विषयः
नैमिष-क्षेत्रे श्रीमद्-भागवत-विषये सूतं प्रति शौनकादि-मुनीनां प्रश्नः ।
॥ १.१.१ ॥
जन्माद्य् अस्य यतोऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः ।
तेजो-वारि-मृदां यथा विनिमयो यत्र त्रि-सर्गोऽमृषा
धाम्ना स्वेन सदा निरस्त-कुहकं सत्यं परं धीमहि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ॐ नमः परम-हंसास्वादित-चरण-कमल-चिन्-मकरन्दाय
भक्त-जन-मानस-निवासाय श्री-राम-चन्द्राय ॥
वाग्-ईशा यस्य वदने लक्ष्मीर् यस्य च वक्षसि ।
यस्यास्ते हृदये संवित् तं नृसिंहम् अहं भजे ॥१॥
विश्व-सर्ग-विसर्गादि-नव-लक्षण-लक्षितम् ।
श्री-कृष्णाख्यं परं धाम जगद्-धाम ननाम तत् ॥२॥
माधवोमा-धवाव् ईशौ सर्व-सिद्धि-विधायिनौ ।
वन्दे परस्परात्मानौ परस्पर-नुति-प्रियौ ॥३॥
संप्रदायानुरोधेन पौर्वापर्यानुसारतः ।
श्री-भागवत-भावार्थ-दीपिकेयं प्रतन्यते ॥४॥
क्वाहं मन्द-मतिः क्वेदं मन्थनं क्षीर-वारिधेः ।
किं तत्र परमाणुर् वै यत्र मज्जति मन्दरः ॥५॥
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्-कृपा तम् अहं वन्दे परमानन्द-माधवम् ॥६॥
श्री-भागवताभिधः सुर-तरुस् ताराङ्कुरः सज्जनिः
स्कन्धैर् द्वादशभिस् ततः प्रविलसद् भक्त्यालवालोदयः ।
द्वात्रिंशत् त्रि-शतं यस्य विलसच्-छाखाः सहस्रान्य्
अलं पर्णान्य् अष्ट-दशेष्टदोऽतिसुलभो वर्वर्ति सर्वोपरि ॥७॥
अथ नाना-पुराण-शास्त्र-प्रबन्धैश् चित्त-प्रसत्तिम् अलभमानस् तत्र तत्रापरितुष्यन् नारदोपदेशतः श्रीमद्-भगवद्-गुणानुवर्णन-प्रधानं भागवत-शास्त्रं प्रारिप्सुर् वेदव्यासस् तत्-प्रत्यूह-निवृत्त्य्-आदि-सिद्धये तत्-प्रतिपाद्य-पर-देवतानुस्मरण-लक्षणं मङ्गलम् आचरति—जन्माद्य् अस्य इति । परं परमेश्वरं धीमहि । ध्यायतेर् लिङि छान्दसम्, ध्यायेमेत्य् अर्थः । बहु-वचनं शिष्याभिप्रायम् ।
तम् एव स्वरूप-तटस्थ-लक्षणाभ्याम् उपलक्षयति । तत्र स्वरूप-लक्षणं—सत्यम् इति । सत्यत्वे हेतुः—यत्र यस्मिन् ब्रह्मणि त्रयाणां माया-गुणानां तमो-रजः-सत्त्वानां सर्गो भूतेन्द्रिय-देवता-रूपोऽमृषा सत्यः । यत्-सत्यतया मिथ्या-सर्गोऽपि सत्यवत् प्रतीयते, तं परं सत्यम् इत्य् अर्थः ।
अत्र दृष्टान्तः—तेजो-वारि-मृदां यथा विनिमय इति । विनिमयो व्यत्ययोऽन्यस्मिन्न् अन्याव-भासः । स यथाऽधिष्ठान-सत्तया सद्वत् प्रतीयत इत्य् अर्थः । तत्र तेजसि वारि-बुद्धिर्1 मरीचि-तोये प्रसिद्धा । मृदि काचादौ वारि-बुद्धिर्, वारिणि च काचादि-बुद्धिर् इत्य्-आदि यथा-यथम् ऊह्यम् । यद् वा, तस्यैव परमार्थ-सत्यत्व-प्रतिपादनाय तद् इतरस्य मिथ्यात्वम् उक्तम् । यत्र मृषैवायं त्रि-सर्गो न वस्तुतः सन्न् इति । यत्रेत्य् अनेन प्रतीतम् उपाधि-संबन्धं वारयति । स्वेनैव धाम्ना महसा निरस्तं कुहकं कपटं माया-लक्षणं यस्मिंस् तम्।
तटस्थ-लक्षणम् आह—जन्मादीति । अस्य विश्वस्य जन्म-स्थिति-भङ्गा2 यतो भवन्ति, तं धीमहीति । तत्र हेतुः—अन्वयाद् इतरतश् चअर्थेष्व् आकाशादि-कार्येषु परमेश्वरस्य सद्-रूपेणान्वयाद् अकार्येभ्यश् च ख-पुष्पादिभ्यस् तद्-व्यतिरेकात् ।
यद् वा, अन्वय-शब्देनानुवृत्तिः । इतर-शब्देन व्यावृत्तिः । अनुवृत्तत्वात् सद्-रूपं ब्रह्म कारणं मृत्-सुवर्णादिवत् । व्यावृत्तत्वाद् विश्वं कार्यं घट-कुण्डलादिवद् इत्य् अर्थः ।
यद् वा, सावयवत्वाद् अन्वय-व्यतिरेकाभ्यां यद् अस्य जन्मादि, तद् यतो भवतीति संबन्धः । तथा च श्रुतिः—यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत् प्रयन्त्य् अभिसंविशन्ति [तै।उ। ३.१.१] इत्य् आद्या । स्मृतिश् च—
यतः सर्वाणि भूतानि भवन्त्य् आदि-युगागमे ।
यस्मिंश् च प्रलयं यान्ति पुनर् एव युग-क्षये ॥ इत्य् आद्या ।
तर्हि किं प्रधानं जगत्-कारणत्वाद् ध्येयम् अभिप्रेतं ? नेत्य् आह—अभिज्ञो यस् तम् । स ईक्षत लोकान् नु सृजा [ऐ।उ। १.१.१] इति । स इमांल् लोकान् असृजत [ऐ।उ। १.१.२] इति श्रुतेः, ईक्षतेर् नाशब्दम् [वे।सू। १.१.५] इति न्यायाच् च ।
तर्हि किं जीवो ध्येयः स्यात् ? नेत्य् आह—स्वराट् स्वेनैव राजते यस् तम् । स्वतः-सिद्ध-ज्ञानम् इत्य् अर्थः ।
तर्हि किं ब्रह्मा ध्येयः, हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् इति श्रुतेः ? नेत्य् आह—तेन इति । आदि-कवये ब्रह्मणेऽपि ब्रह्म चेदं यस् तेने प्रकाशितवान् ।
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ [श्वे।उ। ६.१८]
इति श्रुतेः । ननु ब्रह्मणो अन्यतो वेदाध्ययनम् अप्रसिद्धम् । सत्यम्, तत् तु हृदा मनसैव तेने विस्तृतवान् । अनेन बुद्धि-वृत्ति-प्रवर्तकत्वेन गायात्र्य्-अर्थो दर्शितः । वक्ष्यति हि—
प्रचोदिता येन पुरा सरस्वती
वितन्वताऽजस्य सतीं स्मृतिं हृदि ।
स्व-लक्षणा प्रादुर् आभूत् किलास्यतः
स मे ऋषीणाम् ऋषभः प्रसीदताम् ॥ इति ।
ननु ब्रह्मा स्वयम् एव सुप्त-प्रतिबुद्ध-न्यायेन उपलभतां नेत्य् आह । यस्मिन् ब्रह्मणि सूरयो मुह्यन्तीति । तस्माद् ब्रह्मणोऽपि पराधीन-ज्ञानत्वात् स्वतः-सिद्ध-ज्ञानः परमेश्वर एव जगत्-कारणम् । अत एव सत्योऽसतः सत्ता-प्रदत्वाच् च परमार्थ-सत्यः सर्व-ज्ञात्वेन च निरस्त-कुहकस् तम् । धीमहीति गायत्र्या प्रारम्भेण च गायत्र्य्-आख्य-ब्रह्म-विद्या-रूपम् एतत् पुराणम् इति दर्शितम् । यथोक्तं मत्स्य-पुराणे—
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः ।
वृत्रासुर-वधोपेतं तद् भागवत्म् इष्यते ॥
लिखित्वा तच् च यो दद्याद् धेम-सिंह-समन्वितम् ।
प्रौष्ठ-पद्यां पौर्णमास्यां स याति परमं पदम् ॥
अष्टादश-सहस्राणि3 पुराणं प्रकीर्तितम् ॥ [५३.२०-२२] \
पुराणान्तरे च—
ग्रन्थोऽष्टादश-साहस्रो द्वादश-स्कन्ध-संमितः ।
हयग्रीव-ब्रह्म-विद्या यत्र वृत्र-वधस् तथा ।
गायत्र्या च समारम्भस् तद् वै भागवतं विदुः ॥
पद्म-पुराणेऽम्बरीषं प्रति गौतमोक्तिः—
अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु ।
पठस्व स्व-मुखेनापि यदीच्छसि भव-क्षयम् ॥ इति ।
अत एव भागवतं नामान्यद् इत्य् अपि न शङ्कनीयम् ॥१॥
———————————————————————————————————————
**जीव-गोस्वामी (परमात्म-सन्दर्भः, १०५): **ईश्वरस् तु पर्जन्यवद् द्रष्टव्य इत्य् अस्य ब्रह्म-सूत्र-निर्गतार्थ-न्यायस्याप्य् अत्रैवान्तर्भाव-सिद्धेः । इति ब्रह्म-भगवत्-परमात्मानो विवृताः । तद् एवं त्रिव्यूहत्वम् एव व्याख्यातम् । क्वचिद् वासुदेवादि-चतुर्व्यूहादित्वं च दृश्यते । स च भेदः कस्यचित् केनचिद् अभेद-विवक्षया भेद-विवक्षया च नायुक्तः । तद् उक्तं मोक्ष-धर्मे नारायणीये—
एक-व्यूह-विभागो वा क्वचिद् द्वि-व्यूह-सञ्ज्ञितः ।
त्रि-व्यूहश् चापि सङ्ख्यातश् चतुर् व्यूहश् च दृश्यते ॥ [म।भा। १२.३३६.५३] इति ।
श्रुतिश् च—स एकधा भवति द्विधा भवति [छा।उ। ७.२६.२] इत्य्-आद्या ।
अथ पूर्व-रीत्या चतुर् व्यूहत्वाद्य्-अविसंवादितया यद् अत्र त्रि-व्यूहत्वं, तत्र प्रथम-व्यूहस्य श्री-भगवत एव मुख्यत्वं यत् प्रतिपादकत्वेनैवास्य श्री-भागवतम् इत्य् आख्या । यथोक्तम्—इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् [भा।पु। १.३.४०] इति । तस्य हि प्राधान्ये षड्-विधेन लिङ्गेन तात्पर्यम् अपि पर्यालोच्यते ।
उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥ इत्य् उक्त-प्रकारेण ।
तथा हि तावद् उपक्रमोपसंहारयोर् ऐक्येन—
जन्माद्य् अस्य यतोऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः ।
तेजो-वारि-मृदां यथा विनिमयो यत्र त्रि-सर्गोऽमृषा
धाम्ना स्वेन सदा निरस्त-कुहकं सत्यं परं धीमहि ॥ [भा।पु। १.१.१]
कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा
तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा ।
योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस्
तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥ [भा।पु। १२.१३.१९]
तत्र पुर्वस्यार्थः । अर्थोऽयं ब्रह्म-सूत्राणाम् इति गारुडोक्तेर् अस्य महा-पुराणस्य ब्रह्म-सूत्राकृत्रिम-भाष्यात्मकत्वात् प्रथमं तद् उपादायैवावतारः । तत्र पूर्वम्, अथातो ब्रह्म जिज्ञासा [वे।सू। १.१.१] इति व्याचष्टे—तेजो-वारि-मृदाम् इत्य्-आद्य्-अर्धेन । योजनायां प्राथमिकत्वाद् अस्य पूर्वत्वम् ।
तत्र ब्रह्म-जिज्ञासा इति व्याचष्टे—परं धीमहि इति । परं श्री-भगवन्तं धीमहि ध्यायेम । तद् एवं मुक्त-प्रग्रहया योग-वृत्त्या बृहत्त्वाद् ब्रह्म यत् सर्वात्मकं, तद् बहिश् च भवति । तत् तु निज-रश्म्य्-आदिभ्यः सूर्य इव सर्वेभ्यः परम् एव स्वतो भवतीति मूल-रूपत्व-प्रदर्शनाय4 पर-पदेन ब्रह्म-पदं व्याख्यायते । तच् चात्र भगवान् एवेत्य् अभिमतं, पुरुषस्य तद्-अंशत्वात्, निर्विशेष-ब्रह्मणो5 गुणादि-हीनत्वात् ।
उक्तं च श्री-रामानुज-चरणैः—सर्वत्र बृहत्त्व-गुण-योगेन हि ब्रह्म-शब्दः । बृहत्त्वं च स्वरूपेण गुणैश् च यत्रानवधिकातिशयः सोऽस्य मुखोऽर्थः । स च सर्वेश्वर एव [श्री-भाष्य १.१.१] इति ।
उक्तं प्रचेतोभिः, न ह्य् अन्तस् त्वद्-विभूतीनां सोऽनन्त इति गीयसे [भा।पु। ४.३०.३१] । अत एव विविध-मनोहरानन्ताकारत्वेऽपि तत्-तद्-आकाराश्रय-परमाद्भुत-मुख्याकारत्वम् अपि तस्य व्यञ्जितम् । तद् एवं मूर्तत्वे सिद्धे तेनैव परत्वेन न तस्य विष्ण्व्-आदि-रूपक-भगवत्त्वम् एव सिद्धम्, तस्यैव ब्रह्म-शिवादि-परत्वेन दर्शितत्वात् ।
अत्र जिज्ञासा इत्य् अस्य व्याख्या—धीमहीति । यतस् तज्-जिज्ञासायास् तात्पर्यं तद्-ध्यान एव । तद् उक्तम् एकादशे स्वयं भगवता—
शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि ।
श्रुतस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः ॥ [भा।पु। ११.११.१८] इति ।
ततो धीमहीत्य् अनेन श्री-रामानुज-मतं जिज्ञासा-पदं निदिध्यासन-परम् एवेति । स्वीयत्वेनाङ्गीकरोति श्री-भागवत-नामा सर्व-वेदादि-सार-रूपोऽयं ग्रन्थ इत्य् आयातम् । धीमहीति बहु-वचनं काल-देश-परम्परा-स्थितस्य सर्वस्यापि तत्-कर्तव्यताभिप्रायेण अनन्त-कोटि-ब्रह्माण्डान्तर्यामिनां पुरुषाणाम् अंशि-भूते भगवत्य् एव ध्यानस्याभिधानात् । अनेनैक-जीव-वाद-जीवन-भूतो विवर्त-वादोऽपि निरस्तः ।
ध्यायतिर् अपि भगवतो मूर्तत्वम् अपि बोधयति, ध्यानस्य मूर्त एवाकष्टार्थत्वात् । सति च सुसाध्ये पुम्-अर्थोपाये दुःसाध्यस्य पुरुषाप्रवृत्त्या स्वत एवापकर्षात्, तद्-उपासकस्यैव युक्ततमत्व-निर्णयाच् च । तथा च गीतोपनिषदः—
मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥
ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥
क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [गीता १२.२,३,५]
इदम् एव च विवृतं ब्रह्मणा—
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ [भा।पु। १०.१४.४] इति ।
अत एवास्य ध्येयस्य स्वयं भगवत्त्वम् एव साधितम्, शिवादयश् च व्यावृत्ताः । तथा धीमहीति लिङा द्योतिता पृथग्-अनुसन्धान-रहिता प्रार्थना ध्यानोपलक्षित-भगवद्-भजनम् एव परम-पुरुषार्थत्वेन व्यनक्ति । ततो भगवतस् तु तथात्वं स्वयम् एव व्यक्तम् ।
ततश् च यथोक्त-परम-मनोहर-मूर्तित्वम् एव लक्ष्यते । तथा च, वेदानां साम-वेदोऽस्मि [गीता १०.२२] इति, तत्र च बृहत्-साम तथा साम्नाम् [गीता १०.३५] इत्य्-उक्त-महिम्नि बृहत्-साम्नि, बृहद् धामं बृहत् पार्थिवं बृहद् अन्तरीक्षं बृहद् दिवं बृहद् वामं बृहद्भ्यो वामं वामेभ्यो वामम् इति । तद् एवं ब्रह्म-जिज्ञासा इति व्याख्यातम् ।
अथात इत्य् अस्य व्याख्याम् आह—सत्यम् इति । यतस् तत्र अथ-शब्द आनन्तर्ये, अतः-शब्दो वृत्तस्य हेतु-भावे वर्तते, तस्माद् अथेति स्वाध्याय-क्रमतः प्राक्-प्राप्त-कर्म-काण्डे पूर्व-मीमांसया सम्यक्-कर्म-ज्ञानाद् अनन्तरम् इत्य् अर्थः । अत इति तत्-क्रमतः समनन्तरं प्राप्त-ब्रह्म-काण्डे तूत्तर-मीमांसया निर्णेय-सम्यग्-अर्थेऽधीत-चराद् यत्-किञ्चिद्-अनुसंहितार्थात् कुतश्चिद् वाक्याद् धेतोर् इत्य् अर्थः । पूर्व-मीमांसायाः पूर्व-पक्षत्वेनोत्तर-मीमांसा-निर्णयोत्तर-पक्षेऽस्मिन्न् अवश्यापेक्ष्यत्वात्, अविरुद्धांशे सहायत्वात्, कर्मणः शान्त्य्-आदि-लक्षण-सत्त्व-शुद्धि-हेतुत्वाच् च । तद्-अनन्तरम् इत्य् एव लभ्यम् । वाक्यानि चैतानि—
तद् यथेह कर्म-जितो लोकः क्षीयते, एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते, तद् य इहात्मानम् अनु विद्य व्रजन्ति, एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेष्व् अकाम-चारो भवति [छा।उ। ८.१.६] इति, न च पुनर् आवर्तते [छा।उ। ८.१५.१] इति, स चानन्त्याय कल्पते [श्वे।उ। ५.९] इति, निरञ्जनः परमं साम्यम् उपैति [मु।उ। ३.१.३] इति ।
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ [गीता १४.२] इति ।
तद् एतद् उभयं विवृतं रामानुज-शारीरके—
मीमांसा-पूर्व-भाग-ज्ञातस्य कर्मणोऽल्पास्थिर-फलत्वं तद्-उपरितन-भागावसेयस्य ब्रह्म-ज्ञानस्य त्व् अनन्ताक्षय-फलत्वं श्रूयते, अतः पूर्व-वृत्तात् कर्म-ज्ञानाद् अनन्तरं ब्रह्म ज्ञातव्यम् इत्य् उक्तं भवति । तद् आह सर्वादि-वृत्ति-कारो भगवान् बौधायनः—वृत्तात् कर्माधिगमाद् अनन्तरं ब्रह्म-विविदिषेति इति ।
एतद् एव पुरञ्जनोपाख्याने च दक्षिण-वाम-कर्णयोः पितृहू-देवहू-शब्द-निरुक्तौ व्यक्तम् अस्ति । तद् एवं सम्यक् कर्म-काण्ड-ज्ञानानन्तरं ब्रह्म-काण्ड-गतेषु केषुचिद् वाक्येषु स्वर्गाद्य्-आनन्दस्य वस्तु-विचारेण दुःख-रूपत्व-व्यभिचारि-सत्ताकत्व-ज्ञान-पूर्वकं ब्रह्मणस् त्व् अव्यभिचारि-परतमानन्दत्वेन सत्यत्व-ज्ञानम् एव ब्रह्म-जिज्ञासायां हेतुर् इति । अथात इत्य् अस्यार्थे लब्धे तन्-निर्गलितार्थम् एवाह—सत्यम् इति । सर्व-सत्तादाव् अव्यभिचारि-सत्ताकम् इत्य् अर्थः, परम् इत्य् अनेन **अन्वयात्,_ _**सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.३] इत्य् अत्र श्रुतौ च ब्रह्मेत्य् अनेन ।
तद् एवम् अन्यस्य तद्-इच्छाधीन-सत्ताकत्वेन व्यभिचारि-सत्ताकत्वम् आयाति । तद् एवम् अत्र तद् एतद्-अवधि व्यभिचारि-सत्ताकम् एव ध्यातवन्तो वयम् इदानीं त्व् अव्यभिचारि-सत्ताकं ध्यायेमेति भावः ।
अथ परत्वम् एव व्यनक्ति—धाम्ना इति । अत्र धाम-शब्देन प्रभाव उच्यते, प्रकाशो वा । गृह-देह-त्विट्-प्रभावा धामनि इत्य् अमरादि-नानार्थ-वर्गात् । न तु स्वरूपम् । तथा कुहक-शब्देनात्र प्रतारण-कृद् उच्यते । तच् च जीव-स्वरूपावरण-विक्षेप-कारित्वादिना माया-वैभवम् एव । ततश् च स्वेन धाम्ना स्व-प्रभाव-रूपया स्व-प्रकाश-रूपया वा शक्त्या सदा नित्यम् एव निरस्तं कुहकं माया-वैभवं यस्मात् तम् । तद् उक्तं, मायां व्युदस्य चिच्-छक्त्या [भा।पु। १.७.२३] इति ।
तस्या अपि शक्तेर् आगन्तुकत्वेन स्वेन इत्य् अस्य वैयार्थ्यं स्यात् । स्व-स्वरूपेणेत्य् एवं व्याख्याने तु स्वेन इत्य् अनेनैव चरितार्थता स्यात् । यथा कथञ्चित् तथा व्याख्यानेऽपि कुहक-निरसन-लक्षणा शक्तिर् एवापद्यते । सा च साधकतम-रूपया तृतीयया व्यक्तेति । एतेन माया-तत्-कार्य-विलक्षणं यद् वस्तु, तत् तस्य स्वरूपम् इति स्व-स्वरूप-लक्षणम् अपि गम्यम् । तच् च सत्यं ज्ञानम् आनन्दं ब्रह्म [तै।उ। २.१.३] इति, विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] इति श्रुति-प्रसिद्धम् एव । एतच्-छ्रुति-लक्षकम् एव च सत्यम् इति विन्यस्तम् । तद् एवं स्वरूप-शक्तिश् च साक्षाद् एवोपक्रान्ता, ततः सुतराम् एवास्य भगवत्त्वं स्पष्टम् ।
अथ मुख्ये सत्यत्वे युक्तिं दर्शयति—यत्र इति । ब्रह्मत्वात् सर्वत्र स्थिते वासुदेवे भगवति यस्मिन् स्थितस् त्रयाणां गुणानां भूतेन्द्रिय-देवतात्मको यस्यैवेशितुः सर्गोऽप्य् अयम् अमृषा शुक्त्य्-आदौ रजतादिकम् इवारोपितो न भवति, किन्तु यतो वा इमानि जायन्ते [तै।उ। ३.१.१] इति श्रुति-प्रसिद्धे ब्रह्मणि यत्र सर्वदा स्थितत्वात् सञ्ज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् [वे।सू। २.४.२०] इति यद् एक-कर्तृकत्वाच् च सत्य एव ।
तत्र दृष्टान्तेनाप्य् अमृषात्वं साधयति—तेज-आदीनां विनिमयः परस्परांश-व्यत्ययः परस्परस्मिन्न् अंशेनावस्थितिर् इत्य् अर्थः । स यथा मृषा न भवति, किन्तु यथैवेश्वर-निर्माणं तथेत्य् अर्थः । इमास् तिस्रो देवतास् त्रिवृद् एकैका भवति [छा।उ। ६.३.४], तद् अग्ने रोहितं रूपं तेजसस् तद्-रूपं यत् शुक्लं तद् अपां यत् कृष्णं तत् पृथिव्याः तद् अन्नस्य [छा।उ। ६.४.१] इति श्रुतेः ।+++
