये यस्यात्म-प्रसादकत्वं भव्यैर् निरूपितं सोऽन्वेषणीयः । तत्रापि केषांचिन् मते साङ्ख्यस्यैव केषांचिन् मीमांसादेः केषाञ्चिद् उपनिषदाम् एव केषाञ्चित् तद्-अर्थ-तात्पर्य-निर्णायकाणां वेदान्त-सूत्राणाम् एवात्म-प्रसादकत्वम् अस्ति यद्यपि, तद् अपि न तत् प्रत्येतव्यम् । तेषाम् अपि मुख्यस्य तत्-तत्-सर्व-मत-विदुषोऽपि कृत-वेदान्त-सूत्रस्य श्री-कृष्ण-द्वैपायनस्यापि चित्ताप्रसाद-दृष्टेः । ततश् च यदाविर्भावेन तस्यापि आत्मा प्रसीदति स्म । परीक्षिन्-महा-सदसि तस्थूषाम् एव तेषां सर्व-सार-वादिनां महा-ज्योतिषाम् अग्र एव परीक्षयोत्तीर्णं शुद्धं जाम्बुनदम् इवात्म-प्रसादकत्वे निर्विवादम् एव यत् स्थिरं व्यराजत, तद् एव श्री-भागवतं मम वक्तव्यम् अभूद् इति । ततस् तद्-वक्तारं श्री-शुकदेवं शरणं यामीति तं प्रणमति । यम् इति । प्रव्रजन्तं संन्यस्य गच्छन्तम् । अनुपेतं निकटम् अप्य् अप्राप्तम् । अपेत-कृत्यम् उपनयनादि-रहितम् । हे पुत्रेति प्लुतेनाजुहाव । न केवलं परम-निरपेक्षेऽपि तस्मिंस् तत्-पितैव स्निग्धोऽभूत् ।
अपि तु—
येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि ।
रज्यन्ति जन्तवस् तत्र जन्गमाः स्थावरा अपि ॥
इति पाद्मोक्तेस् तरवोऽपीत्य् आह । तन्मयतया शुक-मयतया तरवोऽपि आभिमुख्येन हेतुना हे पुत्रेति प्रतिध्वनि-मिषेण व्यासवद् आजुहुवुः । यो हि यस्मिन्न् आसज्जति स तन्मय उच्यते । यथा स्त्री-मयः कामुक इति । ततश् च सर्वेषां भूतानां हृदयं मनो यस्मिंस् तम् । तेन सर्व-मनोहरे भगवद्-विग्रहे इव तस्मिन् स्नेहोऽयं न प्राकृत-मोह इति । व्यासस्याप्य् अविवेकोऽयम् इति दोषः पराहतः ।
यद् वा, तदा तन्मयतया शुक-रूपतया तरवोऽभिनेदुः प्रतिध्वनि-मिषेण हे पुत्रेति प्रत्युत्तरं ददुः । यदि तवाहं पुत्रस् तदा त्वम् अपि मे पुत्र इत्य् अत कस्य के पितृ-पुत्राद्या मोह एव हि कारणम् । इति तत्त्वम् अविज्ञाय किम् इति मुह्यसीति व्यञ्जयामासुः । तन्मयत्वोपपादनाय विशेषणं सर्व-भूतानां हृत् मनः अयते योग-बलेन प्रविशतीति सर्व-भूत-हृदयस् तं तेन स एव ममाप्य् अन्तः प्रविश्य मन्-मुख्येनैव श्री-भागवतं वदतु । यो हि जडान् अपि वृक्षान् प्रविश्य प्रत्युत्तरेण पितरम् अपि समादधौ । स एव चेतनं मां प्रविश्य श्री-भागवतेनैव एषां श्रोतॄणाम् आत्मनः प्रसादयत्व् इति प्रवचन-काले श्री-भागवतस्य वक्तान्योऽपि ध्यायेद् इति विधिश् च सूचितः ॥२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एते शौनकादयः स्वात्मजिज्ञासवः प्रागासन् । निष्कामैर् धर्मैर् विशुद्ध-हृदाम् एषां तज्-ज्ञान-सम्पत् परेश-ज्ञानोपाय-भूताभवद् एव, तद् एतान् प्रति परेशस्य स्वरूप-गुण-विभूति-लीला-याथात्म्य-निरूपकं श्री-भागवतम् एव वक्ष्यामीति तद्-वक्तारं स्व-गुरुं श्री-शुकं तद्-देवताश् च प्रणमिति प्रवचनोपक्रमं तन्-नमस्कारं शिक्षयन् । तत्र गुरु-नमस्कारम् आह—द्वाभ्यां—तं मुनिं श्री-शुकमानतोऽस्मि । कीदृशम् इत्य् अपेक्ष्य विशिनष्टि—प्रव्रजन्तं सन्न्यस्य गच्छन्तं, अनुपेतं सन्निधिम् अप्राप्तम्, अपेत-कृत्यं त्यक्तोक्तकर्माणं, हे पुत्रेति प्लुतेन द्वैपायन आजुहावाकारितवान् । कीदृशः? विरह-कातरः श्री-भागवताध्ययन-योग्यः क्वायं गच्छेद् इति तद्-विच्छेद-व्याकुलः । अयम् अस्य भगवत्-सम्बन्धात् प्रेमावेश एव, न तु प्राकृतो मोहः । न केवलं पितैव तत्र स्निग्धोऽभूद् अपि तरवोऽपि तन्मयतया शुकाविष्टहृत्तया हेतुनाभिनेदुराभिमुख्येन पुत्रेति प्रतिध्वनि-मिषेणाजुहुवुः । हरि-भक्ते हि सर्वे स्निह्यन्ति, येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि । रज्यन्ति जन्तवस् तत्र स्थावरा जङ्गमा अपि इति पाद्मात् । एतदाह—सर्वेषाम् भूतानां हृदयं यत्र तम् इति । स्वात्म-समाधि-सिद्धये तेन तद्-भक्तेर् अनुष्ठानात् पितुः प्रसादेन शुद्धायास् तस्यास् तत्र सङ्क्रमाच् च । यद् वा—समाधि-साक्षात्कृतस्य स्वात्मनः सत्य-सङ्कल्पत्व-गुणोदयेन पुत्रेति प्रतिध्वनि-मिषैस् तरुभिर् उत्तर-दानम् इति शुकस्य तस्य महिमातिशयो दर्शितः ॥२॥
———————————————————————————————————————
॥ १.२.३ ॥
यः स्वानुभावम् अखिल-श्रुति-सारम् एकम्
अध्यात्म-दीपम् अतितितीर्षतां तमोऽन्धम् ।
संसारिणां करुणयाह पुराण-गुह्यं
तं व्यास-सूनुम् उपयामि गुरुं मुनीनाम् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **स्वानुभावं ब्रह्म ॥३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्-कृपालुतां दर्शयन्न् आह—य इति । अन्धं गाढं तमः संसाराख्यम् अतितर्तुम् इच्छताम् । पुराणानां मध्ये गुह्यं गोप्यम् । तत्र हेतुत्वेन चत्वारि विशेषणानि । स्वो निजोऽसाधारणोऽनुभावः प्रभावो यस्य तत्-स्वानुभावम् । अखिल-शास्त्र-श्रुतीनां सारम् । एकम् अद्वितीयम् । अनुपमम् इत्य् अर्थः । आत्मानं कार्य-कारण-सङ्घातम् अधिकृत्य वर्तमानम् आत्म-तत्त्वम् अध्यात्मं तस्य दीपं साक्षात् प्रकाशकम् । उपयामि शरणं व्रजामि ॥३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अतो य एवं साक्षाच् छ्री-कृष्ण-द्वैपायनेऽपि स्व-पितर्य् आनुसन्धान-रहित आसीत्, स एव श्री-भगवल्-लीला-वर्णन-मय-श्रीमद्-भागवत-नामैतद्-ग्रन्थावेशेनेदृशोऽपि जात इत्य् आह—य इति । तद् एतच् छ्री-सूतस्य शास्त्रोपक्रमाय श्री-गुरु-प्रसत्ति-रूपं वाक्यम्, स्व-सुख-निभृत- [भा।पु। १२.१२.६९] इत्य्-आदिना तद्-उपसंहाराय तद्-रूपेण वाक्येनैव्कीकृत्य व्याख्यायते । यः खलु—
हित्वा स्व-शिष्यान् पैलादीन् भगवान् बादरायणः ।
मह्यं पुत्राय शान्ताय परं गुह्यम् इदं जगौ ॥ [भा।पु। ९.२२.२२-३]
इत्य् अनुसारेण पुराण-गुह्यम् इदं श्रीमद्-भागवताख्यम् आह—गिरा प्रकाशयामास, तं तत्राभवद् भगवान् व्यास-पुत्रः [भा।पु। १.१९.२५] इत्य् अस्य पूर्वोत्तर-पद्य-प्रघट्टकानुसारेणासाधारण-प्रभावम् । मुनीनां गुरुम् उपयामि शरणम् आश्रये । कीदृशं तत् [पुराण-गुह्यम्] ? तत्राह—किं वापरैर् ईश्वरः [भा।पु। १.१.२] इत्य् आद्यानुसारेणास्धारण-प्रभावम् । पुनः कीदृशं तत् ? तत्राह—निगम-कल्प-तरोर् गलितं [भा।पु। १.१.३] इत्य् आद्य्-अनुसारेणाखिल-श्रुति-सारम् । पुनः कीदृशम् ? तत्राह—निम्नगानां यथा गङ्गा [भा।पु। १२.१३.१६] इत्य् आद्य्-अनुसारेण पुराणानां मुख्यम् । पुनः कीदृशम् ? तत्राह—स्व-सुख-निभृत-चेताः [भा।पु। १२.१२.६९] इत्य् आद्य्-अनुसारेणात्मानं स्व-चित्तम् अधिकृत्य वर्तते, यत् परम-रहस्यम् अजित-रुचिर-लीलाख्यं तत्त्वम् । तस्य दीपं प्रकाशकं [अध्यात्म-दीपम्] ।
नन्व् एवं चेत् कथं तर्हि प्राकाशयत ? तत्राह—अन्धं करणं यत् तमः सर्वावरकम् अज्ञानम्, तत् तरीतुम् इच्छतां संसारिणां करुणया तेषु यत् कारुण्यम्, तद्-वशतयेत्य् अर्थः । यद्यप्य् अजित रुचिर लीला-रस-स्वरूपं रहस्यं न ते जानन्ति, तथापि तत्-पर्यन्त-प्रकाशकं तत् प्रकाशयामासेत्य् अहो करुणाया गरिमा दृश्यताम् इति भावः । सेयं च तस्य करुणा तल्-लीलानुभवेन तत्-स्वभाव-लाभाज् जाता । केवलात्मारामत्वे—
भजतोऽपि न वै केचित् भजन्त्य् अभजतः कुतः ?
आत्मारामा ह्य् आप्तकामा अकृतज्ञा गुरुद्रुहः ॥ [भा।पु। १०.३२.१९]
इति श्री-भगवद्-वाक्य-विरोधाद् असौ न स्याद् एवेति च ॥३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अस्मिन्न् अर्थे तस्य कृपालुत्वम् एव हेतुर् अस्त्य् एव इत्य् आह य इति । संसारिणां करुणयाहेति । न केवलम् अयं परीक्षिद् एव तारयितव्यं किन्त्व् अग्रेऽपि जनिष्यमाणाः संसारिणोऽनेनैव तरन्त्व् इति । तदैव सर्वानर्वाचीनान् सस्मारैवेति भावः । अन्धं गाढं तमोऽविद्याम् अतिशयेन सुखेनैव तरीतुम् इच्छताम् । आत्मनि अधिष्ठितानि तत्त्वानि महद्-आदीनि तेषां दीपं प्रकाशकम् इति मुमुक्षूणाम् अविद्या-क्षयोऽनुसंहितं फलम् उक्तम् । शुद्ध-भक्तानां तु अखिलानां श्रुतीनाम् उपनिषदां सारं श्लेषेण श्रुतीनां श्रवणानां श्रोत्रेन्द्रियस्य आस्वाद्यानां सारम् इति । अतः पूर्वोक्तं निगम-कल्प-तरु-फलत्वम् एवास्य सूचितम् । अत एव स्वः स्वत एवानुभावः रसोत्कर्ष-प्रभाव-ज्ञापको यस्य तं स्वसुख-निभृत-चेता [भा।पु। १२.१२.६९] इत्य् अत्र अजित-रुचिर-लीला कृष्णा-सार इति हरेर् गुणाक्षिप्त-मतिर् व्याख्यानं यद् अधीतवान् [भा।पु। १.७.११] इत्य्-आदिभ्यः ।
यद् वा, स्वस्यानुभावः प्रभावो यस्मात् तत् । तद्-व्याख्यानाद् एव शुकस्य सर्व-मुनिभ्योऽप्य् उत्कर्षोऽभूद् इति भावः । एकम् अनुपमम् अद्वितीयम् इत्य् अर्थः । मुनीनां परीक्षित्-सभोपविष्टानां नारद-व्यासादीनाम् अपीदम् अश्रुत-चरम् इव जातम् इति तान् अपि श्री-शुकदेव उपदिदेश देश्यम् इति सन्दर्भः ॥३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्व-गुरोः कृपालुत्वं वदन् प्रणमति—य इति । तं व्यास-सूनु-महम् उपषामि शरणं करोमि । कीदृशं? मुनीनां गुरुं सभा-स्थितानां श्री-नारद-पराशर-व्यासादीनां स्वर-माधुर्येण नैरपेक्ष्य-व्याख्यानेन च पुराणं तद् अपूर्वम् इवाभृदिति तेषाम् अपि तद् उपदेशकत्वम् इत्य् अर्थः । यः करुणया संसारिणां पुरन-गुह्यम् इदम् आहेति परीक्षितं निमित्त्वं कृत्त्वा भविष्यतां प्राणिनाम् उदिधीर्षाभूद् इति कृपालुत्वं । पुराणं कीदृक्? स्वोऽसाधारणः शुश्रूषतां हृदि सद्यो भगवद्-वश्यता-लक्षणोऽनुभावो यस्य । यद् वा, स्वस्य शुकस्यानुभावः प्रभावो यतस् तत् यद्-व्याख्यातृतया तस्य सर्वतो महिमातिशयः, एकं सर्व-शास्त्र-मुख्यं, यतोऽखिलेति । अध्यात्ममात्मनि हरौ जीवे च ये विशेषा धर्मास् तेषां दीपं संप्रकाशं । संसारिणां कीदृशाम् इत्य् आह—अन्धं गाढं तमोऽविद्या तद् अतितितीर्षताम-नायासेन तरीतुम् इच्छताम् ॥३॥
———————————————————————————————————————
॥ १.२.४ ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **जयत्य् अनेन संसारम् इति जयो ग्रन्थस् तम् उदीरयेद् इति स्वयं तथोदीरयन्न् अन्यान् पौराणिकान् उपशिक्षयति ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नारायणम् इति । अत्र शास्त्रस्यास्य **नर-नारायणाव् **अधिष्ठातृ-देवते निर्दिष्टे । च-काराच् छ्री-कृष्णोऽस्य देवता । सरस्वती शक्तिः । च-काराद् व्यास ऋषिः । “व्यासम्” इति पाठे स्पष्ट एव । बीजं तु प्रणव एव ज्ञेयः—ॐ नैमिषे [भा।पु। १.१.४] इत्य् उक्तत्वात् । छन्दोऽत्र गायत्री ज्ञेयः—धीमहि [भा।पु। १.१.१] इत्य् उक्तत्वेन तयैवारब्धत्वात् । तस्मात् ते नमस्या इति भावः ॥४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गुरुं नत्वा देवतादीन् प्रणमति—नारायणम् इति । देशाधिकारित्वेन नर-नारायणाव् अस्याधिष्ठातृ-देवते निर्दिष्टे । नरोत्तमम् इति पुरुषोत्तमः श्री-कृष्णोऽस्य देवता । सरस्वती शक्तिः । च-काराद् व्यास ऋषिः । “व्यासम्” इति पाठे स्पष्ट एव । बीजं तु प्रणव एव ज्ञेयः । छन्दोऽत्र प्राधान्येन गायत्र्य् एव ज्ञेया, तयैवारब्धत्वात् । तान् नमस्कृत्य । जय इति क्रिया-पदम् आक्षेप-लब्धं श्री-कृष्ण-सम्बोधनकम् । उदीरयेद् इति स्वयं तथोदीरयन्न् अन्यान् अपि पौराणिकान् उपशिक्षयति । जयत्य् अनेन संसारम् इति जयोग्रस्थस् तम् इति वा तत्र क्त्वा-प्रत्ययनैवानन्तर्ये सिद्धे तत इति कर्तृ-विशेषणम् । क्त-प्रत्ययान्तं ज्ञेयम् इति केचित् ॥४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **देवताः प्रणमति—नारायणं नरं च खण्ड-पालकं, नरोत्तमं पुरुषोत्तमं श्री-कृष्णं शास्त्र-प्रतिपाद्यं । सरस्वतीं देवीं केशवस्य प्रियाम् इति स्कान्दे तत्-स्तोत्रात् प्रेयसीं तच्-छक्तिं ज्ञान-दात्रीं । व्यासं पाराशर्यं शास्त्र-र्षिं च नमस्कृत्य जयत्य् अविद्या मननेनेति निरुक्तेर् जयं ग्रन्थम् उदीरयेत् उच्चारयेद् इति स्वयं तथोच्चारयन्न् अन्यान् शिक्षयति । तनोत्य् अर्थ-चातुर्यम् इति ततो वक्ता तनि-मृङ्भ्यां किच्च इति कर्तरि तन् ॥४॥
———————————————————————————————————————
॥ १.२.५ ॥
मुनयः साधु पृष्टोऽहं भवद्भिर् लोक-मङ्गलम् ।
यत् कृतः कृष्ण-सम्प्रश्नो येनात्मा सुप्रसीदति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषां वचः प्रतिपूज्येति यद् उक्तं तत् प्रतिपूजनं करोति । हे मुनयः ! साधु यथा भवति तथाऽहं पृष्टः । यतो लोकानां मङ्गलम् एतत् । यद् यतः कृष्ण-विषयः संप्रश्नः कृतः । सर्व-शास्त्रार्थ-सारोद्धार-प्रश्नस्यापि कृष्णे पर्यवसानाद् एवम् उक्तम् ॥५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इति सम्प्रश्न-संहृष्टः [भा।पु। १.२.१] इत्य्-आद्य्-अनन्तरं नारायणं नमस्कृत्य [भा।पु। १.२.२] इत्य्-आद्य्-अन्ते पुराणम् उपक्रम्यैवाह—-मुनय इति । टीका च—तेषां वचः प्रतिपूज्येति यद् उक्तं तत् प्रतिपूजनं करोति । हे मुनयः ! साधु यथा भवति तथाहं पृष्टः । इत्य्-आदिका ।
यद् इति । अत्र एवोत्तरेष्व् अपि पद्येषु अधोक्षज-वासुदेव-सात्वतां-पति-कृष्ण-शब्दास् तत्-प्राधान्य-विवक्षयैव पठिताः । अत्र श्रेयः-प्रश्नस्याप्य् उत्तरं लोक-मङ्गलम् इत्य् अनेनैव तावद् उक्तं भवति । तथात्म-सुप्रसाद-हेतोश् च येनात्मा भवति । तथात्म-सुप्रसाद-हेतोश् च येनात्मा सुप्रसीदति इत्य् अनेन । सम्प्रसीदतीत्य् अत्र सम् इति क्वचित् पाठः ॥५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तेषां वचः प्रतिपूज्येति यद् उक्तं तत् प्रति-पूजनं करोति । हे मुनयः, साधु यथा भवति तथाऽहं पृष्टः । यतो लोकानां मङ्गलम् एतत् । यद् यतः कृष्ण-विषयः संप्रश्नः कृतः । सर्व-शास्त्रार्थ-सारोद्धार-प्रश्नस्यापि कृष्णे पर्यवसानाद् एवम् उक्तम् ॥५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रति-पूज्येत्य् उक्तं, तद्-वचः प्रति-पूजनं करोति—मुनय इति । भवद्भिः साध्वहं पृष्टः, यतो लोक-मङ्गलम् एतत् यतः कृष्ण-विषयको भवतां प्रश्नः, आत्मा बुद्धिः ॥५॥
———————————————————————————————————————
॥ १.२.६ ॥
स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे ।
अहैतुक्य् अप्रतिहता ययात्मा सुप्रसीदति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र यत् प्रथमं पृष्टं सर्व-शास्त्र-सारम् ऐकान्तिकं श्रेयो ब्रूहीति तत्रोत्तरम् । स वै पुंसाम् इति । अयम् अर्थः—धर्मो द्वि-विधः । प्रवृत्ति-लक्षणो निवृत्ति-लक्षणश् च । तत्र यः स्वर्गाद्य्-अर्थः प्रवृत्ति-लक्षणः सोऽपरः । यतस् तु धर्म-च्छ्रवणादरादि-लक्षणा भक्तिर् भवति स परो धर्मः स एवैकान्तिकं श्रेय इति । कथंभूता । अहैतुकी हेतुः फलानुसन्धानं तद्-रहिता । अप्रतिहता विघ्नैर् अनभिभूता ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं सर्व-शास्त्र-सारस्य श्री-कृष्णाख्य-स्वयं-भगवद्-आविर्भाव-प्रश्न-लक्षित-तद्-भक्ति-लक्षणस्य श्रेयसः परम-सर्वोत्तमत्वं बोधयितुं भगवद्-आविर्भाव-मात्रस्य भक्तेः सर्वोत्तम-श्रेयस्त्वम् आह—स वै इत्य्-आदिना अतो वै कवय इत्य् अन्तेन ग्रन्थेन ।
यतो धर्माद् अधोक्षजे भक्तिस् तत्-कथा-श्रवणादिषु रुचिर् भवति । धर्मः स्वनुष्ठित [भा।पु। १.२.८] इत्य्-आदौ व्यतिरेकेण दर्शयिष्यमाणत्वात् । स वै स एव । स्वनुष्ठितस्य धर्मस्य संसिद्धिर् हरि-तोषणं [भा।पु। १.२.१३] इति वक्ष्यमाण-रीत्या तत्-सन्तोषार्थम् एव कृतो धर्मः परः सर्वतः श्रेष्ठः न निवृत्ति-मात्र-लक्षणोऽपि, वैमुख्याविशेषात् । तथा च श्री-नारद-वाक्यम्—नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् इत्य्-आदौ, कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं कर्म यद् अप्य् अकारणम् [भा।पु। १.५.१२] इति । अतो वक्ष्यते अतः पुम्भिर् [भा।पु। १.२.१३] इत्य्-आदि । ततः स एवैकान्तिकं श्रेयः इत्य् अर्थः । अनेन भक्तेस् तादृश-धर्मतोऽपि अतिरिक्तत्वम् । तस्याः भक्तेः स्वरूप-गुणम् आह, स्वत एव सुख-रूपत्वाद् अहैतुकी फलान्तरानुसन्धान-रहिता । अप्रतिहता तद्-उपरि-सुखद-पदार्थान्तराभावात् केनापि व्यवधातुम् अशक्या च । जातायां च तस्यां रुचि-लक्षणायां भक्त्या तयैव श्रवणादि-लक्षणो भकि-योगः प्रवर्तितः स्यात् ॥६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्व-शास्त्र-सारम् ऐकान्तिकं श्रेयो ब्रूहीति प्रश्न-द्वयस्योत्तरम् आह—स वै पुंसां पुं-मात्राणाम् एव धर्मः परः परमः श्रव-कीर्तनादि-लक्षणः । यद् उक्तं—
एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।
तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् ॥ [भा।पु। ६.३.२२]
इत्य् अतः पर-शब्द-विशेष्यो धर्मो भक्ति-योगः । एव भवेद् इति तथात्र वतुप्-प्रत्ययेनैव-कारेण चैतद् अन्यस्य पर-धर्म-पद-वाच्यत्वं निषिद्धम् । यतो भक्तिः प्रेम-लक्षणा भवेद् अहैतुकी हेतुं विनैवोत्पद्यमाना इति सगुणा व्यावृत्ता ।
ननु महानयम् अपलापः क्रियते, मैवम् । श्रवण-कीर्तनादि-रूपो यो धर्मः स भक्तिर् एव साधन-नाम्नी । सैव पाक-दशायां प्रेम-नाम्नी । ते द्वे अपि भक्ति-शब्देनैवोच्यते । तद् अपि भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुं [भा।पु। ११.३.३१] इति यतो भक्तिर् अधोक्षजे इत्य्-आदिषु उत्तरस्या भक्तेः पूर्वा भक्तिः कारणं पक्वाम्रस्य कारणम् आमाम्रम् इतिवत् । स्वाद-भेद-निबन्धनम् एव तस्य कारणत्वं बाल-बोधनार्थं काल्पनिकम् एव, न तु वास्तवम् । न ह्य् एकस्यैव पुरुषस्य बाल्य-यौवनाद्य्-अनेकावस्थावतो हेतु-हेतुमद्-भावस् तात्त्विक इति । घट-पटौदनादिषु मृत्-तन्तु-तण्डुलादीनां नाम-रूप-लोप इवेति । न तत्र तादृशत्वं व्याख्यातुं शक्यम् इत्य् अवसेयम् । न च भक्तेः प्रसिद्धो हेतुः साधु-सङ्ग एवास्तीति वाच्यम् । तस्यापि आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया [भ।र।सि। १.३.११] इत्य् आदौ भक्तेर् द्वितीय-भूमिकात्वेनोक्तत्वाद् भक्तित्वम् एव । स्यान् महत्-सेवया विप्र [भा।पु। १.२.१६] इत्य् अग्रेऽपि व्याख्यास्यमानत्वाच् च । किं च, दान-व्रत-तपो-होमादि-निष्काम-कर्म-योगश् च ज्ञानाङ्ग-भूतायाः सात्त्विक्या एव भक्तेः कथञ्चिद् धेतुर् भवति, न तु निर्गुणायाः ।
यं न योगेन साङ्ख्येन दान-व्रत-तपो-ऽध्वरैः ।
व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [भा।पु। ११.१२.९]
इत्य् एकादशोक्तेः । न च निर्गुणाया भक्तेर् भगवत्-कृपैव हेतुर् इत्य् अपि वाच्यम् । तस्यापि हेताव् अन्विष्यमाणे अनवस्थानात् । न च सा निरुपाधिर् एव केवला हेतुर् इत्य् अपि वाच्यम् । तस्या असार्वत्रिकत्वेन भगवति वैषम्य-प्रसक्तेः । किं च, भक्त-कृपैव हेतुर् इत्य् उक्तेर् न किञ्चिद् असामञ्जस्यम् । उत्तम-भक्तानां वैषम्याभावेऽपि प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः [भा।पु। ११.२.४६] इति मध्यम-भक्त-लक्षणे वैषम्यस्य दर्शनात् । ततश् च भत्गवतो भक्ताधीनत्वात् भक्त-कृपानुगामिनी भगवत्-कृपा-हेतुर् इति सिद्धान्तः ।
ननु, तर्हि कथं भक्तेर् अहैतुकत्वम् अभूत् ? उच्यते । भगवत्-कृपाया भक्त-कृपान्तर्भूतत्वाद् भक्त-कृपायाश् च भक्त-सङान्तर्भूतत्वाद् भक्त-सङ्गस्य भक्त्याङ्गत्वाद् अहैतुकत्वम् एव सिद्धम् । किं च, भक्त-कृपाया हेतुर् भक्तस्यैव तस्य हृदय-वर्तिनी भक्तिर् एव तां विना कृपोदय-सम्भवाभावात् । सर्व-प्रकारेणापि भक्तेर् भक्तिर् एव हेतुर् इति निर्हेतुकत्वं सिद्धम् । भक्ति-मते भक्ति-भक्त-भजनीय-तत्-कृपादीनां न पृथग्-वस्तुत्वम् इति भक्तेः स्वप्रकाशकत्वेन भक्ति-प्रकाश्यत्वेऽपि भगवतः स्वप्रकाशकत्वं नानुपपन्नम् इति । अप्रतिहता केनापि निवारयितुम् अशक्या । तथा हि तल्-लक्षणे । मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ [भा।पु। ३.२९.१२] इति वक्ष्यते । उक्तं च श्री-रूप-गोस्वामि-चरणैः । सर्वथा ध्वंस-रहितं सत्य् अपि ध्वंस-कारणे [उ।नी। १४.६३] इति । ज्ञान-कर्मादिभिर् अपावृतेति वा । यया भक्त्या आत्मा मनः सम्यग् एव प्रसीदतीति कामना-मालिन्ये सति मनः प्रसाद-हेतुत्वासम्भवाद् अस्या भक्तेर् निष्कामत्वं स्वत एवायातम् ॥६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पुंसाम् ऐकान्तिकं श्रेयो ब्रूहीति प्रथम-प्रश्नस्योत्तरम् आह—स इति । पुंसां स्वस्व-विहितोऽग्निहोत्रादि-लक्षणो धर्मः परः श्रेष्ठः, यतोऽधोक्षजे हरौ भक्तिस् तत्-कथासु रुचिर् भवेत् । स्वर्गादि-फलकस् त्व् अपर इत्य् अर्थः । कीदृशी भक्तिः? अहैतुकी फलेच्छाशून्या यस्या भक्तेर् भजनीयादन्यत् फलं न स्यात् साहैतुकी । अप्रतिहता प्राबल्याद् विघ्नैर् अनभिभूता ॥६॥
———————————————————————————————————————
॥ १.२.७ ॥
वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।
जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन [बृ।आ।उ। ४.४.२२] इत्य्-आदि-श्रुतिभ्यो धर्मस्य ज्ञानाङ्गत्वं प्रसिद्धं तत् कुतो भक्ति-हेतुत्वम् उच्यते ? सत्यम्, तत् तु भक्ति-द्वारेणेत्य् आह—वासुदेव इति । अहैतुकं शुष्क-तर्काद्य्-अगोचरम् औपनिषदम् इत्य् अर्थः ॥७॥
———————————————————————————————————————
**सनातन-गोस्वामी- **[ह।भ।वि। ११.५७२] अहैतुकं शुष्क-तर्काद्य्-अगोचरम् औपनिषदम् इत्य् अर्थः । यद् वा, निष्काम-जन-प्राप्य-पदं यत् मोक्षाख्यं वा श्री-वैकुण्ठाख्यं, तच् च । यद् वा, फलाभिसन्धि-रहितं प्रेम च जनयतीत्य् अर्थः ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततश् च यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इत्य्-आद्य्-अनुसारेण भगवत्-स्वरूपादि-ज्ञानं ततोऽन्यत्र वैराग्यं च तद्-अनुगाम्येव स्याद् इत्य् आह—वासुदेव इति । अहैतुकं शुष्क-तर्काद्य्-अगोचरम् औपनिषदं ज्ञानम् आशु ईषत्-श्रवण-मात्रेण जनयतीति । ज्ञानं च तद् अहैतुकम् इति पाठः क्वचित् ॥७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु स एव किम्-आकार आत्म-प्रसादः ? इत्य् अपेक्षायां सर्व-दुर्विषय-वैमुख्यापादक-भगवद्-रूप-गुण-माधुर्यानुभव-ज्ञान-मय एवायम् इत्य् आह—वासुदेव इति । प्रकर्षेण योजितः सम्बद्धः दास्य-सख्यादि-सम्बन्ध-युक्तः कृत इति यावत् । श्लेषेण प्रयोजनीकृतः भक्ति-योगस्य भक्ति-योग एव प्रयोजनं नान्य इत्य् एव विचारित इत्य् अर्थः । जनयतीति । ज्ञान-वैराग्यार्थं पृथक् यत्नो भक्तैर् न कर्तव्य इति भावः । आशु शीघ्रं तत्-काल एवेत्य् अर्थः । यद् वक्ष्यते—
भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायोऽनु-घासम् ॥ [भा।पु। ११.२.४२] इति ।
ननु तर्हि ज्ञानात्न् मोक्ष एव भावीति तत्राह अहैक्तुकम् अन्नस्य हेतोर् वसति इतिवद् धेतुः प्रयोजनं तद् अत्र सायुज्यं तन् नार्हतीति । तेन भगवद्-रूप-गुण-माधुर्यानुभाव-मयम् एव ज्ञानम् आयातम् । एवम् एव चतुर्थेऽपि वक्ष्यते—
वासुदेवे भगवति भक्ति-योगः समाहितः ।
सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ [भा।पु। ४.२९.३७] इति ।
तत्र सध्रीचीन-प्रकारं खलु मोक्षादि-फलान्तराभिसन्धि-राहित्यम् एवेति व्याख्यास्यते ।
सोऽचिराद् एव राजर्षे स्याद् अच्युत-कथाश्रयः ।
शृण्वतः श्रद्दधानस्य नित्यदा स्याद् अधीयतः ॥ [भा।पु। ४.२९.३८]
इत्य् अन्तर-वाक्ये तत्-कारणं च स एव दृष्ट इति । एवं च भक्तेः कारणं प्रयोजनं च भक्तिर् एवेति व्यवस्थितम् ॥७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु वैराग्य-ज्ञाने विना भक्तिः स्थिरा न स्यात्-तत्राह—वासुदेव इति । वासुदेवे कृष्णे वाद-वेद्ये, वसनाद् एव वादे च वासुदेवेति शब्द्यते इति हरिवंशे तं प्रति हर-वाक्यात् । तत्त्व-बुभुत्सु-कथा हि वादः । तद् उद्देश्यक-स्व-धर्मानुष्ठान-काले एव तेऽङ्कुरिते तद् उद्गतो भक्ति-योगस्तु ते प्रस्फुटयतीत्य् अर्थः । अहैतुकं शुष्क-तर्कागम्यम् औपनिषदम् इत्य् अर्थः ॥७॥
———————————————————————————————————————
॥ १.२.८ ॥
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः ।
नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **व्यतिरेकम् आह—धर्म इति । यो धर्म इति प्रसिद्ध स यदि विष्वक्सेनस्य कथासु रतिं नोत्पादयेत् तर्हि स्वनुष्ठितोऽपि सन्न् अयं श्रमो ज्ञेयः । ननु मोक्षार्थस्यापि धर्मस्य श्रमत्वम् अस्त्य् एवात आह—केवलम्, विफलः श्रम इत्य् अर्थः । नन्व् अस्ति तत्रापि स्वर्गादि-फलम् इत्य् आशङ्क्यैव-कारेण निराकरोति । क्षयिष्णुत्वान् न तत्-फलम् इत्य् अर्थः । ननु, अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इत्य्-आदि श्रुतेर् न तत्-फलस्य क्षयिष्णुत्वम् इत्य् आशङ्क्य हि-शब्देन साधयति । तद् यथेह कर्म-चितो लोकः क्षीयते एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते [छा।उ। ८.१.६] इति तर्कानुगृहीतया श्रुत्या क्षयिष्णुत्व-प्रतिपादनात् ॥८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **व्यतिरेकम् आह—धर्मः स्वनुष्ठित इति । वासुदेव-तोषणाभावेन यदि तत्-कथासु तल्-लीला-वर्णनेषु रतिं रुचिं नोत्पादयेत्, तदा श्रमः स्यान् न तु फलम् । कथा-रुचेः सर्वत्रैवाद्यत्वात् श्रेष्ठत्वाच् च सैवोक्ता । तद्-उपलक्षणत्वेन भजनान्तर-रुचिर् अप्य् उपदिष्टा । एव-शब्देन प्रवृत्ति-लक्षण-कर्म-फलस्य स्वर्गादेः क्षयिष्णुत्वम् । हि-शब्देन तत्रैव यथेह कर्म-जितो लोकः क्षीयते [छा।उ। ८.१.६] इति सोपपत्तिक-श्रुति-प्रमाणत्वम् । निर्णीते केवलम् इत्य् अमर-कोषात् केवलम् इत्य् अव्ययेन निवृत्ति-मात्र-लक्षण-धर्म-फलस्य ज्ञानस्यासाध्यत्वम्, सिद्धस्यापि नश्वरत्वम् । तत्रापि तेनैव हि-शब्देन यस्य देवे परा भक्तिर् [श्वे।उ। ६.२३] इत्य्-आदि श्रुति-प्रमाणत्वम्, नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १.५.१२], श्रेयः-सृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवल-बोध-लब्धये इत्य्-आदि [भा।पु। १०.१४.४], आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः [भा।पु। १०.२.३२] इत्य्-आदि वचन-प्रमाणत्वं च सूचितम् । श्लोक-द्वयेन भकिर् निरपेक्षा, ज्ञान-वैराग्ये तु तत्-सापेक्षे इति लभ्यते ॥८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु वर्णाश्रमाचार-लक्षणो धर्मः कथं न परस् तत्राह धर्म इति । यः पुंसां विप्रादीनां सुष्ठु अनुष्ठितो धर्मः सः । विष्वक्सेन-कथासु रतिं नोत्पादयेत् कर्मणा पितृ-लोक इति श्रुतेः । कर्मणां रत्य्-अनुत्पादकत्वं च । कर्मभिर् वा त्रयी-प्रोक्तैर् इत्य् आदौ न यत्रात्म-प्रदो हरिर् [भा।पु। ४.३१.१०-१२] इति चतुर्थे नारदोक्तेर् एव व्यक्तम् । यद् च रतिं नोत्पादयेत् तर्हि केवलं श्रम एव पितृ-लोकादेर् नश्वरत्वात् तस्मात् स्व-धर्मं त्यक्त्वा श्रवण-कीर्तनादि-लक्षणः पूर्वोक्तः परो धर्म एवानुष्ठेय इति भावः ।
यद् वा, ननु च—
अस्मिन् लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः ।
ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं च यदृच्छया ॥ [भा।पु। ११.२०.११]
इति श्री-भगवद्-उक्तेर् निष्कामः कर्म-योग एव भक्तेर् हेतुर् अस्ति तत् कथं भक्तिर् अहैतुकीत्य् उच्यते । सत्यम् । तत्र कर्म-योगस्य ज्ञान-जनकत्वम् इव न साक्षात् भक्ति-जनकत्वं व्याख्यातुं शक्यं मध्ये यदृच्छयेति पदोपादानात् । ततश् च तत्र पुंसि भक्तेर् यदृच्छ स्वैरिता यदि स्याद् दैवाद् अन्य-निरपेक्ष एव शुद्ध-भक्तेः प्रवेशः स्यात्, तदा ताम् अपि स प्राप्नोतीति तत्रार्थः । यदृच्छा स्वैरितेत्य् अभिधानात् कष्ट-कल्पनया व्याख्यानन्तरे भक्तेः स्व-प्रकाशत्वं न सिद्धेद् इति तद् अनादृतम् इत्य् अतो निष्कामोऽपि कर्म-योगो न भक्तेर् हेतुर् इत्य् आह—धर्म इति य इति । स वै पुंसां परो धर्मः [भा।पु। १.२.६] इति पदोक्तात् परम-धर्माद् अन्यो यो वर्णाश्रमाचार-लक्षणः स्वनुष्ठितो निष्कामोऽपि धर्मो विष्वक्सेन-कथासु रतिं प्री।तिं नोत्पादयेत् स केवलं श्रम एव यदीति गर्हायां श्रम-जनकत्वाद् गर्हितेत्य् अर्थः । यदि गर्हा-विकल्पयोर् इतिमेदिनी ।
यद् वा, असन्देहेऽपि सन्देह-वचनं यदि वेदाः प्रमाणम् इतिवत् । धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि इत्य् अत्र यदीति शब्दो निश्चये इति श्री-स्वामि-चरणानां व्याख्यानाच् च ।
यद् वा, ननु प्रसिद्ध-धर्माद् अपि क्वचित् हरि-कथासु प्रीतिर् उत्पाद्यत इति श्रूयते । सत्यम् । तया विना धर्म-फलाप्राप्तेः सा खल्व् औपाधिक्य् एव न तात्त्विकीत्य् आह—धर्म इति । य इति स प्रसिद्धो धर्मः काम्यो नित्यो वा विष्वक्सेन-कथासु रतिं प्रीतिं यदि नोत्पादयेत्, तदा श्रम एव । अयम् अर्थः—यथा कर्षकाणां नृपे प्रीतिं कृषिर् एवोत्पादयत्य् अन्यथा तस्याः फलाप्राप्तेर् एवम् एव धर्मोऽपि विष्वक्सेन-कथासु प्रीतिं विना स्वस्य वैफल्य-दर्शनयैव तत्र विवेकिनां नोत्पादयेत्, तदा केवलं श्रम एव । यथा नृपे प्रीतिं विना कृषि-फलस्यालाभात् श्रम एव, तथैव हरौ भक्तिं विना प्रवृत्त-निवृत्त-धर्म-फलयोः स्वर्गादि-ज्ञानयोर् अलाभात् श्रमः ।
यद् उक्तं—कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं कर्म तद् अप्य् अकारणं [भा।पु। १.५.१२, १२.१२.५३] इति । यथा च कृषौ प्रीत्य्-अनुरोधाद् एव नृपे प्रीतिः, न तु वस्तुतस् तथैव धर्मे प्रीत्य्-अनुरोधाद् एव तत्-कथासु प्रीतिर् न तु तत्र वस्तुतः इति विवेचनीयम् । अत एव प्रह्लादेनोक्तम्—नान्यथेथावयोर् अर्थो राज-सेवकयोर् इव [भा।पु। ७.१०.६] इति ॥८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **व्यतिरेकेणाह धर्म इति । रतिं तत्-कथा-श्रवन-रुचिं, यच् च तस्य स्वर्गादि-फलम् श्राव्यते, तत् तु विनाशित्वान् न फलम् इति हि-शब्दात् ॥८॥
———————————————————————————————————————
॥ १.२.९ ॥
धर्मस्य ह्य् आपवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं हरि-भक्ति-द्वारा तद्-इतर-वैराग्यात्म-ज्ञान-पर्यन्तः परो धर्म इत्य् उक्तम् । अन्ये तु मन्यन्ते । धर्मस्यार्थः फलम्, तस्य च कामः फलम्, तस्य चेन्द्रिय-प्रीतिः, तत्-प्रीतेश् च पुनर् अपि धर्मार्थादि-परम्परा । यथाहुः—धर्माद् अर्थश् च कामश् च स किम्-अर्थं न सेव्यते ? इत्य्-आदि । तन् निराकरोति—धर्मस्येति द्वाभ्याम् । आपवर्ग्यस्य उक्त-न्यायेनापवर्ग-पर्यन्तस्य धर्मस्य अर्थाय फलत्वाय अर्थोनोपकल्पते, योग्यो न भवति । तथा **अर्थस्य **अप्य् एवं-भूत-धर्माव्यभिचारिणः कामो लाभाय फलत्वाय न हि स्मृतो मुनिभिः2 ॥९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं भक्ति-फलत्वेनैव धर्मस्य साफल्यम् उक्तम् । तत्र यद् अन्ये मन्यन्ते—धर्मस्यार्थः फलम् । तस्य कामस् तस्य चेन्द्रिय-प्रीतिस् तत्-प्रीतेश् च पुनर् अपि धर्मादि-परस्परेति तच् चान्यथैवेत्य् आह द्वाभ्याम् ।
आपवर्ग्यस्य—यथा-वर्ण-विधानम् अपवर्गश् च भवति । योऽसौ भगवति सर्वात्मन्य् अनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-बन्धन-द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्ग [भा।पु। ५.१९.१९-२०] इति पञ्चम-स्कन्ध-गद्यानुसारेण अपवर्गो भक्तिः । तथा च स्कान्दे रेवा-खण्डे—
निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन ।
मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरे ॥ इति ।
अत उक्त-रीत्या भक्ति-सम्पादकस्येत्य् अर्थः ॥
अर्थाय फलत्वाय । तथा अर्थस्य अप्य् एवं-भूत-धर्माव्यभिचारिणः कामो लाभाय फलत्वाय न हि स्मृतस् तत्त्व-विद्भिः । इत्य्-आदिकं भक्ति-सन्दर्भे (६) ॥९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं चात्र लोके चतुर्विधा जनाः कर्मिणो ज्ञानिनो योगिनो भक्ताश् च । तत्र धर्माद्य्-अर्थश् च कामश् च स किम्-अर्थं न सेव्यते ? इति दृष्ट्या धर्मस्य अर्थः फलम्, अर्थस्य कामः, कामस्य इन्द्रिय-प्रीतिः, इन्द्रिय-प्रीतौ च सत्यां तद्-अर्थं पुनर् अपि धर्मादि-परस्परा यथा कर्मिणां न तथा उत्तरेषां त्रयाणाम् इत्य् आह ।