तद् एवम् अर्थस्यास्य श्रुति-मूलत्वात् कल्पना-मूलस् त्व् अन्योऽर्थः स्वत एव परास्तः । तत्र च सामान्यतया निर्दिष्टानां तेज-आदीनां विशेषत्वे सङ्क्रमणं न शाब्दिकानां हृदयम् अध्यारोहति । यदि च तद् एवामंस्यत, तदा वारादीनि मरीचिकादिषु यथेत्य् एवावक्ष्यते । किं च तन्-मते ब्रह्मतस् त्रिसर्गस्य मुख्यं जन्म नास्ति किन्त्यारोप एव जन्मेत्य् उच्यते । स पुनर् भ्रमाद् एव भवति । भ्रमश् च सादृश्यावलम्बी । सादृश्यं तु काल-भेदेनोभयम् एवाधिष्ठानं करोति । रजतेऽपि शुक्ति-भ्रम-सम्भवात् । न चैकात्मकं भ्रमाधिष्ठानं बह्व्-आत्मकं तु भ्रम-कल्पितम् इत्य् अस्ति नियमो मिथो मिलितेषु विदूर-वर्ति-धूम-पर्वत-वृक्षेष्व् अखण्ड-मेघ-भ्रम-सम्भवात् ।
तद् एवं प्रकृतेऽप्य् अनादित एव त्रि-सर्गः प्रत्यक्षं प्रतीयते । ब्रह्म च चिन्-मात्रतया स्वत एव स्फुरद् अस्ति । तस्माद् अनाद्य-ज्ञानाक्रान्तस्य जीवस्य यथा सद्-रूपता-सादृश्येन ब्रह्मणि त्रि-सर्ग-भ्रमः स्यात् तथा त्रि-सर्गेऽपि ब्रह्म-भ्रमः कथं न कदाचित् स्यात् । ततश् च ब्रह्मण एवाधिष्ठानत्वम् इत्य् अनिर्णये सर्व-नाश-प्रसङ्गः । आरोपकत्वं तु जडस्यैव चिन्मात्रस्यापि न सम्भवति । ब्रह्म च चिन्मात्रम् एव तन्-मतम् इति । ततश् च श्रुति-मूल एव व्याख्याने सिद्धे सोऽयम् अभिप्रायः । यत्र हि यन् नास्ति किन्त्व् अन्यत्रैव दृश्यते तत्रैव तद्-आरोपः सिद्धः । ततश् च वस्तुतस् तद्-अयोगात् तत्र तत्-सत्तया तत्-सत्ता कर्तुं न शक्यत एव । त्रि-सर्गस्य तु तच्-छक्ति-विशिष्टाद् भगवतो मुख्य-वृत्त्यैव जातत्वेन श्रुतत्वात् तद्-व्यतिरेकात् तत्रैव सर्वात्मके सोऽस्ति । ततस् तस्मिन् न चारोपितं च । आरोपस् तु तथापि धाम्नेत्य् आदि-रीत्यैवाचिन्त्य-शक्तित्वात् तेन लिप्तत्वाभावेऽपि तच्-छाङ्कर-रूप एव । तथा च एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा [वि।पु। १.२२.५६] इत्य् अनुसारेण तत्-सत्तया तत्-सत्ता भवति ।
ततो भगवतो मुख्यं सत्यत्वं त्रि-सर्गस्य च न मृषात्वम् इति । तथा च श्रुतिः—सत्यस्य सत्यम् इति तथा प्राणा वै सत्यं तेषाम् एव सत्यम् [बृ।आ।उ। २.३.६] इति प्राण-शब्दोदितानां स्थूल-सूक्ष्म-भूतानां व्यवहारतः सत्यत्वेनाधिगतानां मूल-कारण-भूतं परम-सत्यं भगवन्तं दर्शयतीति ।
अथ तम् एव तटस्थ-लक्षणेन च तथा व्यञ्जयन् प्रथमं विशदार्थतया ब्रह्म-सूत्राणाम् एव विवृतिर् इयं संहितेति बिबोदयिषया च तद्-अन्तरं सूत्रम् एव प्रथमम् अनुवदति—जन्माद्य् अस्य यत इति । जन्मादीनि सृष्टि-स्थिति-प्रलयम् । तद्-गुण-संविज्ञान-बहुव्रीहि । अस्य विश्वस्य ब्रह्मादि-स्तम्ब-पर्यन्तानेक-कर्तृ-भोक्तृ-संयुक्तस्य प्रतिनियत-देश-काल-निमित्त-क्रिया-फलाश्रयस्य मनसाप्य् अचिन्त्य-विविध-चित्र-रचना-रूपस्य यतो यस्माद् अचिन्त्य-शक्त्या स्वयम् उपादान-रूपात् कर्त्र् आदि-रूपाच् च **जन्मादि,तं परं धीमहि **इत्य् अन्वयः । अत्र विषय-वाक्यं च—भृगुर् वै वारुणिर् वरुणं पितरम् उपससार, अधीहि भो भगवो ब्रह्म इत्य् आरभ्य, यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व, तद् ब्रह्म [तै।उ। ३.१.१] इति, तत् तेजोऽसृजत [छा।उ। ६.२.३] इत्य्-आदि च ।
जन्मादिकम् इहोपलक्षणं, न तु विशेषणम् । ततस् तद्-ध्याने तन् न प्रविशन्ति, किन्तु शुद्धम् एव तं ध्यायेद् इति । किं च, अत्र प्राग्-उक्त-विशेषण-विशिष्ट-विश्व-जन्मादेस् तादृश-हेतुत्वेन सर्व-शक्तित्वं सत्य-सङ्कल्पत्वं सर्व-ज्ञत्वं सर्वेश्वरत्वं च तस्य सूचितम्, यः सर्वज्ञः सर्व-विद् यस्य ज्ञान-मयं तपः [मु।उ। १.१.९], सर्वस्य वशी [बृ।आ।उ। ४.४.२२] इत्य्-आदि-श्रुतेः ।
तथा परत्वेन निरस्ताखिल-हेय-प्रत्यनीक-स्वरूपत्वं ज्ञानाद्य्-अनन्त-कल्याण-गुणत्वं सूचितम्—न तस्य कार्यं कारणं च विद्यते [श्वे।उ। ३.१९] इत्य्-आदि-श्रुतेः ।
ये तु निर्विशेष-वस्तु जिज्ञास्यम् इति वदन्ति, तन्-मते ब्रह्म-जिज्ञासायां जन्माद्य् अस्य यत इत्य् असङ्गतं स्यात्, निरतिशय-बृहद्-बृंहणं चेति निर्वचनात्, तच् च ब्रह्म जगज्-जन्मादि-कारणम् [अग्नि।पु। २१६.८] इति वचनाच् च । एवम् उत्तरेष्व् अपि सूत्रेषु सूत्रोदाहृत-श्रुतयश् च न तत्र प्रमाणम् । तर्कश् च साध्य-धर्माव्यभिचारि-साधन-धर्मान्वित-वस्तु-विषयत्वान् न निर्विशेष-वस्तुनि प्रमाणम् । जगज्-जन्मादि-भ्रमो यतः, तद् ब्रह्मेति स्वोत्प्रेक्ष-पक्षे च न निर्विशेष-वस्तु-सिद्धिः । भ्रम-मूलम् अज्ञानम्, अज्ञान-साक्षि ब्रह्मेति उपगमात् । साक्षित्वं हि प्रकाशैक-रसतयोच्यते । प्रकाशत्वं तु जडाद् व्यावर्तकं स्वस्य परस्य च व्यवहार-योग्यतापादन-स्वभावेन भवति । तथा सति सविशेषत्वं, तद्-अभावे प्रकाशतैव न स्यात् । तुच्छतैव स्यात् ।
किं च, तेजो-वारि-मृदाम् इत्य् अनेनैव तेषां विवक्षितं सेत्स्यतीति, जन्माद्य् अस्य यत इत्य् अप्रयोजकं स्यात् । अतस् तद्-विशेषत्वे लब्धे, स च विशेषः शक्ति-रूप एव । शक्तिश् चान्तराङ्गा बहिरङ्गा तटस्था चेति त्रिधा दर्शिता । तत्र विकारात्मकेषु जगज्-जन्मादिषु साक्षाद्-धेतुना बहिरङ्गाया एव स्याद् इति सा मायाख्या चोपक्रान्ता । तटस्था च वयं धीमहि इत्य् अनेन ।
अथ यद्यपि भगवतोऽंशात् तद्-उपादान-भूत-प्रकृत्य्-आख्य-शक्ति-विशिष्टात् पुरुषाद् एवास्य जन्मादि, तथापि भगवत्य् एव तद्-धेतुता पर्यवसति । समुद्रैक-देशे यस्य जन्मादि, तस्य समुद्र एव जन्मादीनि । यथोक्तम्—
प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ [भा।पु। ११.२४.१९]
तस्य च भगवतो जन्माद्य् अस्य यत इत्य् अनेनापि मूर्तत्वम् एव लक्ष्यते6 । यतो मूर्तस्य जगतो मूर्ति-शक्तेर् निधान-रूप-तादृशानन्त-पर-शक्तीनां निधान-रूपोऽसाव् इत्य् आक्षिप्यते, तस्य परम-कारणत्वाङ्गीकारात् । न च तस्य मूर्तत्वे सत्य् अन्यतो जन्मापतेत्, अनवस्थापत्तेर् एकस्यैवादित्वेनाङ्गीकारात्, साङ्ख्यानाम् अव्यक्तस्येव
स कारणं करणाधिपाधिपो
न चास्य कश्चिज् जनिता न चाधिपः [श्वे।उ। ६.९] इति श्रुति-निषेधात्,
अनादि-सिद्धाप्राकृत-स्वाभाविक-मूर्तित्वेन तस्य तत्-प्रसिद्धेश् च ।
तद् एवं मूर्तत्वे सिद्धे स च मूर्तो विष्णु-नारायादि-साक्षाद्-रूपकः श्री-भगवान् एव नान्यः । तथा च दान-धर्मे—
यतः सर्वाणि भूतानि भवन्त्य् आदि-युगागमे ।
यस्मिंश् च प्रलयं यान्ति पुनर् एव युग-क्षये ॥ [सहस्र-नाम ११] इत्य्-आदि ।
तत्-प्रतिपादक-सहस्र-नामादौ तत्रैव तु यथोक्तम्, अनिर्देश्य-वपुः श्रीमान् [सहस्र-नाम ३२] इति । एवं च स्कान्दे—
स्रष्टा पाता च संहर्ता स एको हरिर् ईश्वरः ।
स्रष्टृत्वादिकम् अन्येषां दारु-योषावद् उच्यते ॥
एक-देश-क्रियावत्त्वान् न तुसर्वात्मनेरितम् ।
सृष्ट्य्-आदिकं समस्तं तु विष्णोर् एव परं भवेत् ॥ इति ।
महोपनिषदि च—स ब्रह्मणा सृजति स रुद्रेण विलापयति इत्य्-आदिकम् । अत एव विवृतं—
निमित्त-मात्रम्7 ईशस्य विश्व-सर्ग-निरोधयोः ।
हिरण्यगर्भः सर्वश् च कालस्यारूपिणस् तव ॥ [भा।पु। १०.७१.८] इति ।
तव यो रूप-रहितः कालः काल-शक्तिः, तस्य निमित्त-मात्रम् इति व्यधिकरण एव षष्ठी । तथा आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४२] इत्य्-आदि । यद्-अंशतोऽस्य स्थिति-जन्म-नाशा [भा।पु। ६.३.१२] इत्य्-आदि च । तद् एवम् अत्रापि तथा-विध-मूर्तिर् भगवान् एवोपक्रान्तः ।
तद् एवं तटस्थ-लक्षणेन परं निर्धार्य, तद् एव लक्षणं ब्रह्म-सूत्रे शास्त्र-योनित्वात्, तत् तु समन्वयात् [वे।सू। १.१.३-४] इत्य् एतत्-सूत्र-द्वयेन स्थापितम् अस्ति । तत्र पूर्व-सूत्रस्यार्थः—कुतो ब्रह्मणो जगज्-जन्मादि-हेतुत्वं ? तत्राह—शास्त्रं योनिर् ज्ञान-कारणं यस्य तत्त्वात्, यतो वा इमानि भूतानि [तै।उ। ३.१.१] इत्य्-आदि-शास्त्र-प्रमाणकत्वाद् इति । नात्र दर्शनान्तरवत् तर्क-प्रमाणकत्वम्, तर्काप्रतिष्ठानात् [वे।सू। २.१.२२] अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादि-प्रमाणाविषयत्वाद् ब्रह्मणश् चेति भावः । वैनाशिकास् त्व् अविरोधाध्याये तर्केणैव निराकरिष्यन्ते ।
अत्र तर्काप्रतिष्ठानं चैवम्—ईश्वरः कर्ता न भवति, प्रयोजन-शून्यत्वान् मुक्तात्मवत् । ननु भुवनादिकं जीव-कर्तृकं कार्यत्वात् घटवत् । विमति-विषयः कालो न लोक-शून्यः, कालत्वात् वर्तमान-कालवद् इत्य्-आदि । तद् एवं दर्शनानुगुण्येनेश्वरानुमानं दर्शनान्तर-प्रातिकूल्य-पराहतम् इति शास्त्रैक-प्रामाणकः8 पर-ब्रह्म-भूतः सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतर-प्रमाण-परिदृष्ट-समस्त-वस्तु-विजातीय-सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-मिश्रानवधिकातिशयापरिमितोदार-विचित्र-गुण-सागरं निखिल-हेय-प्रत्यनीक-स्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसित-वस्तु-साधर्म्य-प्रयुक्त-दोष-गन्धः । अत एव स्वाभाविकानन्त-नित्य-मूर्तिमत्त्वम् अपि तस्य सिध्यति ।
अथोत्तर-सूत्रस्यार्थः । ब्रह्मणः कथं शास्त्र-प्रमाणकत्वं ? तत्राह—तत् त्व् इति । तु-शब्दः प्रसक्ताशङ्का-निवृत्त्य्-अर्थः । तच्-छास्त्र-प्रमाणकत्वं ब्रह्मणः सम्भवत्य् एव । कुतः समन्वयात् ? अन्वय-व्यतिरेकाभ्याम् उपपादनं समन्वयः, तस्मात् ।
तत्र अन्वयः—सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.३] इति, आनन्दो ब्रह्म [तै।उ। ३.६.१] इति, एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.२.१] इति, तत् सत्यं स आत्मा [छा।उ। ६.८.७] इति, सद् एव सोम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इति, आत्मा वा इदम् एक एवाग्र आसीत् पुरुष-विध [बृ।आ।उ। १.४.१] इति, पुरुषो ह वै नारायणः [ना।उ। १] इति, एको ह वै नारायण आसीत् [म।उ। १.१] इति, तद् ऐक्षत बहु स्यां प्रजायेय [छा।उ। ६.२.३] इति, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।उ। २.१.३] इति, तत् तेजोऽसृजत [छा।उ। ६.२.३] इति, यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१.१] इति, पुरुषो ह वै नारायणोऽकामयत अथ नारायणाद् अजोऽजायत यतः प्रजाः सर्वाणि भूतानि [म।ना।उ।],
नारायणं परं ब्रह्म तत्त्वं नारायणः परम् ।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिङ्गलम् ॥ [म।ना।उ। ११.४] इत्य्-आदिषु च ।
अथ व्यतिरेकः—कथम् असतः सज् जायेत [छा।उ। ६.२.२] इति, को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१] इति, एको ह वै नारायण आसीन् न ब्रह्मा न च शङ्करः [म।ना।उ। १.१] इत्य्-आदिषु ।
अन्येषां च वाक्यानां समन्वयस् तत्रैव वक्ष्यते—आनन्द-मयोऽभ्यासात् [वे।सू। १.१.१२] इत्य्-आदिना । स चैवं परमानन्द-रूपत्वेनैव समन्वितो भवतीति तद्-उपलब्ध्यैव परम-पुरुषार्थत्व-सिद्धेर् न प्रयोजन-शून्यत्वम् अपि ।
तद् एवं सूत्र-द्वयार्थे स्थिते तद् एतद् व्याचष्टे—अन्वयाद् इतरतश् चार्थेष्व् इति । अर्थेषु नाना-विधेषु वेद-वाक्यार्थेषु सत्स्व् अन्वयात् अन्वय-मुखेन यतो यस्मात् एकस्माद् अस्य जन्मादि प्रतीयते, तथा इतरतो व्यतिरेक-मुखेन च यस्माद् एवास्य ततः प्रतीयत इत्य् अर्थः । अत एव तस्य श्रुत्य्-अन्वय-व्यतिरेक-दर्शितेन परम-सुख-रूपत्वेन परम-पुरुषार्थत्वं च ध्वनितम् । एको ह वै नारायण आसीत्[म।ना।उ। १.१] इत्य्-आदि-शास्त्र-प्रमाणत्वेन प्राक्-स्थापित-रूपं चेति ।
अथ ईक्षतेर् नाशब्दम् [वे।सू। १.१.५] इति व्याचष्टे—अभिज्ञ इति । अत्र सूत्रार्थः—इदम् आम्नायते छान्दोग्ये—सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.२.१] इति, तद् ऐक्षत बहु स्यां प्रजायय इति**॥।** तत्-तेजोऽसृजत [छा।उ। ६.२.३] इत्य्-आदि । अत्र परोक्तं प्रधानम् अपि जगत्-कारणत्वेनायाति । तच् च नेत्य् आह—ईक्षतेर् इति । यस्मिन् शब्द एव प्रमाणं न भवति तद् अशब्दम्, आनुमानिकं प्रधानम् इत्य् अर्थः । न तद् इह प्रतिपाद्यम् ।
कुतोऽशब्दत्वं तस्य ? इत्य् आशङ्क्याह—ईक्षतेः, सच्-छब्द-वाच्य-सम्बन्धि-व्यापार-विशेषाभिधायिन ईक्षतेर् धातोः श्रवणात् तद् ऐक्षत इतीक्षणं चाचेतने प्रधाने न सम्भवेत् । अन्यत्र चेक्षा-पूर्विकैव सृष्टिः—स ऐक्षत लोकान् नु सृजा इति, स इमान् लोकान् असृजत [ऐ।उ। १.१.१-२] इत्य्-आदौ । ईक्षणं चात्र तद्-अशेष-सृज्य-विचारात्मकत्वात् सर्वज्ञत्वम् एव क्रोडीकरोति । तद् एतद् आह—अभिज्ञ इति ।
ननु तदानीम् एकम् एवाद्वितीयम् इत्य् उक्तेस् तस्येक्षण-साधनं न सम्भवति ? तत्राह—स्वराड् इति, स्व-स्वरूपेणैव तथा तथा राजत इति, न तस्य कार्यं करणं च विद्यते [श्वे।उ। ३.१९] इत्य् आदौ, स्वाभाविकी ज्ञान-बल-क्रिया च इत्य्-आदि-श्रुतेः । एतेनेक्षणवन्-मूर्तिमत्त्वम् अपि तस्य स्वाभाविकम् इत्य् आयातम्, निःश्वसितस्याप्य् अग्रे दर्शयिष्यमाणत्वात् । तच् च यथोक्तम् एवेति च ।
अथ शास्त्र-योनित्वात् [वे।सू। १.१.३] इत्य् अस्यार्थान्तरं व्याचष्टे—तेन इति । तच् चार्थान्तरं यथा—कथं तस्य जगज्-जन्मादि-कर्तृत्वं ? कथं वा नान्य-तन्त्रोक्तस्य प्रधानस्य न चान्यस्य? इति तत्राह—शास्त्रस्य वेद-लक्षणस्य योनिः कारणं, तद्-रूपत्वात् । एवं वा अरे अस्य महतो भूतस्य निश्वसितम् एतद् यदृग्-वेदो यजुर् वेदः सामवेदोऽथ वाङ्गिरस इतिहास-पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् उपसूत्राणि व्याख्यानानि [बृ।आ।उ। २.४.१०] इति श्रुतेः । शास्त्रं हि सर्व-प्रमाणागोचर-विविधानन्त-ज्ञान-मयं, तस्य च कारणं ब्रह्मैव श्रूयत इति ।
तद् एवं मुख्यं सर्वज्ञं तादृशं सर्वज्ञत्वं विना च सर्व-शृष्ट्य्-आदिकम् अन्यस्य नोपपद्यत इति प्रोक्त-लक्षणं ब्रह्मैव जगत्-कारणं, न प्रधानं, न च जीवान्तरम् इति । तद् एव विवृत्याह—तेने ब्रह्म हृदा य आदिकवय इति । ब्रह्म वेदम् **आदि-कवये **ब्रह्मणे ब्रह्माणं हृदा अन्तः-करण-द्वारैव, न तु वाक्य-द्वारा । तेने आविर्भावितवान् । अत्र बृहद्-वाचकेन ब्रह्म-पदेन सर्व-ज्ञान-मयत्वं तस्य ज्ञापितम् । हृदेत्य् अनेनान्तर्यामित्वं सर्व-शक्तिमयत्वं च ज्ञापितम् । आदि-कवय इत्य् अनेन तस्यापि शिक्षा-निदानत्वाच् छास्त्र-योनित्वं चेति । श्रुतिश् चात्र,
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ [श्वे।उ। ६.१८] ।
मुक्त-जीवा अपि तत्-कारणं नेत्य् आह—मुह्यन्ति इति । यद् यत्र ब्रह्मणि वेदाख्ये सूरयः शेषादयोऽपि । अनेन च शयन-लीला-व्यञ्जित-निश्वसितमय-वेदो ब्रह्मादि-विविधानन-लोचनश् च यः पद्मनाभस् तद्-आदि-मूर्तिकः श्री-भगवान् एवाभिहितः । विवृतं चैतत् प्रचोदिता येन पुरा सरस्वती [भा।पु। २.४.२२] इत्य्-आदिना ।
अथ तत् तु समन्वयाद् [वे।सू। १.१.४] इत्य् अस्यार्थान्तरं, यथा शास्त्र-योनित्वे हेतुश् च दृश्यते इत्य् आह—तत् त्व् इति । _समन्वयो_ऽत्र सम्यक् सर्वतो-मुखोऽन्वयो व्युत्पत्तिर् वेदार्थ-परिज्ञातं यस्मात् तु शास्त्र-निदानत्वं निश्चीयत इति । जीवे सम्यग् ज्ञानम् एव नास्ति, प्रधानं त्व् अचेतनम् एवेति भावः, स वेत्ति विश्वं न हि तस्य वेत्ता [श्वे।उ। ३.१९] इति श्रुतेः । तद् एतद् अस्य तदीय-सम्यग्-ज्ञानं व्यतिरेक-मुखेन बोधयितुं जीवानां सर्वेषाम् अपि तदीय-सम्यग्-ज्ञानाभावम् आह—मुह्यन्ति इति । सूरयः शेषादयोऽपि यद् यत्र शब्द-ब्रह्मणि मुह्यन्ति । तद् एतद् विवृतं स्वयं भगवता—
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्या मद् वेद कश्चन ॥ [भा।पु। ११.२१.४२] इति ।
अनेन च साक्षाद्-भगवान् एवाभिहितः ।
अथ ईक्षतेर् नाशब्दम् [वे।सू। १.१.५] इत्य् अस्यार्थान्तरम्—अभिज्ञ इत्य् अत्रैव व्यञ्जितम् अस्ति । अत्र सूत्रार्थः—नन्व् अशब्दम् अस्पर्शम् अरूपम् अव्ययम् [क।उ। १.३.१५] इत्य्-आदि-श्रुतेः । कथं तस्य शब्द-योनित्वं ? तत्र हि प्रकृत-ब्रह्म शब्द-हीनं न भवति । कुतः ? ईक्षतेः । तद् ऐक्षत बहु स्यां प्रज्यायेय [छा।उ। ६.२.३] इत्य् अत्र बहु स्याम् इति शब्दात्मकेक्ष-धातोः श्रवणात् । तद् एतद् आह, अभिज्ञः । बहु स्याम् इत्य्-आदि-शब्दात्मक-विचार-विदग्धः । स च शब्दादि-शक्ति-समुदायस् तस्य न प्राकृतः प्रकृति-क्षोभात्, पूर्वत्रापि सद्-भावात् । ततः स्वरूप-भूत एवेत्य् आह—स्वराट् इति ।
अत्र पूर्ववत् तादृशं सधर्मकत्वं मूर्तिमत्त्वम् अपि सिद्धम् । यथाहुः सूत्रकाराः—अन्तस् तद्-धर्मोपदेशात् [वे।सू। १.१.१०] इति। अतोऽशब्दत्वादिकं प्राकृत-शब्द-हीनत्वादिम् एवेति ज्ञेयम्।
अत्रोत्तर-मीमांसाध्याय-चतुष्टयस्याप्य् अर्थो दर्शितः । तत्र अन्वयाद् इतरतश् च इति समन्वयाध्यायस्य, सत्यं परम् इति फलाध्यायस्येति ।
तथा गायत्र्य्-अर्थोऽपि स्पष्टः । तत्र जन्माद्य् अस्य यतः इति प्रणवार्थः, सृष्ट्य्-आदि-शक्तिमत्त्व-वाचित्वात् । तद् एवम् एवाग्नि-पुराणे गायत्री-व्याख्याने प्रोक्तम्—तज्-ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् इति । यत्र त्रि-सर्गोऽमृषा इति व्याहृति-त्रयार्थः, उभयत्रापि लोक-त्रयस्य तद्-अनन्यत्वेन विवक्षितत्वात् । स्वराड् इति सवितृ-प्रकाशक-परम-तेजो-वाचि । तेने ब्रह्म हृदा इति बुद्धि-प्रवृत्ति-प्रेरणा प्रार्थना सूचिता । तद् एव कृपया स्व-ध्यानायास्माकं बुद्धि-वृत्तीः प्रेरयताद् इति भावः ।
एवम् एवोक्तं गायत्र्या च समारम्भः9 इति । तच् च तेजस् तत्र अन्तस् तद्-धर्मोपदेशात् [वे।सू। १.१.१०] इत्य्-आदिना सम्प्रतिपन्नं यन्-मूर्तं तद्-आद्य्-अनन्त-मूर्तिमद् एव ध्येयम् इति । तत्र चाग्नि-पुराण-क्रमस्थ-वचनानि10—
एवं सन्ध्या-विधिं कृत्वा गायत्रीं च जपेत् स्मरेत् ।
गायत्र्य्-उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च ॥
ततः स्मृतेयं गायत्री सावित्री यत एव च ।
प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती ॥
तज् ज्योतिः परमं ब्रह्म भर्गस् तेजो यतः स्मृतः ।
भर्गः स्यात् भ्राजत इति बहुलं छन्दसीरितम् ॥
वरेण्यं सर्व-तेजोभ्यः श्रेष्ठं वै परमं परम् ।
स्वर्गापवर्ग-कामैर् वा वरणीयं सदैव हि ॥
वृणोतेर् वरणार्थत्वात् जाग्रत्-स्वप्नादि-वर्जितम् ।
नित्यं शुद्धं बुद्धम् एकं नित्यं भर्गमधीश्वरम् ॥
अहं ब्रह्म परं ज्योतिर् ध्यायेम हि विमुक्तये ।
तज् ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् ॥
शिवं केचित् पठन्ति स्म शक्ति-रूपं पठन्ति च ।
केचित् सूर्यं केचिद् अग्निं दैवतान्य् अग्नि-होत्रिणः ॥
अग्न्य्-आदि-रूपी विष्णुर् हि वेदादौ ब्रह्म गीयते ।
तत् पदं परमं विष्णोर् देवस्य सवितुः स्मृतम् ॥
दधातेर् वा धीमहीति मनसा धारयेमहि ।
नोऽस्माकं यच् च भर्गस् तत् सर्वेषां प्राणिनां धियः ॥
चोदयात् प्रेरयाद् बुद्धिं भोक्तॄणां सर्व-कर्मसु ।
दृष्टादृष्ट-विपाकेषु विष्णुः सूर्याग्नि-रूप-भाक् ॥
ईश्वर-प्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा ।
ईशावास्यम् इदं सर्वं महद्-आदि-जगद् धरिः ॥
स्वर्गाद्यैः क्रीडते देवो यो हंसः पुरुषः प्रभुः ।
ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले ॥
सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम् ।
देवस्य सवितुर् देवो वरेण्यं हि तुरीयकम् ॥
योऽसाव् आदित्य-पुरुषः सोऽसाव् अहम् अनुत्तमम् ।
जनानां शुभ-कर्मादीन् प्रवर्तयति यः सदा ॥ इत्य्-आदि ।
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः ।
वृत्रासुर-वधोत्सिक्तं तद् भागवतम् उच्यते ॥ इत्य् आदीनि च ।
तस्माद् भर्ग-ब्रह्म-परा-विष्णु-भगवच्-छब्दाभिन्न-वर्णतया तत्र तत्र निर्दिष्टा अपि भगवत्-प्रतिपादका एव ज्ञेयाः । मध्ये मध्ये त्व् अहङ्ग्रहोपासना-निर्देशस् तत्-साम्य इव लब्धे हि तद्-उपासना-योग्यता भवतीति ।
तथा दश-लक्षणर्थोऽप्य् अत्रैव दृश्यः—तत्र सर्ग-विसर्ग-स्थान-निरोधा जन्माद्य् अस्य यतः इत्य् अत्र, मन्वन्तरेशानुकथने च स्थानान्तर्गते पोषणं तेने इत्य्-आदौ । ऊतिर् मुह्यन्तिइत्य्-आदौ । मुक्तिर् जीवानाम् अपि तत्-सान्निध्ये सति कुहक-निरसन-व्यञ्जके धाम्ना इत्य्-आदौ । आश्रयः सत्यं परम् इत्य् आदौ11 ।
स च स्वयं-भगवत्त्वेन निर्णीयत्वात् श्री-कृष्ण एवेति पूर्वोक्त-प्रकार एव व्यक्त इति । तद् एवम् अस्मिन्न् उपक्रम-वाक्ये सर्वेषु पद-वाक्य-तात्पर्येषु तस्य ध्येयस्य सविशेषत्वं मूर्तित्वं भगवद्-आकारं च व्यक्तम् । तच् च युक्तम्, स्वरूप-वाक्यान्तर-व्यक्तत्वात् ।
योऽस्योत्प्रेक्षक आदि-मध्य-निधने योऽव्यक्त-जीवेश्वरो
यः सृष्ट्वेदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।
यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा
तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥ [१०.८७.५०] इति ।
अतो धर्मः प्रोज्झित- [भा।पु। १.१.२] इत्य्-आदाव् अनन्तर-वाक्येऽपि, किं वा परैर् इत्य्-आदिना तत्रैव तात्पर्यं दर्शितम् [भ।सं। §१०१] ॥१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया ।
चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥इ॥
श्रीमद्-भागवतं नौमि यस्यैकस्य प्रसादतः ।
अज्ञातान् अपि जानाति सर्वः सर्वागमान् अपि ॥इइ॥
श्री-भागवत-सन्दर्भान् श्रीमद्-वैष्णव-तोषणीम् ।
दृष्ट्वा भागवत-व्याख्या लिख्यतेऽत्र यथा-मति ॥इइइ॥
यद् अत्र स्खलितं किञ्चिज् जायतेऽनवधानतः ।
ज्ञेयं न तत्-तत्-कर्तॄणां सम् आहर्तुर् ममैव तत् ॥इव्॥
येषां प्रोत्साहनेनास्मि प्रवृत्तोऽत्यन्त-साहसे ।
ते दीनानुग्रह-व्यग्राः शरणं मम वैष्णवाः ॥व्॥
अथैवं सूचितानां श्री-कृष्ण-वाच्य-वाचकता-लक्षण-सम्बन्ध-तद्-भजन-लक्षणाभिधेय-तत्-प्रेम-लक्षण-प्रयोजनानाम् अर्थानां निर्णयाय पूर्वं तत्त्व-सन्दर्भादि-षट्-सन्दर्भा निरूपिताः । अधुना तु श्रीमद्-भागवत-क्रम-व्याख्यानाय, तत्रापि सम्बन्धाभिधेय-प्रयोजन-निर्णय-दर्शनाय च सप्तमः क्रम-सन्दर्भोऽयम् आरभ्यते ।
श्री-भागवत-निध्य्-अर्था टीका-दृष्टिर् अदायि यैः ।
श्रीधर-स्वामि-पादांस् तान् वन्दे भक्त्य्-एक-रक्षकान् ॥वि॥
स्वामि-पादैर् न यद् व्यक्तं यद् व्यक्तं चास्फुटं क्वचित् ।
तत्र तत्र च विज्ञेयः सन्दर्भः क्रम-नामकः ॥विइ॥
अथात्र परिभाषेयं ज्ञातव्या यद्य् अपेक्ष्यते ।
मूलं स-टीकम् अङ्काद्यैः परिच्छेद्यं सहानया ॥विइइ॥
अङ्का वाक्यान्त एवात्र देयाः पद्यान्ततो न तु ।
बहु-पद्यैक-वाक्यत्वे गर्भाङ्का बिन्दु-मस्तकाः ॥इx॥
यस्मिन् पद्ये नास्ति टीका तद् अप्य् अङ्केन योजयेत् ।
एक-पद्यान्य-वाक्यत्वे सङ्ख्या-शब्दास् तु कान्तकाः ॥x॥
बहु-पद्यैक-वाक्यत्वेऽप्य् अमी ज्ञेयास् तथा-विधाः ।
यथार्धकं युग्मकं च त्रिकम् इत्य् आद्य् उदाहृतिः ॥xइ॥
जन्माद्य् अस्य इत्य् अत्र श्री-श्रीधर-स्वामि-चरणानाम् अयम् अभिप्रायः । परं परमेश्वरम् इति, न पुनर् अभेद-वादिनाम् इव चिन्-मात्रं ब्रह्मेत्य् अर्थः । ध्येय-ध्यातृ-ध्यान-भेदावगमात् । सत्यम् इति । तद्-उपलक्षणत्वेन—सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.२], अथ कस्माद् उच्यते परं ब्रह्म…बृंहति बृंहयति च [अ।शि।उ। ३.५] इति श्रुतेः । बृहत्त्वाद् बृंहणत्वाच् च यद् ब्रह्म परमं विदुर् [वि।पु। १.१२.५७, ३.३.२१] इति विष्णु-पुराणाच् च । अत्रापि शक्तिमत्त्वेन ब्रह्म-शब्दस्य परमेश्वर-वाचकत्वात् ।
अत्र सत्यत्व-साधकम्—यत्र त्रिसर्गो मृषा इति । यत्र यद्-आश्रयतयेत्य् अर्थः । अत्र दृष्टान्तः—तेज इति । तद्वद् यत्रारोपित इत्य् अर्थः । तद्-आरोप-कर्तृत्वं चास्माकं जीवानाम् एवेति लभ्यते । यत्रारोप्यते, तच् च परं यद्य् अचेतनं चेतनं वा स्यात्, तदा जीवानाम् एवारोपकत्वेन तत्र स्वाज्ञानस्य त्रिसर्गस्य सम्बन्धो न स्यात्, किन्तु जीवेष्व् एव मरीचिकादाव् इव जलादेस् तद्-भ्रम-हेत्व्-अज्ञानस्य च । किन्त्व् अत्र तत् तु चेतनम्, अभिज्ञ इति योजयिष्यमाणत्वात् । तत्रैव **स्वराड् **इत्य् अनेन ज्ञान-रूपस्यापि स्वरूप-ज्ञानेनैव ज्ञातृत्वाङ्गीकाराच् च ।
ततो यद्-व्यष्ट्य्-अंशोपाधिकत्वेन जीवा भ्रान्ताः स्युः, तत्-समष्ट्य्-उपाधिकत्वेन स तु सुतरां तादृशः स्याद् इत्य् आशङ्काम् अनूद्य सिद्धान्तयति—यत्रेत्य् अनेनेति । महसा इति स्वतः-सिद्ध-परम-ज्ञान-शक्तित्वेनेत्य् अर्थः । तथाग्रे व्याख्यास्यमानत्वात् । स्वरूप-मात्रे वाच्ये स्व-शब्देनैव चरितार्थत्वात् कथञ्चिन्-मात्रे वाचोऽपि हेतुत्व-लक्षणेन तृतीयार्थेन तच्-छक्तित्वम् एव बोधयेत् । द्वितीयादीनां प्रातिपदिकाधिकार्थ एव विहितत्वात् । तस्य च ज्ञानोपाधि-रूपत्वे स्व-शब्द-वैयर्थ्यं स्यात् । कुहकम् अत्र मायोपाधिकृत-भ्रम-पराभवः— मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि [भा।पु। १.७.२३] इति श्रीमद्-अर्जुन-वचनात् ।
किन्तु यत्रेत्य् अनेन लब्धस्य परमेश्वरस्य चिन्-मात्रेण स्वरूपांशेन सततानुभूय-मान-स्वाभेदम् एवालम्ब्य भ्रमाधिष्ठानत्वं स्वीकृतम् । परमेश्वरस्य तु ध्यातुम् अपि प्रार्थनीयतया स्वानुभवातीतत्वात् तद्-एक-वस्तुत्वं व्याहन्येतेति विवेचनीयम् ।
अथ तत् तत् सर्वं घटयितुं तटस्थ-लक्षणं जन्माद्य् अस्य यत इति । न तु मरीचिकादौ जलादिवत् केवलम् आरोपितं, स्वतस् त्व् अन्यत्र सिद्धम् । किन्त्व् अनादि-परम्परया तत्रैव यद् आरोपितत्वम्, तन्-मात्र-सिद्धत्वाद् यत एवास्य जन्मादीति गम्यते । तद्-दृष्टान्तेनैव जन्मादि-सिद्धौ पुनर् उक्तत्वापातात् ।
ततोऽस्य जन्मादौ हेतुः—अन्वयाद् इतरतश् चार्थेष्व् इति । अत्र प्रथमोऽर्थस् त्व् अन्वयेन तस्यैव कारणत्व-बोधकः, व्यतिरेक-पदेनार्थेतरदाक्षेप-लब्धम् । तच् च ख-पुष्पादि-रूपम् इति तथा व्याख्यातम् । द्वितीयस् तृतीयश् च (अर्थः) तस्य कारणत्वं विश्वस्य कार्यत्वं च बोधयतीत्य् अत्र द्वितीये त्व् अर्थ-शब्दः कार्य-कारण-परः । कारणस्य स्वावस्थायां कार्यावस्थायां चानुवृत्तत्वम् । कार्याणां तु परस्परं कारणावस्थायां च व्यावृत्तत्वं ज्ञेयम् । एवं शून्यवादारम्भ-वादौ परिहृतौ ।
तथा च बहिर्मुख-प्रवृत्त्य्-अर्थं युक्तीः प्रदर्श्य, अन्तर् मुखान् प्रति शास्त्र-योनित्वात् [वे।सू। १.१.३] इति न्यायेन श्रुतीर् दर्शयति—तथा चेति । अत्र च—यतो वा इमानि भूतानि [तै।उ। ३.१.१] इत्य्-आदि-वाक्यवद् व्यतिरेकोऽपि ज्ञेयः । कथम् असतः सज् जायते [छा।उ। ६.२.२] इत्य्-आदेः । तत्र तस्य मरीचिका-दृष्टान्तेन प्राप्तम् अचेतनत्वं स्पष्टम् एव निवारयन् पर-मतं प्रधानं च प्रत्याचष्टे—तर्ह्य् आदिना । अभिज्ञ इति । तत्रास्तु तावद् अचेतनत्वम् । अभि सर्वतो-भावेन च तज्-ज्ञातृत्वं श्रूयते इत्य् अर्थः । तत्-तत्-सर्व-विचारात्मकत्वाद् ईक्षणस्य । ईक्षतेर् नाशब्दं [वे।सू। १.१.५] इत्य् अस्यायम् अर्थः । पर-मतं प्रधानं विश्व-कारणं न भवति । न विद्यते शब्दः प्रमाणं यत्र तथाभूतं हि तत् । कुतोऽशब्दत्वं तस्य ? तत्राह—ईक्षतेर् इति । सच्-छब्द-वाच्य-कारण-व्यापाराभिधायित्वेन तत्रेक्ष्-धातोः श्रवणात् । ईक्षणं च चेतन एव सम्भवति । प्रधानं त्व् अचेतनम् इति ।
ननु यत्र त्रिसर्ग आरोप्यते, तद् भवत्व् अचेतनम्, यस् त्व् आरोप-कर्ता जीवः, स खलु सर्वारोपकत्वाच् चेतनः सर्वज्ञश् च स्यात् । तस्य च बहु स्यां [छा।उ। ६.२.३] इत्य्-आदि वाक्यं स्वाज्ञान-कल्पित्वेन स्वप्न-द्रव्यवत् स्वाभेदापेक्षयेत्य् आशङ्क्याह—तर्हि किं जीवः स्याद् इति । सिद्धान्तयति—नेत्य् आहेति । पर-सिद्ध-ज्ञानत्वेन सर्वज्ञत्वं सर्व-स्रष्टृत्वं च न स्यात्, तेन हीति ।
तद् एवं ज्ञान-प्रदत्वेन मोक्ष-प्रदत्वम् अपि दर्शितम् । एवं जीवस्य तद्-अज्ञानस्य च तस्माद् अत्यन्त-भेद-प्राप्ताव् अपि सिद्धान्तितम्—सत्यम् इत्य् अनेनैव, तत्-सत्तयैव सर्व-सत्ता-स्वीकारात् ।
तद् एवं सर्व-सत्ता-प्रदं सर्वाधिष्ठानं सर्व-दोष-स्पृष्टं स्वरूप-सिद्ध-सर्व-ज्ञानादि-समवेतं सर्व-कर्तृ-मोक्ष-दातृ च सत्यानन्त-ज्ञान-स्वरूपं परं ध्येयम् इति वाक्यार्थः।
स्वतः-सिद्ध-ज्ञानादित्वं शारीरक-भाष्यादौ च ईक्षतेर् नाशब्दं [वे।सू। १.१.५] इत्य् अत्र स्वीकृतम् । प्रकृति-क्षोभात् पूर्वम् ईक्षानुपपत्त्या । मन्त्रौ चेमाव् उदाहृतौ—
अपाणि-पादो जवनो ग्रहीता
पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥ [श्वे।उ। ३.१९] इति ।
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८] इति च ।
अत्राद्वैत-वादिनः समादधते—यदि ज्ञेयं सत्यं स्यात् तदा तस्य ज्ञातृत्वम् अपि तथा स्यात्, तदा तस्य ज्ञातृत्वम् अपि तथा स्यात् । त्रिसर्गस्याज्ञान-कल्पितत्वाद् अज्ञानस्य सत्त्वासत्त्वाभ्याम् अनिर्वचनीयत्वाद् अज्ञानिनो जीवस्य च तेनाज्ञानेनैव पृथक्-प्रतीतित्वात् सत्यत्वं नास्त्य् एव, ततो ज्ञातृत्वम् अपि तत्र नास्त्य् एव, तथा शक्त्य्-अन्तरम् अपीति ।
वैष्णवास् तु तद्-अभ्यगम-वादेनैवं वदन्ति—तर्हि किं मिथ्यैवेदं जीवानां भातीत्य् अपि ज्ञानं तस्याव्यभिचारि स्यात् । येन ज्ञानेन मृषा निरस्यते, तस्य तु सत्यत्वम् एव स्यात् । किं च, विश्व-कार्यान्यथानुपपत्त्या यथा परम-कारण-रूपं तद्-अभ्युपगम्यते, तथा तच्-छक्तिर् अपि स्वाभाविक्य् एवाभ्युपगम्येति । कार्य-विशेषोत्पत्तौ किञ्चित्-करत्वेनैव कारणतया वस्तु-विशेषाङ्गीकारात् किञ्चित्करत्वम् एव स्वाभाविक-शक्तिर् इति ।
तद् एवम् अज्ञानातिरिक्त-स्वाभाविक-ज्ञानेन स्व-गत-विशेषत्वे प्राप्ते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति प्रतिपादितम् । तद् एव स्वरूप-शक्तिर् इति सैव सर्वं भगवत्त्वं साधयेद् इति **तेने ब्रह्म हृदा **इति व्यञ्जितम् । अस्यैव महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदः [बृ।आ।उ। २.४.१०] इत्य्-आदि श्रुत्य्-अन्तरं तस्य च निश्वसितस्याप्राकृतत्व-व्यञ्जकम् । नासद् आसीन् नो सदासीत् स आसीत् इति श्रुत्य्-अन्तरं च समुदितं सत् तस्याप्राकृत-मूर्तिमत्त्वम् अपि व्यञ्जयति । ततस् तन्-निषेधस् तु प्राकृत-परिच्छिन्न-निषेध-पर एव । यथोक्तं द्वितीय-स्कन्धे वैकुण्ठ-वर्णने—न यत्र माया [भा।पु। २.९.१०] इति । श्री-दशमे च—दर्शयामास लोकं स्वं गोपानां तमसः परं [भा।पु। १०.२८.१५] इति च । अत एवात्मारामाणाम् अपि तच्-छक्ति-वैभवानुभवे परमानन्द-विशेषो जायते—आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आदिभ्यः । अतो जीवानां तादृश-शक्त्यैव तदीय-रश्मि-स्थानीयत्वेन नित्य-सिद्धानां तन्-मायावृत-ज्ञानानां तज्-ज्ञान-सिद्धये स एव ध्येय इति ।
तत् धीमहि इत्य्-आदि । तत्रोद्धृत-मात्स्य-प्रमाण-वचनेन गायत्री-शब्देन तत्-सूचक-तद्-अव्यभिचारि-धीमहि-पद-संवलित-तद्-अर्थ एवेष्यते । सर्वेषाम् अपि मन्त्राणाम् आदि-रूपायास् तस्याः साक्षात्-कथनानर्हत्वात् । तद्-अर्थेऽपि स्पष्टः ।
**जन्माद्यस्य यत **इति प्रणवार्थः । सृष्ट्य्-आदि-शक्तिमत्-तत्त्व-वाचित्वात् । **यत्र त्रिसर्गो मृषा **इति व्याहृति-त्रयार्थः । उभयत्रापि लोक-त्रयस्य तद्-अनन्यत्वेन विवक्षितत्वात् । स्वराड् इति सवितृ-प्रकाशक-परम-तेजो-वाचि । **तेने ब्रह्म हृदा **इति बुद्धि-वृत्ति-प्रेरणा-प्रार्थना सूचिता । तद् एव कृपया स्व-ध्यानाय बुद्धि-वृत्तिं प्रेरयताद् इति भावः । तच् च तेजस् तत्र अन्तस् तद्-धर्मोपदेशात् [वे।सू। १.१.२०] इत्य्-आदि सम्प्रतिपन्नं यन् मूर्तम्, तद्-आद्य्-अनन्त-मूर्तिमद् एव ध्येयम् इति । तद् एवम् अग्नि-पुराणे गायत्र्य्-अर्थः श्री-भगवान् एवाभिमतः । तद्-वचनानि श्री-तत्त्व-सन्दर्भे दृश्यानि । अत्रैवाग्रे दर्शयितव्यानि ।
[भावार्थ-दीपिका-धृत-मात्स्य-वाक्ये] धर्म-विस्तरः इत्य् अत्र धर्म-शब्दः परम-धर्म-परः । धर्मः प्रोज्झित-कैतवोऽत्र परमः [भा।पु। १.१.२] इत्य् अत्र प्रतिज्ञातत्वात् । स च भगवद्-ध्यान एवेति व्यक्तीभविष्यति वृत्रासुर-वधोपेतम् इति । तस्य परम-भागवतत्वात् तद्-वध-रूपस्य चरित्रस्य श्री-भागवत-लक्षणत्वेन धृतेः । पुराणान्तरे वामन-सञ्ज्ञे हयग्रीव-ब्रह्म-विद्येति वृत्रासुर-वध-साहचर्येण नारायण-वर्मैवोच्यते । हयग्रीव-शब्देन ह्य् अत्रश्वशिरो दधीचिर् एव लभ्यते । तेनैव च प्रवर्तिता नारायण-वर्माख्या ब्रह्म-विद्या [भा।पु। ६.८.४-३५] । तस्याश्व-शिरस्त्वं षष्ठे, यद् वा अश्वशिरो नाम [भा।पु। ६.९.५१] इत्य् अत्र प्रसिद्धम् । नारायण-वर्मणो ब्रह्म-विद्यात्वं च—
एतच् छ्रुत्वा तथोवाच दध्यङ् आथर्वणस् तयोः ।
प्रवर्ग्यं ब्रह्म-विद्यां च सत्-कृतोऽसत्य-शङ्कितः ॥ इति [तत्रैव भा।दी।]