धर्मस्य शम-दमादेर् यम-नियमादेश् च, श्रवण-कीर्तनादेश् च । अर्थः सर्वथा भवन्न् अपि अर्थाय फलत्वाय न कल्पते । तम् अनुसन्धाय तत्-तद्-अप्रवृत्तेः यतः आपवर्ग्यस्य अपवर्ग-प्रयोजकस्य तद् अस्य प्रयोजनम् इत्य् अर्थे स्वर्गादिभ्यो य इति स्वार्थिकाण्-अन्तात् य-प्रत्ययः । तेन अपवर्ग एव अनुसंहितं फलम् इति भावः । ज्ञानि-योगिनोर् मते अपवर्गो मोक्षः, भक्त-मते प्रेम-भक्तिः । यथा-वर्ण-विधान अपवर्गश् च भवति । योऽसौ भगवति सर्वात्मन्य् अनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-बन्धन-द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्ग [भा।पु। ५.१९.१९-२०] इति पञ्चम-स्कन्धात्, येनापवर्गाख्य-मद्-अभ्र-बुद्धिर् इत्य् आदौ, खगेन्द्र-ध्वज-पाद-मूलं [भा।पु। १.१८.१६]3 इति प्रथम-स्कन्धाच् च ।
निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन ।
मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरे ॥ इति ।
इति स्कान्दे रेवा-खण्डाच् च । तथा अर्थस्य कामो लाभाय फलत्वाय न । यतो धर्मैकान्तस्य धर्म एव अनुसंहितं फलम् इति भावः । तथा ज्ञानि-योगिनोः । शम-दमादि-यम-नियमाद्य्-अनुकूले कस्मिंश्चन धर्म-विशेषे । अर्थस्य विनियोगः भक्तस्य तु भगवतो भागवतानां वा सेवायां सुस्पष्ट एव ॥९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यत् तु प्रवृत्तिपरा मन्यन्ते—धर्मस्यार्थः फलम् तस्य कामस् तस्येन्द्रिय-प्रीतिस्ततः पुनर् धर्मादि-परम्परेति उक्तं च धर्मादर्थश् च कामश् च स किम् अर्थं न सेव्यते इति तान्-निराह—धर्मस्येति । धर्मस्य स्वविहितस्य कर्मणोऽर्थाय फलत्वायार्थः संपत् न कल्पते योग्यो न भवति । कीदृशस्येत्य् आह—आपवर्ग्यस्येति । यथा-वर्ण-विधानम् अपवर्गश् च भवति [भा।पु। ५.१९.१८] इत्य्-आदि-पञ्चम-गद्यानुसाराद् अपवर्गो निष्काम-भक्ति-योगस् तत्-सम्पादकस्येत्य् अर्थः । तस्येदम् इत्य् अणन्ताद् आपवर्ग-शब्दात् स्वार्थिकः ष्यञ् । तथार्थस्य धर्मैकान्तस्य तादृश-धर्माव्यभिचारिणः कामो विषय-भोगो लाभाय न स्मृतो नोक्तो विवेकिभिः ॥९॥
———————————————————————————————————————
॥ १.२.१० ॥
कामस्य नेन्द्रिय-प्रीतिर् लाभो जीवेत यावता ।
जीवस्य तत्त्व-जिज्ञासा नार्थो यश् चेह कर्मभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कामस्य च विषय-भोगस्य इन्द्रिय-प्रीतिर्लाभः फलं न भवति, किं तु यावता जीवेत तावान् एव कामस्य लाभः । [तादृश-] जीवन-पर्याप्त4 एव कामः सेव्य इत्य् अर्थः । जीवस्य जीवनस्य च पुनः कर्मानुष्ठान5-द्वारा कर्मभिर्य इह प्रसिद्धः [स्वर्गादिः] सोऽर्थो न भवति, किं तु तत्त्व-जिज्ञासा एवेति लाभः ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं तत्त्व-ज्ञानं यस्या भक्तेर् अवान्तर-फलम् उक्तं, सैव परमं फलम् इति भावः ॥१०॥ (भक्ति-सन्दर्भ ६)
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कामस्य विषय-भोगस्य इन्द्रिय-प्रीतिर्लाभः फलं न भवति, किं तु यावता जीवेत तावान् एव जीवन-पर्याप्तः कामः सेव्यत इत्य् अर्थः । तत्र ज्ञानिनां योगिनां वार्थ कामेन्द्रिय-प्रीतयो ज्ञान-योगयोर् आनुषङ्गिक-फलानि, कर्म-फलत्वेनैव व्यपदिश्यन्ते, ज्ञान-योगयोस् तयोर् निष्काम-कर्म परिणामत्वात् । अतो ज्ञानिनां योगिनां च दृष्टे सुख-दुःखे कर्म-फले एवोच्येते । भक्तानां त्व् अर्थ-कामेन्द्रिय-प्रीतयो भक्तेर् एवानुषङ्गिक-फलानि । भक्तेः कर्म-परिणामत्वाभावात् न तेषां कर्म-फलत्व-व्यपदेशः । अतो भक्तानां दृष्टं सुखं भक्ति-फलम् एव । दुःखं तु—
यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः ।
ततोऽधनं त्यजन्त्य् अस्य स्व-जना दुःख-दुःखितम् ॥ [भा।पु। १०.८८.८]
इत्य्-आदि-भगवद्-वचनाद् भगवद्-उत्थं भक्त्य्-अपराध-फलं चेति यथा-योग्यं विवेचनीयम् । जीवस्य जीवनस्य तत्त्व-जिज्ञासा फलं, कर्मभिः पुनर् अप्य् अनुष्ठितैर् य इह प्रसिद्धः स्वर्गादिः स नैव ॥१०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कामस्य त्वगादिभिः स्पर्शादीनाम् अनुभवस्येन्द्रिय-प्रीतिस् त्वग्-आदिनाम् प्रसन्नता-लाभः फलम् न, तस्याः क्षणिकत्वात् इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता । रसने दर्शने घ्राणे श्रवणे च विशाम्पते! इति मोक्ष-धर्मात् । किन्तु यावता जीवेत तावान् एव कामस्य लाभः, यावता स्यात् स्व-निर्वाहः स्वीकुर्यात्-तावद् अर्थवित् । आधिक्ये न्यूनतायाञ् च च्यवते परमार्थतः इति नारदीयात् । जीवस्य जीवनस्य, भावे घञ् । चित्त-शोधक-निष्काम-धर्मानुष्ठान-द्वारा तत्त्व-जिज्ञासैवार्थः । इह कर्मभिर् यः पशुपुत्र-स्वर्गादि-रर्थः ख्यातः, स तु नेत्य् आर्थः, तस्य क्षयित्वाद् एव । इदम् अत्र बोध्यं—निवृत्ति-पराणाम् मुमुक्षूणां निवृत्ति-निमित्तानि कर्माणि, निवृत्तं कर्म सेवेत प्रवृत्तं मत्-परस्त्यजेत् इति [भा।पु। ११.१०.४] वक्ष्यमाणात् । तानि चाग्निहोत्र-दर्शपौर्णमास-चातुर्मास्यान्य् एवापशुकानि । मोक्ष-धर्मे [१७५.३१-३३] पिता-पुत्र-संवादे—
सोऽहं ह्य् अहिंस्रः सत्यार्थी कामक्रोध-बहिष्कृतः ।
सम दुःख-सुखः क्षेमी मृत्युं हास्याम्य् अमर्त्यवत् ॥
शान्ति-यज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ।
वाङ्-मनः-कर्म-यज्ञश् च भविष्याम्य् उदगायने ॥
पशु-यज्ञैः कथं हिंस्रैर् मादृशो यष्टुम् अर्हति ।
अन्तविद्भिर् इव प्राज्ञः क्षत्र-यज्ञैः पिशाचवत् ॥ इति पुत्र-वाक्यात् ।
तत्रैव कपिल-स्यूमरश्मि-संवादे
दर्शनं चा पौर्णमासञ् च अग्नि-होत्रञ् च धीमतां ।
चातुर्मास्यानि चैवासंस् तेषु यज्ञः सनातनः ॥
अनारम्भाः सुधृतयः शुचयो ब्रह्म-सञ्ज्ञिताः ।
ब्रह्मणैव स्म ते देवांस् तर्पयन्त्य् अमृतैषिण ॥[शा।प। २६८.२०-२१] इति कपिल-वाक्याच् च ।
एतान्य् अहिंस्राणि सनिष्टैस् तात्पर्येण, परिनिष्ठितैस् तु भक्तिर् निष्ठैर् लोक-सञ्जिघृक्षयेति मुख्यत्वम् एषां शान्ति-मिश्रत्वात् । ज्योतिष्टोम-युद्धादीनि तु हिंस्राण्य् अपि राज-धर्माधिकृतानाम् अतिप्रवृत्ति-शीलानां प्रवृत्तेः सङ्कोचायोक्तानि । तत्-सङ्कोचे तु शन्तिर्हृच्छुद्धिश् च स्याद् एवेति तेषां गौण्यं ॥१०॥
———————————————————————————————————————
॥ १.२.११ ॥
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अद्वयम् असमाधिकम् । तथा च भाल्लवेय श्रुतिः—स पुरुषः सोऽद्वयः इति । न ह्य् एनम् अभि कश्चन ह्य् एनम् अतिकश्चन इति च । सोऽद्वयः पुरुषस् तस्मान् न समो नाधिको य अत इति महा-संहितायाम् । तत्त्व-शब्दार्थस् तत्रैवोक्तः ।
अतीतानागते काले यत् तादृशम् उदीर्यते ।
कुतश्चिद् अन्यथानेयात् तत् तत्त्वं तत्त्वतो विदुः ॥ इति ॥११॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु च तत्त्व-जिज्ञासा नाम धर्म-जिज्ञासैव धर्म एव हि तत्त्वम् इति केचित् ? तत्राह—तत्त्व-विदस् तु तद् एव तत्त्वं वदन्ति । किं तत् ? **यज् ज्ञानं **नाम । अद्वयम् इति क्षणिक-विज्ञान-पक्षं व्यावर्तयति । ननु तत्त्व-विदोऽपि विगीत-वचना एव ? मैवम् । तस्यैव तत्त्वस्य नामान्तरैर् अभिधानाद् इत्य् अर्थः । औपनिषदैर् ब्रह्मेति, हैरण्यगर्भैः परमात्मेति, सात्वतैर् भगवान् इत्य् अभिधीयते ॥११॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वदन्तीति तैर् व्याख्यातम् । तत्र विगीत-वचनाः इत्य् अत्र परस्परम् इति शेषः । तत्त्वसय नामान्तरैर् अभिधानात् इति धर्मिणि सर्वेषाम् अभ्रमात्, धर्म एव तु भ्रमाद् इति ।
यद् वा, किं तत्त्वम् ? इत्य् अपेक्षायाम् आह—वदन्तीति । **ज्ञानं **चिद्-एक-रूपम् । अद्वयत्वं चास्य स्वयं-सिद्ध-तादृशातादृश-तत्त्वान्तराभावात् स्व-शक्त्य्-एक-सहायत्वात् । परमाश्रयं तं विना तासाम् असिद्धत्वाच् च । तत्त्वम् इति परम-पुरुषार्थता-द्योतनया परम-सुख-रूपत्वं तस्य बोध्यते । अत एव तस्य नित्यत्वं च दर्शितम् ।
अत्र श्रीमद्-भागवताख्य एव शास्त्रे क्वचिद् अन्यत्रापि तद् एकं तत्त्वं त्रिधा शब्द्यते । क्वचिद् ब्रह्मेति, क्वचित् परमात्मेति, क्वचिद् भगवान् इति च । किन्त्व् अत्र श्रीमद्-व्यास-समाधि-लब्धाद् भेदाज् जीव इति च शब्द्यते इति नोक्तम् इति ज्ञेयम् ।
6अत्र शक्ति-वर्ग-लक्षण-तद्-धर्मातिरिक्तं केवलं ज्ञानं ब्रह्मेति शब्द्यते, अन्तर्यामित्व-मय-माया-शक्ति-प्रचुर-चिच्-छक्त्य्-अंश-विशिष्टं परमात्मेति । परिपूर्ण-सर्व-शक्ति-विशिष्टं भगवान् इति ।7 एवम् एवोक्तं श्री-जड-भरतेन—
ज्ञानं विशुद्धं परमार्थम् एकम्
अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तं भगवच्-छब्द-सञ्ज्ञं
यद् वासुदेवं कवयो वदन्ति ॥ [भा।पु। ५.१२.११] इति ।
तस्मै नमो भगवते ब्रह्मणे परमात्मने [भा।पु। १०.२८.६] इत्य् अत्र वरुण-कृत-श्री-कृष्ण-स्तुतौ टीका च—परमात्मने सर्व-जीव-नियन्त्रे इत्य् एषा । ध्रुवं प्रति श्री-मनुना—
त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त ।
आनन्द-मात्र उपपन्न-समस्त-शक्तौ ॥ [भा।पु। ४.११.३०] इति ।
अत्रानन्द-मात्रं विशेष्यम्, समस्ताः शक्तयो विशेषणानि, विशिष्टो भगवान् इत्य् आयातम् । भगवच्-छब्दार्थः श्री-विष्णु-पुराणे प्रोक्तः—
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९] इति ॥११॥
[भगवत्-सन्दर्भ १]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्त्वम् एव किं ? तत्राह—वदन्तीति । यद् अद्वयं ज्ञानं तत् तत्त्वम् । ज्ञानम् एव किं ? तत्राह—ब्रह्मेति शब्द्यते ब्रह्मेति पदेन यद् उच्यते ज्ञानिभिस् तज् ज्ञानम् । तन्-मते ज्ञानं निराकारं ज्ञातृ-ज्ञेयादि-विभाग-शून्यं चित्-सामान्यं चिद्-विशेषाणां भगवद्-धामादीनां तद्-अनन्यत्व-मननात् । जीव-मायायास् तच्-छक्तित्वेन तद्-ऐक्याद् इदं-कारास्पदस्य कार्यस्य विश्वस्य कारण-मात्रात्मकत्वाद् अद्वैतम् ।
तथा परमात्मेति योगिभिर् यद् उच्यते तज् ज्ञानम् । एतन्-मते परमात्मनश् चिद्-एक-रूपत्वाज् ज्ञान-मात्रत्वं ज्ञान-मात्रत्वेऽपि साक्षित्वादेर् ज्ञान-विशेषस्याश्रयत्वम् अपि । द्युमणि-दीपादेर् ज्योती-रूपत्वेऽपि ज्योतिष्मत्त्वम् इव नानुपपन्नं—केचित् स्व-देहान्तर् हृदयावकाशे, प्रादेश-मात्रं पुरुषं वसन्तं [भा।पु। २.२.८] साकारत्वं च । मायायाः शक्तित्वान् मायिकानां च तद्-अन्यत्वाज् जीवस्य तद्-विभिन्नांशत्वात् ततो द्वितीयत्वाभावाद् अद्वयत्वम् ।
तथा भगवान् इति भक्तैर् यद् उच्यते तज् ज्ञानम् । एतन्-मते पूर्ववज् ज्ञान-मात्रत्वेऽपि भग-शब्द-वाच्य-षड्-ऐश्वर्यस्यापि अप्राकृतत्वेन चिन्-मात्रत्वात् तद्-रूपत्वम्, यद् उक्तं विष्णु-पुराणे—
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीङ्गना ॥ [वि।पु। ६.५.७४]
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९] इति ।
तथैव द्विभुजत्व-चतुर्भुजत्वादि-विविध-चिद्-घनाकारैर् बहिर् अन्तर्वर्तित्वेऽपि, न च्यवन्ते हि मद्-भक्ता महत्यां प्रलयापदि इति स्कान्दादि-वाक्यैः सदैव सेव्य-सेवक-सेवादि-विभागेऽपि अद्वयत्वं पूर्ववत्-तच्-छक्तीनां चिद्-आदीनां तद्-विलासानां च वैकुण्ठादीनां तद्-अभिन्नत्व-मननात् ततो भिन्नत्व-भावनैवाद्वय-पदेन व्यावृत्ता ।
एवं च भगवतः सामान्य-स्वरूप-मात्रस्योपादेयत्व-ज्ञानिन्य् अधिकारिणि ब्रह्मेति । अन्तर्यामित्वादि-द्वित्व-धर्मवत्त्वस्योपादाने योगिन्य् अधिकारिणि परमात्मेति । अचिन्त्यानन्त-चिद्-आनन्द-मय-स्वरूप-रूप-गुण-लीलाद्य्-अनेक-धर्मवत्त्वस्य ग्रहण-योग्यतायां भक्तेऽधिकारिणि भगवान् इति । स एवैको भाति ।
किं च—यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनं [भा।पु। १०.१४.३१] इति । कृष्णाय वासुदेवाय हरये परमात्मने [भा।पु। १०.७३.३६] इति, मदीयं महिमानं च परं ब्रह्मेति शब्दितं [भा।पु। ८.२४.२३] इति, ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति, विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इत्य्-आदि-वचनेभ्यः, तथा भगवद्-उपासकानां च प्रेम-प्राप्तेर् अपि दर्शनात् । ब्रह्म-परमात्मोपासकानां च प्रेम-प्राप्त्य्-अदर्शनाद् भगवत एव ब्रह्मत्व-परमात्मत्वे इत्य् अतो भगवत्त्वम् एव मूलम् इति द्रष्टव्यम् । तत्र ब्रह्मोपासकेभ्यो ज्ञानिभ्यः सकाशात् परमात्मोपासको योगी श्रेष्ठः । तेभ्यो योगिभ्योऽपि भगवद्-उपासकः श्रेष्ठ इति तारतम्यं गीतासु दृष्टम्, यथा—
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६.४६-४७]
योगिनाम् इति पञ्चम्य्-अर्थे षष्ठी श्री-रामानुजाचाय-चरणैर् व्याख्यातेति ॥११॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **जीवनस्यार्थस् तत्त्व-जिज्ञासेत्य् उक्तं, तत्त्वं दर्शयति—वदन्तीति । यद् अद्वयं ज्ञानं तत्-तत्त्वम् इति । अद्वयं द्वयात् जीव-प्रक्रिति-रूपाद् अन्यत् तद् अन्यत्वे नञ्, ततो भिन्नम् इत्य् अर्थः । न च जगद्-रूप-द्वयाभाववत्-तत्त्वं, वदतां तत्त्व-विदां सत्त्वेन तद् अभावस्य वक्तुम् अशक्यत्वाद् असत्त्वे तस्याप्रामाण्याच् च, आलयं पिबत इति मोक्षेऽअपि तत्-सत्त्वोक्तेश् च । ज्ञानं स्व-प्रकाशं जाड्य-गन्धेनाप्यानाघ्रातं, न च भाव-साधनत्वान्-निर्विशेषं तत्त्वं, अभिज्ञ इत्य्-आद्य्-उपक्रमात्, ब्रह्मेतीत्य्-आदिना विशेषाणां व्यक्तेश् च । यद्यपि भाव-साधनं ज्ञानं, तथापि विषेशाज्ज्ञातृतयाभासेत सवितृ-लक्षणः प्रकाशो यथा प्रकाशयितृतया । विशेषश् च भेद-प्रतिनिधिर् न भेदः निर्भेदेऽपि वस्तुनि भेद-कार्य-प्रत्यायकः, सत्ता सती, भेदो भिन्नः, कालः सर्व-दास्तीत्यादिषु विद्वद्भिर् अपि प्रतीतः । तं विना विशेषन-विशेष्य-भावादि न सम्भवेत् । न च सत्ता सतीत्य्-आदि बुद्धिर् भ्रमः, सन् घट इत्य्-अदिवद् अवधात्, न चारोपः सिंहो देवदत्तो नेतिवत् सत्ता सती नेति कदाचिद् अप्य् अव्यवहारात् । न च सत्तादेः सत्ताद्य् अन्तराभावेऽपि स्व-भावाद् एव सतीत्य्-आदि-व्यवहारः, स्व-भावस्यैवेह विशेष-शब्देनोक्तेः । तत्-सिद्धिस् तु तत्-प्रतीतार्थान्य् अथानुपपत्तेः एवं धर्मान् पृथक् पश्यं-स्तानेवानुविधावती [क।उ। ४.१४] इति श्रुतेश् च । इह हि ब्रह्म-धर्मानुक्त्वा तत्-पार्थक्यं प्रतिषिद्धं, न खलु तस्मिन्न् असति धर्म-धर्मि-भावो धर्म-बहुत्वं च शक्यते वक्तुं, स च चिन्-मात्रैक्यवादेऽपि दुस्त्यजः । तत्र हि शोधितात् पदार्थाद्वाक्यार्थस्य चिदैक्यस्य भेदो नाभिमतस् तथा सति तस्य मिथ्यात्वापत्तेः । तत्र विशेषो न चेच्-चिद्भानेऽपि तद् ऐक्यस्याभानं तद्-भानस्य भेद-भ्रमाविरोधित्वेऽपि तद् ऐक्य-भानस्य तद्-विरोधित्वञ् चेत्य्-आदि भेद-कार्यं तत्र कथं स्यात्? स च वस्त्व् अभिन्नः स्वनिर्वाही चेति नानवस्था । तस्य तादृक्त्वं च धर्मि-ग्राहक-मान-सिद्धं जगत्-कर्तुर् इव ज्ञानेच्छाकृतिमत्त्वम् इति । तच् च तत्त्वं विशेष-निर्भासित-गुणकं ब्रह्मेति नाम्ना शब्द्यते, एवम् अग्रेऽपि । इति त्रयात्रयाणां प्राधान्यं सूच्यते, तत्राद्येन बृहद् अनन्त-गुणत्वं—अथ कस्माद् उच्यते ब्रह्मेति बृहन्तो ह्य् अस्मिन् गुणा इति श्रौत-निरुक्तेः ।
पृथग्-वक्तुं गुणास् तस्य न शक्यन्तेऽमितत्वतः ।
यतोऽतो ब्रह्म-शब्देन सर्वेषां ग्रहणं भवेत् ॥
एतस्माद् ब्रह्म-शब्दोऽयं विष्णोर् एव विशेषणम् ।
अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम् ॥
इति ब्राह्माच् च, ब्रह्म-दृष्टिर् उत्कर्षात् [वे।सू। ४.१.५] इति न्यायाच् च । अन्यत्र तत्-प्रयोगो गौणो बोध्यः । मध्येन पराख्य-श्रीमत्त्वं, श्रीस् तु परैव स्वानुबन्धिनी, परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इति [श्वे।उ। ६.८] मन्त्रवर्णात् । अन्त्येन तु भक्त-वात्सल्यादि-बहु-गुण-शालित्वम्—
संभर्तेति तथा भर्ता भकारोऽर्थ-द्वयान्वितः ।
नेता गमयिता स्रष्टा ग-कारार्थस् तथा मुने!
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञान-वैराग्ययोश् चापि षण्णां भग इतीङ्गना ॥
वसन्ति यत्र भूतानि भूतात्म् अन्यखिलात्मनि ।
स च भूतेष्व् अशेषेषु व-कारार्थस् ततोऽव्ययः ।
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः [वि।पु। ६.५.७३-७५,७९]
इति श्री-वैष्णवात् । एभिस् त्रिभिर् नित्यम् उक्तादिभ्यो जीवेभ्यस् तस्य तत्त्वस्यान्यत्वम् । शब्द्यते इति तद्-वाच्यत्वञ्चोक्तम् । एवम् आह सूत्रकारः—इक्षतेर् नाशब्दम् [वे।सू। १.१.५] इत्य्-आदिभिः । यत् तु यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.४] इति श्रुतेर् न तद्-वाच्यं किन्तु लक्ष्यम् एवेत्य्-आह, तद् असत्, सर्व-शब्दावाच्ये लक्षनायोगात् । श्रुतिस् तु कार्त्स्न्यावाच्यताम् आह—कार्त्स्न्येन नाजोऽप्य् अभिधातुम् ईशः [भा।पु। १२.४.३९] इति वक्ष्यमानात् शब्द-शक्तेर् अचिन्त्यत्वाद् विनापि तां शुद्धार्थ-बोध इति तु तुच्छं, निर्मूलत्वात् । तथा चानन्त-कल्याण-गुणवन्-मूर्तं द्वय-भेदवत्तत्त्वम् इति ॥११॥
———————————————————————————————————————
॥ १.२.१२ ॥
तच् छ्रद्दधाना मुनयो ज्ञान-वैराग्य-युक्तया ।
पश्यन्त्य् आत्मनि चात्मानं भक्त्या श्रुत-गृहीतया ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सत्ता-मात्रम् आनन्द-मात्रम् । तथा च पैङ्गि-श्रुतिः—अथ कस्माद् उच्यते सत्त्वेति नन्दति नन्दयति चेतीति । न कार्य-कारण-विषय-विशेषित-वैषयिक-ज्ञानम् । केवलम् एव तज् ज्ञानम् । स्रष्टृत्वादिभिः कार्य-कारण-विशेषितं च । तन्त्र-भागवते च—
विषयापेक्षि न ज्ञानं विषयैश् च विशेषितम् ।
यत् तद् आनन्द-मात्रं च तद् ब्रह्मेत्य् अवधार्यताम् ॥ इति ।
यत् किञ्चिद् अलोक-सिद्धम् ॥१२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तच् च तत्त्वं स-परिकरया भक्त्यैव प्राप्यत इत्य् आह । तच् चेत्य् अन्वयः । ज्ञान-**वैराग्य-युक्तया **इत्य् अत्र ज्ञानं परोक्षम् । तच् च तत्त्वम् आत्मनि क्षेत्र-ज्ञे **पश्यन्ति **। किं तत् ? आत्मानं परमात्मानम् । श्रुतेन वेदान्तादि-श्रवणेन गृहीतया प्राप्तयेति भक्तेर् दार्ढ्यम् उक्तम् ॥१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तच् च त्रिधाविर्भाव-युक्तम् एव तत्त्वं भक्त्यैव साक्षात् क्रियत इत्य् आह—तद् इति । भक्त्या तत्-कथा-रुचेर् एव परावस्था-रूपया प्रेम-लक्षणया, तत् पूर्वोक्त-तत्त्वम् आत्मनि शुद्धे चेतसि पश्यन्ति च ।8 कीदृशं तत् ? आत्मानं स्वरूपाख्य-जीवाख्य-मायाख्य-शक्तीनाम् आश्रयम् । ज्ञान-वैराग्य-युक्तया स्वात्मजाभ्यां ताभ्यां सेवितया । अत एव ते पृथक् च विशिष्टं च पश्यन्तीत्य् आयाति ।
तद् एवं “श्रुतगृहीतया,““मुनयः,““श्रद्दधाना” इति पद-त्रयेण तस्या एव भक्तेर् दौर्लभ्यं दर्शितम् । सद्-गुरोः सकाशाद् वेदान्ताद्य्-अखिल-शास्त्रार्थ-विचार-श्रवण-द्वारा यदि सा [भक्तिः] आवश्यक-परम-कर्तव्यत्वेन ज्ञायते, पुनश् च—
भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् ॥ [भा।पु। २.२.३४]
इतिवद् यदि विपरीत-भावना-त्याजकौ मनन-योग्यता-मननाभिनिवेशौ स्याताम्, ततः श्रद्दधानैः सा भक्तिर् उपासना-द्वारा लभ्यते इति । अतः श्रुतिर् अपि तद्-अर्थम् आगृह्णाति । आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य [बृ।आ।उ। २.४.४.६] इति । अत्र निदिध्यासनम् उपासनम् । दर्शनं साक्षात्कार उच्यते ॥१२॥ [भक्ति-सन्दर्भ ७]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्-प्राप्ति-साधनम् आह । तज्-ज्ञानं त्रि-रूपं मुनयो मनन-शीला ज्ञानिनो योगिनो भक्ताश् च भक्त्या पश्यन्ति । तत्र ब्रह्मेति मते आत्मनि च तत्-पदार्थे ईश्वरे आत्मानं त्वं-पदार्थं जीवं पश्यन्त्य् अनुभवन्ति । परमात्मेति मते आत्मन्य् अन्तर् हृदये आत्मानम् अन्तर्यामिनं पश्यन्ति ध्यानेनालोकयन्ति । भगवान् इति मते आत्मनि मनसि च-काराद् बहिश् च स्फुरन्तम् आत्मानं भगवन्तं पश्यन्ति स्व-लोचनाभ्याम् एव तन्-माधुर्यम् आस्वादयन्ति । भक्त्येति । आदौ गुरु-मुखाच् छ्रुतो पश्चाद् गृहीता तया । भगवद्-विषयिण्य् एव श्रवण-कीर्तनादौ भक्ति-शब्दस्य रूढे ब्रह्मोपासकैः परमात्मोपासकैश् च स्व-स्व-साध्य-सिद्ध्य्-अर्थं भगवति भक्तिः कर्तव्यैव । ज्ञान-वैराग्य-युक्तयेति । ज्ञान-वैराग्ये पृथग् एव तेषाम् उभयेषां साधने ज्ञेये । भक्त-मते भक्त्य्-उत्थ-रतेर् भक्तेः प्रेमत्व-व्यञ्जके ज्ञेये ।
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ [भा।पु। ११.२०.३१] इति ।
शुद्ध-भक्तानां पृथक्तयोर् निषेधात् । अथवा, तच् च त्रिरूपं ज्ञानं भक्तास् तु भक्त्यैवानुभवितुं शक्नुवन्तीत्य् आह । तच्-छ्रद्दधानाः केचित् तत्-त्रिरूपम् अप्य् अनुभवितुं साभिलाषा भवन्तीत्य् अर्थः । तदा, भक्त्यैव पश्यन्ति । तेन ब्रह्म-परमात्मनोः साधने ज्ञान-योगय् भक्त्यैव सिद्धौ स्याताम् इति भावः ॥१२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तत्-तत्त्वं सपरिकरया भक्त्या लभ्यम् इत्य्-आह—मुनयस् तत्-तत्त्वम् आत्मानं विभु-विज्ञानानन्दम् आत्मनि चित्ते स्थितं भक्त्या पश्यन्ति । कथा-रुचेर् अन्तिमावस्थया प्रेम-लक्षणया चक्षुषाप्य् अनुभवन्ति, कश्चिद्-धीरः प्रत्यग् आत्मानम् ऐक्षत् ततस् तु तं पश्यते निष्कलं ध्यायमानः [क।उ। ४.१] इति श्रुतेः । कीदृशस्येत्य् आह—पूर्वं श्रुतया पश्चाद् गृहीतया । ज्ञानादिभ्याम् आत्मजाभ्यां युक्त्या निषेवितयेति तस्या दृढत्वं । एवम् आह सूत्रकारः—अपि संराधने प्रत्यक्षानुमानाभ्यां [ब्र।सू। ३.२.२४] इति ॥१२॥
॥ १.२.१३ ॥
अतः पुम्भिर् द्विज-श्रेष्ठा वर्णाश्रम-विभागशः ।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर् हरि-तोषणम् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यस्मात् परमात्मैव तत्त्वम् । तस्मात् तम् एव पश्यन्ति मुनयः । आत्मनीश्वर इति न जीवैक्यम् उच्यते । परेषाम् अपि ब्रह्मादीनां यतोऽवरत्वं स परावरः । भेद-दृष्टाभिमानेनेति हि कापिलेये । ब्रह्म-प्रधानम् उपयान्त्य् अगताभिमाना इति च । विद्यात्मनि भिदा-बोधः । यत्र हि द्वैतम् इव भवति । अन्यम् ईशस्य महिमानम् इति । अनश्नन् अन्योऽभिचाकशीति [मु।उ। ३.१.१] इति, छायातपौ ब्रह्म-विदो वदन्ति [क।उ। १.३.१], एको बहूनां यो विदधाति कामान् [श्वे।उ। ६.१३], सत्यः सो अस्य महिमा गृणेशवो यज्ञेषु विप्र-राज्ये । सत्यम् एनम् अनु विश्वे मदन्ति । यत्र पूर्वे साध्याः सन्ति देवाः । शृण्व् एवीर उग्रम् उग्रं दयायन्न् इत्य्-आदि च । मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत् ।
बहवः पुरुषा ब्रह्मन्न् उताहो एक एव तु ।
नैतद् इच्छन्ति पुरुषम् एकं कुर्कुलोद्वह ॥ इति मोक्ष-धर्मे ।
भेद-दृष्ट्याभिमानेन पश्यन्तो यान्ति तत्-पदम् इत्य्-आदि वायु-प्रोक्ते । ॐ अनुपपत्तेस् तु न शारीरः [विशेष्स् १.२.३], भेद-व्यपदेशात् [वे।सू। १.१.१७], पृथग् उपदेशात् [वे।सू। २.३.२६] इत्य्-आदि ।
सत्यत्वं च भेदस्योक्तिं भाल्लवेय-श्रुतौ । स्थाणुर् होच्चक्राम स प्रजापतिम् उवाच ।कोऽसि कोऽस्थ कः स इति होवाच । योऽस्मि योऽस्थ यः स इति । अथ हैनम् उपक्रोशत् । सत्यंभिदा सत्यंभिदा सत्यंभिदेति । मैवारुवण्यो मैवार्र्वण्यो मैवार्र्वण्य इतीति । सत्यम् एनम् । सत्यः सो अस्य महिमेति चोक्तम् ।
महा-संहितायां च—
त्रिविधं जीव-सङ्घं च परमात्मानम् अव्ययम् ।
तेषां भेदं च ये सत्यं विदुर् मोह-विवर्जिताः ॥
ते यान्ति परमं स्थानं विष्णोर् एवाचलं ध्रुवम् ।
जीवेश्वर-भिदां भ्रान्तिं केचिद् आहुर् अपण्टिताः ॥
अनारतं तमो यान्ति परमात्म-विनिन्दनात् ॥
पराधीनश् च बद्धश् च स्वल्प-ज्ञान-सुखे हितः ।
अल्प-शक्तिः सदोषश् च जीवात्मानीदृशः परः ॥
वदतां तु तयोर् ऐक्यं किं तेनादुष्कृतं कृतम् ॥
अन्तर्याम्यैक्य-वाचीनि वचनानीह यानि तु ।
तानि दृष्ट्वा भ्रमन्तीह दुरात्मानोऽल्प-चेतसः ॥
अस्यास्मि त्वम् अहं स्वात्मेत्य् अभिधा-गोचरो यतः ।
सर्वान्तरत्वात् पुरुषस् त्व् अन्तर्यामी नियामयम् ॥
अतो भ्रमन्ति वचनैर् आसुरा मोह-तत्-परैः ।
तन्-मोहने परा प्रीतिर् देवानां परमस्य च ।
अतो महान्धकारेषु पतन्त्य् अज्ञान-मोहितः ॥ इत्य्-आदि ॥१३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धर्मस्य फलं भक्तिर् नार्थ-कामादिकम् इतीमम् अर्थम् उपपाद्योपसंहरति—अत इति । हे द्विज-श्रेष्ठाः । हरि-तोषणं हरेर् आराधनम् । संसिद्धिः फलम् ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सा चैवं दुर्लभा भक्तिः श्री-हरि-तोषणे प्रयुक्तात् स्वाभाविक-धर्माद् अपि लभ्यते । तस्माद् धरि-तोषणम् एव तस्य परमं फलम् इत्य् आह—अत इति । स्वनुष्ठितस्य बहु-प्रयत्नेनाच्छिद्रम् उपार्जितस्येति तुच्छे स्वर्गादि-फले तत्-प्रयोगोऽतीवायुक्त इति भावः ॥१३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवं धर्मः स्वानुष्ठितः [भा।पु। १.२.८] इत्य्-आदिना कर्मणः श्रमत्वम् एव, ज्ञान-योगयोर् अपि श्रेयः-सृतिं भक्तिम् उदस्य ते विभो [भा।पु। १०.१४.४] इति । नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १.५.१२, १२.१२.५३], पुरेह भूमन् बहवोऽपि योगिनः [भा।पु। १०.१४.५] इत्य्-आदिभ्यो भक्त्या विना श्रमत्वम् एव । भक्तेस् तु कर्म-योग-ज्ञानाद्य्-अमिश्रिताया एव शुद्धाया आत्म-प्रसादकत्वं प्रकरणतोऽवगतम् ।
तत्रैवं शङ्कते—ननु ज्ञान-योगयोर् अप्रवृत्तौ न काचिच् चिन्ता । कर्मणां तु नित्यानाम् अकरणे महान् प्रत्यवायो दुर्गति-हेतुस् तत्र का वार्ता ? इत्य् आह—अतः पुम्भिर् इति । यत उक्त-न्यायेनोत्कृष्टाव् अपि ज्ञान-योगौ भक्त्यैव सिद्धौ भावेतां भक्तिस् तु ताभ्यां विनापि स्वयं सिद्ध्यति । अतो हरि-तोषणं भक्त्यैव जातं चेत्, तदा धर्मस्य संसिद्धिः । यो यत्नाद् अनुष्ठितोऽपि कर्मिणां साङ्गोपाङ्गतया प्रायः सिद्धो न भवति सोऽपि भक्तिमताम् अननुष्ठितोऽपि सम्यग् एव सिद्धो भवति ।
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भा।पु। ११.२०.३२-३३]
इति श्री-भगवद्-उक्तेः । तेन कर्माकरण-जनित-प्रत्यवायो भक्तानां पराहतः ।
ननु यदि भक्त्या धर्मः संसिद्धस् तर्हि धर्म-फलम् अपि तैर् लभ्यताम् ? सत्यम् । सकामत्वे सति लभ्यते एव निष्कामत्वे सति तेषां नैष्कर्म्यम् एव भवति । तथा च श्रुतिर् गोपाल-तापनी—भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् ॥ [गो।ता।उ। १.१४] तद् एवं—यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इति न्यायेन भक्त्यैव धर्माः संस् भक्त्यैव धर्माः संसिद्धा एवातो भक्तानां कर्मण्य् अधिकार एव दूरीकृतो भगवता यद् उक्तम्—
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भा।पु। ११.२०.९]
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स तु सत्तमः [भा।पु। ११.११.३२] इति । सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज [गीता १८.६६] इति । तथा सति यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इत्य् आदौ, यथैव सर्वार्हणम् अच्युतेज्या इत्य् अत्र यथाचुत्य-पूर्जनम् एव सर्वेषां देव-पित्रादीनाम् अर्हण-रूपं भवति तद्वद् अत्र हरि-तोषणम् एव स्वनुष्ठित-धर्मस्य सम्यक् सिद्धि-रूपं भवतीत्य् अर्थः । तथा चाच्युतस्य पूजने तोषणे च जाते देव-पित्रादीनां पूजन-रूपस्य स्वनुष्ठित-धर्मस्य संसिद्धिः स्वयम् एव जातेति भावः । एवम् एव दृष्टान्तेऽपि तरोर् मूल-निषेचनेनैव शाखा-पल्लवादीनां सेचनं स्वयम् एव जातम् इति ज्ञेयम् । तद् अपि यत् प्राच्यादि-भक्तानाम् अनन्यानाम् अपि कर्मि-कुल-सङ्घट्ट-गतत्वेनैव तद्-अनुरोध-वशाद् ईषत् कर्म-करणं तत्-कर्माकरणम् एव तत्र श्रद्धा-राहित्यात् ।
अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् ।
असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ [गीता १७.२८]
चेति भगवद्-उक्तेः ॥१३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सा चेदृशी भक्तिर् हरितोषे प्रयुक्तात् स्व-धर्माद् अपि लभ्यते, तस्मात्-तोषणम् एव मुख्यं फलम् इत्य् आह—अत इति । स्वनुष्ठितस्याच्-छिद्रम् उपार्जितस्य । संसिद्धिः फलम् ॥१३॥
॥ १.२.१४ ॥
तस्माद् एकेन मनसा भगवान् सात्वतां पतिः ।
श्रोतव्यः कीर्तितव्यश् च ध्येयः पूज्यश् च नित्यदा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यस्माच् च भक्ति-हीनो धर्मः केवलं श्रम एव, तस्माद् भक्ति-प्रधान एव धर्मोऽनुष्ठेय इत्य् आह—तस्माद् इति । एकेन एकाग्रेण मनसा ॥१४॥
———————————————————————————————————————
कैवल्य-दीपिका : चतुर्-वर्गम् आह—तस्माद् इति । यस्मात् सर्व-धर्माणां विष्णु-भक्तिः फलम् । सात्वतां सत्त्ववताम् । सच्-छब्देन सत्त्वम् उच्यते ॥१४॥ [मु।फ। ७.९५]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् इति तैर् व्याख्यातम् । तत्र भक्ति-हीनः इति, भक्तिः श्रवणादि-रुचिस् तद्-विहीनस् तद्-अनुत्पादक इत्य् अर्थः । तस्माद् भक्ति-प्रधान एव । भक्तिः श्रवणादि-रतिर् एव प्रधानं फलं यत्र, स धर्मः श्रवणादिर् इत्य् अर्थः । यद् वा, यद्य् एवं श्री-हरि-सन्तोषकस्यापि धर्मस्य फलं श्रवणादि-रुचि-लक्षणा भक्तिर् एव तत्-प्रवर्तिताश् च ज्ञान-वैराग्यादि-गुणा इत्य् आयातम् । तदा साक्षाच्-छ्रवणादि-रूपा भक्तिर् एव कर्तव्या । किं तत्-तद्-आग्रहेण ? इत्य् आह—तस्माद् इति । एकेन कर्माद्य्-आग्रह-शून्येन । श्रवणम् अत्र नाम-गुणादीनां, तथा कीर्तनं च ॥१४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यस्माद् एवं तस्माद् एकेन कर्म-ज्ञानाद्य्-अनुतिष्ठाशा-शून्येन ॥१४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **हरितोष-फलस्य स्व-धर्मस्य चेत्-तत्-कथा-रुचिः फलं, तदाश्रयणादिका सक्षाद्-भक्तिर् एव कार्या, किं स्व-धर्माग्रहेण? इत्य् अतः साधोऽत्र यत्सारं [भा।पु। १.१.११] इत्य् अस्य प्रश्नस्योत्तरम् आह—तस्माद् इति । एकेनैकाग्रेण स्व-धर्माग्रहशून्येन । नाम-रूप-गुणादीनां श्रवण-कीर्तने, बिम्बस्य ध्यानं, अर्चायाः पूजनं ॥१४॥
॥ १.२.१५ ॥
यद्-अनुध्यासिना युक्ताः कर्म-ग्रन्थि-निबन्धनम् ।
छिन्दन्ति कोविदास् तस्य को न कुर्यात् कथा-रतिम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भक्ति-रहितो धर्मः केवलं श्रम एवेति प्रपञ्चितम् । इदानीं तु भक्तेर् मुक्ति-फलत्वं प्रपञ्चयति—यद् इति । यस्यअनुध्या अनुध्यानं सैव आसिः खड्गः, तेन युक्ता विवेकिनो ग्रन्थिम् अहङ्कारं निबध्नाति यत् कर्म, तच् छिन्दन्ति,तस्य कथायां रतिं को न कुर्यात् ? ॥१५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र चान्तिम-भूमिका-पर्यन्तां सुगमां शैलीं वक्तुं धर्मादि-कष्ट-निरपेक्षेण युक्ति-मात्रेण तत्-प्रथम-भूमिकां श्री-हरि-कथा-रुचिम् उत्पादयन् तस्य गुणं स्मारयति—यद् इति । कोविदा विवेकिनः । युक्ताः संयत-चित्ताः । यस्य हरेर् अनुध्या अनुध्यानं चिन्तन-मात्रम्, सैव आसिः खड्गः, तेन ग्रन्थिं नाना-देहेष्व् अहङ्कारं निबध्नाति यत्, तत् कर्म छिन्दन्ति । तस्य एवं-भूतस्य परम-दुःखाद् उद्धर्तुः कथायां रतिं को नु कुर्यात् ? ॥१५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु च मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते [भा।पु। ११.२०.९] इति, श्रद्धालुर् मे कथाः शृण्वन् [भा।पु। ११.११.२३] इति, जात-श्रद्धो मत्-कथासु [भा।पु। ११.२०.२७] इत्य्-आदि भगवद्-उक्तेः कथायां श्रद्धावान् एव भक्ताव् अधिकारीत्य् अतः श्रद्धा कथं स्याद् इत्य् अतः आह—यद् अन्व् इति । यस्य अनुध्यानम् एवासिः खड्गः, तेन युक्ताः सहिता जनाः ग्रन्थि-निबन्धनं ग्रन्थिर् अहङ्कारो निबध्यते येन तत् कर्म ।