इत्य् अत्र टीकोत्थापित-वचनेन चेति । एवं स्कान्दे प्रभास-खण्डे च—यत्राधिकृत्य गायत्रीम् इत्य्-आदि ।
सारस्वतस्य कल्पस्य मध्ये ये स्युर् नरामराः ।
सद्-वृत्तानोद्भवं लोके तच् च भागवतं स्मृतम् ॥
लिखित्वा तच् च इत्य्-आदि अष्टादश-सहस्राणि इत्य् अन्तं च ।
श्रीमद्-भागवतस्य श्रीमद्-भगवत्-प्रियत्वेन भागवताभीष्टत्वेन च परम-सात्त्विकत्वम् आह—पाद्म-पुराणे इति । तत्रैव च श्री-गौतम-प्रश्नः—
पुराणं त्वं भागवतं पठसे पुरतो हरेः ।
चरितं दैत्य-राजस्य प्रह्लादस्य च भूपते ॥ [प।पु।]
तत्र वञ्जुली-माहात्म्ये तस्य तस्मिन्न् उपदेशः—
रात्रौ तु जागरः कार्यः श्रोतव्या वैष्णवी कथा ।
गीतानाम् असहस्रं च पुराणं शुक-भाषितम् ।
पठितव्यं प्रयत्नेन हरेः सन्तोष-कारणम् ॥ [प।पु।]
तत्रैवान्यत्र—
अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु ।
पठस्व स्व-मुखेनैव यदीच्छसि भव-क्षयम् ॥ [प।पु।]
स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये—
श्रीमद्-भागवतं भक्त्या पठते हरि-सन्निधौ ।
जागरे तत्-पदं याति कुल-वृन्द-समन्वितः ॥ इति ।
एवं तत्त्व-वादि-धृते गारुड-वचने च—
॥ ॥ ॥ ॥ ॥ पूर्णः सोऽयम् अतिशयः ।
अर्थोऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः ॥
गायत्री-भाष्य-रूपोऽसौ वेदार्थ-परिबृंहितः ।
पुराणानां साम-रूपः साक्षाद्-भगवतोदितः ॥
द्वादश-स्कन्ध-युक्तोऽयं शतविच्-छेद-संयुतः ।
ग्रन्थोऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः ॥ इति ।
अत्र “ब्रह्म-सूत्राणाम् अर्थस्” तेषाम् अकृत्रिम-भाष्य-भूत इत्य् अर्थः । तस्मात् तद्-भाष्य-भूते स्वतः-सिद्धे तस्मिन् सत्य् अर्वाचीनम् अन्यद् अन्यद् भाष्यं स्व-स्व-कपोल-कल्पितं तद्-अनुगतम् एवादरणीयम् इति गम्यते । भारतार्थ-विनिर्णयः—भारतस्यार्थ-विनिर्णयो यत्र सः । भगवत्य् एव तात्पर्यात् तस्यापि । यद् वा, भारतार्थस्य विनिर्णयो वेदार्थ-तुल्यत्वेन विशिष्य निर्णयो यत्रेति । यस्माद् एव श्री-भगवत्-परस् तस्माद् एव गायत्री-भाष्य-रूपोऽसाव् इति ।
यत् तु द्वादशे ॐ नमस् ते [भा।पु। १२.६.६७] गद्येषु तद्-अर्थत्वेन सूर्यः स्तुतः । तत् तु परमात्म-दृष्ट्यैव, न तु स्वातन्त्र्येणेत्य् अदोषः । तथैवाग्रे श्री-शौनक-वाक्ये ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः [भा।पु। १२.११.२८] इति । न चास्य भर्गस्य सूर्य-मण्डल-मात्राधिष्ठानत्वम् । मन्त्रे वरेण्य-शब्देनात्र च ग्रन्थे पर-शब्देन परमैश्वर्य-पर्यन्तताया दर्शितत्वात् ।
तद् एवम् अग्नि-पुराणेऽप्य् [२१६.१५] उक्तम्—
ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले ।
सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम् ॥ इति ।
अथ “श्रीमद्-भागवताभिधः” इति । भागवतत्वं भगवत्-प्रतिपादकत्वम् । श्रीमत्त्वं भगवन्-नामादेर् इव तादृश-स्वाभाविक-शक्तिमत्त्वम्, नित्य-योगे मतुप् । अतः समस्ततयैव निर्दिश्य नीलोत्पलवत् तन्-नामत्वम् एव बोधितम् । अन्यथा त्व् अविमृष्ट-विधेयांशता-दोषः स्यात् । अत एवोक्तम्—श्रीमद्-भागवते महा-मुनि-कृते [भा।पु। १.१.२] इति । टीका-कृद्भिर् अपि श्रीमद्-भागवताभिधः इति । अतः क्वचित् केवल-भागवताख्यत्वं तु सत्यभामा-सत्या इतिवत् ।
“वेदार्थ-परिबृंहितः” इति । वेदार्थस्य परिबृंहणं यस्मात् । तच् चोक्तम् इतिहास-पुराणाभ्यां वेदं समुपबृंहयेत् [म।भा। १.१.२६७, वायु।पु। १.२००] इत्य्-आदि । पुराणानां साम-रूपः इति । वेदेषु सामवत्—सर्वेषु पुराणेषु श्रेष्ठ इत्य् अर्थः ।
“साक्षाद् भगवतोदितः” इति कस्मै येन विभासितोऽयं [भा।पु। १२.१३.१९] इत्य् उपसंहार-वाक्यानुसारेण ज्ञेयम् । “शत-विच्छेद-संयुतः” इति विस्तर-भिया न विव्रियते ।
तद् एवं श्रीमद्-भागवतं सर्व-शास्त्र-चक्रवर्ति-पदम् आप्तम् इति स्थिते हेम-सिंहासनम् आरूढम् इति तैर् यद् व्याख्यातम् । तद् एव युक्तम् । अतः श्रीमद्-भागवतस्यैवाभ्यासावश्यकत्वं श्रेष्ठत्वं च संवत्सर-प्रदीप-धृत-स्कान्द-वचने [विष्णु-खण्डे मार्ग-शीर्ष-माहात्म्ये १६.४०,४२,४४,३३]
शतशोऽथ सहस्रैश् च किम् अन्यैः शास्त्र-सङ्ग्रहैः ।
न यस्य तिष्ठते गेहे शास्त्रं भागवतं कलौ ॥
कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ ।
गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः ॥
यत्र यत्र भवेद् विप्र शास्त्रं भागवतं कलौ ।
तत्र तत्र हरिर् याति त्रिदशैः सह नारद ॥
यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने ।
अष्टादश-पुराणानां फलं प्राप्नोति मानवः ॥ इति ।
तद् एवं परमार्थ-विवित्सुभिः श्री-भागवतम् एव साम्प्रतं विचारणीयम् इति स्थितम् । अत एव सत्स्व् अपि नाना-शास्त्रेष्व् एतद् एवोक्तं—कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः इति । अर्कता-रूपकेण तद् विना नान्येषां सम्यग्-वस्तु-प्रकाशकत्वम् इति प्रतिपद्यते । यस्यैव श्रीमद्-भागवतस्य भाष्य-भूतं श्री-हयशीर्ष-पञ्चरात्रे शास्त्र-कथन-प्रस्तावे गणितं तन्त्र-भागवताभिधं तन्त्रम्, यस्य साक्षाच् छ्री-हनुमद्भाष्य-वासनाभाष्य-सम्बन्धोक्ति-विद्वत्कामधेनु-तत्त्वदीपिका-भावार्थदीपिका-परमहंसप्रिया-शुकहृदयादयो व्याख्या-ग्रन्थाः । तथा मुक्ताफल-हरिलीला-भक्तिरत्नावल्य्-आदयो निबन्धाश् च विविधा एव तत्-तन्-मत-प्रसिद्ध-महानुभाव-कृता विराजन्ते । यद् एव च हेमाद्रि-कृत ग्रन्थस्य [चतुर्वर्ग-चिन्तामणेः] दान-खण्डे पुराण-दान-प्रस्तावे मत्स्य-पुराणीय-तल्-लक्षण-धृत्या प्रशस्तम् । हेमाद्रि-कृत-ग्रन्थस्य परिशेष-खण्डस्य काल-निर्णये च कलि-युग-धर्म-निर्णये कलिं सभाजयन्त्य् आर्याः [भा।पु। ११.५.३६] इत्य्-आदिकं यद्-वाक्यत्वेनोत्थाप्य यत् प्रतिपाद्य-धर्म एव कलाव् अङ्गीकृतः । संवत्सर-प्रदीपे च तत्-कर्त्रा शतशोऽथ सहस्रशः इत्य्-आदिकं प्राग्-दर्शित-स्कान्द-वचन-जातम् उत्थाप्य सर्व-कलि-दोषतः पावित्र्याय कतिचिच् छ्रीमद्-भागवत-वचनानि लेख्यानीति लिखितानि ।
अत एव सर्व-गुण-युक्तत्वम् अस्यैव दृष्टं धर्मः प्रोज्झित-कैतवोऽत्र [१.१.२] इत्य्-आदिना,
वेदाः पुराणं काव्यं च प्रभुर् मित्रं प्रियेव च ।
बोधयन्तीति हि प्राहुस् त्रिवृद् भागवतं पुनः ॥
इति हेमाद्रि-वचने चेति12 । मात्स्यादीनां यत् पुराणाधिक्यं श्रूयते, तत् त्व् आपेक्षिकम् इति ।
तद् इत्थं सर्वम् अभिप्रेत्य महोपक्रम-श्लोकम् एव श्री-विष्णु-पुराणीय-भगवच्-छब्द-निरुक्तिवत् साक्षात् श्री-कृष्णाभिधेयत्वेनापि योजयति **जन्माद्यस्य **इति । नराकृति परं ब्रह्म [बृहत्-सहस्र-नाम-स्तोत्रे] इति पुराण-वर्गात्, तस्मात् कृष्ण एव परो देवः [गो।ता।उ। १.४९] इति गोपाल-तापनी-श्रुतेश् च । **परं श्री-कृष्णं धीमहि **।
अस्य स्वरूप-लक्षणम् आह सत्यम् इति । सत्य-व्रतं सत्य-परं त्रि-सत्यं [भा।पु। १०.२.२६] इत्य् आदौ तथा-श्रुतत्वात् ।
सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् ।
सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो हि नामतः ॥ [म।भा। ५.६८.१२]
इत्य् उद्यम-पर्वणि सञ्जय-कृत-श्री-कृष्ण-नाम्नां निरुक्तौ च तथा श्रुतत्वात् । एतेन तद्-आकारस्याव्यभिचारित्वं दर्शितम् ।
तटस्थ-लक्षणम् आह—**धाम्ना स्वेन **इत्य्-आदि । स्वेन स्व-स्वरूपेण, धाम्ना श्री-मथुराख्येन **सदा निरस्तं कुहकं **माया-कार्य-लक्षणं येन तम् ।
मथ्यते तु जगत् सर्वं
ब्रह्म-ज्ञानेन येन वा ।
तत्-सार-भूतं यद् यस्यां
मथुरा सा निगद्यते ॥ [गो।ता।उ। २.६६] इति गोपालोत्तर-तापनी-प्रसिद्धेः ।
लीलाम् आह—**आद्य् अस्य **नित्यम् एव श्रीमद्-आनकदुन्दुभि-व्रजेश्वर-नन्दनतया श्री-मथुरा-द्वारका-गोकुलेषु विराजमानस्यैव तस्य कस्मैचिद् अर्थाय लोके प्रादुर्भावापेक्षया । यतः श्रीमद्-आनकदुन्दुभि-गृहाज् जन्म तस्माद् य **इतरतश् च **इतरत्र श्री-व्रजेश्वर-गृहेऽपि **अन्वयात् **पुत्र-भावतस् तद्-अनुगतत्वेनागच्छत् । उत्तरेणैव य इति पदेनान्वयः । यत इत्य् अनेन तस्माद् इति स्वयम् एव लभ्यते ।
कथम् अन्वयात् ? तत्राह—**अर्थेषु **कंस-वञ्चनादिषु तादृश-भाववद्भिः श्री-गोकुल-वासिभिर् एव सर्वानन्द-कदम्ब-कादम्बिनी-रूपा सा सा कापि लीला सिध्यतीति तल्-लक्षणेषु वा अर्थेषु **अभिज्ञः **। ततश् च **स्वराट् **स्वैर् गोकुल-वासिभिर् एव राजते इति । तत्र तेषां प्रेम-वशताम् आपन्नस्याप्य् अव्याहतैश्वर्यम् आह तेन इति । य **आदि-कवये **ब्रह्मणे ब्रह्माणं विस्मापयितुं **हृदा **सङ्कल्प-मात्रेणैव ब्रह्म सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्ति-मयं वैभवं **तेने **विस्तारितवान् । **यद् **यतस् तथाविध-लौकिकालौकिकता-समुचित-लीला-हेतोः **सूरयस् **तद्-भक्ता **मुह्यन्ति **प्रेमातिशयोदयेन वैवश्यम् आप्नुवन्ति । **यद् **इत्य् उत्तरेणाप्य् अन्वयात् । यद् यत एव तदृश-लीलातस् **तेजो-वारि-मृदाम् अपि **यथा यथावद् **विनिमयो **भवति । तत्र तेजसश् चान्द्रादेर् विनिमयो निस्तेजो-वस्तुभिः सह धर्म-परिवर्तः । तत् श्री-मुखादि-रुचा चन्द्रादेर् निस्तेजस्त्वाविधानात् निकट-स्थ-निस्तेजो-वस्तुनः स्व-भासा तेजस्वितापादनाच् च । तथा वारि द्रवश् च कठिनं भवति । वेणु-वाद्येन मृत्-पाषाणादिः द्रवतीति । यतः श्री-कृष्णे **त्रि-सर्गः **श्री-गोकुल-मथुरा-द्वारका-वैभव-प्रकाशः **अमृषा **सत्य एवेति ॥१॥
———————————————————————————————————————
मधुसूदन-सरस्वती (परमहंस-प्रिया) :
हरिः ॐ चत् सत् ।
श्री-कृष्णं परमं तत्त्वं नत्वा तस्य प्रसादतः ।
श्री-भागवत-पद्यानां कश्चिद् भावः प्रकाश्यते ॥१॥
अनुदिनम् इदम् आयु सर्वदासत्-प्रसङ्गैः
बहु-विध-परितपैः क्षीयतेऽव्यर्थम् एव ।
हरि-चरित-सुधाभिः सिच्यमानं तद् एतत्
क्षणम् अपि सफलं स्याद् इत्य् अयं मे श्रमोऽत्र ॥२॥
कृत्स्न-ग्रन्थ-तात्पर्य-विषयौभतम् अर्थं दर्शयन् भगवान् बादरायणिस् तम् एव ध्येयत्वेनोपशिक्षयन् मङ्गलम् आचरति—**जन्माद्यस्य **इति । तं परं सत्यं धीमहि इति-सम्बन्धः । सत्यम् अबाध्यम् । तत् किंस्विद्व्यवहारमात्राबाध्यम् । तद्व्यावर्तनायाह—परम् इति । परमार्थ-सत्यम् अत्यन्ताबाध्यम् इत्य् अर्थः । तथा च श्रुतिः—सत्यस्य सत्यम् इति प्राणा वै सत्यं तेषाम् एष सत्यम् इति । प्राण-शब्दोदितानां व्यवहारतः सत्यानाम् अधिष्ठान-भूतं परमार्थ-सत्यम् आत्मानं दर्शयति । एवं, सत्यं ज्ञानम् अनन्तं ब्रह्म । ऐतदात्म्यम् इदं सर्वं । तत् सत्यं स आत्मा । तत्त्वम् असि इत्य्-आदि-श्रुतिर् अपि ब्रह्मात्म-शब्दोदितं परं तत्त्वम् अबाध्यं दर्शयति । सर्व-भ्रमाधिष्ठानत्वात् सर्व-बाधावधित्वाच् च परमार्थ-सत्यम् । न हि निरधिष्ठानो भ्रमोऽस्ति, न वा निरवधिर् बाधः । तत्र सर्व-भ्रमाधिष्ठानत्वं जन्माद्य् अस्य यतः इत्य्-आदिना दर्शितं, सर्व-बाधावधित्वं च तेजो-वारि-मृदां यथा विनिमयो यत्र त्रिसर्गो मृषा इत्य्-आदिना । तं परं सत्यं सर्वाधिष्ठानं सन्-मात्रम् अखण्ड-वाक्यार्थ-भूतं श्रुत्वा मत्वा च वयं मुमुक्षवो ध्यायेम निदिध्यासेम । ध्यानम् अत्र निदिध्यासन-रूपम् एवाभिप्रेतं, न तूपासनम् । निदिध्यासनं हि वस्तु-स्वरूपापेक्ष-प्रत्ययानन्तरित-शाब्द-ज्ञान-सन्तति-रूपम् । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इति श्रुत्या, ततस् तु तं पश्यते निष्कलं ध्यायमान इति श्रुत्या च आत्म-साक्षात्कारत्वेन विहितम् । उपासनं तु वस्तु-स्वरूपानपेक्षं पुरुषेच्छा-मात्रं तन्-मानस-क्रिया-प्रवाह-रूपम् । यथा, यस्यै देवतायै हविर् गृहीतं स्यात् तां ध्यायेद् वषट्करिष्यन् इत्य्-आदि । इदं च वस्तु-स्वरूपानपेक्षम् अपि तद्-अविरोधि, किञ्चित् तद्-विरोध्य् अपि । यथा, वाचं धेनुम् उपासीत इत्य्-आदि । द्विविधम् अप्य् उपासनं श्रुत्या ब्रह्मणि निषिद्धं, तद् एव ब्रह्म त्वं विद्धि नेदं यद् इदम् उपासते इति ।
शुद्ध-गोचराया वृत्तेर् उपनिषन्-मात्र-करणकत्वात्, तं त्व् औपनिषदम् इत्य्-आदि-श्रुतेः, तस्या एवावर्त्यमानाया निदिध्यासन-रूपत्वाद्य्-उक्तं शुद्ध-गोचरत्वम् । एतावन् मात्र-पर्यवसानाच् च सर्वसाधनविधीनां, धीमहि इत्य् उक्तम् । एतस्य च मङ्गलत्वं—
सर्वदा सर्व-कार्येषु नास्ति तेषाम् अमङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ॥
इत्य्-आदि-शास्त्र-सिद्धम् । एवं शुद्धस्य ब्रह्मणो निदिध्यास्यमानस्य परमार्थ-सत्यताम् उपपादयितुं तत्-पदार्थ-स्वरूपताम् आह—जन्माद्य् अस्य यत इत्य्-आदिना । अस्य प्रत्यक्षादि-सकल-प्रमाण-सन्निधापितस्य जगतो जन्मादि जन्म-स्थिति-भङ्गं यतो भवतीति, तं सत्यं धीमहि इति सम्बन्धः । तथा च श्रुतिः—यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति इत्य् आद्या, आनन्दो ब्रह्मेति व्यजानात्, आनन्दाद् वै खल्व् इमानि भूतानि जायन्ते इत्य्-आद्या च, जगज्-जन्म-स्थिति-लय-कारणतां ब्रह्मणो दर्शयति । यत इति प्रकृतौ पञ्चमी । जनिकर्तुः प्रकृतिः इति पाणिनि-स्मरणात् । जन्मादि इति तद्-गुण-संविज्ञानो बहुव्रीहिः । सर्वादीनि सर्व-नामानि इतिवत् । जन्मनश् चादित्वं श्रुति-निर्देशापेक्षं वस्तु-वृत्तापेक्षं च ।
ननु असद् वा इदम् अग्र आसीत् इति श्रुतेः, शून्यम् एव जगत्-कारणम् अस्तु । नेत्य् आह—अन्वयात् इति । इदं सदिदं सद् इतिः - सद्रूपस्यैव कारणस्य कार्येष्वनुस्यूतत्वात् । **इतरतश् च **- असतोऽनन्वयात् शून्यम् इति - प्रतीत्यभावात्, कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेत—इतिवाक्येनासतः कारणताप्रतिषेधाच् च । सद्रूपं ब्रह्मैव जगदुपादानम् इत्य् अर्थः । सदेव सोम्येदमग्र आसीत् इति श्रुतिवाक्यान्वयात् । **इतरतश् च **- असद्वा इदमग्र आसीत् इत्यसतः सत्तान्वयाच्चेति—वा । तथा चासत्यमिदं सूक्ष्मत्वेन गौण्या वृत्त्या सत्ये च योजनीयम् । एतच्च समाकर्षात् इति सूत्रेण व्याख्यातम् । **इतरतश् च **इत्यत्र चकारादसतोऽन्वयलाभः । अथवा - कार्यान्वयाद् ब्रह्म कारणमित्य् उक्ते, कार्यविनाशे तस्य विनाशमाशङ्क्योक्तम्—**इतरतश् च **इति । तथा हि - घटनाशेऽपि तदन्विता मृन्न विनश्यति । घटभिन्ने शरावादौ तस्या अन्वयात् । एवं सदपि । इतरत - इतरत्र कार्यान्तरे तदुपलभ्यान्वयादित्य् अर्थः । वाक्यार्थानुपपत्त्यादिदोषाच्च, नासतो जगत्कारणतेत्याह—अर्थेष्वभिज्ञ इति । न हि सताप्यर्थेनाविदित्वा कश्चिद्रचयितुं शक्यते, किं पुनरवस्तुनेति - भावः । तथा च श्रुतिः—यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपस्तस्मादेतद्ब्रह्म नाम रूपम् अन्नं च जायत इति, सदेव सोम्येदमग्र आसीद् एकम् एवाद्वितीयं तद् ऐक्षत बहु स्यां प्रजायेय - इत्य्-आद्या चित्स्वरूपसाधनप्रयोजनादिविज्ञानवत एव जगत्कारणत्वं दर्शयति । अभितः - सर्वप्रकारेण सामान्यतो विशेषतश् च सर्वं वस्तु जानातीति अभिज्ञः । सर्वज्ञः सर्वविद् इति - पदद्वयार्थो दर्शितः । अर्थेष्व् इति सप्तमी सर्वत्रैकरूपेव वृत्त्या कल्पितत्वरूपा विषयतेति सूचयति । अथवा - अन्वयादितरतश्चार्थेष्व् इति पूर्वेणैव सम्बन्धः । एवं च सर्वज्ञत्वोपादानत्वेन परमाणुकारणवादः **प्रधानकारणवादश् च **निराकृतः ।
ननु मा भूत्कारणता परमाणूनाम् । प्रधानस्य तु भविष्यति । सत्त्वपरिणामेन सार्वज्ञ्यसम्भवात् । ब्रह्मणश् च निर्धर्मकत्वेन सर्वज्ञानाकर्तृत्वादिति । अत आह—स्वराड् इति । स्वयम् एव राजते प्रकाशत इति स्वराट् । अन्यानपेक्षः प्र(क्षप्र)काशरूप इत्य् अर्थः । तथा च, सविता प्रकाशत - इत्य्-आदिवत्कर्तृत्वौपचारिकत्वेन, सर्वविषयकज्ञानरूपस्य विवक्षित्वान्न प्रधानस्याचेतनस्य कारणताप्रसङ्ग इत्य् अर्थः । एवञ्चैकविज्ञानप्रतिज्ञा समर्थिता भवति । अन्यथा प्रधानविज्ञानेन तत्कार्यज्ञानसम्भवेऽपि तदकार्याणां पुरुषाणां ज्ञानासम्भवात् । ब्रह्मणि विदिते तु पुरुषाणां स्वत एव तद्रूपत्वादितरेषां च तत्र कल्पितत्वेन तदव्यतिरेकात्, येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इत्य्-आदिश्रुत्या कस्मिन्नु भगवन्विज्ञाते सर्वमिदं विज्ञातं भवति इत्याद्यया आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् इत्याद्यया च प्रतिपादितैकविज्ञानेन सर्वविज्ञानोपपत्तेः ।