यद् वा, स्व-सञ्चित-धनेभ्यः पृथक्-कृते किंचिन्-मात्रम् एकैक-दिन-भोजनार्थं जनाः स्व-ग्रन्थौ निबध्नन्ति यथा, तथैव ग्रन्थि-निबन्धनं वर्तमान-जन्म-भोग्यं प्रारब्धं कर्म, तद् अपि छिन्दन्ति, तस्य कथायां रतिं प्रीतिं को न कुर्यात् ? इति तत्-कथायां प्रीतिर् अपि सहसा जायते, किं पुनर् अधिकार-व्यञ्जिका श्रद्धा ? इति भावः ॥१५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भक्यधिकारे श्रद्धा-हेतुस् तां ध्यान-गुणेनोत्पादयन्न् आह—यद् इति । कोविदा विवेकिनो युक्ता यतचित्ताः । यस्य हरेरनुध्या स्मृतिः स एवासिः खड्गस् तेन । ग्रन्थिं देहाहं-भावं निवध्नाति यत् कर्म तं छिन्दन्ति तस्य कथासु रतिं रुचिं को न कुर्यात् ? ग्रन्थि-निबन्धनं पाथेयोपमं प्रारब्धं कर्म इत्य्-एके, देह-स्थितिं दग्ध-पट-न्यायेन ईशेच्छयेति भावः ॥१५॥
———————————————————————————————————————
॥ १.२.१६ ॥
शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः ।
स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु सत्यम् एव कर्म-निर्मूलनी हरि-कथा-रतिः, तथापि तस्यां रुचिर् नोत्पद्यते । किं कुर्मः ? तत्राह—शुश्रूषोर् इति । पुण्य-तीर्थ-निषेवणान् निष्पापस्य महत्-सेवा स्यात्, तथा च तद्-धर्म-श्रद्धा, ततः श्रवणेच्छा, ततो रुचिः स्याद् इत्य् अर्थः ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **शुश्रूषोर् इति तैर् एव व्याख्यातम् । तत्र पुण्य-तीर्थ-निषेवणादिभिर् इत्य् अयम् अप्य् एको मार्गः स्यात्—ते पुनन्त्य् उरु-कालेन [भा।पु। १०.४८.३१] इत्य्-आदिना । सद्यः पुनन्त्य् उपस्पृष्टाः [भा।पु। १.१.१५] इत्य्-आदिना च ऋजु-मार्गोऽप्य् अस्ति ।
यद् वा, नन्व् एवम् अपि तस्य कथा-रुचिर् मन्द-भाग्यानां न जायत इत्य् आशङ्क्य तत्रोपायान् वदन् ताम् आरभ्य नैष्ठिक-भक्ति-पर्यन्तां भक्तिम् उपदिशति पञ्चभिः । तत्र शुश्रूषोर् इति, भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदाः [भा।पु। १०.८७.३५] इत्य्-आद्य्-अनुसारेण प्रायस् तत्र महत्-सङ्गो भवतीति तदीय-टीकानुमत्या च पुण्य-तीर्थ-निषेवणाद् धेतोर् लब्धा यदृच्छया या महत्-सेवा, तया वासुदेव-कथा-रुचिःस्यात् । कार्यान्तरेणापि तीर्थे भ्रमतो [ईश्वर-सन्तोषक-धर्मानुष्ठातुः सुकृतिनो जनस्य] महतां प्रायस् तत्र भ्रमतां तिष्ठतां वा दर्शन-स्पर्शन-सम्भाषणादि-लक्षणा सेवा स्वत एव सम्पद्यते । तत्-प्रभावेण च तदीयाचरणे श्रद्धा भवति । तदीय-स्वाभाविक-परस्पर-भगवत्-कथायां “किम् एते सङ्कथयन्ति तत् शृणोमि” इति तद्-इच्छा जायते । तच्-छ्रवणेन च तस्यां रुचिर् जायते इति । तथा च महद्भ्य एव श्रुता झटिति कार्य-करीति भावः । तथा श्री-कपिल-देव-वाक्यम्—
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ [भा।पु। ३.२५.२५] इति ॥१६॥ [भक्ति-सन्दर्भ ११]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तथापि कथायां प्रीतिर् एवार्विर्भावे प्रकारं शृणुतेत्य् आह—शुश्रूषोर् इति । महत्-सेवया यादृच्छिक-महत्-कृपा-जनितया महतां सेवया श्रद्दधानस्य जात-श्रद्धया पुंसः पुण्य-तीर्थं सद्-गुरुः, तस्य निषेवणं चरणाश्रयणं स्यात् । निदानागमयोस् तीर्थम् ऋषि-जुष्ट-जले गुरौ इत्य् अमरः । तस्माच् च शुश्रूषोस् तस्य वासुदेव-कथासु रुचिः स्याद् इत्य् अन्वयः ॥१६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कथा-रुचेर् आविर्भाव-प्रकारम् आह—शुश्रूषोर् इति । यादृच्छिक-महत्-कृपा-जन्यया महत्-सेवया शुश्रूषोः श्रद्दधानस्य च जात-दृढ-विश्वासस्य पुंसः पुन्य-तीर्थ-निषेवणात् संशयच्-छेत्तृ-गुरु-पादाश्रयनात् तस्य वासुदेव-कथा-रुचिः स्यात् । निपान् आगमयोस् तीर्थमृषि-जुष्ट-जले गुरौ इत्य् अमरः ॥१६॥
॥ १.२.१७ ॥
शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः ।
हृद्य् अन्तः-स्थो ह्य् अभद्राणि विधुनोति सुहृत् सताम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततश् च शृण्वताम् इति । पुण्ये श्रवण-कीर्तने यस्य सः । सतां सुहृद् धित-कारी । हृदि यान्य् अभद्राणि कामादि-वासनास् तानि । अन्तः-स्थो हृदय-स्थः सन् ॥१७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कथा-द्वारा अन्तः-स्थो भावना-पदवीं गतः सन् हरिः । अभद्राणि वासनाः ॥१७॥ [भक्ति-सन्दर्भ १२]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च शृण्वताम् इति क्रमेण श्रवण-कीर्तने उक्ते । ततश् च हृदि यान्य् अभद्राणि पापानि तान्य् अन्तः-स्थः सन् विधुनोति इति स्मरणम् ॥१७॥
———————————————————————————————————————
**विश्वनाथः (माधुर्य-कादम्बिनी ३.१-२): **अथ पूर्वं या अनिष्ठिता निष्ठितेति द्विविधोक्ता भजन-क्रिया । तस्याः प्रथमा षड्-विधा लक्षिता । ततो द्वितीयाम् अलक्षयित्वैवानर्थ-निवृत्तिः प्रक्रान्ता । यद् उक्तं—शृण्वताम् इति द्वाभ्याम् ।
तत्र शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः इत्य् अनिष्ठितैव भक्तिर् अवगम्यते, नैष्ठिकीत्य् अग्रे वक्ष्यमाणत्वात् । अभद्राणि विधुनोति इति तयोर् मध्ये एवानर्थानां निवृत्तिर् उक्ता । नष्ट-प्रायेष्व् अभद्रेष्व् इत्य् अत्र तेषां कश्चन भागो नापि निवर्तत इत्य् अपि सूचित इति ।
अत एव क्रम-प्राप्ततया निष्ठिता भक्तिर् इदानीं विव्रियते । निष्ठा नैश्चल्यम् उत्पन्ना यस्या इति निष्ठिता । नैश्चल्यं भक्तेः प्रत्यहं विधित्सितम् अप्य् अनर्थ-दशायां लय-विक्षेपाप्रतिपत्ति-कषाय-रसास्वादानां पञ्चानाम् अन्तरीयाणां दुर्वारत्वान् न सिद्धम् आसीत् । अनर्थ-निवृत्त्य्-अनन्तरं तेषां तदीयानां निवृत्त-प्रायत्वात् नैश्चल्यं सम्पद्यते इति लयाद्य्-अभाव एव निष्ठा-लिङ्गम् । तत्र लयः कीर्तन-श्रवण-स्मरणेषु उत्तरेष्व् आधिक्येन निद्रोद्गमः । विक्षेपस् तेषु व्यवहारिक-वार्ता-सम्पर्कः । अप्रतिपत्तिः कदाचिल् लय-विक्षेपयोर् अभावे कीर्तनाद्य्-असामर्थ्यम् । कषायः क्रोध-लोभ-गर्वादि-संस्कारः । रसास्वादः विषय-सुखोदय-काले कीर्तनादिषु मनोऽनभिनिवेश इति ॥१७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ततश् च शृण्वताम् इति कथा-द्वारान्तःस्थो भावना-पदवीं प्राप्तः कृष्णो हृदि स्थितान्य् अभद्राणि विधुनोति ॥१७॥
॥ १.२.१८ ॥
नष्ट-प्रायेष्व् अभद्रेषु नित्यं भागवत-सेवया ।
भगवत्य् उत्तम-श्लोके भक्तिर् भवति नैष्ठिकी ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततश् च नष्ट-प्रायेष्व् इति । सर्वाभद्र-नाशस्य ज्ञानोत्तर-कालत्वात् प्राय-ग्रहणम् । भागवतानां भागवत-शास्त्रस्य वा सेवया । नैष्ठिकी निश्चला विक्षेपकाभावात् ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नष्ट-प्रायेषु न तज्-ज्ञानम् इव सम्यङ्-नष्टेष्व् एवेति भक्तेर् निरर्गल-स्वभावत्वम् उक्तम् । भागवतानां भागवत-शास्त्रस्य वा सेवया भक्तिर् अनुध्यान-रूपा नैष्ठिकी सन्तता एव भवति ॥१८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भागवतानां वैष्णवानां भागवतस्य शास्त्रस्य च—नष्ट-प्रायेष्व् इति । नामापराध-लक्षणस्याभद्रस्य कश्चन कश्चन प्रबलो भागः क्षीणत्वं गच्छन् रति-पर्यन्तोऽपि भवतीति भावः । नैष्ठिकी निष्ठा चित्तैकाग्र्यं तां प्राप्ता ॥१८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नष्टेति—भागवतानां भागवतस्य च सेवयाभद्रेषु नामापराधान्तेष्व् अनर्थेषु नष्ट-प्रायेषु सत्सु भगवति नैष्ठिकी स्थिरा भक्तिर् भवति ॥१८॥
———————————————————————————————————————
॥ १.२.१९ ॥
तदा रजस्-तमो-भावाः काम-लोभादयश् च ये ।
चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रजश् च तमश् च ये च तत्-प्रभवा भावाः कामादयः एतैर् अनाविद्धम् अनभिभूतम् । प्रसीदत्य् उपशाम्यति ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तदैव त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ-स्मृतिः [भा।पु। ११.२.५३] इत्य्-आद्य्-उक्त-रीत्या सर्व-वासना-नाशात् चित्तं शुद्ध-सत्त्वम् अग्रं सत् भगवत्-तत्त्व-साक्षात्कार-योग्यं भवतीत्य् आह—तदेति ॥१९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **रजस्-तमोभ्यां भाव उत्पत्तिर् येषां ते विक्षेपयादयः । आदि-शब्दात् क्रोध-मोह-मात्सर्याणि अनाविद्धम् अविकृतं भवति तेन विषयेष्व् अरुच्या श्रवण-कीर्तनादिषु स्वादुत्व-भाण-लक्षणा रुचिर् भवतीत्य् आयातम् । तेन पूर्व-दशायां काम-लोभाद्यैस् तीक्ष्ण-शरायितैर् आविद्धं चेतः कथं प्रसीदतु ? कथं वा कीर्तनादेः सम्यग् आस्वादं लभताम् ? न हि व्यथा-जर्जरितस्यान्नादिकं सम्यक् रोचते इति भावः । ततश् च सत्त्वे शुद्ध-सत्त्व-मूर्तौ भगवति स्थितम् आसक्तम् ॥१९॥
———————————————————————————————————————
**विश्वनाथः (माधुर्य-कादम्बिनी ३.२-३): **अत्र च-कारस्य समुच्चयार्थत्वाद् रजस्-तमो-भावा एव लभ्यन्ते । किं च—एतैर् अनाविद्धम् इत्य् उक्ते भाव-पर्यन्तं तेषां स्थितिर् अप्य् अस्ति भक्त्य्-अबाधकतयैव ।
सा च निष्ठा साक्षाद्-भक्ति-वर्तिनी तद्-अनुकूल-वस्तु-वर्तिनीति द्विविधा । तत्र साक्षाद्-भक्तिर् अनन्त-प्रकारापि स्थूलतया त्रिविधा । कायिकी वाचिकी मानसी चेति । तत्र प्रथमं कायिक्यास् ततो वाचिक्यास् तत एव मानस्या भक्तेर् निष्ठा सम्भवेद् इति केचित् । भक्तेषु तारतम्येन स्थितानाम् अपि सह-ओजो-बलानां मध्ये क्वचन भक्ते विलक्षण-तादृश-संस्कार-वशात् कस्यचिद् एव भगवद्-उन्मुखत्वाधिक्यं स्याद् इति नायं क्रम इत्य् अन्ये । तद्-अनुकूल-वस्तुनि अमानित्व-मानदत्व-मैत्री-दयादीनि । तेषां निष्ठा च कुत्रचन शम-प्रकृतौ भक्ते भक्तेर् अनिष्ठितत्वे दृश्यते कुत्रचन तस्मिन्न् उद्धते भक्ते निष्ठितत्वेऽपि न दृश्यते यद्य् अपि तद् अपि भक्ति-निष्ठैव स्व-सत्त्वासत्त्वाभ्यां तन्-निष्ठा-सत्त्वासत्त्वे सुधियम् अवगमयति न तु बाल-प्रतीतिर् एव वास्तवीकर्तुं शक्येति । यद् उक्तं—
भक्तिर् भवति नैष्ठिकी ।
तदा रजस्-तमो-भावाः काम-लोभादयश् च ये ।
चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ इति ।
श्रवण-कीर्तनादिषु यत्नस्य शैथिल्य-प्राबल्य एव दुस्त्यज्ये सम्भवन्ती निष्ठितानिष्ठिते भक्ती प्रदर्शयेताम् इति सङ्क्षेपतो विवेकः ॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तदेति—रजस् तमोभ्यां भावो जन्म षेषां ते विक्षेप-लयादयः कामेत्य्-आदि-पदात् क्रोध-मोह-मद-मात्सर्याणि । तैस् तैश् च चेतोऽनाविद्धम् अविकृतं भवतीति विषयेष्व् अरुचिः श्रवण-कीर्तनादिषु तु रुचिर् भवतीत्य् अर्थः । ततः सत्त्वे विशुद्धस् अत्त्व-विग्रहे भगवति स्थितं स्थिरं सत् प्रसीदति ॥१९॥
———————————————————————————————————————
॥ १.२.२० ॥
एवं प्रसन्न-मनसो भगवद्-भक्ति-योगतः ।
भगवत्-तत्त्व-विज्ञानं मुक्त-सङ्गस्य जायते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भगवद्-भक्ति-योगतः प्रसन्न-मनसोऽत एव मुक्त-सङ्गस्य ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एवं पूर्वोक्त-प्रकारेण प्रसन्न-मनसस् ततो मुक्त-सङ्गस्य त्यक्त-कामादि-वासनस्य भक्ति-योगतः पुनर् अपि क्रियमाणात् तस्माद् विज्ञानं साक्षात्कारो मनसि बहिर् वा भावनां विनैवानुभवो यः, स जायते ।9 ॥२०॥ [भक्ति-सन्दर्भः १५]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवम् अनेन प्रकारेणासक्ति-पूर्वकं प्रतिक्षणं भगवतः कृष्णस्य भजनं कुर्वतः प्रसन्न-मनस उत्पन्न-रतेर् इत्य् अर्थः, रत्या विना सर्वथा विषयासंस्पर्शस्यानुत्पत्तेः, तेन विना च मनः-प्रसादासम्भवाद् इति । ततश् च भगवति भक्ति-योगः प्रेमा, तस्माच् च भगवतस् तस्य स्वरूप-गुण-लीलैश्वर्य-माधुर्यस्य विज्ञानम् अनुभव इत्य् अनुभव इत्य् अनुसंहितं भक्तेः फलम् उक्तं—जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहैतुकं [भा।पु। १.२.७] इति यत् पूर्वम् उक्तं, तद् इदम् एव ज्ञेयम् । मुक्त-सङ्गस्य उत्पन्न-वैराग्यस्य ॥२०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवाम् उक्त-प्रकारेण प्रसन्न-मनसो विशुद्ध-चित्तस्य ततो मुक्त-सङ्गस्य विरक्तस्य भगवद्-भक्ति-योगतः समावृत्तात्-तस्माद्-भगवत्-तत्त्वस्य वदन्तीत्य् उक्तस्य विज्ञानं साक्षात्कारो जायते ॥२०॥
———————————————————————————————————————
॥ १.२.२१ ॥
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विज्ञन-फलम् आह—भिद्यत इति । हृदयम् एव ग्रन्थिश् चिज्-जड-ग्रन्थन-रूपोऽहङ्कारः । अत एव सर्वे संशया असंभावनादि-रूपाः । कर्माण्य् आरब्ध-फलानि । आत्मनि स्वरूप-भूते ईश्वरे दृष्टे साक्षात्-कृते सति । एव-कारेण विज्ञानानन्तरम् एवेति दर्शयति ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्य च परमानन्दैक-रूपत्वेन स्वतः-फल-रूपस्य साक्षात्-कारस्यानुषङ्गिकं फलम् आह—भिद्यत इति । हृदय-ग्रन्थि-रूपोऽहङ्कारः । सर्व-संशयाश् छिद्यन्ते इति श्रवण-मननादि-प्रधानानाम् अपि तस्मिन् दृष्ट एव सर्वे संशयाः समाप्यन्ते इत्य् अर्थः । अतः श्रवणेन तावज्-ज्ञेय-गतासम्भावनाश् छिद्यन्त इति । मननेन तद्-गत-विपरीत-भावनाः । साक्षात्कारेण त्व् आत्म-योग्यता-गतासम्भावना-विपरीत-भावने इति ज्ञेयम् । क्षीयन्ते तद्-इच्छा-मात्रेणैव तद्-आभासो न किञ्चिद् एव तेष्व् अवशिष्यत इत्य् अर्थः ॥२१॥ [भक्ति-सन्दर्भः १६]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृदय-ग्रन्थिर् अविद्या भिद्यत इति कर्म-कर्तरि प्रयोगेणाविद्या-ध्वंसो भक्तानाम् अननुसंहितं फलम् । एवम् एव छिद्यन्ते सर्व-संशयाः, असम्भावनादि-रूपाः । आत्मनीति ईश्वर इत्य् अस्य विशेषणम् । यद् वा, आत्मन्य् एव मनस्य् एव दृष्टे, किं पुनः साक्षाद् दृष्टे सतीति स्फूर्ति-साक्षात्काराव् उक्तौ ॥
सतां कृपा महत्-सेवा श्रद्धा गुरु-पदाश्रयः ।
भजनेषु स्पृहा भक्तिर् अनर्थापगमस् ततः ।
निष्ठा रुचिर् अथासक्ती रतिः प्रेमाथ दर्शनम् ।
हरेर् माधुर्यानुभव इत्य् अर्थाः स्युश् चतुर्दश ॥२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **परमानन्द-रूपत्वेन स्वतः-फल-रूपस्य तस्य साक्षात्कारस्यानुषङ्गिकं फलम् आह—भिद्यत इति । हृदय-ग्रन्थिर् देहाहङ्कारः सर्व-संशयाश् छिद्यन्त इति तस्मिन्न् आत्मनीश्वरे दृष्टे एव सति श्रवणादि-परस्य तस्य सर्वे ते समाप्यन्त इत्य् अर्थः । श्रवणेन ज्ञेयगतासंभावना, मननेन तद्-गता विपरीत-भावना, दर्शनेन तु विज्ञातृ-योग्यता गता सा सा च समाप्यते । क्षीयन्त इति तद् ईच्छयैव तदाभासः कश्चिद् अनुवर्तत इति ज्ञेयं । कर्मकर्तरि प्रयोगाद् अननुसंहितास् तद्-भेदादयः । अत्र सत्-कृपा-सत्-सेवा-श्रद्धा-गुर्वाश्रय-भक्ति-स्पृहा-भक्त्य् अनर्थ-निवृत्ति-निष्ठा-सक्ति-प्रेम-रूपेण वर्त्मना तद्-दर्शनं साध्यम् उक्तं ॥२१॥
॥ १.२.२२ ॥
अतो वै कवयो नित्यं भक्तिं परमया मुदा ।
वासुदेवे भगवति कुर्वन्त्य् आत्म-प्रसादनीम् ॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र च सदाचारं दर्शयन्न् उपसंहरति—अत इति । आत्मनः प्रसादनीं10 मनः-शोधनीम् । वासुदेवे भक्तिं कुर्वन्तीति भजनीय-विशेषो दर्शितः ॥२२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्र प्रकरणार्थे सद्-आचारं दर्शयन्न् उपसंहरति—अत इति । न केवलम् एतावद्-गुणत्वं तस्याः । किं च, परमया मुदेति कर्मानुष्ठानवन् न साधन-काले साध्य-काले वा भक्त्य्-अनुष्ठानं दुःख-रूपम्, प्रत्युत सुख-रूपम् एवेत्य् अर्थः । अत एव नित्यं साधक-दशायां सिद्ध-दशायां चैतावत् कुर्वन्तीत्य् उक्तम् ॥२२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परमया मुदेति । साधन-दशायाम् अपि कष्टाभाव उक्तः ॥२२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अत्र सदाचारं दर्शयन्न् उपसंहरत्यत इति । आत्म-प्रसादिनीं मनः-शोधिनीं, नित्यम् इति सर्वदा-कर्तव्यता । परमया मुदेति सुख-रूपता तस्याः ।
सर्व-मङ्गल-मूर्धन्या पूर्णानन्दमयी सदा ।
द्विजेन्द्र! तव मय्य् अस्तु भक्तिर् अव्यभिचारिणी ॥11 इति नारदीयात् ॥२२॥
———————————————————————————————————————
॥ १.२.२३ ॥
सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर्
युक्तः परः पुरुष एक इहास्य धत्ते ।
स्थित्य्-आदये हरि-विरिञ्चि-हरेति सञ्ज्ञाः
श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विष्णोर् एव त्रि-सञ्ज्ञाः । वामने च—
ब्रह्म-विष्ण्व्-ईश-रूपाणि त्रीणि विष्णोर् महात्मनः ।
ब्रह्मणि ब्रह्म-रूपश् च शिव-रूपी शिवे स्थितः ॥
पृथग् एव स्थितो देवो विष्णु-रूपी जनार्दनः ॥ इति ।
त्रयोऽपि गुणाः विष्ण्व्-आश्रयाः । तथापि सत्त्व-तनौ जीवे श्रेयांसि स्युः । मेघ-रूपत्वाद् धूम उत्तमः ॥२३-२४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवोपपादयितुं ब्रह्मादीनां त्रयाणाम् एकात्मकत्वेऽपि वासुदेवस्याधिक्यम् आह—सत्त्वम् इति । इह यद्य् अप्य् एक एव परः पुमान् अस्य विश्वस्य स्थित्य्-आदये स्थिति-सृष्टि-प्रलयार्थं हरि-विरिञ्चि-हरेति-सञ्ज्ञाः केवलं भिन्ना धत्ते । हरि-विरिञ्चि-हरा इति वक्तव्ये सन्धिर् आर्षः । तत्र तेषां मध्ये श्रेयांसि शुभ-फलानि सत्त्व-तनोर् वासुदेवाद् एव स्युः ॥२३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं कर्म-ज्ञान-वैराग्य-यत्न-परित्यागेन भगवद्-भक्तिर् एव कर्तव्येति मतम् । कर्म-विशेष-रूपं देवतान्तर-भजनम् अपि न कर्तव्यम् इत्य् आह सप्तभिः । तत्रान्येषां का वार्ता ? सत्य् अपि श्री-भगवत एव गुणावतारत्वे श्री-विष्णुवत् साक्षात् पर-ब्रह्मत्वाभावात् सत्त्व-मात्रोपकारकत्वाभावाच् च । प्रत्युत रजस्-तमो-बृंहणत्वाच् च ब्रह्म-शिवाव् अपि श्रेयोऽर्थिभिर् नोपास्याव् इत्य् आह—सत्त्वम् इति द्वाभ्याम् ।
इह यद्यप्य् एक एव परः पुमानस्य विश्वस्य स्थित्य्-आदये स्थिति-सृष्टि-लयार्थं तैः सत्त्वादिभिर् युक्तः पृथक् पृथक् तत्-तद्-अधिष्ठाता, तथापि परस् तत्-तद्-असंश्लिष्टः सन् हरि-विरिञ्चि-हरेति सञ्ज्ञा भिन्ना धत्ते, तत्-तद्-रूपेणाविर्भवतीत्य् अर्थः । तत्रापि12 तत्र तेषां मध्ये श्रेयांसि धर्मार्थ-काम-मोक्ष-भक्त्य्-आख्यानि शुभ-फलानि **सत्त्व-तनोर् **अधिष्ठित-सत्त्व-शक्तेः श्री-विष्णोर् एव स्युः ।
अयं भावः—उपाधि-दृष्ट्या तौ द्वौ सेवमाने रजस्-तमसोर् घोर-मूढत्वाद् भवन्तोऽपि धर्मार्थ-कामा नातिसुखदा भवन्ति । तथोपाधि-परित्यागेन सेवमाने भवन्न् अपि मोक्षो न साक्षान् न च झटिति, किन्तु कथम् अपि परमात्मांश एवायम् इत्य् अनुसन्धानाभ्यासेनैव परमात्मन एव भवति, तत्र तत्र साक्षात्-परमात्माकारेणाप्रकाशात् । तस्मात् ताभ्यां श्रेयांसि न भवन्तीति ।
अथोपाधि-दृष्ट्यापि श्री-विष्णुं सेवमाने सत्त्वस्य शान्तत्वाद् धर्मार्थ-कामा अपि सुखदाः । तत्र निष्कामत्वेन तु तं सेवमाने सत्त्वात् सञ्जायते ज्ञानं [गीता १४.१७] इति चोक्तेर् मोक्षश् च साक्षात् । अत उक्तां स्कान्दे—
बन्धको भव-पाशेन भव-पाशाच् च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति ।
उपाधि-परित्यागेन तु पञ्चमः पुरुषार्थो भक्तिर् एव भवति । तस्य परमात्माकारेणैव प्रकाशात् । तस्माच् छ्री-विष्णोर् एव श्रेयांसि स्युर् इति ॥२३॥ [परमात्म-सन्दर्भ १२, भक्ति-सन्दर्भ १८]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं कर्म-ज्ञानादिकम् अतिक्रम्य भक्तेर् एव यथा कर्तव्यत्वम् उक्तम् । तथैव देवतानतरोपासनाम् अप्य् अपहाय भगवान् एवोपास्य इत्य् उच्यते । स च भगवान् एक एवापि क्रीडयावतरन्न् अनेकोऽपि भवति । बहु-मूर्त्य्-एक-मूर्तिकं [भा।पु। १०.४०.७] इति दशमात् । तस्यावतारा द्विविधाश् चिच्-छक्त्या माया-शक्त्या च । चिच्-छक्त्या मत्स्य-कूर्मादयो भजनीया एव । माया-शक्त्या च ये सत्त्व-रजस्-तमो भिर् विष्णु-ब्रह्म-रुद्रास् तेषु विष्णुर् एव भजनीय इत्य् आह सत्त्वम् इति । इह यद्यपि एक एव पुमान् आदि-पुरुषः अस्य विश्वस्य स्थित्य्-आदये स्थिति-सृष्टि-लयार्थम् । तैः सत्त्वादिभिर् युक्त एव हरि-विरिञ्चि-हरा इति सञ्ज्ञा धत्ते । सन्धिर् आर्षः । पर इति गुणैर् युक्तोऽपि अचिन्त्य-शक्त्या तेभ्यो बहिः पृथग्-अवस्थिइत्यैव तेषाम् अस्पर्शनात् पर अयुक्त इत्य् अर्थः । तद् अपि श्रेयांसि भक्तानाम् अभीष्टानि । तत्र तेषु मध्ये सत्त्व-तनोः —
भेजिरे मुनयोऽथाग्रे भगवन्तम् अधोक्षजम् ।
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तान् इह ॥ [भा।पु। १.२.२५]
इत्य् उत्तर-श्लोक-दृष्ट्या विशुद्ध-सत्त्वात्मक-शरीरात् हरेर् एव स्युः । साक्षी चेता केवलो निर्गुणश् च [श्वे।उ। ६.११] इति । सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणा [वि।पु। १.९.४४] इति । हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः [भा।पु। १०.८८.५] इत्य्-आदि श्रुति-स्मृति-विरोधात् । हरौ माया-गुणस्य सत्त्वस्य युक्तत्वेऽपि तस्यायोग एव । सत्त्वस्य प्रकाश-रूपत्वादौदासीन्याच् च तेन सच्-चिद्-आनन्द-वस्तुनो महा-प्रकाशकस्योपरागासम्भवात् प्राकृत-सत्त्वस्य न हि हरि-शरीरारम्भकत्वम् । रजस्-तमसोस् तु विक्षेप-रूपत्वावरण-रूपत्वाभ्याम् उपकारकत्वापकारकत्वाभ्यां च ताभ्याम् आनन्दस्य विक्षिप्तत्वम् आवृतत्वम् इत्य् उपराग-सम्भवात् ब्रह्म-रुद्रयो रजस्-तमस्-तनुत्वम् एवेति तयोः स-गुणत्वं हरेर् निर्गुणत्वं च युक्ति-सिद्धम् एव निर्गुणत्वेऽपि प्राकृत-सत्त्वस्य प्रकाश-रूपेण तत्-समीप-वर्तितया तत्र स्थितत्वाद् विश्व-पालन-लक्षणस् तद्-धर्मे औदासीन्येन हरौ प्रतीयते । न च तेन तस्य निर्गुणत्वं व्याहतम् इति वाच्यं संयोग-समवाय-सम्बन्धाभ्यां प्राकृत-सत्त्वस्य तत्रासम्भवात् । सामीप्य-सम्बन्धेनैव तत्र स्थितत्वाद् इति । स्वभक्त-पालनं तु स्वरूप-भूतस्य शुद्ध-सत्त्वस्य धर्मो ज्ञेयः ।
किं चात्र ब्रह्मणो हिरण्यगर्भत्वान् नेतरोऽनुपपत्तेर् [वे।सू। १.१.१७] इति न्यायेन तस्येश्वरत्वाभावात् जीवत्वेन तद्वति रजसि परमेश्वरस्य योगात् तत्रावेशाद् एवावतारत्वम् ।
भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयं कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एष जगद्-अण्ड-विधान-कर्ता
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४९] इति ।
शिवस्य तु जीवत्वाभावाद् गुण-युक्तेश्वरत्वम् एव । यद् उक्तं तत्रैव –
क्षीरं यथा दधि विकार-विशेष-योगात्
सञ्जायते न हि ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्याद्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४५] इति ।
इत्य् अतो ब्रह्म-शिवयोर् मध्ये शिवस्येश्वरत्वम् इति केचिद् आहुः केचित् तु तैर् युक्त इति नियामक-सम्बन्धेन संयोग-सम्बन्धेन सामीप्य-सम्बन्धेन च योगो ज्ञेयः । तत्र सत्त्वादीनां नियामकता-सम्बन्धेन योगे सति पुरुषः स्व-स्वरूपेण स्थितो निर्गुण एव भवति । रजसि तमसि च संयोग-सम्बन्धेन योगे स एव पुरुषो ब्रह्मा रुद्रश् च स-गुण एव भवति । सत्त्वे सामीप्य-सम्बन्धेन योगे स एव पुरुषो विष्णुः स्वरूपेण स्थितो निर्गुण एव भवतीत्य् आचक्षते । अत एव –
योगो नियामकतया गुणैः सम्बन्ध उच्यते ।
अतः स तैर् न युज्यते तत्र स्वांशः परस्य यः ॥ [ल।भा। १.२.१८]
इति भागवतामृत-कारिकार्थ उपपद्यत इति ॥२३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **वासुदेवे भक्तिं कुर्वन्तीत्य् उक्तं, तं प्रतिपादयति—सत्त्वम् इति । परः पुरुषः कृष्ण-स्वांशो गर्भोदशय एक एवास्य विश्वस्य स्थित्य्-आदये स्थिति-सृष्टि-संहारार्थम् इहैक-पाद्-विभूतेर् लीलायां प्रकृतैर् गुणैः सत्त्वादिभिर् युक्तस् तेषां पृथक् पृथक् प्रवर्तकः सन् हरि-विरिञ्चिं-हरा इति विभिन्नाः सञ्ज्ञा धत्ते, सन्धिर् आर्षः । विरिञ्चिं हर च पुरु-पुण्यं जीवं सृष्टि-संहृतिभ्यां शक्तिभ्याम् आविश्य क्रमाद्रजस् तमश् च प्रवर्तयति । यं यं कामयते तं तम् उग्रं कृणोमि, तं ब्रह्माणं तम् ऋषिं तं सुमेधां इत्य्-आदि-श्रुतेः ।
प्रजापतिञ् च रुद्रञ्चाप्य् अहम् एव सृजामि वै ।
तौ हि मां न विजानीतो मम माया विमोहिनी ॥
एतौ तौ विबुध-श्रेष्ठौ प्रसाद-क्रोधजौ स्मृतौ ।
तदादर्शित-पन्थानौ सृष्टि-संहार-कारकौ ॥ इति भारताच् च ।
सत्त्वं तु स्वयम् एव दूराद् एव प्रवर्तयति । हरिर्हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः इति [भा।पु। १०.८८.५] श्री-दशमात् । अतस् तत्र त्रिषु मध्ये सत्त्वतनोः सत्त्व-विस्तारकाद्-विष्णोर् एव नृणां श्रेयांसि धर्मार्थ-काममो-क्षलक्षणानि स्युः । अन्याभ्यां रजस् तमो-वृताभ्यां तु धर्मादयस् त्रयः कथञ्चित् स्युः ॥२३॥
———————————————————————————————————————
॥ १.२.२४ ॥
पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः ।
**तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ **
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपाधि-वैशिष्ट्येन फल-वैशिष्ट्यं स-दृष्टान्तम् आह । पार्थिवात् स्वतः-प्रवृत्ति-प्रकाश-रहिताद् दारुणः काष्ठात् सकाशाद् धूमः प्रवृत्ति-स्वभावस् त्रयीमयो वेदोक्त-कर्म-प्रचुरः । ईषत् कर्म-प्रत्यासत्तेः । तस्माद् अप्य् अग्निस् त्रयीमयः । सकाशात् कर्म-साधनत्वात् । एवं तमसः सकाशाद् रजो,ब्रह्म-दर्शनं ब्रह्म-प्रकाशकम् । **तु-**शब्देन लयात्मकात् तमसः सकाशाद् रजसः सोपधिक-ज्ञान-हेतुत्वेन किंचिद् ब्रह्म-दर्शन-प्रत्यासत्ति-मात्रम् उक्तम्, न तु सर्वथा, तत्-प्रकाशत्वं विक्षेपकत्वात् । यत् सत्त्वं तत्-सकाशाद् ब्रह्म-दर्शनम् । अतस् तद्-गुणोपाधीनां ब्रह्मादीनाम् अपि यथोत्तरं वैशिष्ट्यम् इति भावः ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्र तु यत् त्रयाणाम् अभेद-वाक्येनोपजप्त-मतयो विवदन्ते, तत्रेदं ब्रूमः—यद्यपि तारतम्यम् इदम् अधिष्ठान-गतम् एव, अधिष्ठाता तु परः पुरुष एक एवेति भेदासम्भवात् सत्यम् एवाभेद-वाक्यम् । तथापि तस्य तत्र तत्र साक्षात्त्वासाक्षात्त्व-भेदेन प्रकाशेन तारतम्यं दुर्निवारम् एवेति स-दृष्टान्तम् आह—पार्थिवाद् इति ।
पार्थिवात्, न तु धूमवद् अंशेनाग्नेयात् । तत एव वेदोक्त-कर्मणः साक्षात् प्रवृत्ति-प्रकाश-रहितात् दारुणो यज्ञीयान् मथन-काष्ठात् सकाशाद् अंशेनाग्नेयो धूमस्त्रयीमयः पूर्वापेक्षया वेदोक्त-कर्माधिक्याविर्भावास्पदम् । तस्माद् अपि स्वयम् अग्निस् त्रयीमयः साक्षात् तद्-उक्त-कर्माविर्भावास्पदम् ।
एवं काष्ठ-स्थानीयात् सत्त्व-गुण-विदूरात् तमसः सकाशाद् धूम-स्थानीयं किञ्चित् सत्त्व-सन्निहितं रजोब्रह्म-दर्शनं—वेदोक्त-कर्म-स्थानीयस्य ब्रह्मणस् तत्-तद्-अवतारिणः पुरुषस्य प्रकाश-द्वारम् । तु-शब्देन लयात्मकात् तमसः सकाशाद् रजसः सोपाधिक-ज्ञान-हेतुत्वेनेषत्-तद्-गुण-च्छवि-प्रादुर्भाव-रूपं किञ्चिद् ब्रह्म-दर्शन-प्रत्यासत्ति-मात्रम् उक्तम्, न तु सर्वथा विक्षेपकत्वात् । यद् अग्नि-स्थानीयं सत्त्वम्, तत् साक्षाद् ब्रह्मणो दर्शनम् । साक्षाद् एव सम्यक् तत्-तद्-गुण-रूपाविर्भाव-द्वारम्, शान्त-स्वच्छ-स्वभावात्मकत्वात् । अतो ब्रह्म-शिवयोर् असाक्षात्त्वं, श्री-विष्णोस् तु साक्षात्त्वं सिद्धम् इति भावः ।
तथा च श्री-वामन-पुराणे—
ब्रह्म-विष्ण्व्-ईश-रूपाणि त्रीणि विष्णोर् महात्मनः ।
ब्रह्मणि ब्रह्म-रूपः स शिव-रूपः शिवे स्थितः ॥
पृथग् एव स्थितो देवो विष्णु-रूपी जनार्दनः ॥ इति ।
श्री-दशमे च—शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः [भा।पु। १०.८८.३] इत्य् आदौ,
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ [भा।पु। १०.८८.५]
तद् उक्तं ब्रह्म-संहितायां—
दीपार्चिर् एव हि दशान्तरम् अभ्युपेत्य
दीपायते विवृत-हेतु-समान-धर्मा ।
यस् तादृग् एव हि च विष्णुतया विभाति
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४६]
भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयं कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एव जगद्-अण्ड-विधान-कर्ता
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४८]
क्षीरं यथा दधि विकार-विशेष-योगात्
सञ्जायते न तु ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्याद्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४५] इत्य्-आदि ।
न च दधि-दृष्टान्तेन विकारित्वम् आयातम् । तस्य श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति न्यायेन मुहुः परिहृतत्वात् । यथोक्तम्— यत उदयास्तमयौ विकृतेर् मृद् इवाविकृताद् [भा।पु। १०.८७.१५] इति । दृष्टान्त-त्रयेण तु क्रमेणेदं लभ्यते । सूर्य-कान्त-स्थानीये ब्रह्मोपाधौ सूर्यस्येव तस्य किञ्चित् प्रकाशः । दधि-स्थानीये शम्भूपाधौ क्षीर-स्थानीयस्य न तादृग् अपि प्रकाशः । दशान्तर-स्थानीये विष्णूपाधौ तु पूर्ण एव प्रकाश इति । [परमात्म-सन्दर्भ १३]
अत एव विष्णोर् एव परम-पुरुषेण साक्षाद् अभेदोक्तिः । सृजामि तन्-नियुक्तोऽहं [भा।पु। २.६.३२] इत्य्-आदिना द्वितीये । तद् उक्तं—स उ एव विष्णुर् इति [भा।पु। ३.८.१५] । श्रुतिश् च, पुरुषो वै नारायणोऽकामयत [ना।उ। १], अथ नारायणाद् अजोऽजायत यतः प्रजाः सर्वाणि भूतानि ।
नारायणः परं ब्रह्म
तत्त्वं नारायणः परम् ।
ऋतं सत्यं परं ब्रह्म
पुरुषं कृष्ण-पिङ्गलम् ॥ [म।ना।उ। १३.४] इति ।
एको ह नारायण आसीन् न ब्रह्मा न च शङ्करः ।
स मुनिर् भूत्वा समचिन्तयत् ।
तत एव व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर् वरुण-रुद्रेन्द्रा ॥ इति च ।
एवं त्रि-देवी-परीक्षायाम् अपि श्री-विष्णोर् एवाराध्यत्वं स्पष्टम् । एवं भगवद्-अवतारानुक्रमणिका-सूत्राणां भेदम् अङ्गीकृत्यैव केवल-श्री-दत्तस्य गणना, सोम-दुर्वाससोस् त्व् अगणना ।
तद् एवं विष्णोः सर्वोत्कर्षे स्थिते यद् अन्यत्र श्री-विष्णु-शिवयोर् भेदे नरकः श्रूयते, तद् अनैकान्तिक-वैष्णव-शास्त्रत्वाद् अनैकान्तिक-वैष्णव-परम् एव । यतस् तद्-विपरीतं हि श्रूयते वैष्णव-तन्त्रे, पाद्मोत्तर-खण्डादौ च—
यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ [प।पु। ६.२३५.९] इत्य्-आदि ।
तथा श्री-विष्णु-धर्मोत्तरान्ते लिङ्ग-स्फोट-नृसिंहोपाख्यानम् । विष्वक्सेन-नामा विप्र कश्चिद् एकान्त-विष्णु-भक्त आसीत् । तस्य पृथिवीं भ्रमतो दैवात् केनचिद् ग्रामाध्यक्ष-सुतेन मिलनम् अभूत् । तयोः सङ्कथा चेयम्—
देव-कर्मण्य् अशक्तेर् मे तात पूजय शङ्करम् ।
देवतायतनं गत्वा तत्र तात प्रतिष्ठितम् ॥
लिङ्गम् अस्ति सुरेशस्य महादेवस्य निर्मलम् ।