ननु ब्रह्मकारणत्वेऽप्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा नोपपद्यते । वेदस्यापौरुषेयत्वेन स्वातन्त्र्याभ्युपगमात् । तस्य ब्रह्मकार्यत्वे पौरुषेयत्वेनाप्रामाण्यप्रसङ्गात्किम्बला ब्रह्मकारणतापि व्यवस्थाप्येत । तस्मात्सङ्कोचितायां प्रतिज्ञायां स्वकार्यापेक्षया प्रज्ञानम् अपि लब्धप्रसरमित्याशङ्क्याह—तेने इत्य्-आदि । ब्रह्म - वेदं, यस्तेने - विस्तारितवांश्छ्वासप्रश्वासादिवल्लीलयाविर्भावितवान् । तथा च श्रुतिः—अस्य महतो भूतस्य नि(निः)श्वसितमेतद्यदृग्वेदो यजुर्वेद - इत्य्-आद्या वेदस्यापि ब्रह्मोपादानतां दर्शयति । न च ब्रह्मकार्यत्वे सति तस्य पौरुषेयत्वम् । पुरुषमात्रजन्यत्वेऽपि पौरुषेयत्वे, वर्णानां नित्यत्वेऽप्यानुपूर्वीविशेषस्य पुरुषजन्यत्वात्, मीमांसकम्मन्यस्यापि वेदाप्रामाण्यप्रसङ्गः । वर्णनित्यतामात्रेणैवापौरुषेयत्वव्यवस्थापने लौकिकवाक्यस्यापि तत्प्रसङ्गः । तस्मान्मानान्तरेणार्थमुपलभ्य रचितत्वं पौरुषेयत्वं सापेक्षलक्षणाप्रामाण्यप्रयोजकम् । तच्च न वेदे । वेदार्थस्य माना(न्तरा)गोचरत्वात् । इदम् एव श्रुत्या नि(निः)श्वसितदृष्टान्तेन दर्शितम् । यथा हि निः(नि)श्वासः पुरुषाज्जायमानोऽपि न पुरुषचिकीर्षाजन्यः, सुषुप्तावपि दर्शनात्; एवं वेदो ब्रह्मणः सकाशाज्जायमानोऽपि न चिकीर्षाजन्यः, तदर्थस्य वेदातिरिक्तमानाविषयत्वात् । तथा वेदतदर्थज्ञानयोस्तुल्यकालत्वान्न ब्रह्मणः सार्वज्यव्याघातो, न वा वेदस्य पौरुषेयत्वम् । एवं च सत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा न सङ्कोचनीया । बाधकाभावात् । अत्र चेदमनुमानं सूचितं - वेदनिष्ठसर्वार्थप्रकाशनशक्तिः सदुपादाननिष्ठा कार्यगतप्रकाशनशक्तित्वाद्वह्न्युपादानकदीपगतप्रकाशनशक्तिवद् इति । अतो वेदोपादानत्वेनापि ब्रह्मणः सार्वज्यसिद्धिः । केचिद् - हिरण्यगर्भ एव वेदप्रवक्ता जगत्कारणं च - इत्याहुः । तन्निराकरोति - हृदा य आदिकवय इति । आदिकविर्हि हिरण्यगर्भः । तस्मै हृदा सह यो ब्रह्म तेने । अन्तःकरणं सूक्ष्ममहाभूतकार्यमुत्पाद्य तदुपाधेर्हिरण्यगर्भस्य वेदार्थज्ञानं कारितवानित्य् अर्थः । तथा च श्रुतिः—
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
इति हिरण्यगर्भतद्वेदाविर्भावयोः परमेश्वराधीनतां दर्शयति । तदपि हृदा - मनसैव तेने, न तु मुखेनाध्यापितवान् । अनेन - सर्वान्तर्यामित्वं - दर्शितम् । तथा च श्रुतिः—यः सर्वेषु भूतेषु तिष्ठति, सर्वेभ्यो भूतेभ्योऽन्तरो, यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरा यमयत्येष त आत्मान्तर्याम्यमृत - इत्य्-आद्या सर्वान्तर्यामित्वेन परमात्मानं प्रतिपादयति ।
ननूदाहृत-श्रुतीनां ब्रह्मणि प्रामाण्यं न सम्भवति, ब्रह्मणः सिद्धत्वेन मानान्तरायोग्यत्वाद् अन्ततः स्वरूप-चैतन्यस्यैव मानान्तरत्वात् । तथा च तत्-संवादे श्रुतीनां नाज्ञात-ज्ञापकत्व-लक्षणं प्रामाण्यम् । विसंवादे तु बाधित-विषयत्वात् सुतराम् अप्रामाण्यम् । तथा च प्रधान-परमाण्व्-आदि-कारणता-बोधकम् अनुमानं लब्धावकाशं भविष्यतीत्य् आह—मुह्यन्ति यत् सूरय इति । यत् यत्र यस्मिन् विषयेऽखण्डानन्दाद्वये स्वरूप-चिन्-मात्र-लक्षणे । सूरयः तार्किकादयः । मुह्यन्ति मोह-ज्ञानम् अनुभवन्ति । मोहो द्विविधः—आवरण-रूपो विक्षेपरूपश् च । आवरण-रूपोऽप्य् असत्ता(त्त्वा)वरण-रूपोऽभानावरण-रूपश् चेति द्विविधः । नास्ति शुद्धं ब्रह्म न भासते च इति द्विविधोऽपि मोहो वेदान्त-शास्त्र-विमुखैर् अनुभूयते । वेदान्त-शास्त्र-विचार-पराणां तु परोक्ष-ज्ञानेनासत्तावरणनिवृत्तावप्यभानावरणमनुवर्तत एव, नास्ति ब्रह्म इति प्रतीत्यनुदयेऽपि मम न भाति ब्रह्मे इति तेषां प्रतीतेः । अत एव, ते तदभानावरणनिवर्तकस्य साक्षात्कारस्य साधनान्यनुतिष्ठन्ति । एवं च विक्षेपावरणकार्यं भ्रमविशेषरूपं प्रत्यक्षम् एव । यतो - जीवाद्भिन्न एवेश्वरो जगतो निमित्तकारणमात्रम् एव इति तार्किक-वैशेषिक-पातञ्जल-पाशुपतादयो व्यवहरन्ति । साङ्ख्य-मीमांसकादयस् तु जगन्-निमित्त-कारणत्वेनापि नेश्वरम् उपपादयन्ति, किन्तु प्रधान-परमाण्व्-आद्य् एव तेन रूपेणोपास्यम् इत्य् आहुः । तस्माद् ब्रह्म-विषयक-मोहस्यापरोक्षत्वात् स्वरूप-चैतन्यस्य च तत्-साधकत्वेन तद्-अनिवर्तकत्वात् तन्-निवर्तक-वृत्त्य्-उत्पादनेन वेदान्तानां प्रामाण्यम् अव्याहतम् एव । सिद्धत्वेऽपि च ब्रह्मणो मानान्तरायोग्यत्वं रूपादि-हीनत्वेन व्युत्पादितं भाष्य-कार-प्रभृतिभिः । एवं पूर्वार्धेन तत्-पद-वाच्यार्थम् उक्त्वा, (अ)परार्धेन तल्-लक्ष्यं वक्तुम् आरभमाणो ऽध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति न्यायेनाह—**तेजो-वारि- **इत्य्-आदिना । यत्र ब्रह्मणि; त्रयाणां तेजोऽबन्नानां सर्गस् त्रिसर्गः, स; मृषा - मिथ्यैव, शुक्तौ रजतवत् । छान्दोग्ये सृष्टि-प्रकरणे तेजोऽब्-अन्नानां साक्षात्-पठितत्वात् त्रिसर्ग इत्य् उक्तम् । वियद्-अधिकरण-न्यायेन तु पञ्च-भूत-सर्ग इति द्रष्टव्यम् ।
तन्-मिथ्यात्वे दृष्टान्तमाह—तेजो-वारि-मृदां यथा विनिमय इति । विनिमयो - व्यत्ययो व्यत्यासो व्यामिश्रीभावोऽन्यस्मिन्न् अन्यावभास-रूप इति यावत् । तथा च, श्रुतिः—यदग्ने रोहितं रूपं तेजसस् तद्-रूपं, यच् छुक्लं तद् अपां, यत् कृष्णं तद् अन्नस्यापागाद् अग्नेर् अग्नित्वं, वाचारम्भणं विकारो नामधेयं, त्रीणि रूपाणीत्य् एव सत्यम् इत्य्-आदिना कृत्स्नस्यापि विकारस्यानृततां दर्शयति । न ह्य् आरम्भ-वादो वा परिणाम-वादो वा सम्भवति । तथा हि—परमाणुः परमाण्व्-अन्तरेण संयुज्यमानो द्व्यणुकम् आरभते इत्य् अभ्युपेयते । तत्र द्व्य्-अणुका-समवायि-कारण-भूतः संयोगः परमाण्वोः कार्त्स्न्येन वा समवायाद् एकदेशेन वा । आद्ये प्रथिमानुपपत्तिः । द्वितीये सावयवत्वापत्तिः । एवं परिणामोऽपि प्रधानस्य कार्त्स्न्येन तद्-एकदेशेन वा । आद्ये कारण-विनाशापत्तिः । द्वितीये सावयवत्वापत्तिः । न चेष्टम् एव तत् । सावयवत्वे तस्यापि जन्यत्वेन मूल-कारणत्वानुपपत्तिः । एवं कार्यम् अपि कारण-व्यापारात् प्राक्-सद्-असद् वा प्राग्-असत्-सद् वा । आद्ये कथं कार्य-कारण-भाव-ग्रहः । न हि ख-पुष्पेण समं कस्यचित् सम्बन्धो गृह्यते ।
ननुत्पत्स्यति घट इव, प्रतियोगित्वेनासतोऽपि कार्यत्वं भविष्यतीति चेत् । हन्त, प्रागभावप्रतियोगित्वं निराश्रयं साश्रयं वा । आद्ये शशविषाणतुल्यता । द्वितीये सत्कार्यवादापत्तिः । प्रागभावप्रतियोगित्वाश्रयत्वेनैव कार्यसत्त्वाङ्गीकारात् । न च सत्कार्यवादोऽपि घटते । कारणव्यापारवैयर्थ्यापत्तेः । आविर्भावतिरोभावयोर् अपि सदसत्त्वविकल्पग्रासात् । तस्मात्सदसद्विलक्षणत्वेनैवानिर्वचनीयतैव कार्यकारणयोरिति विवर्तवादोऽवशिष्यते । तथा चाविद्यावशाच्छुद्धे ब्रह्मणि द्वैताभासो मिथ्येत्यर्थः ।
नन्वविद्याकार्याणामसत्यत्वेऽप्यविद्यायाः सत्यत्वमस्तु, अनादिभावत्वाद् ब्रह्मवत् । कल्पकशून्यत्वाच् च । न हि द्वैतप्रपञ्चकल्पनाहेतोरविद्यायाः कल्पकान्तरमस्ति । स्वस्या एव कल्पकत्वे आत्माश्रयत्वात् । अविद्यान्तराभ्युपगमे चानवस्थानात् । तथा चैकविज्ञानेन सर्वविज्ञानव्याघातोऽनिर्मोक्षापत्तिश्चेति । अत आह—धाम्ना स्वेन सदानिरस्तकुहकमिति । सदानिरस्तं - नित्यनिवृत्तं, कुहकं - कपटमविद्याख्यं यस्मिंस्तत्तथा । तत्र हेतुः - स्वेन धाम्नेति । अखण्डानन्दाद्वितीयचैतन्यरूपत्वादित्य् अर्थः । तथा च श्रुतिः—सदेव सोम्येदमग्र आसीद् एकम् एवाद्वितीयम् - इत्य्-आदिरन्यथानुपपद्यमानैरेकैवाद्वितीयशब्दैरखण्डम् एव वस्तु प्रतिपादयति । दृग्दृश्यसम्बन्धानुपपत्त्या, कल्पितत्वेनैवाविद्यायाश्चैतन्यभास्यत्वनियमाच् च । एतस्या एव च स्वपरसाधारणकल्पनामूलत्वान्नाविद्यान्तराभ्युपगमदोषः । उत्पत्त्यनङ्गीकारेण, ज्ञप्तेश् च नित्यत्वेन, नात्माश्रयदोषः । अनादिभावत्वञ्चात्मनो नित्यत्वप्रयोजकं न भवति । किन्तु परमार्थसत्यत्वम् । अविद्यायाः सदसद्विलक्षणत्वाज्ज्ञाननिवृत्त्यो(निवर्त्यतो।निवर्त्यतयो)पपत्तिः । तथा च, मायातत्कार्यहीनः परमात्मा तत्पदलक्ष्यो दर्शितः । एतेनैव - त्वंपदलक्ष्योऽपि - दर्शितः । तस्यापि मायातत्कार्यहीनत्वात् । जाग्रत्स्वप्नसुषुप्तिसाक्षिणस्तद्वत्त्वाभावात् । एवञ्च, पदार्थज्ञानपूर्वकं वाक्यार्थबोधे सति तदावृत्तिरूपं निदिध्यासनमुपपन्नम् । अत्र जन्माद्यस्य यत इत्यनेनानन्दरूपत्वं दर्शितम् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते इत्य्-आदिश्रुतेः । अन्वयाद् इत्यनेन सद्रूपत्वं नित्यत्वं विभुत्वं च । सर्वदेशकालान्वयबोधनात् । स्वराड् इत्यनेन स्वप्रकाशज्ञानरूपत्वम् । धाम्ना स्वेन सदा निरस्तकुहकम् इत्यनेनाद्वितीयत्वम् । सत्यम् इत्यनेन परमार्थत्वम् । इति सत्यं ज्ञानमनन्तं ब्रह्म - विज्ञानमानन्दं ब्रह्म इत्य्-आदिवाक्यार्थो दर्शितः । अथ च त्वम्पदार्थोऽपि शक्यतेऽनेन श्लोकेन दर्शयितुम् । श्लेषालङ्कारस्यात्यन्तचारुताहेतुत्वात् । तथा हि - यो - जीवः अस्य - देहेन्द्रियादेः जन्मादि - विकारजातम् अन्वयाद् - अनुगतवानविद्ययात्मन्यारोपितवान् । **तं परं सत्यं धीमहि **इति सम्बन्धः । अस्य कीदृशस्य । यतो - गच्छतः । सर्वदा परिणममानस्येत्यर्थः । जन्मादि गच्छत इति वा ।
ननु जातो देवदत्तो - मृतो देवदत्त इति प्रतीतेः, तद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवम् एवास्मादात्मनः सर्व एत आत्मानो व्युच्चरन्ति इति श्रुतेश्च, स्वत एव जन्मादिमान्जीवोऽस्तु । नेत्याह—**इतरतश् च **इति । जन्माद्ययोग्यत्वादित्य् अर्थः । तथा च श्रुतिः—न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चिद् इति - अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे - इत्य्-आद्या स्मृतिश् च जीवस्य जन्मविनाशौ वारयति । कृतहानाकृताभ्यागमादिदोषप्रसङ्गादुपाध्युत्पत्तिमात्रेणैव व्युच्चरन्तीत्यादिश्रुत्युपपत्तेः । तद्गुणसारत्वाद् इत्य्-आदि-न्यायाच् चेति च-कारार्थः । देहम् इन्द्रियं मनः प्राणं च केचिद् आत्मत्वेन प्रतिपन्नाः । तान् निराकरोति–अर्थेष्व् अभिज्ञ इति । न हि भौतिकानां देहेन्द्रिय-प्राण-मनसां ज्ञातृत्वं सम्भवति । घटादाव् अपि तत्-प्रसङ्गाद्, एतेषां चानित्यत्वाद्, आत्मनित्यत्वस्य च व्यवस्थापितत्वात् । एतेन - विभुत्वम् अपि - व्याख्यातम् (?) । विभुत्वं हि मध्यमपरिमाणत्वेनानुपपद्यमानं परमाणुत्वे परममहत्त्वे वा व्यवतिष्ठेत् । एतेन - देहाद्यतिरिक्तोऽपि देहपरिमाण एवात्म इति - क्षपणकपक्षो निरस्तः (?) । तत्र परमाणुत्वे सकल-शरीर-व्यापि-सुख-दुःखानुपलम्भ-प्रसङ्गात् सकल-देह-व्यापकोऽस्तु । तर्हि देहेन्द्रियातिरिक्तो विभुर् एवात्मा ज्ञानाश्रयो, न तु ज्ञान-रूप इति । तत्राह—स्वराड् इति । स्वयम् एव राजत इति स्वराट्, स्वप्रकाश-ज्ञान-रूपः । न तु ज्ञानाश्रय इत्य् अर्थः । अत्रायं पुरुषः स्वयं-ज्योतिर् भवति इत्य्-आदि-श्रुतेः । सन्देह-विपर्ययाद्य्-अविषयत्वेन सर्वदा भासमानत्वात्, स्व-जन्य-ज्ञान-विषयत्वे च कर्तृ-कर्म-भाव-विरोधात्, ज्ञोऽत एव इति न्यायाज् ज्ञान-रूप एवात्मेत्य् अर्थः ।
ननु जीवस्य स्वप्रकाशज्ञानरूपत्वे जन्मादिशून्यत्वे च ब्रह्मणो भेदकाभावात्, स्वत एव च ब्रह्माभिन्नत्वे शास्त्रारम्भो निरर्थकः स्यात् । ब्रह्मावबोधस्य सर्वदा विद्यमानत्वादिति । अत आह—तेनेऽब्रह्म हृदा य आदिकवये इति । हृदा - मनसा तदुपाधिना तादात्म्यापन्नः सन्नब्रह्म ब्रह्मविपरीतं कर्तृत्वभोक्तृत्वादिलक्षणं संसारं संसरणरूपं विस्तारितवान् । तथा च श्रुतिः—स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव सधीश्शन्नो(धीः स्वप्नो ?) भूत्व इत्य्-आद्या सम्बन्धादसंसारिणोऽपि संसारितां दर्शयति । तथा च तन्निवृत्तये ब्रह्मात्मतोपदेशो युक्त इत्य् अर्थः । संसारस्य मोक्षहेतुतां दर्शयति - आदिकवय इति । आदिभूतं कं - सुखं ब्रह्मानन्दरूपो मोक्ष इत्यर्थस्तस्य वयः प्राप्तिस्तदर्थम् । अय-वय गताव् इति स्मरणात् । निमित्तात्कर्मसंयोगे चेयं सप्तमी - चर्मणि द्वीपिनं हन्ति इतिवत् । न हि संसाराभावे श्रवणमननादिसाधनानुष्ठानं सम्भवति, न च तदभावे तत्प्रज्ञानोदयः, न च तमन्तरेणानाद्यविद्यानिवृत्तिरिति - मोक्षार्थम् एव संसारं विस्तारितवानित्य् अर्थः । तथा च श्रुतिः—रूपं रूपं प्रतिरूपो बभूव - तदस्य रूपं प्रतिचक्षणाय इति, मायाभिः पुरुरूप ईयत इति च । ब्रह्म वा इदमग्र आसीद् इति आत्मानम् एव वेदाहं ब्रह्मास्मि इति तस्मात्तत्सर्वमभवदिति च संसारद्वाराऽविद्यानिवृत्तिरूपं मोक्षं दर्शयति ।
ननु तर्हि भवतु स्वप्रकाशज्ञानरूप आत्मा, किन्तु नानन्दरूपः, प्रतिशरीरं भिन्नश्चेति - साङ्ख्यमतम् । तत्राह—मुह्यन्ति यत्सूरय इति । यद् - यत्र यस्मिञ्जीवस्वरूपे, सूरयः - तार्किकाद्यपेक्षया सुधियोऽपि साङ्ख्या, मुह्यन्ति - भ्राम्यन्ति शुद्धस्वरूपं जानन्तोऽप्यानन्दरूपत्वं प्रतिदेहमेकत्वं ब्रह्माभिन्नत्वञ्चाजानन्तः । तथा च श्रुतयः - एष एव परम आनन्द इति, एको देवः सर्वभूतेषु गूढ इति , अयमात्मा ब्रह्म इति तादृग्रूपतां जीवस्य बोधयन्ति । तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादान्तरं यदयमात्म इति श्रुत्यन्तराच्च, परमप्रेमास्पदत्वादानन्दरूपत्वम् । नानात्वे भोगव्यवस्थानुपपत्तेः, प्रतिदेहमेकत्वम् । न हि - विभूनामात्मनां सर्वदेहसम्बन्धित्वाविशेषे कर्मादिकम् अपि भोगनियामकं भवितुमर्हति । अविशेषात् । एकात्मवादे तु तदन्तःकरणावच्छिन्नप्रदेशानां भिन्नत्वादुपपद्यत एव व्यवस्था । देहभेदादेव च प्रतिसन्धानाभावः । एवं च भेदकशून्यत्वाद्, ब्रह्माभिन्नत्वम् अपि सिद्धम् । लक्षणैक्यात् । एवं त्वम्पदवाच्यार्थं पूर्वार्द्धेन प्रतिपाद्य, तल्लक्ष्यमुत्तरार्धेन वक्तुमध्यारोपापवादन्यायेनारभते - तेजोवारिमृदां यथा विनिमय—इत्य्-आदिना । यत्र - आत्मनि, त्रयाणां - स्थूलसूक्ष्मकारणोपाधीनां जाग्रत्स्वप्नसुषुप्त्यवस्थाहेतूनां, सर्गः - संसर्गो मिथ्यैव; न तु परमार्थतः । स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति - असङ्गो ह्ययं पुरुष इत्य्-आदिश्रुतिभ्यः । साक्ष्यस्य साक्षिधर्मा(र्मत्वा)नुपपत्तेः । भास्यस्य घटादेर्भासकदीपादिधर्मत्वादर्शनात् । मिथ्यात्वे दृष्टान्तः - तेजोवारि इति । वारिणि करकारूपे मृद्बुद्धिः । एवं काचादिरूपायां मृदि तेजोबुद्धिरित्युदाहार्यम् । तथा चेदमनुमानं सूचितम् - आत्मनि जाग्रदादिबुद्धिर्मृषा, तदभाववति तद्बुद्धित्वात्, तेजसि वारिबुद्धिवत् (?) । तदभाववत्त्वञ्चात्मनश्श्रुतिस्मृतिन्यायैर्निश्चितमिति नासिद्धिः । एवं लक्षणैक्येन ब्रह्माभिन्नत्वं दर्शयति - धाम्ना स्वेन सदानिरस्तकुहकम् इति । एतद् एव (?) तत्पदार्थत्वम्पदार्थतदैक्यकथनद्वारेण शास्त्रस्य विषयो दर्शितः ।
तत्र श्रवणमनननिदिध्यासनानां तृतीयं च निदिध्यासनमिह प्रतिपाद्यते । मनननिदिध्यासनवतो विजातीयप्रत्ययनिवारणस्य मनोनिग्रहद्वारा व्युत्पाद्यमानत्वात् । चतुर्लक्षणमीमांसारूपत्वञ्चास्य सूचितम् । तथा हि - पूर्वार्द्धेन जन्माद्यस्य यतः (ब्र।सू। १.१.२) इति न्यायः साक्षादेव दर्शितः । अन्वयाद् इत्यनेन तत्तु समन्वयात् (ब्र।सू। १.१.४) इति । अर्थेष्वभिज्ञ इत्यनेन ईक्षतेर्नाशब्दम् (ब्र।सू। १.१.५) इति । तेने ब्रह्म हृद इत्य्-आदिना शास्त्रयोनित्वात् (ब्र।सू। १.१.३) इति । मुह्यन्ति यत्सूरय इत्यनेन एतेन सर्वे व्याख्याता व्याख्याता (ब्र।सू। १.४.२०) इत्य्-अन्तो न्याय-कलापः सूचितः । इति समन्वयाध्यायो व्याख्यातः । तेजोवारिमृदाम् इत्य्-आदिना तदनन्यत्वमारम्भणशब्दादिभ्य (ब्र।सू। २.१.१४) इत्य्-आदिन्यायसूचनादविरोधाध्यायार्थः । धीमहि इत्यनेन सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवद् (ब्र।सू। ३.४.४७) इत्य्-आदिन्यायसूचनात्साधनाध्यायार्थः । धाम्ना स्वेन सदानिरस्तकहुकं सत्यं परम् इति फलाध्यायार्थः, अविद्यातत्कार्यनिवृत्त्युपलक्षितपरमानन्दरूपावशेषात् । एवं सति पारमहंसी संहित इति समाख्योपपद्यते । परमहंसानां वेदान्त-वाक्यार्थ-निदिध्यासन-रूपत्वाद् अत्रोपाख्यानानां तत्-तात्पर्यकत्वात् । एवं ध्यायेमे इति पद-स्थाने धीमहि इति छान्दसप्रयोगाद्गायत्रीरूपत्वमस्याः सूचितम् । तत्सवितुर्वरेण्यम् इत्यस्यार्थः स्वराड् इत्यनेन सूचितः । भर्गो देवस्य धीमहि इत्यस्यार्थो जन्माद्यस्य यत - इत्य्-आदिना सूचितः । धियो यो नः प्रचोदयाद् इत्यस्यार्थः तेने ब्रह्म हृद - इत्य्-आदिना सूचितः । तथा च गायत्रीवदनिशं जप्तव्यैषा संहितेति - दर्शितम् । लक्षणं च श्रीभागवतस्य सूचितम् । तथा च मत्स्यपुराणे पुराणदानप्रस्तावे—
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः ।
वृत्रासुर-वधोपेतं तद् वै भागवतं विदुः ॥
इति गायत्र्य्-उपक्रमो लक्षणत्वेनोक्तः । एवं च सर्गादीन्य् अपि दश लक्षणान्य् अनेन श्लोकेन सूचितानि । जन्माद्यस्य यतः इत्य् अनेन सर्ग-विसर्ग-स्थानानि तृतीय-चतुर्थ-पञ्चम-स्कन्ध-व्युत्पाद्यानि सूचितानि । तेने ब्रह्म हृदा य आदि-कवय इत्य्-आदिना भक्तानुग्रहलक्षणं पोषणं षष्ठस्कन्धव्युत्पाद्यं सूचितम् । मुह्यन्ति यत्सूरय इत्यनेन कर्मवासनारूपा ऊतिः सप्तमस्कन्धव्युत्पाद्या सूचिता । मन्वन्तरेशानुकथे अष्टमनवमस्कन्धप्रमेये स्थानमध्य एवान्तर्भूते । तेजोवारिमृदां विनिमय इत्यनेन निरोधो दशमस्कन्धार्थो दर्शितः । धाम्ना स्वेन सदा निरस्तकुहकम् इत्यनेन मुक्तिरेकादशस्कन्धार्थो दर्शिता । सत्यं परम् इत्यनेनाश्रयो द्वादशस्कन्धार्थो दर्शितः । धीमहि इत्यात्मनेपदोत्तमपुरुषप्रयोगादधिकारी प्रथमस्कन्धार्थः । तेनैव ध्यानोपलक्षितसाधनानुष्ठानरूपो द्वितीयस्कन्धार्थः । इति कृत्स्नभागवतार्थसूचनम् । तदेतद्व्याख्यानमौपनिषदाय रोचते । सात्वतास्तु वर्णयन्ति - पञ्चीकृतपञ्चमहाभूतोपहितं शुद्धचैतन्यं, तदभिमानि विराडन्तर्यामिरूपम् ओतम् इति अनिरुद्ध इति चाख्यायते । एवमपञ्चीकृतपञ्चमहाभूतोपहितं शुद्धचैतन्यं, तदभिमानि हिरण्यगर्भान्तर्यामिरूपम् अनुज्ञात इति प्रद्युम्न इति चाख्यायते । एवं स्थूलसूक्ष्मकारणीभूतं यन्मायात्मकमव्याकृतं तदुपहितं शुद्धं चैतन्यं तन्निष्ठचिदाभासोपलक्षितम् अनुज्ञा इति सङ्कर्षण इति चाख्यायते । अनुपहितन्तु चैतन्यं सर्वानुस्यूतसन्मात्रं सर्वसाक्षिपरमानन्दघनम् अविकल्प इति वासुदेव इति चाख्यायते । सङ्कर्षणप्रद्युम्नानिरुद्धानाम् अपि वासुदेवत्वं वर्त्तत एव । उपाधिकृतः केवलं नामविशेषः । एतच्च नृसिंहतापनीयोत्तरभागे व्याख्यायते ओतानुज्ञातानुज्ञाविकल्पैः स्थूलसूक्ष्मबीजसाक्षिभिरिति बहुकृत्वोभ्यासेन । अत्र च—वासुदेवः परमात्मा, सङ्कर्षणो जीवः, प्रद्युम्नस्तु मनः, अनिरुद्धोऽहङ्कार इति पाञ्चरात्रिकप्रक्रिया नादरणीया; तद्वचनविरोधात्, श्रुतिविरोधाच् च - इत्य्-आदि उत्पत्त्यसम्भवाद् (२.२.४२) इत्यधिकरणे व्याख्यातम् । केवलं परमात्मैवानुपहितो वासुदेवः, कारणोपहितः सङ्कर्षणः, सूक्ष्मभूतोपहितः प्रद्युम्नः, स्थूलभूतोपहितोऽनिरुद्ध इति यथाव्याख्यानम् एवादरणीयम् । श्रौतत्वाद्, उपपन्नत्वाच् च । एवं स्थिते श्लोकयोजना - परं सत्यं वासुदेवाख्यं वयं धीमह्य्उपास्महे । ध्यानमत्रोपासनरूपम् एवाभिप्रेतम् । चतुर्व्यूहरचनाया उपासनार्थत्वात् ।
नन्वनुपहितस्य वासुदेवस्य बुद्धावनारोहात्कथमुपास्यत्वम् । सत्यम् । अनिरुद्धादिरूपम् अप्य् अविवक्षितोपाधिसम्बन्धं वासुदेवात्मकम् एव । श्रोत्रकूपद्वारादिकमिवालक्षिततदुपाधिसम्बन्धमाकाशात्मकम् एव । विवक्षितोपाधिसम्बन्धे तु पृथग्व्यपदेशभेदं लभते । न तु तावता वस्त्वन्यत्वं भवति । तथा च तद्वारा वासुदेवे मनोवृत्तिः कार्येति वक्तुमारभते - जन्माद्यस्य यत इत्य्-आदिना । अस्य जगतः चतुर्दशभुवनरचनात्मकस्य ब्रह्माण्डस्य जन्मादि विकारजातं यतो भवति, तं धीमहि इति - सम्बन्धः । तस्य जगद्विरचनयोग्यतामाह—अर्थेष्वभिज्ञ इति । ब्रह्माण्डाभिमानिविराडपेक्षया वैलक्षण्यमाह—स्वराड् इति । ब्रह्माण्डावच्छिन्नचिदाभासो हि विराड् जीवः । अयं तु तद्बिम्बभूतस्तदन्तर्यामी स्वयम् एव राजत इति स्वराट् । बिम्बभूतत्वेनान्यानपेक्षत्वात् । एवमनिरुद्धमोतमुक्त्वा, प्रद्युम्नमनुज्ञातमाह—तेने ब्रह्म हृदा य आदिकवय इति । आदिकवये - सूक्ष्मभूतावच्छिन्नचिदाभासाय हिरण्यगर्भसञ्जकाय जीवाय । ब्रह्म - वेदम् । तदन्तर्यामिरूपेण बिम्बभूतो यस्तन्मनसैव तेने इति हिरण्यगर्भवैलक्षण्यं स्पष्टम् एवोक्तम् । सङ्कर्षणरूपतामाह—मुह्यन्ति यत्सूरय इति । यत् - यत्र त्रिगुणात्मकमायाप्रतिबिम्बस्य जगत्कारणस्य बिम्बभूते सर्वान्तर्यामिणि सङ्कर्षणाख्ये । सूरयोऽपि भ्राम्यन्ति - स्थूलसूक्ष्मद्वयप्रपञ्चं भ्रान्त्या कल्पयन्ति, प्रधानपरमाण्वादिरूपेण वा भ्राम्यन्ति । वासुदेवरूपतामाह—**तेजोवारिमृदां यथा विनिमयो यत्र विसर्गो मृष **इति । त्रिविधः सर्गः त्रिसर्गः - आध्यात्मिक आधिदैविक आधिभौतिकश्चेति । स यत्र मृषा - सर्वथासन्नेवेत्यर्थः । अपह्नववचनो मृषाशब्दः । त्रयाणाम् - अनिरुद्धप्रद्युम्नसङ्कर्षणोपाधीनां सर्गः - संसर्गो यत्र मृष इति वा । तद् एवमुपहितत्वे । अनुपहितत्वे - स्वेन धाम्ना सदानिरस्तकुहकं - निरस्त(ता)विद्यातत्कार्य(र्यं बि)बिम्बभूतत्वेनोपाधितद्धर्मैरसंस्पृष्टम् । अत एव परं सत्यं - वासुदेवाख्यं ध्यायेम इति निर्गलितोऽर्थः । अत्रानिरुद्धपुरुषावतारो नारायणः प्रलयोदकशायी भुवनकमलमूलभूत इति सविस्तरं मूल एव व्यक्तीभविष्यति । इतरेषाम् अपि रूपं वक्ष्यते । विस्तरश्चास्याः प्रक्रियाया मोक्षधर्मे नारायणीयोपाख्यान इति । तदेतद्व्याख्यानं पौराणिकाय रोचते । केवलभक्तिरसिकास्तु केवलवासुदेवावतारश्रीकृष्णपरतया योजयन्ति । सङ्कर्षणप्रद्युम्नानिरुद्धानां स्वसमाख्ययैव पृथगवतीर्णत्वात्, वासुदेवावतार एव श्रीकृष्णः । कार्ष्णेयाध्यात्माद्युपाख्यानेष्वपि तथैव प्रतिपाद्यते । इहापि कृष्णस्तु भगवान्स्वयम् इति । तस्मात्तत्परतयैव सर्वाणि पदानि योजनीयानि । तं परं सत्यं वासुदेवात्मकं श्रीकृष्णं वयं ध्यायेम । तस्य सर्वप्रेमास्पदत्वेन ध्येयतामाह—जन्माद्यस्य यत इति । यतः - श्रीकृष्णाद्, यस्मिंश्छ्रीकृष्णे वा । आद्यस्य - रतिभावस्य प्रेमाख्यस्य । जन्म भवति । सर्वेषामिति शेषः । रतिभावस्य चाद्यत्वं—
रतिर्हासश् च शोकश् च क्रोधोत्साहौ भयन्तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥
इति भरतेनादौ पठनात् । सर्वप्राणिरतिविषयत्वं च परमानन्दरूपत्वात् । तथा च वक्ष्यति—
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ इति ।
दुर्वाससा च आत्मवत् त्वं सर्वप्राणिनां प्रियो भव इति वरो दत्त इति शान्तिपर्वणि दानधर्मेषु पठ्यते । प्रेमाख्यस्य रतिभावस्योत्पत्तौ कारणमाह—**अन्वयादितरतश् च **इति । अन्वयः - सन्निकर्ष, इतरो - विप्रकर्षश्चेति, ताभ्याम् । तथा च वक्ष्यति—
गोपानां परमानन्द आसीद्गोविन्ददर्शने ।
क्षणं युगशतमिव यासां येन विनाभवत् ॥ इति ।
यर्ह्यम्बुजाक्षापससार भो भवान्कुरून्मधून्वाथ सुहृद्दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणोऽभवद्रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ इति ।
तथा सन्निकर्षविप्रकर्षाभ्यां ज्ञायमानो रतिभावः स्थायी, तद्विषयः श्रीकृष्णो भक्तिरसावलम्बनं विभाव इत्य् अर्थः । **विस्तरेण चैतद्वक्ष्यते **।
ननु तस्मिञ्जायमानोऽपि प्रेमा निरर्थकः । तेनाज्ञानात् । राजादिषु प्रेमापरिज्ञानेन विपरीतकार्यस्यापि दर्शनादिति । अत आह—अर्थेष्वभिज्ञ इति । सर्वेष्वर्थेषु मनोवृत्त्यादिरूपेष्वभि - सर्वप्रकारेण ज्ञः । एवं च सार्वज्ञ्यान्नास्त्ययत्नकृतं वैयर्थ्यम् । प्रेमपरिज्ञानेऽपि तदाश्रयजनोपकारासामर्थ्यमाशङ्क्याह—स्वराड् इति । स्वतन्त्रः सर्वशक्तिरित्य् अर्थः । शक्तिह्रासे हि पारतन्त्र्यं स्यात् । तथा च नासामर्थ्यकृतं वैयर्थ्यम् ।
ननु गोपालकस्य कथं सर्वज्ञत्वं सर्वशक्तित्वञ्चेति । अत आह—तेने ब्रह्म हृदा य आदिकवय इति । आदिकवये - ब्रह्मणे वत्साहरणद्वारा स्वरूपजिज्ञासवे । ब्रह्म - निजरूपं सत्यज्ञानादिलक्षणं सर्वशक्ति च । यस्तेने - विस्तारितवान्प्रदर्शितवान् । तदपि हृदा - सङ्कल्पमात्रेणैवेत्यर्थः । तथा च वक्ष्यति—
तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं
ब्रह्माद्वयं परमनन्तमगाधबोधम् ।
वत्सान्सखीनिव पुरा परितो विचिन्व
द् एकं सपाणिकवलं परमेष्ठ्यचष्ट ॥
इत्य्-आदि ।
ननु ब्रह्मा स्वयम् एव जानाति, सर्वज्ञत्वात्; किं तदनुज्ञापनेनेति । अत आह—मुह्यन्ति यत्सूरय इति । यत् - यत्र श्रीकृष्णस्वरूपे । सूरयो - ब्रह्मादयः । मुह्यन्ति - इदमित्थम् इति निश्चयं कर्तुं न शक्नुवन्ति, तन्मायायाः सर्वमोहकत्वात् । तथा च भगवतोक्तं गीतासु—
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ इति ।
ब्रह्मणो मोहे हेत्वन्तरं वदन्कारुणिकत्वं दर्शयति—तेजोवारिमृदाम् इत्य्-आदिना । ब्रह्मणा वत्सेषु तत्पालकेषु तदुपकरणशिक्यादिषु च स्वसृष्टेषु भौतिकेष्वपहृतेषु यत्र - श्रीकृष्णे त्रिसर्गः - त्रयाणां वत्सतत्पालकतदुपकरणानां सर्गः—प्रादुर्भावः । जात इति शेषः । तत्र दृष्टान्तः तेजोवारिमृदां यथा विनिमय इति । त्रिवृत्कृतो भू(कृतभू)तारब्धो यथा ब्रह्मणा कृतो वत्सतत्पालकतदुपकरणरूपः सर्गस्तथैव भगवता कृतः । सच्चिदानन्दस्वरूपत्वेनाभौतिकोऽपि भौतिकवद्दृश्यत इत्य् अर्थः । तथा च वक्ष्यति—
एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः ।
सत्याः के, कतरे ने-ति ज्ञातुं नेष्टे कथञ्चन ॥ इति ।
तथा च के मया सृष्टा भौतिकाः, के च भगवता सृष्टा अभौतिका इति निर्णयासामर्थ्य च ब्रह्मणो मोहो युक्त इत्य् अर्थः ।
ननु भगवता किमित्यन्ये सृष्टा, ब्रह्मणा कृतानामेवानेतुं शक्यत्वादिति । अत आह—मृष इति । मर्षणं मृषा । सहिष्णुतारूपा क्षमेत्यर्थः । मृष क्षमायामिति स्मरणात् । तथा च वक्ष्यति—
ततः कृष्णो मुदं कर्तुं तन्मातृणां च कस्य च ।
उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ इति ।
तेषाम् आनयने ब्रह्मणोऽसन्मो(तो)षः, तदन्येषां तत्तुल्यानां करणे तद्बन्धूनाम् इति विचार्य, परमकारुणिकेन भगवतान्ये सृष्टा इत्य् अर्थः ।
ननु महामायेन ब्रह्मणा विहितां मायां कथं कृष्णो ज्ञातवान्, ज्ञात्वा च किमिति क्षन्तवान्, एतादृशेऽपराधे कोपस्योचितत्वात्—इत्याशङ्क्याह—**धाम्ना स्वेन सदानिरस्तकुहकम् **इति । निरस्तं - नितरां निराकृतं कुहकं - कपटं ब्रह्मणा कृतं मोहनं तन्निमित्तकोपादिकं च येनेति तथा, तम् । तत्र हेतुः - धाम्ना स्वेन सद इति । स्वरूपेणात्मतत्त्वेन इनरूपेण प्रभुत्वेन सर्वनियामकत्वेन सदनं सत् अवस्थानं स्वेन सत्तया धाम्ना तद्रूपेण प्रभावेणेत्यर्थः । तथा चान्तर्यामित्वात् परिज्ञानमात्मत्वाच् च क्रोधाभाव इति सर्वमनवद्यम् । एवं च सर्वप्रियत्वेन परमानन्दरूपः सर्वज्ञः सर्वशक्तिः सर्वमोहनः सर्वसुखप्रदः सर्वापराधसहिष्णुः सर्वात्मा परमकारुणिको विदग्धतरश् च श्रीकृष्णो भक्तिरसालम्बनत्वेन सम्पूर्णग्रन्थप्रतिपाद्य इति ध्वनितम् । विशेषणद्वारा विशेष्योपस्थितिश्चालङ्कारिकाय रोचतेतराम् । साक्षादनभिधानञ्चातिरहस्यत्वात् । अर्थभेदः कथञ्चन प्रतिपतृणां विचित्रप्रज्ञानां विनोदायेत्यलमतिविस्तरेण । भक्तिरसानुभवप्रकारश् च सर्वोऽप्यस्माभिर्भक्तिरसायनेऽभिहितः । अत्रापि कियान् वक्ष्यते ॥१॥
॥ इति श्रीमधुसूदनसरस्वतीकृता श्रीमद्भागवतस्यादिमश्लोकस्य व्याख्या ॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
कृपा-सुधा-वृष्टि-भूतः स्व-भक्ति-
स्वर् वाहिनी-खेलित-जीव-पद्मी ।
श्री-कृष्ण-चैतन्य-घनः स-विद्युद्
गौरो मनो-व्योमनि नश् चकास्तु ॥इ॥
नित्यानन्दाद्वैत-चैतन्यम् एवं
तत्त्वं नित्यालङ्कृत-ब्रह्म-सूत्रम् ।
नित्यैर् भक्तैर् नित्यया भक्ति-देव्या
भातं नित्यं धाम्नि नित्यो भजामः ॥इइ॥
रूपं सनातनं गुरु-कृपान् नित्यान् गुणांस् तस्य तान्
श्रीमद्-भागवतास् तथैव विदितान् जुष्टाच् चिरेणाश्रयन् ।
दृष्ट्वा वैष्णव-तोषणीं प्रभु-मतं विज्ञाय सन्दर्भतष्
टीकां स्वामानुकम्पितोऽस्य विदधे सारार्थ-सन्दर्शिनीम् ॥इइइ॥
न काचिन् मे वैदूष्य् अहह सुमहासाहस इह
स्वम् औढ्यं वा हेतुर् निरुपाधि-कृपा या भगवतः ।
प्रभुत्वं वा हीनेऽप्य् उदयति यद् आद्ये प्रहसितं
द्वितीये त्व् आनन्दं प्रतिपदम् इदं धोक्ष्यति सत्यम् ॥इव्॥
गोप-रामा-जन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।
तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥व्॥
सुरतरु-फल-दीपाहङ्कर-ब्रह्म-धर्मान्
यद् इदम् अधीत-शास्त्रं नातिचित्रं तद् एतत् ।
हरि-चरित-सुधानां पायनाय प्रपेदे
सदसि सद्-असतां यन् मोहिनी त्वं स्तुमस् तत् ॥वि॥
इह खलु निखिल-कल्याण-गुण-माधुर्य-वारिधौ महैश्वर्य-सम्राजि स्वयं भगवति परम-भास्वत्य् अधि-धरणि यथा समयं विलस्यान्तर्हिते नाना-शास्त्र-पुराणेतिहासादीनां सर्व-जन-निकाय-त्रायकत्व-रूपेष्व् अर्थेषु यामिकेष्व् इव कालेन दैवाद् वैगुण्योदयाद् आलस्येनेव केषुचित् प्रसुप्तेषु तेष्व् एव मध्ये कैश्चित् कैश्चित् प्रत्युत—जुगुप्सितं धर्म-कृतेऽनुशासतः स्वभाव-रक्तस्य महान् व्यतिक्रमः [भा।पु। १.५.१५] इत्य्-आदितोऽवगतैर् अनर्थाकारैश् चौरैर् इवोद्भूय तत्-तत्-प्रणेतृ-पर्यन्तानां सर्वेषां चित्त-प्रसाद-रूपेषु महा-धनेष्व् अपहृतेषु—
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।
अभुत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥ [गीता ४.७] इति ।
परित्राणाय साधूनां विनाशाय च दुष्कृतां [गीता ४.८] इति श्री-गीतोक्त-निमित्त-लब्ध-लक्षणतया यादःसु महामीन इव मृगेषु यज्ञ-वराह इव विहङ्गमेषु श्री-हंस इव नृषु स्वयं भगवान् श्री-कृष्ण इव देवेषूपेन्द्र इव वेदेषु श्रीमद्-भागवताख्यः शास्त्र-चूडामणिः ।
कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह ।
कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः ॥ [भा।पु। १.३.२८]
इति वचन-व्यञ्जित-श्री-कृष्ण-प्रतिमूर्तिकत्वेन मम् आहम् एवाभिरूपः कैवल्याद् इति निरस्त-तद्-विनान्य-सादृश्यतया श्री-शुक-परीक्षिद्भ्यां श्री-कृष्ण एव ज्योतिःषु सहस्रांशुर् इव पुराणेषु भास्वान् द्वादश स्वरूपात्मकोऽष्टादश-सहस्र-च्छदनो महाजन-वाञ्छितार्थ-कल्प-तरुर् इवावततार । तत्-प्रणेता प्रथमत एवाचार्य-चूडामणिः श्री-कृष्ण-द्वैपायनः स्वाभीष्ट-दैवत-ध्यान-लक्षणं मङ्गलम् आचरति—जन्माद्य् अस्येति ।
[अथ प्रथमा व्याख्या]
परम् अतिशयेन **सत्यं **सर्व-काल-देश-वर्तिनं परमेश्वरं **धीमहि **ध्यायेमः । बहु-वचनेन काल-देश-परम्परा-प्राप्तान् सर्वान् एव जीवान् स्वान्तराङ्गी-कृत्य स्व-शिक्षया तान् ध्यानम् उपदिशन्न् एव क्रोडीकरोति अनेन । अथातो ब्रह्म जिज्ञासा [वे।सू १.१.१] इति सूत्रार्थः फलतो विवृतो ध्यानस्यैव जिज्ञासायाः फलत्वात् । तस्य परमैश्वर्यम् आह—**अस्य **जगतो **जन्मादि **जन्म-स्थिति-भङ्गं **यतो **भवति तम् । तर्हि किं कालं ध्यायथ ? न । **अन्वयाद् इतरतश् च **अन्वय-व्यतिरेकाभ्यां घटे मृद् अन्वय इव मृदि घट-व्यतिरेक इवेत्य् उपादान-कारणम् इत्य् अर्थः । च-कारात् स एव निमित्त-कारणं च, कालस्य तत्-प्रभाव-रूपत्वात् । यद् वा, अन्वयात् प्रलये विश्वस्य परमेश्वरे अनुप्रवेशात्, इतरतश् च सर्गे ततो विभागाच् च । पृथिव्या जलम् इव जलस्य तेज इव योऽधिष्ठान-कारणम् इत्य् अर्थः । यद् वा, अन्वयात् कारणत्वेन यत् कर्तृकाद् अनुप्रवेशात् स्थितिः । संहारकत्वेन रुद्र-रूपेण यत्-कर्तृकाद् अनुप्रवेशाद् भङ्गश् च यतो भवति तम् । अत्र कारणस्य कार्य-समन्वितत्वम् एव कार्येऽनुप्रवेशो ज्ञेयः । तत्-कार्यस्य विश्वस्य तत् स्वरूपत्वं वारयन् विशिनष्टि—इतरत इति । सृज्य-पाल्य-संहार्याद् विश्वतः स्वरूप-शक्त्या भिन्नात् । च-कारान् माया-शक्त्या तद्-अभिन्नाच् च । एवं—जन्माद्य् अस्य यतः [वे।सू। १.१.२], तत् तु समन्वयात् [वे।सू। १.१.३] इति सूत्र-द्वयम् उक्तम् ।
ननु च परमेश्वरस्योपादानत्वे विकारो दुर्वारस् तस्मात् प्रकृतिर् एवोपादानं परमेश्वरस् तु निमित्तम् इत्य् उच्यताम् ? मैवम् । यः सर्वज्ञः सर्व-वित् [मु।उ। १.१.९] इति, स ईक्षत लोकान् अनु सृजा [मु।उ। २.१.१] इति, तद् ऐक्षत बहु स्यां प्रजायेय [छा।उ। ६.२.३] इत्य्-आदि श्रुतिभिश् चेतनस्यैव जगत्-कारणत्व-प्रतिपादनात् परमेश्वर एव जगत उपादानं निमित्तं च । तत्र प्रकृतेस् तच्-छक्तित्वात् शक्ति-शक्तिमतोर् अभेदात् प्रकृति-द्वारकम् एव तस्योपादान-त्वम् । स्वरूपेण तु प्रकृत्य्-अतीतत्वात् तस्य निर्विकारत्वं च, यथोक्तं भगवता—