एतद् उक्तं प्रत्युवाच वयम् एकान्तिनः श्रुताः ॥
चतुरात्मा हरिः पूज्यः प्रादुर्भाव-गतोऽथवा ।
पूजयामश् च नैवान्यं तस्मात् त्वं गच्छ मा चिरम् ॥ [वि।ध।पु। ३.३५४.११-१३] इति ।
ततो ग्रामाध्यक्ष-पुत्रे तस्य विष्वक्सेनस्य शिरश् छेत्तुम् उद्यते तद्-धस्तेन मृत्युम् अनभीप्सन् स इदं विचारयामास—भवतु तत्रैव गच्छाम इति । ततो लिङ्ग-समीपं गत्वा तस्मिन्न् अधिष्ठाने—श्री-नृसिंहाय नम इति पुष्पाञ्जलौ विक्षिप्ते तच् छ्रुत्वा पुनः शिरश् छेत्तुम् उद्यतस्य तल्-लिङ्गं स्फोटयित्वा निर्गतेन श्री-नृसिंहेन सपरिवारस्य ग्रामाध्यक्ष-पुत्रस्य शिरांसि छिन्नानीति ।
तद् एतद् उक्तं स्कान्दे—शिव-शास्त्रेषु तद् ग्राह्यं भगवच्-छास्त्र-योगि यत् इति ।
मोक्ष-धर्मे च नारायणोपाख्याने—
साङ्ख्यं च योगं च सनातने द्वे
वेदाश् च सर्वे निखिलेन राजन् ।
सर्वैः समस्तैर् ऋषिभिर् निरुक्तो
नारायणो विश्वम् इदं पुराणम् ॥ [म।भा। १२.३३७.६८] इति ।
महाभारते—
यस् तु विष्णुं परित्यज्य मोहाद् अन्यम् उपासते ।
स हेम-राशिम् उत्सृज्य पांशु-राशिं जिघृक्षति ॥ इति ।
अत एवोक्तं श्री-नारदेन—
अविस्मितं तं परिपूर्ण-कामं
स्वेनैव लाभेन समं प्रशान्तम् ।
विनोपसर्पत्य् अपरं हि बालिशः
श्व-लाङ्गुलेनातितितर्ति सिन्धुम् ॥ [भा।पु। ६.९.२२] इति ।
श्री-हरि-वंशे—
हरिर् एव सदा ध्येयो भवद्भिः सत्त्व-संस्थितैः ।
विष्णु-मन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ [ह।वं। ३.८९.८] इति ।
अत एव विष्णु-मन्त्र-जापस्याधिक्यं श्री-नृसिंह-तापन्यां श्रुतौ—
अनुपनीत-शतम् एकम् एकेनोपनीतेन तत्-समम् । उपनीत-शतम् एकम् एकेन गृहस्थेन तत्-समम् । गृहस्थ-शतम् एकम् एकेन वानप्रस्थेन तत् समम् । वानप्रस्थ-शतम् एकम् एकेन यतिना तत् समम् । यतीनां तु शतं पूर्णम् एकम् एकेन रुद्र-जापकेन तत्-समम् । रुद्र-जापक-शतम् एकम् एकेन अथर्व-शिरः-शिखाध्यापकेन13 तत्-समम् । अथर्वशिरः-शिखाध्यापक-शतम् एकम् एकेन तापनीयोपनिषद्-अध्यापकेन तत्-समम् । तापनीयोपनिषद्-अध्यापक-शतम् एकम् एकेन मन्त्र-राजाध्यापकेन तत्-समम् । [नृ।ता।उ। ५.८] इति ।
मन्त्र-राजश् च तत्र श्री-नृसिंह-मन्त्र एव । अत एवोक्तं वाराहे—
जन्मान्तर-सहस्रेषु समाराध्य वृष-ध्वजम् ।
वैष्णवत्वं लभेद् धीमान् सर्व-पाप-क्षये सति ॥ इति ।
यत् तु श्री-भागवत एव—
त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् ।
सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति ॥ [भा।पु। ४.७.५४] इत्य्-आदि ।
तत् खलु श्री-विष्णोः सकाशाद् अन्यास्वातन्त्र्यापेक्षयैव । तद् उक्तं श्री-ब्रह्मणा—
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ [भा।पु। २.६.३१] इति ।
श्री-सङ्कर्षणेन च—ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः [भा।पु। १०.६८.३७] इति । श्री-कपिलेन च—
यच्-छौच-निःसृत-सरित्-प्रवरोदकेन
तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् ॥ [भा।पु। ३.२८.२२] इति च ।
एतद् अभिप्रेत्यैवोक्तं पाद्मेऽपि—
शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं
धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः । इति ।
अत्र श्री-विष्णुनेति तृतीयाया निर्देशाद् अत्रैव श्री-शब्द-दानाच् च श्रीमतः सर्व-शक्ति-युक्तस्य विष्णोः सर्व-व्यङ्ग्यकत्वेन तन्-नाम्नस् तस्माद् यः शिवस्य गुण-नामादि सकलं धिया भिन्नं स्वतन्त्रं पश्येद् इत्य् अर्थः । अतो मार्कण्डेयं प्रति श्री-शिव-वाक्यं चेदम् एव—
न ते मय्य् अच्युतेऽजे च भिदाम् अण्व् अपि चक्षते ।
नात्मनश् च जनस्यापि तद् युष्मान् वयम् ईमहि ॥ [भा।पु। १२.१०.२२] इति ।
तत्र तत् तेभ्योऽपि सर्व-सम-दृष्टिभ्यो वयं युंसान् एवेमहि प्रियत्वेन जानीम इति ।
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मद्-भागवतानां च प्रेयान् अन्योऽस्ति कर्हिचित् ॥ [भा।पु। ४.२४.२६]
इति चतुर्थे तस्यैवोक्तेः । अत एव तत्-पूर्वम्—
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ [भा।पु। १२.१०.६] इति ।
इति श्री-शिवोक्ति-महिम-भक्त्या भगवति समाधिस्थस्य तस्य देव्यै महिम-दर्शनार्थं हृदि च्छलेन स्वयं शिवे प्रविष्टे विरतिर् जाता । यथोक्तं किम् इदं कुत एवेति समाधेर् विरतो मुनिः [भा।पु। १२.१०.१३] इति । तच् चान्यथा न सम्भवतीति । श्रुतौ च विष्णोर् एव सर्वोत्कर्षम् उक्तम्— यं कामये तम् उग्रं कृणोमि तं ब्रह्माणं तमुषिं तं सुमेधां [ऋग्-वेद १०.१२५.५] इत्य्-आदिना ।
तस्मात् तदीयत्वेनैव ब्रह्म-रुद्र-भजने न दोषः । स आदिदेवो जगतां पुरो गुरुर् [भा।पु। २.९.५], वैष्णवानां यथा शम्भुः [भा।पु। १२.१३.१६] इत्य्-आद्य्-अङ्गीकारात् । यथानुष्ठितं श्री-प्रह्लादेन—
ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन् देवान् प्रह्रादो भगवत्-कलाः ॥ [भा।पु। ७.१०.३२] इति ।
श्री-युधिष्ठिरेण च—
क्रतु-राजेन गोविन्द राजसूयेन पावनीः ।
यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥ [भा।पु। १०.७२.३१] इति ।
स्वतन्त्रत्वेन भजने तु भृगु-शापो दुरत्ययः । यथा चतुर्थे—
भृगुः प्रत्यसृजच् छापं ब्रह्म-दण्डं दुरत्ययम् ।
भव-व्रत-धरा ये च ये च तान् समनुव्रताः ।
पाषण्डिनस् ते भवन्तु सच्-छास्त्र-परिपन्थिनः ॥ [भा।पु। ४.२.२७-२८] इत्य्-आदि ।
वेद-विहितम् एवात्र भव-व्रतम् अनूद्यते । अन्य-विहितत्वे पाषण्डिनत्व-विधानायोगः स्यात्, पूर्वत एव पाषण्डित्व-सिद्धेः । तस्मात् स्वतन्त्रत्वेनैवोपासनायाम् अयं दोषः । यतश् च तत्रैव तेन श्री-जनार्दनस्यैव वेद-मूलत्वम् उक्तम्—
एष एव हि लोकानां शिवः पन्थाः सनातनः ।
यं पूर्वे चानुसन्तस्थुर् यत्-प्रमाणं जनार्दनः ॥ [भा।पु। ४.२.३१] इति ।
एष वेद-लक्षणो यत्-प्रमाणं यत्र मूलम् इय् अर्थः ।
स्वतन्त्रोपासनायां तत्-प्राप्तिः श्री-गीतोपनिषत्स्व् एव निषिद्धा—
येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥
यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनोऽपि माम् ॥ [गीता ९.२३-२५] इति ।
अवज्ञादिकं तु सर्वथा परिहरणीयम् । यथा पाद्मे—
हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः ।
इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन ॥ इति ।
कौर्मे श्री-भगवद्-वाक्यं च—
यो मां समर्चयेन् नित्यम् एकान्तं भावम् आश्रितः ।
विनिन्दन् देवम् ईशानं स याति नरकं ध्रुवम् ॥ इति ।
गौतमीये च—
गोपालं पूजयेद् यस् तु निन्दयेद् अन्य-देवताम् ।
अस्तु तावत् परो धर्मः पूर्व-धर्मोऽपि नश्यति ॥ [गौ।त। ३३.८४] इति ।
हयशीर्षा मां पथि देव-हेलनात् [भा।पु। ६.८.१७] इति श्री-नारायण-वर्मणि तद्-आगः-प्रायश्चित्तम् । चतुर्थे नन्दीश्वर-शापश् च—संसरस् त्व् इह ये चामूम् अनु शर्वावमानिनं [भा।पु। ४.२.२४] इति । अत्र विशेष-जिज्ञासा चेत् श्री-परमात्म-भक्ति-सन्दर्भौ दृश्यौ ॥२५॥ [परमात्म-सन्दर्भ १३]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आवरण-विक्षेप-प्रकाश-धर्माणां तमो-रजः-सत्त्वानां यथोत्तरं श्रैष्ठ्यम्, तथा सत्य् अस्य शुद्ध-सत्त्वे प्रातिकूल्याभावं च स-दृष्टान्तम् आह । पार्थिवात् स्व-वृत्ति-प्रकाश-प्रवृत्ति-रहितात् दारुणः काष्ठात् सकाशात् धूमः प्रवृत्ति-स्वभावः श्रेष्ठः । तस्माद् अप्य् अग्निः प्रवृत्ति-प्रकाश-धर्मको वेदोक्त-कर्म-साधनत्वात् त्रयी-मयः । एवं तमसो लयात्मकत्वाद् रजो विक्षेपकं श्रेष्ठम् । तस्माद् अपि सत्त्वं लय-विक्षेप-शून्यं ब्रह्म-दर्शनम् । सत्त्वात् सञ्जायते ज्ञानं [गीता १४.१७] इत्य् आदेः । शुद्ध-सत्त्वे तस्य प्रातिकूल्याभावेनोपरागाभाव उक्तः । तेन ब्रह्म-दर्शने तस्य व्यवधायकत्वाभाव एव साधकत्वम् औपचारिकम्, भक्त्या विना ब्रह्म-दर्शनासम्भव इत्य् अग्रिम-ग्रन्थे प्रतिपादनात् ।
एवं च आनन्दो ब्रह्मणो रूपम् इति परमेश्वरस्यानन्द-रूपत्वात् । माया परैत्य् अभिमुखे च विलज्जमाना [भा।पु। २.७.४७] इत्य् आदेर् माया-गुणानां रजः-सत्त्व-तमसां परमेश्वर-स्पर्शे स्वतः सामर्थ्याभावात् परमेश्वरेणैव स्वेच्छया तत्-स्पर्शे स्वीकृतेऽपि ब्रह्मणि विक्षेप-विशिष्टो विष्णौ प्रकाश-विशिष्टः शिवे आवरण-विशिष्ट आनन्द इत्य् अत आनन्दस्य प्रकाश-युक्तत्वे न क्षतिर् इति विष्णुर् एवोपास्य इति विवेकः ।
अत्र दारुणि शुद्ध-तेजस उपलब्धेर्, धूमे तु तद्-अनुपलब्धेर् धूम-स्थाणीयाद् रजसः सकाशात् दारु-स्थानीयं तमः श्रेष्ठम्, तत्-कार्य-सुषुप्ताव् अपि केवलात्मानुभवाद् इति रजस्-तमो-गुणवतोर् ब्रह्म-रुद्रयोर् मध्ये रुद्र एव श्रेष्ठ इति केचिद् आहुः ।
अतो भगवद्-अवतारत्वे त्रयाणां साम्यं गुणोपरागानुपरागाभ्याम् असाम्यं चेत्य् अभेद-भेद-प्रतिपादकानि पौराणिक-वाक्यानि सङ्गमनीयानि । अत्र असङ्गो ह्य् अयं पुरुष इति श्रुतेः । परमात्मा जीवात्मा च यस्यापि स्वरूपतो गुण-सङ्ग-रहित एव भवति, तद् अपि परमात्मनश् चिन्-महोदधित्वात् परमेश्वरत्वात् स्वातन्त्र्यात् स्वैर-लीलत्वाच् च स्वेच्छयैव स्व-कर्तृकेण गुण-स्पर्शने शम्भुत्वे सति, गुण-कार्य-क्रोधादिमत्त्वेऽप्य् आत्मारामत्वम् असंसारित्वं स्वाज्ञानापचयश् च भवति । जीवात्मनस् तु चित्-कणत्वाद् अल्प-प्रकाशकत्वाद् ईशितव्यत्वाद् अस्वातन्त्र्याद् अल्प-बलत्वाच् च गुण-कर्तृक एव तत्-स्पर्शे सति स्व-ज्ञान-लोपः संसारश् च भवतीति विवेचनीयम् ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उक्तम् अर्थं दृष्टान्तेन स्फुटयति—पार्थिवाद् इति । पार्थिवात् प्रवृत्ति-प्रकाश-रहितान् न तु धूमवद् अंशेनाग्नेयाद्-दारुणो यज्ञियान्-मथन-काष्ठात् सकाशाद् अंशेनाग्नेयः प्रवृत्त्य् उष्मांश-स्वभावो धूमस् त्रयीमयो वेदोक्त-कर्म-प्रचुरः किञ्चित्-तत्-कर्माशाजननात् । तस्माद्-धूमात् स्वयम् अग्निस् त्रयीमयः सक्षात्-कर्म-संपादकत्वात् । एवं लयात्मकात्-तमसः सकाशाद्-रजः किञ्चिद् ब्रह्म-दर्शनं व्यवहारिक-ज्ञाने हेतुत्वेन किञ्चित्-तत्-प्रत्यासन्नत्वात् । यत्-तु सत्त्वं तत् खलु ब्रह्म-दर्शनं । सत्त्वात् सञ्जायते ज्ञानं [गीता १४.१७] इति स्मृतेः स्व-व्यङ्ग्य-ज्ञान-द्वारा साक्षात्-तद्-दर्शन-हेतुर् इति । तस्मात् सत्त्वतनुर् विष्णुर् वासुदेवाख्यः सेव्य इति । विरिञ्चाद्योर् अभेद-वचांसि तु तदाविष्टत्वात् सङ्गतिम् अन्तीति ॥२४॥
———————————————————————————————————————
॥ १.२.२५ ॥
भेजिरे मुनयोऽथाग्रे भगवन्तम् अधोक्षजम् ।
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तान् इह ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सात्त्विकानां वासुदेवे भक्तिर् उत्पद्यते ॥२५॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वासुदेव-भक्तौ पूर्वाचारं प्रमाणयति—भेजिर इति । अथ अतो हेतोर् अग्रे पुरा विशुद्धं सत्त्वं सत्त्व-मूर्तिं भगवन्तम् अधोक्षजम् । अथो ये ताननु वर्तन्ते त इह संसारे क्षेमाय कल्पन्ते ॥२५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **देवतान्तर-परित्यागेनापि भगवद्-भक्तौ सद्-आचारं प्रमाणयति—भेजिरे इति । सत्त्वं विशुद्धं विशुद्ध-सत्त्वात्मक-मूर्तिं भगवन्तम् । प्रकृत-सत्त्वातीतत्वं च तस्य विवृतं भगवत्-सन्दर्भे पञ्चदशाधिक-शततम-वाक्यम् आरभ्य द्रष्टव्यम् ॥२५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ अत एव विशुद्धं सत्त्वं स्वरूप-भूता चिच्-छक्तिर् एव तन्-मयं विद्याविद्याभ्यां भिन्नं [गो।ता।उ। २.२०] इति गोपाल-तापनी-श्रुतेः । छायातपौ यत्र न गृध्र-पक्षौ इति स्मृतेश् च । सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४] इति दशमाच् च । विष्णु-वपुषो मायातीतत्वात् माया-शक्ति-वृत्ति-विद्यैव विशुद्ध-सत्त्व-शब्द-वाच्येति न व्याख्येयम् । ये तान् मुनीन् अनुवर्तते ते इह संसारे मोक्षाय कल्पन्ते ॥२५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद्-भक्तौ सदाचारं दर्शयति—भेजिरे इति । अथेति हेतौ, अतो हेतोर् मुनयः सनकादयः सत्त्वं विशुद्धं विशुद्ध-सत्त्व-मुर्तिं भगवन्तं भेजिरे, ये तु तान्-मुनीन् अनुगतास् ते इह क्षेमाय कल्पन्ते । विशुद्धं सत्त्वम् इदं रजोस् तमोऽसंपृक्तं प्राकृतम् एव सत्त्वम् इति न भ्रमितव्यं, तद् असंपृक्तस्य तस्याभावात् । अन्योन्य-मिथुनाः सर्वे सदा सर्वत्रगामिनः इत्य्-आदि-स्मरणात् भगवतो माया-स्पृश्यत्त्व-वाक्येभ्यश् च । स्व-प्रकाश-ज्ञान-रूपं तदित्येके । संविच्छक्ति-रूपं ज्ञातृ तद् इति सत्त्वं न चेद्-धातः [भा।पु। १०.२.३५] इत्य् अत्र स्फुटी-भावि ॥२५॥
———————————————————————————————————————
॥ १.२.२६ ॥
मुमुक्षवो घोर-रूपान् हित्वा भूत-पतीन् अथ ।
नारायण-कलाः शान्ता भजन्ति ह्य् अनसूयवः ॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्व् अन्यान् अपि केचिद् भजन्तो दृश्यन्ते । सत्यम् । मुमुक्षवस् त्व् अन्यान् न भजन्ति किं तु सकामा एवेत्य् आह—मुमुक्षव इति द्वाभ्याम् । भूत-पतीन् इति पितृ-प्रजेशादीनाम् उपलक्षणम् । अनसूयवो देवतान्तरा-निन्दकाः सन्तः ॥२६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नन्व् अन्यान् भैरवादीन् देवान् अपि केचिद् भजन्तो दृश्यन्ते । सत्यं यतस् ते सकामाः । किन्तु मुमुक्षवोऽप्य् अन्यान् न भजन्ते । किम् उत तद्-भक्तियिक-पुरुषार्था इत्य् आह—मुमुक्षव इति ॥२६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु केचिद् भैरवादीन् भजन्तो दृष्टाः । सत्यं, सकामाः खलु ते । निष्कामास् तु नान्यान् भजन्त इत्य् आह—मुमुक्षवः पामरं संसारं हित्वा परमानन्दं हरिं प्रेपस्वः, नारायणस्य हरेः कला अवतारान् भजन्ति, भूत-पतीन् हित्वा, तासां भजेन तेषां हाने हेतू शान्ता इति घोर-रूपान् इति च । अनसूयवो देवतान्तरानिन्दकाः सन्तः ॥२६॥
———————————————————————————————————————
॥ १.२.२७ ॥
रजस्-तमः-प्रकृतयः सम-शीला भजन्ति वै ।
पितृ-भूत-प्रजेशादीन् श्रियैश्वर्य-प्रजेप्सवः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रजस्-तमसी प्रकृतिः स्वभावो येषां ते । अत एव पितृ-भूतादिभिः समं शीलं येषाम् । श्रिया सहैश्वर्यं प्रजाश् चेप्सन्तीति तथा ते ॥२७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु काम-लोभोऽपि लक्ष्मी-पति-भजने भवत्य् एव तर्हि कथम् अन्यांस् ते भजन्ते ? तत्राह—रज इति । रजस्-तमः-प्रकृतित्वेनैव पित्रादिभिः समं शीलं येषाम् , सम-शीलत्वाद् एवं तद्-भजने प्रवृत्तिर् इत्य् अर्थः ॥२७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु काम-लाभस्यापि श्रीपति-भजनात् सिद्धेः कथं तेऽन्यान् भजन्ति? तत्राह—रज इति । रजस् तमः-प्रक्रितित्वेनैव पित्रादिभिः समं शीलं येषां ते तादृशत्वाद् एव तान् भजन्ति । श्रियेति सहार्था तृतीया । श्रिया सहैश्वर्यं प्रजाश् चेप्सवो न तु मोक्षम् ॥२७॥
———————————————————————————————————————
॥ १.२.२८-२९ ॥
वासुदेव-परा वेदा वासुदेव-परा मखाः ।
वासुदेव-परा योग वासुदेव-पराः क्रियाः ॥
वासुदेव-परं ज्ञानं वासुदेव-परं तपः ।
वासुदेव-परो धर्मो वासुदेव-परा गतिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मोक्ष-प्रदत्वाद् वासुदेवो भजनीय इत्य् उक्तं सर्व-शास्त्र-तात्पर्य-गोचरत्वाद् अपीत्य् आह द्वाभ्याम् । वासुदेव एव परस् तात्पर्य-गोचरो येषां ते । ननु वेदा मख-परा दृश्यन्त इत्य् आशङ्क्य तेऽपि तद्-आराधनार्थत्वात् तत्-परा एवेत्य् उक्तम् । योगा योग-शास्त्राणि । तेषाम् अप्य् आसन-प्राणायामादि-क्रिया-परत्वम् आशङ्क्य तासाम् अपि तत्-प्राप्त्य्-उपायत्वात् तत्-परत्वम् उक्तम् ॥२८॥
ज्ञानं ज्ञान-शास्त्रम् । ननु च तज्-ज्ञान-परम् एवेत्य् आशङ्क्य ज्ञानस्यापि तत्-परत्वम् उक्तम् । तपोऽत्र ज्ञानम् । धर्मो धर्म-शास्त्रं दान-व्रतादि-विषयम् । ननु तत्-स्वर्ग-परम् इत्य् आशङ्क्य गम्यत इति गतिः स्वर्गादि-फलं सापि तद्-आनन्दांश-रूपत्वात् परैवेत्य् उक्तम् । यद् वा वेदाइत्य् अनेनैव तन्-मूलत्वात् सर्वाण्य् अपि वासुदेव-पराणीत्य् उक्तम् । तत्र ननु तेषां मख-योग-क्रियादि-नानार्थ-परत्वान् न तद्-एक-परत्वम् इत्य् आशङ्क्य मखादीनाम् अपि तत्-परत्वम् इत्य् उक्तम् इति द्रष्टव्यम् ॥२९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततो वासुदेव एव भजनीय इत्य् उक्तम् । सर्व-शास्त्र-तात्पर्यं च तत्रैवेत्य् आह द्वाभ्यम् । अत्र योगादीनां कथञ्चिद् भक्ति-सचिवत्वेनैव तत्-परत्वं मुख्यं द्रष्टव्यम् । वेदाश् च कर्म-काण्ड-परा एव ज्ञेयाः केषाञ्चित् साक्षाद्-भक्ति-परत्वम् अपि दृश्यत इति—
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३] इत्य् आदेः ॥२८-२९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु वेदैर् एव पित्रादयो भजनीयत्वेनोच्यन्ते तेषां को दोषः ? तत्राह—वासुदेव एव परस् तात्पर्य-गोचरो येषां ते ।
कालेन नष्टा प्रलये वाणीयं वेद-सञ्ज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भा।पु। ११.१४.३] इति ।
किं विधत्ते किम् आचष्टे [भा।पु। ११.२१.४२] इत्य् अतो मां विधत्तेऽभिधत्ते मां [भा।पु। ११.२१.४३] इत्य्-आदि भगवद्-उक्तेस् तु वेद-तात्पर्यम् अबुद्ध्यैव पित्रादीन् भजन्तीति भावः ।
ननु वेदानां मख-योगादि-परत्वं तत्र तत्र प्रकटं दृश्यते ? सत्यम् ।
स्वं लोकं न विदुस् ते वै यत्र देवो जनार्दनः ।
आहुर् धूम्र-धियो वेदं सकर्मकम् अतद्-विदः ॥ [भा।पु। ४.२९.३८] इति
श्री-नारदोक्तेर् मख-योगादौ वेदस्य तात्पर्याभावात्, धर्मो यस्यां मदात्मकः [भा।पु। ११.१४.३] इति भगवद्-उक्तेः, तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या ब्रह्मानूचुर् नाम गृणन्ति ये ते [भा।पु। ३.३३.७] इति श्री-देवहूत्य्-उक्तेः, यथा तरोर् मूल-निषेचनेन [भा।पु। ४.१३.१४] इति नारदोक्तेश् च वासुदेव एव तात्पर्यावगमाच् च सर्वेवदार्थः केवल-भगवद्-भक्तिर् एवेति ।
यद् वा, मखस्य वासुदेव-भुजाद्य्-अङ्ग-विभूतीन्द्रादि-देवताराधन-मयत्वेन वासुदेव-परत्वम् आदि-भरत-चरिते प्रसिद्धम् । योगस्यापि भगवद्-ध्यानादि-परत्वं कापिलेये प्रसिद्धम् । कर्मणाम् अपि तत्-समर्पणं विना फलासिद्धेस् तत्-परत्वम् । ज्ञान-तपसोर् ब्रह्म-परत्वम् एव कर्म-योगस्य पूर्व-श्लोकोक्तेः धर्म-पदेन परम-धर्मः श्रवण-कीर्तनादिर् गतिस् तत्-प्राप्य-प्रेमापवर्गादिस् तयोस् तु वासुदेव-परत्वम् एव ॥२८-२९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मोक्षदत्वाद् वासुदेवे भक्तिर् उक्ता, निखिल-शास्त्र-तात्पर्याच् च तत्रैव सा युक्तेत्य् आह द्वाभ्याम् । वासुदेवः परस् तात्पर्य-विषयो येषां ते तादृशा वेदाः । सर्वे वेदा यत्-पदम् आमनन्ति [क।उ। २.१५] इति श्रुतेः, वेदैश् च सर्वैर् अहम् एव वेद्यः [गीता १५.१५] इति स्मृतेश् च, साक्षात् परम्परया च ते सर्वे तम् एव बोधयन्तीत्य् अर्थः । यत्-तेषां मखादि-परतेव दृश्यते, तत्त्व-ज्ञानाद् एवेत्य् आह । मखा यज्ञा क्रियाः स्नान-संध्योपासाद्याचाराः । धर्मः सत्-पात्रेषु स्व-भोग्यार्पण-लक्षणः, एते हृद्-विशुद्धि-द्वारा तत्पराः । योगाश् चित्त-वृत्ति-निरोध-लक्षणा अष्टाङ्गकाः । तपः पञ्चाग्निसेवा-कृच्छ्रादि-लक्षणं । एतानि इन्द्रिय-निर्जय-द्वारा तत्पराणि । ज्ञानं वेदाङ्ग-व्याकरणादि-व्युत्पत्ति-रुप-निषदर्थ-प्रवेश-द्वारा तत्-परम्, गतिर् मुक्तिः, साप्य् अनुवृत्त-भक्ति-कत्वात्-तत्-परेति ॥२८-२९॥
———————————————————————————————————————
॥ १.२.३० ॥
स एवेदं ससर्जाग्रे भगवान् आत्म-मायया ।
**सद्-असद्-रूपया चासौ गुणमयागुणो विभुः ॥ **
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **आत्म-मायया स्वेच्छया । सद्-असद्-रूपया प्रकृत्या च । तया सद्-असद्-रूपया ॥३०॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु जगत्-सर्ग-तत्-प्रवेश-नियमनादि-विलास-युक्ते वस्तुनि सर्व-शास्त्र-समन्वयो दृश्यते कथं वासुदेव-परत्वं सर्वस्य तत्राह—स एवेति चतुर्भिः । एतैर् एव श्लोकैस् तस्य कर्मान्य् उदाराणि ब्रूहीति प्रश्नस्योत्तरम् उक्तम् । सद्-असद्-रूपया कार्य-कारणात्मिकया । अगुणश् चेति अन्वयः । स्वतो निर्गुणोऽपि सन्न् इत्य् अर्थः ॥३०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु भवतु स्वयं भगवतो वासुदेवस्य तादृशत्वम्, गुणावतारस्य विष्णोः किम् आयातम् इत्य् आशङ्क्य तत्-पर्यन्तानाम् अन्येषाम् अपि तद्-अभिन्नत्वं दर्शयितुं प्रकरोति—स एवेति पञ्चभिः । इदं महद्-आदि-विरिञ्चि-पर्यन्तम् । एवं प्रवेशादिकाप्य् उत्तर-श्लोकेषु द्रष्टव्या । अत्र स एवेति महत्-स्रष्टा तद्-अभिन्नत्वेन दर्शितः ॥३०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च ये पितृ-भूत-प्रजेशादयो भजनीयास् तेषाम् अपि स्रष्टा वासुदेव एवेति स सेव्यार्ह इत्य् आह स एवेति । सद्-असद्-रूपया कार्य-कारणात्मिकया स्वयं त्व् अगुणः ॥३०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु विश्व-सृष्टि-तत्-प्रवेश-तन्-नियमन-कर्तरि वेदानां समन्वयाद् वासुदेव-परत्वं न स्यात्? तत्राह स एवेति चतुर्भिः । एतद् एव तस्य कर्माण्य् उदाराणि ब्रूहि [भा।पु। १.१.१७] इत्य् अस्य प्रश्नस्योत्तरम् । स एव वासुदेवो भगवान् इदं जगद् आत्म-मायया ससर्ज, गुण-मया त्रि-गुणया । सद् असद्-रूपया स्थूल-सूक्ष्म-भूतया, स्वयं त्व् अगुणः ॥३०॥
———————————————————————————————————————
॥ १.२.३१ ॥
तया विलसितेष्व् एषु गुणेषु गुणवान् इव ।
अन्तः-प्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विज्ञानेन विजृम्भितः विज्ञानेनैव सम्पूर्णः ॥३१॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भगवतो जगत्-कारणत्वम् उक्तम् । प्रवेश-नियमन-लक्षणं लीलाम् आह—तयेति । विलसितेषूद्भूतेषु गुणेष्व् आकाषादिष्व् अन्तः प्रविष्टः सन् गुणवान् इव मद्-अधीना एते गुणा इत्य् अभिमानवान् इव नतु वस्तुतस् तथा । यतो विज्ञानेन चिच्-छक्त्या विजृम्भितोऽत्यूर्जितः ॥३१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तयेत्य् अन्त-संस्थितः पुरुषः ॥३१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सृज्यानां तेषां स एवान्तर्यामीत्य् आह त्रिभिः । गुणेषु गुणोपाधिक-जीवेषु तया मायया विलास-विषयी-कृतेषु गुणवान् इव गुण-संसर्गवान् इव भाति न तु तथा यतो विज्ञानेन चिच्-छक्त्या विजृम्भितः अत्यूर्जितः ॥३१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रवेश-नियमने दर्शयति—तयेति । एषु जीवेषु गुणेषु गुण-कृत-देहेन्द्रिय-युक्तेषु तया मायया विलसितेषु क्रीडा-विषयतां नीतेषु अन्तः-प्रविष्टो नियामकतया स्थितो गुणवान् इवाविदुषामाभाति, न तु तथा । यतो विज्ञानेन चिच्-छक्त्या विजृम्भितोऽत्यूर्जितस् तद् अस्पृस्टः । वक्ष्यति चैवं एतद् ईशनम् ईशष्य [भा।पु। १.११.३८] इत्य्-आदिना ॥३१॥
———————————————————————————————————————
॥ १.२.३२ ॥
यथा ह्य् अवहितो वह्निर् दारुष्व् एकः स्व-योनिषु ।
**नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ **
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **बहु-रूपत्व-लीलाम् आह—यथेति । स्व-योनिषु स्वाभिव्यञ्चकेषु अविहितो निहितः । विश्वात्मा पुमान् परमेश्वरः । भूतेषु प्राणिष्व् अन्तर्यामिणोऽपि प्रति-योनि-नानात्वेन नानात्वम् इवोच्यते । क्षेत्र-ज्ञ-रूपेण वा14 ॥३२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यथेति सर्व-भूतस्थः पुरुषः ॥३२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अवहितः सदा-स्थितो यथा तथा विश्वात्मा अन्तर्यामी भूतेषु प्राणिषु । यदि तेष्व् एवाग्निर् मथनेन प्रकटीकृतः स्यात् तदा तान्य् एव दारुणि दहति एवम् एव श्रवणादिभिः साधनैः साक्षात्-कृतः परमात्मा मायिकम् उपाधिं जीवस्य दूरीकरोतीति ध्वनिः ॥३२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एकत्वे एव सति बहु-रूपताम् आह—यथेति । स्व-योनिषु स्व-व्यञ्जकेषु दारुष्ववहितः सदास्थितो वह्निरेको यथा नाना भाति, तथैको विश्वात्मा वासुदेवो भूतेषु प्राणिषु इति नियम्य-भेदेन तस्मिन्न् अभेदः । एकोऽपि सन् बहुधा यो विभाति [गो।ता।उ। पूर्व।] इति श्रुतेः । यथाग्निर् मथनेन व्यक्तो दारूणि दहेदवं ध्यानेन व्यक्तः स जीवोपाधीनिति सूच्यते ॥३२॥
———————————————————————————————————————
॥ १.२.३३ ॥
असौ गुणमयैर् भावैर् भूत-सूक्ष्मेन्द्रियात्मभिः ।
स्व-निर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्-गुणान् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **तद् गुणवान् एव भुङ्क्ते न दोषान् । सर्वत्र सार-भुग्-देवोनासारं स कदाचनेति वामन-पुराणे । अनश्नन् नित्य-शुभापेक्षया । पर-वशत्वापेक्षया क्लिप्त्य्-अपेक्षया च ।
अक्लिप्त्या च स्वतन्त्रत्वाद् अशुभस्य च वर्जनात् ।
अभोक्ता शुभ-भोक्तृत्वाद् भोक्तेत्य् एव च तं विदुः ।
अन्यूनानाधिकत्वाच् च पूर्णः स्वानन्द-भोजनात् ।
विरागाच् च परस्यास्य भोक्तृत्व-प्रतिषेधनम् ॥ इति स्कान्दे ॥३३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भोग-रूपां लीलाम् आह—असाव् इति । असौ हरिर् भूत-सूक्ष्माणि चेन्द्रियाणि श्रोतादीनि चात्मा मन्श् च तैः स्वयं निर्मितेषु भूतेषु चतुर् विधेष्व् इति भोगो स्वातन्त्र्यं द्योत्यते । तद्-गुणांस् तत्-तद्-अनुरूपान् विषयान् इच्छया भुङ्क्ते भोजयतीति णिज्-अर्थो वा ज्ञेयः ॥ भुङ्क्ते पालयतीति वा । तदा त्व् आत्मनेपदम् आर्षम् । भुजोऽनवने इति स्मरणात् ॥३३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **असाव् इति तत्-तल्-लीलावान् ॥३३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **असौ विश्वात्मा भूत-सूक्ष्माणि विषयाश् च इन्द्रियाणि च आत्मा मनश् च तैर् गुण-मयैर् भावैः । स्व-निर्मितेषु देव-तिर्यग्-आदिषु भूतेषु निर्विष्टः प्रविष्टः सन् तद्-गुणान् तद्-अनुरूपान् विषयान् । वैषयिक-सुखानि भुङ्क्ते इति जीवानां भोक्तृत्वम् अन्तर्यामिना विना न सिद्ध्यतीति वा जीवस्य तदीय-तटस्थ-शक्तित्वाद् वा जीव-द्वारा स्वयम् अन्तर्यामी भुङ्क्ते इति प्रयुज्यते । भोजयतीति जीवान् णिज्-अर्थो वा ज्ञेयः ॥३३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पालनम् आह—असाविति । असौ विश्वात्मा पुमान् । भूतानि च सूक्ष्माणि च तन्-मात्राणि इन्द्रियाणि च श्रोत्रादीनि । आत्मानश् च महद् अहङ्कार-मनांसि तैर् निमितेषु भूतेषु चतुर्विधेष्व् अण्डजादिषु प्राणिषु निर्विष्टस् तद्-गुणांस् तद् अनुरूपान् विषयान् भुङ्क्ते भोजयति । अन्तर्भूत-णिजर्थोऽयं, भुङ्क्ते पालयति वा । आत्मनेपदम् अत्रार्षं, भुजोऽनवने इति स्मरणात् ॥३३॥
———————————————————————————————————————
॥ १.२.३४ ॥
भावयत्य् एष सत्त्वेन लोकान् वै लोक-भावनः ।
**लीलावतारानुरतो देव-तिर्यङ्-नरादिषु ॥ **
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं सूत जानासीति प्रश्नस्योत्तरम् आह । भावयति पालयति । एतत् तु सर्वावतार-साधारणं प्रयोजनम् । विशेषतः कृष्णावतारस्य कुन्ती-स्तुतौ वक्ष्यते । लोक-भावनो लोक-कर्ता । देवादिषु ये लीलावतारास् तेष्व् अनुरतोऽनुरक्तः ॥३४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भावयतीति विष्णुर् इति ज्ञेयम् । एतेन पूर्वोक्तेषु ब्रह्मत्वादिषु परमात्मत्वं दर्शितम् । अन्ये द्वे दर्शयिष्यते ॥३४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवम् अन्तर्यामिनः प्रतियोनि-नानात्वेन नानात्वम् औपाधिकम् उक्तम् । भगवतस् तु विनैवोपाधिं नित्ययैव लीलया स्वरूपेणैव नानात्वम् आह—भावयति पालयतीति । यद् वा, लोकान् भाववतः स्व-प्रेम-युक्तान् करोतीति । सर्वावतार-साधारण-प्रयोजनम् । लोक-भावनः यतो लोक-कर्ता ॥३४॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वितीयः प्रथमेऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सूत जानासि [भा।पु। १.१.१२] इति प्रश्नस्योत्तरम् आह—भावयतीति । एष भगवान् सत्त्वेन स्वप्रवर्तितेन गुणेन लोकान् भुवनानि भावयति पालयति यतो लोक-भावनो विश्व-कर्तेति सर्वावतार-तुल्यं प्रयोजनं कृष्णावतारस्य तु कुन्ती-स्तोत्रे बोध्यम् । कीदृशः? देवादिषु ये लीलावतारास् तेष्व् अनुरतो निविष्टः ॥३४॥
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां द्वितीयोऽध्यायः ॥२॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे
नैमिषीयोपाख्याने श्री-भगवद्-अनुभाव-वर्णनं नाम
द्वितीयोऽध्यायः ।
॥२॥
(१.३)
-
एतद्-अग्रे उपनयन-कर्मणोऽप्य् अनर्ह-वयस्कत्वाद् विशेषतो बालम् इत्य् अभिप्राय इत्य् अधिकः पाठः क्वचित् । ↩︎
-
तत्त्वविद्भिः ↩︎
-
स वै महा-भागवतः परीक्षिद् येनापवर्गाख्यम् अदभ्र-बुद्धिः । ज्ञानेन वैयासकि-शब्दितेन भेजे खगेन्द्र-ध्वज-पाद-मूलम् ॥ ↩︎
-
पर्यन्त ↩︎
-
धर्मानुष्ठान- ↩︎
-
फ़्रोम् हेरे तो नेxत् नोते इन् भक्ति-सन्दर्भ ७। ↩︎
-
अथ श्रीमद्-भागवताख्य एव शास्त्रे क्वचिद् अनयत्रापि तद् एकं तत्त्वं त्रिधा शब्द्यते । क्वचिद् ब्रह्मेति क्वचित् परमात्मेति क्वचिद् भगवान् इति च । किन्त्व् अत्र श्रीमद्-व्यास-समाधि-लब्धाद् भेदाज् जीव इति च शब्द्यते इति स्वयम् एव व्याख्यातो भवतीति प्रथमतस् ताव् एव प्रस्तूयते । मूले तु क्रमाद् वैशिष्ट्य-द्योतनाय तथा विन्यासः । अयम् अर्थः—तद् एकम् एवाखण्डानन्द-स्वरूपं तत्त्वं थुत्कृत-पारमेष्ठ्यादिकानन्द-समुदयानां परमहंसानां साधन-वशात् तादात्म्यम् आपन्ने सत्याम् अपि तदीय-स्वरूप-शक्ति-वैचित्र्यां तद्-ग्रहणासामर्थ्ये चेतसि यथा सामान्यतो लक्षितं तथैव स्फुरद् वा तद्वद् एवाविविक्त-शक्ति-शक्तिमत्ता-भेदतया प्रतिपाद्यमानं वा ब्रह्मेति शब्द्यते । अथ तद् एकं तत्त्वं स्वरूप-भूतयैव शक्त्या कम् अपि विशेषं धर्तुं परासाम् अपि शक्तीनां मूलाश्रय-रूपं तद्-अनुभावानन्द-सन्दोहान्तर् भावित-तादृश-ब्रह्मानन्दानां भागवत-परमहंसानां तथानुभवैक-साधकतम-तदीय-स्वरूपानन्द-शक्ति-विशेषात्मक-भक्ति-भावितेष्व् अन्तर् बहिर् अपीन्द्रियेषु परिस्फुरद् वा तद्वद् एव विविक्त-तादृश-शक्ति-शक्तिमत्ताभेदेन प्रतिपाद्यमानं वा भगवान् इति शब्द्यते । (भगवत्-सन्दर्भ १) ↩︎
-
ज्ञान-मात्रस्य का वार्ता ? साक्षाद् अपि कुर्वन्तीत्य् अर्थः । इति भक्ति-सन्दर्भस्याधिक-पाठः। ↩︎
-
अत्रानुरूप-लक्षणं ययाहम् एतत् इत्य्-आदि परे [भा।पु। १.५.२७] इत्य्-अन्तं पद्यार्धकं द्रष्टव्यम् इति पुरी-दासः। ↩︎
-
‘प्रसादिनीम्ऽ इत्य् अपि पाठः । ↩︎
-
छेच्क् wहेरे थे क़ुओते स्तर्त्स्। ↩︎
-
तथापि ↩︎
-
जीवऽस् रेअदिन्ग् हस् अङ्गिरस-शाखाध्यापकेन। हे अल्सो स्किप्स् मेन्तिओन् ओफ़् थे तापनीयोपनिषद्-अध्यापक। ↩︎
-
‘क्षेत्र-रूपेण वाऽ इति क्वचित् पाठः । ↩︎