प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ [भा।पु। ११.२४.१९] इति ।
प्रकृतेः स्वातन्त्र्येणोपादानत्वम् एव शास्त्रासम्मतम् । तस्मात् परमेश्वरः सर्वज्ञ एव स्वातन्त्र्येण जगत्-कारणम् उच्यते । न तु जडा प्रकृतिर् इत्य् आह—**अर्थेषु **सृज्यासृज्य-वस्तु-मात्रेषु **अभिज्ञो **यस् तम् इत्य् अर्थः । अनेन ईक्षतेर् नाशब्दं [वे।सू। १.१.५] इति सूत्रार्थ उक्तः । स चायं—प्रक्रान्तं ब्रह्म जगत्-कारणं भवति । कुतः ? ईक्षतेर् ईक्षणात् जगत्-कारणत्व-प्रतिपादक-श्रुति-वाक्येषु तस्यैव विचार-विशेषात्मकेक्षण-श्रवणात् । अतो ब्रह्म नाशब्दम् । अशब्द-प्रमाणकं न भवति, किन्तु शब्द-प्रमाणकम् एवेति । अथ श्रुतयः—तद् ऐक्षत बहु स्यां प्रजायेय [छा।उ। ६.२.३] इति, सद् एव सौम्येदम् अग्र आसीत् [छा। ६.२.१] इति, आत्मा वा इदम् एक एवाग्र आसीत् [छा।उ। १.१.१] इति, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूत [तै।आ। १] इति, यतो वा इमानि भूतानि जायन्ते [तै।भृ। १] इत्य् आद्याः । स्मृतिश् च—
यतः सर्वाणि भूतानि भवन्त्य् आदि-युगागमे ।
यस्मिंश् च प्रलयं यान्ति पुनर् एव युग-क्षये ॥ इति ।
ननु तदानीं महद्-आद्य्-अनुत्पत्तेस् तस्य ईक्षणादि साधनं न सम्भवतीत्य् अत आह—**स्वराट् **स्व-स्वरूपेणैव तथा तथा राजत इति । न तस्य कार्यं कारणं च विद्यते इत्य् आदौ स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति श्रुतेः ।
ननु जगत्-सृष्टौब्रह्मणः स्वातन्त्र्यम् ऐश्वर्यं चावगम्यते । हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् इति श्रुतेः । स एव ध्येयोऽस्त्व् इत्य् अत आह—**तेन **इति । **आदि-कवये **ब्रह्मणे यो ब्रह्म वेदं स्व-तत्त्वं वा तेने प्रकाशयामास । अतो ब्रह्मणोऽपि पारतन्त्र्यम् ।
ननु, ब्रह्मणेऽन्यतो वेदाध्ययनाद्य्-अप्रसिद्धं सत्यं तत् तु **हृदा **मनसैव तेने—
प्रचोदिता येन पुरा सरस्वती
वितन्वताजस्य सतीं स्मृतिं हृदि ।
स्व-लक्षणा प्रादुरभूत् विलास्यतः [भा।पु। २.४.२२] इति ।
किं वा, सुदृष्टं हृदि मे तदैव इत्य् आदेः । अनेन बुद्धि-वृत्ति-प्रवर्तकत्वेन गायत्र्य्-अर्थश् च दर्शितः । तद् उक्तं मात्स्ये—
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः । \
वृत्रासुर-वधोपेतं तद् भागवत्म् इष्यते ॥ [५३.२०] \
पुराणान्तरे च—
ग्रन्थोऽष्टादश-साहस्रो द्वादश-स्कन्ध-संमितः । \
हयग्रीव-ब्रह्म-विद्या यत्र वृत्र-वधस् तथा ।
गायत्र्या च समारम्भस् तद् वै भागवतं विदुः ॥ इति ।
ननु सुप्त-प्रतिबुद्ध-न्यायेन ब्रह्मा स्वयम् एव वेदं तत्त्वं वा उपलभताम् इत्य् अत आह—यत् यस्मिन् वेदे तदीये तत्त्वे वा सूरयोऽपि मुह्यन्ति, अतस् तस्मिन् ब्रह्मणः स्वतो न शक्तिः । एतेन नेतरोऽनुपपत्तेः [वे।सू। १.१.१६] सूत्रार्थो विवृतः ।
ननु **धीमहीति **ध्यान-विषयत्वेन तस्य साकारत्वम् अभिप्रेतम् । आकाराणां च त्रिगुण-सृष्टत्वं तथात्वे चानित्यत्वं प्रसज्जेद् इत्य् अत आह—**तेजो-वारि-मृदां यथा विनिमयः **विपर्ययः अन्यस्मिन् अन्यावभासः । यथा अज्ञानां तेजसि वारीदम् इति वारिणि स्थलम् इति मृदि काचादौ च वारीदम् इति बुद्धिः । तथैव यत्र पूर्ण-चिन्मयाकारे **त्रिसर्गः **त्रिगुण-सर्गेऽयम् इति बुद्धिर् **मृषा **मिथ्यैवेत्य् अर्थः । तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं [गो।ता।उ। १.३३] इति गोपाल-तापनी-श्रुतेः । अर्ध-मात्रात्मको रामो ब्रह्मानन्दैक-विग्रहः इति राम-तापन्याश् च । ऋतं सत्यं परं ब्रह्म पुरुषं नृकेशरि-विग्रहम् इति नृसिंह-तापन्याश् च ।
निर्दोष-पूर्ण-गुण-विग्रह आत्म-तन्त्रो
निश्चेतनात्मक-शरीर-गुणैश् च हीनः ।
आनन्द-मात्र-कर-पाद-मुखोदरादिः ॥ इति ध्यान-बिन्दूपनिषदश् च ।
नन्द-व्रज-जनानन्दी सच्चिदानन्द-विग्रहः इति ब्रह्माण्ड-पुराणात् ।
सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः ।
हेयोपादेय-रहिता नैव प्रकृतिजाः क्वचित् ॥ इति महावाराहाच् च ।
स्वेच्छामयस्य न तु भूतमयस्य [भा।पु। १०.१४.२] इति च । बबन्ध प्राकृतं यथा [भा।पु। १०.९.१४] इति, त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते [भा।पु। १०.१४.२२] इति, शाब्दं ब्रह्म वपुर् दधत् [भा।पु। ३.२१.८] इति । सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४] इत्य्-आदि श्री-भागवतादाव् अपि तद्-आकारस्यामायिकत्वावगमात्,
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ।
एकान्तिनस् ते पुरुषाः श्वेतद्वीप-निवासिनः ॥ [म।भा। १२.३२३.२६] इति नारायणीयात् ।
देहेन्द्रियासु-हीनानां विकुण्ठ-पुर-वासिनां [भा।पु। ७.१३.५१] इति सप्तम-स्कन्धाच् च । तद्-भक्तानाम् अपि श्वेतद्वीप-विकुण्ठ-पुर-वासित्वेन साकारत्वे लब्धे, अतीन्द्रिया इत्य्-आदिभिर् मायिकाकारत्व-निषेधात् । तद्-आकारस्यामायिकत्वे कः संशयः ?
ननु तद् अप्य् अत्र केचन विवदन्ते इत्य् अत आह—**धाम्ना **इति । धाम्ना स्वरूप-शक्त्या स्व-भक्त-निष्ठ-स्वानुभव-प्रभावेण वा प्रतिपद-समुच्छलन् माधुर्यैश्वर्य-भ्राजि-श्री-विग्रहेण वा, **स्वेन **असाधारणेन **सदा **काल-त्रय एव **निरस्ताः कुहकाः **कुतर्क-निष्ठा येन तम् । एतेन तर्कोऽप्रतिष्ठानात् [वे।सू। २.१.११] इति सूत्रार्थः सूचितः । तत्र यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं स्वां [मु।उ। ३.२.३] इति श्रुत्या स्व-शब्देन तनोः स्वरूप-भूतत्वे लब्धे, तथा प्रकृति-क्षोभात् पूर्वम् एव बहु स्यां [छा।उ। ६.२.३] इति, स ऐक्षत [छा।उ। १.१.१] इत्य्-आदि-श्रुतिभिस् तदीय-मनो-नयनादेर् अमायिकत्वेऽवगमिते । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति श्रुत्या स्वाभाविकत्वे प्रकातम् उक्ते—
अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत्
प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम् ॥ [म।भा। ६.६.११]
अत्र “न योजयेत्” इति लिङा पर-दारान् न गच्छेद् इतिवत् तत्र कुतर्क-योजनाया निषिद्धत्वेऽपि यद्य् असुरादयस् तदीय-श्री-विग्रहं लक्ष्यीकृत्य युक्त-शरान् आदित्सवो नि # येऽपि पतिष्यन्ति तदा पतन्त तैर् अलं संलापेनेति ।
[अथ द्वितीया व्याख्या]
तथात्र शास्त्रे दशमस्य विशुद्ध्य्-अर्थं नवानाम् इह लक्षणम् इति दशमस्याश्रय-तत्त्वस्यैवाङ्गित्वे तस्य च श्री-कृष्ण-रूप एव मुख्यत्वे तद्-असाधारण-धर्म-प्रस्तुताव् अप्य् अस्य प्रथम-पदस्यौचिती भवत्य् अतस् तद्-एक-परस्य व्याख्यान्तरस्यावकाशः । तद् यथा—सत्य-व्रतं सत्य-परं [भा।पु। १०.२.२६] इत्य् आदौ, सत्यात्मकं त्वां शरणं प्रपन्नाः इति श्री-कृष्ण-जन्मारम्भोक्तेः ।
सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् ।
सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो हि नामतः ॥ [म।भा। ५.६८.१२]
इत्य् उद्यम-पर्वणि सञ्जय-कृत-कृष्ण-नाम्नां निरुक्तेश् च सत्यं श्री-कृष्णं धीमहि परं ब्रह्म नराकृति इति ब्रह्माण्ड-पुराणात् । तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् इति श्री-गोपाल-तापनीभ्यश् च परम् ।
**स्वेन धाम्ना **श्री-मथुराख्येन सर्वत्र तदानीं कृपया दर्शितेन श्री-विग्रहेण च सदा निरस्तं कुहकं जीवानाम् अविद्या येन तम्—
मथ्यते तु जगत् सर्वं ब्रह्म-ज्ञानेन येन वा ।
तत्-सार-भूतं यद् यस्यां मथुरा सा निगद्यते ॥ [गो।ता।उ। २.६६] इति गोपालोत्तर-तापनी-प्रसिद्धेः ।
श्रवणात् कीर्तनाद् ध्यानात् पूयन्तेऽन्ते-वसायिनः ।
तव ब्रह्म-मयस्येश किम् उतेक्षाभिमर्शिनः ॥ [भा।पु। १०.७०.४३] इति दशमोक्तेः ।
गृह-देह-त्विट्-प्रभावा धामानीत्य् अमरः ।
ननु तद्-विग्रहस्य प्रापञ्चिक-लोक-दृश्यत्वात् यद् यद् दृशां तद् अनित्यं घटवद् इति न्यायेनानित्यत्वं प्रसज्जेद् इत्य् अत आह—**तेजो-वारि-मृदां **त्रयाणां दृश्य-भूतानां यथा यथावत् विनिमयः परस्पर-मिलनं यत्र तथा-भूतस् त्रिसर्गस् त्रिगुण-सृष्टो देहो मृषा मिथ्यैव येन तत्-त्रितय-सृष्टस् तद्-विग्रह उच्यते ते न मृषैवोच्यत इत्य् अर्थः । प्रपञ्चातीत्य् अस्यापि तस्य यत् प्रापञ्चिकैर् असुरैर् दर्शनं तत् खलु विचित्र-लीला-साधिकया तद्-इच्छया दुस्तर्क-स्वरूपयैव पित्त-दूषित-रसनैर् नरैर् मत्स्यण्डिका-चर्वणम् इव तन्-माधुर्यानुभव-हीनम् । तद् अन्यैस् तु दुस्तर्क-तत्-कृपा-प्रभावात् तन्-माधुर्यानुभव-सहितम् एव । यद् उक्तं—
अन्ये च तन्-मुख-सरोजम् उदार-हास-
स्निग्धेक्षणं नृप पपुर् दृशिभिर् नृ-नार्यः ॥ [भा।पु। १०.८६.२०]
न च तत्र तत्र तत्-तत्-प्रेमाधीनतया तादृश-लीला-विशिष्टत्वेऽपि तस्य मौग्ध्यम् एव प्रत्येतव्यम् इथ् आह—**आदि-कवये **ब्रह्मणेऽपि ब्रह्म ब्रह्मात्मकं वत्स-बालकादि **तेने **प्रकाशयामास । तच् च **हृदा **सङ्कल्प-मात्रेणैव यत्र योगमाया-वैभवे **सूरयो **भव-नारदादयोऽपि मुह्यन्ति ।
यद् वा, **आदि-कवये **स्व-कुलस्यादि-पुरुषः कविर् विज्ञश् च यः सत्यव्रत-मनुस् तस्मै ब्रह्म निर्विशेषं स्वरूपं **तेने **स्वांश-मत्स्य-देवोक्त्या प्रकाशयामास । तद् उक्तिर् यथा—
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८] इति ।
व्याख्यातं च श्रीधर-स्वामि-चरणैः—मे मया अनुगृहीतं प्रसादीकृतं ब्रह्म । अपरोक्षीकृतं वेत्स्यसीति ब्रह्मणस् तत्-प्रसादीकृतत्वं च वेद-स्तवारम्भे व्याख्यास्यते ॥
[अथ तृतीया व्याख्या]
अथ तस्यापि शान्त-दास्यादि-रस-परिकर-विशिष्टत्वेऽपि तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [भा।पु। १०.३३.७] इत्य्-आदिभ्यो व्रज-देवी-साहित्येन परम-माधुर्योदयात् तदीय-रसस्यातिशयेनोपादेयतां दर्शयत् पुनर् अप्य् अर्थान्तरम् अत्रावकाशते । तद् यथा—**आद्यस्य **शृङ्गार-रसस्य **जन्म यतस् तं धीमहि **। पूर्वं तस्य परमार्थ-दर्शिभिः संयोगात् सद्भिर् विगीतत्वेन स्वतोऽपि नाश एवासीद् इति भावः । **अन्वयात् **संयोगात् **इतरतश् **च विप्रलम्भात् संयोग-विप्रलम्भाभ्याम् एव शृङ्गार-रसः स-परिकरः सम्पद्यत इति भावः । भीमसेनो भीम इतिवद् आद्य-रसोऽप्य् आद्य-शब्देनोच्यते । यद् वा, अत्र पिबत भागवतं रसं [भा।पु। १.१.३] इत्य् उक्तेः शास्त्रस्यास्य रस-रूपत्वाद् आद्यस्येत्य् अनेनार्थ-प्रत्यासत्त्या रसस्येत्य् अस्यैव विशेष्य-पदस्योपस्थितेः । किं वा, संयोग-वियोगाभ्यां निष्पत्तिः स्व-प्रतियोगिनं रसम् एवोपस्थापयत्य् अतो न्यून-पदता नाशङ्कनीया । प्रत्युत तथा-प्राप्तत्वेनादि-रसस्य रहस्यत्वम् एव द्योतितम् ।
तत्रालम्बन-विभावत्वे तस्यान्यतो वैशिष्ट्यम् आह—अर्थेषु चतुःषष्ठि-कलादि-रसोपयोगि-समस्त-वस्तुषु **अभिज्ञः, **विदग्धः । न च प्राकृत-नलादि-नायकवत् काल-कर्मादि-ग्रस्त इत्य् आह—स्वराट् । किं च, रसो ह्य् अन्यत्र नैव प्रसज्जेद् इत्य् आह—य एवादि-कवये आदि-रसस्य कवये भरताय **हृदा **एव तदीय-मनसैव **ब्रह्म **आदि-रसस्य तत्त्वं तेने रसस्यैकतानत्वोद्घाटनार्थम् इत्य् अर्थः । वेदस् तत्त्वं तपो ब्रह्म इत्य् अमरः ।
तद् अपि **यत्र **तत्त्वे सूरयः कवयो **मुह्यन्ति **प्राकृत-नलादि-नायक-निष्ठतया वर्णनात् । तत्र दृष्टान्तः—**तेज **इति । तेज-आदिषु वार्य्-आदि-बुद्धिर् इव भगवद्-एक-निष्ठे रसे प्राकृत-जन-निष्ठत्व-बुद्धिर् इत्य् अर्थः । यत्र कृमि-विड्-भस्मान्त-निष्ठेषु प्राकृत-नायकेषु अतिनश्वरेषु रसो न भवति विचारतो विभाव-वैरूप्यात् तद्-विपरीतं घृणामयं वैरस्यम् एवोत्पद्यते । तत्रैव रसं वर्णयन्तीत्य् अर्थः ।
किं च, **यत्र **त्रयाणां वाच्य-लक्ष्य-व्यङ्गानाम् अर्थानां ध्वनि-गुणालङ्काराणां वा सर्गः निर्माण-प्रपञ्चः **अमृषा **सत्य एव भवन्न् अलौकिकत्वेन चमत्कारी स्यात् । अन्यत्र प्राकृत-नायके कवि-प्रौढोक्ति-मात्र-प्राणो मिथ्यैवेत्य् अर्थः ।
ननु, रसं केचिन् न मन्यन्ते, तत्राह—धाम्ना माधुर्यास्वाद-साक्षात्कार-चमत्कार-प्रभावेण । **स्वेन **असाधारणेन **निरस्ताः कुहकाः **जरन्-मीमांसका येन तम् ।
[अथ चतुर्था व्याख्या]
अथ तासाम् अपि मध्ये कस्याः पदानि चैतानि याताया नन्दसूनुना [भा।पु। १०.३०.२७], अनयाराधितो नूनं भगवान् हरिर् ईश्वरः [भा।पु। १०.३०.२८] इत्य्-आदिभिः परम-मुख्यायाः श्री-वृन्दावनेश्वर्याः साहित्येन परम एव माधुर्योत्कर्षो भवत्य् अतस् तत्-प्रदर्शकोऽप्य् अर्थोऽस्मिन्न् आदिमे श्लोकेऽन्वेष्टव्यः । स यथा—**यतो **याभ्याम् एव **आद्यस्य **रसस्य **जन्म **प्रादुर्भावः । याव् एव आदि-रस-विद्यायाः परम-निधानम् इत्य् अर्थः । तत्र यश् च **इतरत **इति ल्यब् लोपे पञ्चमी इतराः कान्ताः परित्यज्य, अन्वयात्—
अत्रावरोपिता कान्ता पुष्प-हेतोर् महात्मना ।
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ॥ [भा।पु। १०.३०.३३]
इत्य्-आदि-दृष्ट्या अनुगतेर् हेतोः । **अर्थेषु **रसोपयोगि-धीर-ललितेत्य् आदिमय-मुख्य-रसेष्व् **अभिज्ञः **। या च तत एव हेतोः स्वेन कान्तेनैव राजते इति **स्वराट् स्वाधीन-कान्तेत्य् अर्थः । यश् च तत्-तत्-प्रकाशनार्थम् आदि-कवये **आदितो जन्मारभ्यैव कवये तत्त्वज्ञाय श्री-शुकदेवाय **ब्रह्म **श्री-भागवतं मूर्धण्य-रसमय-रास-पञ्चाध्यायीकं हृदा तेने । इदं भागवतं नाम पुराणं ब्रह्म-सम्मितं [भा।पु। १.३.४०] इति, शुक-मुखाद् अमृत-द्रव-संयुतं [भा।पु। १.१.३] इति, शुक-वाग्-अमृताब्धीन्दुः इत्य्-आदिभिः । यद् यतः श्री-भागवतात् **यत्र **रासे सति **सूरयो मुह्यन्ति **रस-स्वाद-जनिताम् आनन्द-मूर्च्छां प्राप्नुवन्ति । यद् वा, ययोः सूरयो भक्ताः किं वा याभ्यां श्रवण-नयनादि-विषयी-भूताभ्यां सूरयस् तत्-परिकर-भूता भक्ता मुह्यन्ति—महा-विज्ञा अपि मूढा भवन्तो धर्म-विपर्ययं प्राप्नुवन्तीत्य् अर्थः । तत्र दृष्टान्तेनापरान् अपि सङ्गृह्णाति । **तेजो-वारि-मृदांयथा विनिमयः **स्व-धर्म-व्यत्ययः । तत्र तेजसां चन्द्रादीनां तदीय-रास-लीला-दर्शनात् स्तम्भेन स्वीय-चलत्व-धर्म-व्यत्ययः । वारीणां तन्-मुरली-वाद्यादिना स्तम्भेन मृद्-धर्मः । मृदाम् अपि पाषाणादीनां द्रवेण वारि-धर्मश् च यथेति । यत्र ययोः **स्वेन धाम्ना **प्रभावेन तिसृणां श्री-भू-लीलानां गोपी-महिषी-लक्ष्मीणां वा अनरङ्गा-बहिरङ्गा-तटस्थानां वा शक्तीनां सर्गोऽमृषा सत्य एव । सदा तासां तद्-धाममयत्वात् यत्रेत्य् अधिष्ठान-कारणत्वात् याभ्यां सृष्टाः श्र्य्-आदयः स्व-महसा सदा वर्तन्त एवेत्य् अर्थः । यत् तयोर् नित्य-सम्बन्धात् तौ निरस्त-कुहकं निष्कपटं यथा स्यात् सत्यं यथार्थ-स्वरूपं यथा स्यात् परं सर्वोत्कृष्टं यथा स्यात् तथा धीमहि इति शास्त्रस्यास्य विषयो दर्शितः ।
[अथ पञ्चमा व्याख्या]
अथ तथाभूतम् अप्य् आश्रयत्वं येनैव लभ्यते स शास्त्रास्याभिधेयो भक्ति-योगस् तथा स एव परमाकाष्ठाम् आपद्य श्री-भगवद्-आकर्षको भवन् प्रेमाभिधः प्रयोजनं चेत्य् अनेन श्लोकेन स भक्ति-योगोऽवश्यं माननीय इत्य् अतोऽर्थान्तरम् अत्र तन्त्रेणान्तर्भवति । तद् यथा—तद् एव सत्यं तद् उ हैव मङ्गलं**॥।** यद् उत्तमःश्लोक-यशोऽनुगीयते [भा।पु। १२.१२.४९-५०] इति द्वादशोक्तेः । तत्रापि **परं **श्रेष्ठं परं वास्तव-वस्तु-रूपत्वात् त्रिगुणातीतम् । तथा **सत्यं **सद्भ्यो हितं परम-कल्याण-गुण-मयं भक्ति-योगं धीमहि । यद् उक्तं—लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतं [भा।पु। ३.२९.१२] इति ।
न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि ।
मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ [भा।पु। ११.२९.२०] इति च ।
विज्ञान-घन आनन्द-घनः सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [गो।ता।उ। २.७८] इति । तस्य प्रवाहम् आह— नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं, न शोभते ज्ञानं [भा।पु। १.५.१२, १२.१२.५१] इत्य् आदेः । भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [गीता १८.५५] इत्य् आदेश् च ।
ननु ब्रह्म-साक्षात्कारार्थः ज्ञान-योगो यथा भक्तिम् अपेक्षते तथैव भगवत्-साक्षात्कारार्थम् अपि भक्तिम् अपेक्षते तथैव भगवत्-साक्षात्कारार्थम् अपि भक्ति-योगो ज्ञानम् अपेक्षताम् इति चेत् तत्राह—**स्वराट् **स्वेनैव राजते इति सः । सम्राट् स्वतन्त्रो न कस्याप्य् अधीन इत्य् अर्थः ।
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.१०]
इति विधि-वाक्यान् मेघाद्य-मिलितेन केवलेन सौर-किरणेनेव ज्ञानाद्य-मिश्रेणेति तीव्रेणेत्य् अस्यार्थः । तथा—
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ॥ [भा।पु। ११.२०.३२-३३]
इत्य्-आदि-वाक्याच् च । प्रत्युत—
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ [भा।पु। ११.२०.३१]
इति तत्-साहित्य-निषेध-श्रवणाच् च ।
किं चैतादृशो भक्ति-योगो भक्तानुग्रहं विना न लभ्यत इत्य् आह—**तेन **इति । ब्रह्म हृदि यस्य तेन **ब्रह्म-हृदा **नारदेन **आदि-कवये **व्यासाय **तेने **कृपया प्रकाशितः ।
ननु सर्वज्ञस्य व्यासस्यापि भक्ति-योग-ज्ञानम् अनन्याधीनं कथं प्रतीमस् तत्राह—**मुह्यन्ति **इति । सूरयो वशिष्टादयोऽपि यत् यस्मिन् मुह्यन्ति गुणातीते भक्ति-योगे गुण-जन्यानां बुद्ध्याद्यन्तः करणानां स्वतः प्रवेशाशक्तेः मोहम् अज्ञानम् एव प्राप्नुवन्तीत्य् अर्थः ।
यच्-छक्तयो वदतां वादिनां वै
विवाद-संवाद-भुवो भवन्ति ।
कुर्वन्ति चैषां मुहुर् आत्म-मोहं
तस्मै नमोऽनन्त-गुणाय भूम्ने ॥ [भा।पु। ६.४.३१] इति हंसगुह्योक्तेः ।
ननु भक्ति-योगो न केवलं गुणातीत एव तस्यापि तृतीय-स्कन्धे निर्गुणमयत्व-दर्शनाद् इत्य् अत आह—यत्र **त्रिसर्गः **त्रिगुण-सृष्टत्वं **मृषा **अवान्तर इत्य् अर्थः । यथा **तेजो-वारि-मृदां विनिमयो **मेलनम् । निस्तेजोऽपि निर्जलम् अपि निर्धूलिकम् अपि दुग्धं तप्तम् इति जलवद् इति मलिनम् इति तत्-तन्-मेलनाद् भवति, यथा तथैव त्रिगुणतीतो भक्ति-योगः पुरुषवत्ति-सत्त्वादि-गुण-योगात् सात्त्विको राजसस् तामसश् चोच्यते ।
ननु भक्ति-योगस्य त्रिगुणातीतत्वे बहवो विवदन्ते, तत्राह—**धाम्ना स्वेन **इति । स्व-स्वरूपेणालौकिक-माधुर्य-मयेन भक्तानाम् अनुभव-गोचरी-भूतेनैव **निरस्ताः कुहकाः **कुतर्कवन्तो येन तं न ह्य् अनुभूयमानेऽर्थे प्रमाणापेक्षेति भावः । इह किल अध्यात्म-दीपम् अतितितीर्षतां तमोऽन्धं [भा।पु। १.२.३] इति । कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः [भा।पु। १२.१३.१९] इत्य् आभ्यां श्री-भागवतस्य प्रदीपत्वम् । पुराणार्कोऽधुनोदितः [भा।पु। १.३.४५] इत्य् अनेनार्कत्वम् । निगम-कल्प-तरोर् गलितं फलं रसं [भा।पु। १.१.३] इत्य् अनेन रसमय-फलत्वम् । हरि-लीला-कथा-व्राता- मृतानन्दित-सत्-सुरं [भा।पु। १२.१३.११] इत्य् अनेन मोहिनीत्वं च दृश्यते । तत्रास्मिन् पद्ये प्रथमेन व्याख्यानेन दीपत्वम् । द्वितीयेनार्कत्वम्, तृतीय-चतुर्थ-पञ्चमे रसमय-फलत्वम् ।
किं च, पञ्चानाम् एषाम् अर्थानां परम-दुर्लभातिस्वादुत्वेनामृतत्वात् भक्तानाम् एव तत्-सत्-प्रदान-भूतत्वेन देवत्वात् तत्-तद्-वाचकस्य शास्त्रस्यास्य तत्-परिवेष्टृत्वेन मोहिनीत्वं च ज्ञेयम् । एवं च, यद्य्पै सर्वस्य द्वादश-स्कन्धस्यैव शास्त्रस्यास्य रसमय-फलत्वार्कत्व-दीपत्वादीनि तद् अपि भूम्ना व्यपदेशा भवन्तीति न्यायेन सर्गे निरोधे च क्वचित् तादृश-स्तुत्य्-आदौ च अध्यात्म-मात्र-प्रकाशकत्वेन दीपत्वम् । विसर्ग-स्थान-पोषणादिषु धर्मार्थ-काम-मोक्षाणाम् अन्येषां चाशेष-विशेषाणां प्रवृत्त-निवृत्त-विहित-निषिद्ध-साधन-फलानाम् अपि प्रकाशकत्वेनार्कत्वम् । आश्रय-तत्त्वस्य भगवतस् तद्-भक्तानां च जन्म-कर्मादि-लीला-भक्ति-प्रेमादौच प्रस्तुते रसमय-फलत्वम् । तत्र तत्रैव भक्त्य्-अनुकूलेनार्थेन स्व-भक्त-वर्गानन्दनार्थम् । तत्-प्रतिकूलेनार्थनासूर-सङ्घ-व्यामोहनार्थं मोहिनीत्वं च ज्ञेयम् । न चास्य शास्त्रस्य साक्षाद् भक्ति-रसमयस्य तत्-तत्-प्रतिकूलार्थ-प्रस्तुतिर् असङ्गतेति वाच्यम् । सर्व-शक्ति-परिपूर्णस्य साक्षाद्-भगवत इवास्यापि विविधादिकारि स्व-स्व-हृदयानुरूपार्थ-ग्रहणार्थं सर्व-शक्ति-लिङ्ग-प्रकाशकत्व-सौचित्वात्—मल्लानाम् अशनिः [भा।पु। १०.४४.१७] इत्य् अत्र विराड् अविदुषाम् इतिवद् इति सर्वं समञ्जसम् ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
सत्यं ज्ञानम् अनन्तं, ब्रह्म शिवादि-स्तुतं भजद्-रुपम् ।
गोविन्दं तम् अचिन्त्यं, हेतुम् अदोषं नमस्यामः ॥
गौडोदयम् उपयातस् तमः-समस्तं निहन्ति यो युगपत् ।
ज्योतिश् च योऽतिशीतः पीतस् तम् उपास्महे कृताञ्जलयः ॥ \
प्रादुर्भाव्य ब्रह्म-सूत्रानि धीरस्
तद्-भाष्यं च द्वादश-स्कन्ध-रूपम् ।
सद्-वृन्दं योऽजीवयत् प्रेम-वृष्ट्या,
स श्री-व्यासो माम् उपासीनम् अव्यात् ॥ \
शुद्धां भक्तिं वर्णितां नन्द-सूनोर्
गातुं लीलां चातिमाधुर्य-नद्धाम् ।
पाराशर्यो यं विरक्त-प्रधानं,
प्रादुश् चक्रे श्री-शुकं तं नताः स्मः ॥
\
व्याख्याता यैरियं सद्भिः संहिता शुक-भाषिता ।
मण्डयन्त्वङ्घ यस् तेषां मन्-मूर्धान् अमनारतम् ॥
प्रमितापि स्फूटार्थेयं श्री-भागवत-टिप्पणी ।
वैष्णवानन्दिनी भूयान्-माया-वाद-विमर्दिनी ॥
\
अथेह पाराशर्यो भगवान् व्यासो भगवत्-स्वरूप-गुण-निर्णेत्रीं चतुर् लक्षणीं मीमांसां प्रकाश्याप्यानन्द-समृद्धिम् अनुपलभ्य श्री-नारदोपदेशात् तद् उपलम्भिकां भगवच्-चरितामृत-वर्षिणीं तद्-भाष्य-भूतां श्री-भागवत-संहितां प्रकाशयन् भगवद्-अभिध्यान-लक्षणां मङ्गलं दर्शयति—**जन्माद्य् अस्येति **।
यत इति पूर्वत्रोपादानाद्-उत्तरत्र तच्-छब्दो बोध्यः । तं परं परेशं परं दूरान्य-मोक्षेषु परोहरि-परमात्मनोः इति वैजयन्ती-कोशात्, श्री-कृष्णं भगवन्तं धीमहि ध्यायेमवयम् इत्य् एक-जीव-वाद-जीवातुर् विवर्त-वादो निरस्यते, यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे । भक्तिर् उत्पद्यते [भा।पु। १.७.७] इति वक्ष्यमाणात् । शुक-वाग्-अमृताब्धीन्दुर् इति तन्-नाम-स्तोत्राच् च परं श्री-कृष्णम् इत्य् उक्तम्, बहु-वचनं सतीर्थ-शिष्याभिप्रायम् ।
तं विशिनष्टि—सत्यम् इति, त्रिषु कालेषु स्थिरम् ।** **स्वेनात्म-भूतेन धाम्ना पराख्य-शक्ति-रूपेण तेजसा सदा निरस्तं कुहकं येन, तम् इति प्रधानस्य व्यावृत्तिः । इत्थं च ध्येयस्य तस्य मूर्तत्वं माया-स्पृष्टत्वं तन्-निवारक-स्वानुबन्धि-शक्तिकत्वं च दर्शितम्। सदा धीमहीति वा संबन्धः । तेन ध्येय-वद्-ध्यानस्य नित्यत्वम् उभयोर् अतिरम्यत्वं च, ध्यानाभिधानादिह शुद्ध-भक्तेर् मुख्यत्वं च ।
तत्-सत्यत्वं कैमुत्येन वक्तुं विशिनष्टि—**यत्र त्रिसर्गो ऽमृषा **इति । यस्मिन् स्थितस् त्रयाणां गुणानां सर्गो भूतेन्द्रिय-देवतात्मको ऽमृषा सत्यः कविर् मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्-छाश्वतीभ्यः समाभ्यः [इ।उ। ८] इति मन्त्र-वर्णात् । याथातथ्यतः सत्यतया, ऋतं सत्यं समीचीनं सम्यक् तथ्यं यथातथाम् इति हलायुधः ।
अमृषात्वे दृष्टान्तः—**तेजो वारि **इति । तेज-आदीनां त्रयाणां विनिमयो मिथोऽंश-सङ्क्रमः, स यथा मृषा न भवति, तद्वत् । श्रुतिश् च सेयं देवतैक्षत इत्य्-आरभ्य तासां त्रिवृतं त्रिवृतम् एकैकां करवाणि इति । इमास्तिस्रो देवतास् त्रिवृत् त्रिवृद् एकैका भवतीति [छा।उ। ६.३.१-४] । यद् अग्ने रोहितं रूपं तेजसस् तद्-रूपं, यच् छुक्लं तद् अपां, यत् कृष्णं तद् अन्नस्य [छा।उ। ६.४.१] इत्य्-आद्या च । तथा च ध्येयस्य तस्य परम-सत्यत्वम् अभिमतम् । आह चैवं श्रुतिः—अथ नामधेयं सत्यस्य सत्यम् इति प्राणा वै सत्यं तेषाम् एष सत्यम् [बृ।आ।उ। २.३.६] इति प्राण-शब्दोदितानां जीवानां धर्म-भूत-ज्ञान-सङ्कोच-विकाश-लक्षण-परिणामाभास-सत्त्वात् तद्-अभावात् परेशस्य ततोऽप्य् अतिसत्यत्वम् इति ।
त्रि-सर्गे यत्रामृषेत्य् उक्तं, तद्-धेतुत्वेन विशिनष्टि—यतो यस्मात् परेशाद् धेतोर् अस्य ब्रह्माण्ड-कोटि-वितति-रूपस्य प्रपञ्चस्य जन्मादि भवति, आदिना स्थिति-भङ्गौ । यतः कीदृशादित्य् आह—अन्वयादि-तरतश् चेति । अन्वेति कार्यम् इत्य् अन्वयः, पचाद्य् अच्, कार्यानुस्यूतम् उपादानम् इत्य् अर्थः । इतरतस् ततोऽन्यतया स्थितान् निमित्ताच् चेत्य् अर्थः । मृत् खलु घटादिकम् अन्वेति, कुलालस् तु ततोऽन्यस् तिष्ठतीति दृष्टम् एतत् । तथा च क्षेत्रज्ञ-प्रधान-शक्ति-वेशाद् उपादानात् पराख्य-शक्ति-वेशात् कर्त्र् आदि-रूपाच् च यतो हेतोर् अस्योत्पत्ति-स्थिति-भङ्गा भवन्तीति ध्येयस्य महिमातिशयो ध्यान—हेतुः सूच्यते ।
ननु, उपादानापरोक्ष्य-चिकीर्षा-कृतिमत्त्वं कर्तृत्वम् आहुस् तद् अस्य सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] विज्ञानम् आनन्दम् [बृ।आ।उ। ३.९.३५] इति श्रूयमाणस्य किम् अस्ति ? इति चेत्, तत्राह—**अर्थेष्व् अभिज्ञः स्वराड् **इति । प्रकृति-वीक्षण-तत्-परिणमनादिष्व् अर्थेषु अभिज्ञस् तत्-तद्-विषयक-ज्ञानवान् । स्वेनैवात्मानुबन्धिना करण-गणेन राजत इति, स्वराट् तथा च श्रुति—कविर् मनीषी [ई।उ। ८], यः सर्वज्ञः सर्व-वित् [मु।उ। १.१.९], यद्-आत्मको भगवान् तद्-आत्मिका व्यक्तिः । किम्-आत्मको भगवान्? ज्ञानात्मक ऐश्वर्यत्मकः शक्त्य्-आत्मकश् चेति बुद्धि-मनोऽङ्ग-प्रत्यङ्गवत्तां भगवतो लक्षयामहे [माध्व-भाष्य-धृता] इत्य्-आद्या । इत्थं च कालस्य व्यावृत्तिस् तस्य कर्त्र् उपकरणत्वाज्-जडत्वाच् च । अभिज्ञतां विशदयितुं विशिनष्टि—**आदि-कवये **विरिञ्चाय यो ब्रह्म वेदं हृदैव तेने पाठयामास ।
यो ब्रह्माणं विदधाति पूर्वं
यो हि वेदांश् च प्राहिणोति तस्मै ।
तं ह देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अहं प्रपद्ये [गो।ता।उ। पूर्व २४] इति श्रवणात् ।
इत्थं च भूत-पतेर् हिरण्य-गर्भस्य व्यावृत्तिः ।
नन्व् अति-दुरूहं कृष्ण-तत्त्वं? तत्राह—यद् यस्मिन् स्वयं-रूपे भगवति कृष्णे सूरयो विद्वांसो मुह्यन्ति—इति वत्स-हरण-गोवर्धनोत्सवादौ ख्यातम् एतत् ।
अस्मिन् शास्त्रे ईश-जीव-प्रकृति-कालाश् चत्वारोऽर्थाः सूच्यन्ते नित्याश्चैते ।
अथ ह वाव नित्यानि पुरुषः प्रकृतिर् आत्मा काल इति श्रुतेः । आद्यः स्वतन्त्रः, परे तु तत्-तन्त्रः, द्रव्यं कर्म च कालश् च [भा।पु। २.५.१४, २.१०.१२] इत्य्-आदि वक्ष्यमाणात् । सृष्टेः प्राणि-कर्मानुसारित्वाच्-चानादि-विनाशि कर्म च तत्-तन्त्रं पञ्चमोऽर्थो बोध्यः । अर्थोऽयं ब्रह्म-सूत्राणां, गायत्री-भाष्य-रूपोऽसौ इति गारुडादस्य महा-पुराणस्य ब्रह्म-सूत्रार्थत्वं
गायत्र्य्-अर्थत्वं च । तत्राद्यं चतुः-सूत्रिम्-आदाय प्रारम्भात् अथातो ब्रह्म-जिज्ञासा [वे।सू। १.१.१] इत्य् अस्य विवृतिः—सत्यं परं धीमहीत्य् एतत्, अथ तत्त्ववित्-सत्-प्रसङ्गानन्तरम् अतः कर्म-फलस्य स्वर्गादेर् अल्प-स्थिरत्वाद् ब्रह्मनोऽपरिमिताक्षयानन्दत्वात् तस्य जिज्ञासा ज्ञातुं ध्यातुं चेच्छा युक्तेति तद्-अर्थः । जन्माद्य् अस्य यतः [वे।सू। १.१.२] इत्य् अस्य विवृतिस् तु व्यक्तैवाद्य-पादेन । शास्त्र-योनित्वात् [वे।सू। १.१.३], तत्-तु समन्वयात् [वे।सू। १.१.४] इत्य् अनयोस् तु तेने ब्रह्म हृदा य आदि-कवये इत्य् अनेन विवृतिः । स्व-याथात्म्यावगमकं वेदं यस् तं पाठितवान् इत्य् अर्थात् । विष्णोर् वेदान्त-वेद्यत्वं पूर्वस्यार्थः सर्व-वेद-वेद्यत्वं तु परस्येति भाषितम् । अथान्त्यं च तत्र जन्माद्य् अस्य यत इति प्रणवार्थः सृष्ट्य्-आदि-शक्तिमत्-तद्-वाचित्वात् ৷ यत्र त्रि-सर्गो ऽमृषेति व्याहृति-त्रयार्थः । लोक-त्रयस्य शक्तिमत्-तद्-अनन्यत्वेन विवक्षितत्वात् । स्वराडिति सवितृ-प्रकाशक-तेजोऽभिधायि । तेने ब्रह्म हृदेति धी-वृत्ति-प्रेरणाभ्यर्थनार्थक-प्रचोदयात्-पदार्थः । धीमहीति साक्षाद् एव तत्-पदोपादानम् इति । महा-पुराणत्व-बोधकानि दश लक्षणानि चात्रैव सूचितानि । तेषु सर्ग-विसर्ग-स्थान-निरोधा जन्माध्यस्येत्य् अनेन । मन्वन्तरेशानुकथे च स्यानेनैवागते । पोषणं तेने ब्रह्मेत्य्-आदौ । उतिर् मुह्यन्तीत्य्-आदौ । मुक्तिर् धम्नेत्य्-आदौ । आश्रयस् तु सत्यं परम् इत्य् अत्रेति ।
अस्मिन् भूरि-विधाः सन्ति मायिनां या कुसृष्टयः ।
गोविन्द-भाष्यात् सर्वास्ताः परिहार्याः स-पीठकात् ॥१॥
॥ १.१.२ ॥
धर्मः प्रोज्झित-कैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनम् ।
श्रीमद्-भागवते महा-मुनि-कृते किं वा परैर् ईश्वरः
सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् ॥२॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अधिकारि-विषय-फलान्य् उच्यन्ते धर्म इति । प्रोज्झित-कैतवः फलानपेक्षया । ईश्वरार्पणेन परमः ।
तितिषवः कारुणिकाः सुहृदः सर्व-देहिनाम् ।
अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥
मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति मे दृढाम् ।
इत्य्-आदि सतां लक्षणम् । सतां मात्सर्यम् अर्जुनस्य एकलव्य इव कुत्रचिद् दृश्यते । तद् वर्जनीयम् उत्तमेषु ज्ञानार्थिना । महा-संहितायाश् च—
उत्तमेष्व् आत्मनो नित्यं मात्सर्यं परिवर्जयेत् ।
कुरुते यत्र मात्सर्यं तत् तस्यैव विहीयते ॥
इति नित्य-निरस्त-दोष-पूर्ण-गुणं वास्तवम् । नित्य-संहितायां च—
निरस्ताखिल-दोषं यद् आनन्दादि-महा-गुणम् ।
सर्वदा परमं ब्रह्म तस्माद् वास्तवम् ईर्यते ॥ इति ।
वस्तु अप्रतिहतं नित्यं च । स्कान्दे च—
वसनाद् वासनाद् वस्तु नित्याप्रतिहतं यतः ।
वासेनेदं यतस् तन् नमतस् तद् ब्रह्म शब्द्यते ॥ इति ।
किं परैः अर्थ-कामादि-कथनैः । गारुडे च—
धर्मार्थ-काम-मोक्षाणाम् एकम् एव पदं यतः ।
अवरोधो हृदीशस्य पृथग् वक्ष्ये न तान् अहम् ॥ इति ।
सद्यः-शब्दः आपेक्षित इति । तत्-क्षणाद् इति । न चासम्पूर्णाधिकारिणां तत्-क्षणाद् अवरुध्यत इति सद्यः-शब्दः । अधिकारि-विषय-फलानां स्मरणात् फलाधिक्यं भवति । वामने च—
अधिकारः फलं चैव प्रतिपाद्यं च वस्तु यत् ।
स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत् फलम् ॥ इति ॥२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं श्रोतृ-प्रवर्तनाय श्री-भागवतस्य काण्ड-त्रय-विषयेभ्यः सर्व-शास्त्रेभ्यः श्रैष्ठ्यं दर्शयति धर्म इति । अत्र श्रीमति सुन्दरे भागवते परमो धर्मो निरूप्यते । परमत्वे हेतुः । प्रकर्षेणोज्झितं कैतवं फलाभिसन्धि-लक्षणं कपटं यस्मिन् सः । प्र-शब्देन मोक्षाभिसन्धिर् अपि निरस्तः । केवलम् ईश्वराराधन-लक्षणो धर्मो निरूप्यत इत्य् अधिकारितोऽपि धर्मस्य परमत्वम् आह । निर्मत्सराणां परोत्कर्षासहनं मत्सरः । तद्-रहितानाम् । सतां भूतानुकम्पिनाम् । एवं कर्म-काण्ड-विषयेभ्यः शास्त्रेभ्यः श्रैष्ठ्यम् उक्तम् । ज्ञान-काण्ड-विषयेभ्योऽपि श्रैष्ठ्यम् आह वेद्यम् इति । वास्तवं परमार्थ-भूतं वस्तु वेद्यं न तु वैशैषिकाणाम् इव द्रव्य-गुणादि-रूपम् । यद् वा, वास्तव-शब्देन वस्तुनोऽंशो जीवः, वस्तुनः शक्तिर् माया, वस्तुनः कार्यं जगच् च, तत् सर्वं वस्त्व् एव न ततः पृथग् इति वेद्यम् अयत्नेनैव ज्ञातुं शक्यम् इत्य् अर्थः ।
ततः किम् ? अत आह—शिवदं परम-सुखदम् । किं च, आध्यात्मिकादि-ताप-त्रयोन्मूलनं च । अनेन ज्ञान-काण्ड-विषयेभ्यः श्रैष्ठ्यं दर्शितम् । कर्तृतोऽपि श्रैष्ठ्यम् आह । महा-मुनिः श्री-नारायणस् तेन प्रथमं सङ्क्षेपतः कृते । देवता-काण्ड-विषय-गतं श्रैष्ठ्यम् आह—किं वेति । परैः शास्त्रैस् तद्-उक्त-साधनैर् वेश्वरो हृदि किं वा सद्य एवावरुध्यते स्थिरी क्रियते । वा-शब्दः कटाक्षे । किं तु विलम्बेन कथंचिद् एव । अत्र तु शुश्रूषुभिः श्रोतुम् इच्छेद्भिर् एव तत्-क्षणाद् एवाव्रुध्यते । इदम् एव तर्हि किम् इति सर्वे न शृण्वन्ति तत्राह कृतिभिर् इति । श्रवणेच्छा तु पुण्यैर् विना नोत्पद्यत इत्य् अर्थः । तस्माद् अत्र काण्ड-त्रयार्थस्यापि यथावत् प्रतिपादनाद् इदम् एव सर्व-शास्त्रेभ्यः श्रैष्ठ्यम्, अतो नित्यम् एतद् एव श्रोतव्यम् इति भावः ॥२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथैतस्य वक्ष्यमाण-शास्त्रस्य कर्म-ज्ञान-भक्ति-प्रतिपादकेभ्यस् त्रिकाण्ड-विषय-शास्त्रेभ्यो वैशिष्ट्यं दर्शयन् क्रमाद् उत्कर्षम् आह—धर्म इति । अत्र यस् तावद् धर्मो निरूप्यते स खलु स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे [भा।पु। १.२.६] इत्य्-आदिकया,
अतः पुम्भिर् द्विज-श्रेष्ठा
वर्णाश्रम-विभागशः ।
स्वानुष्ठितस्य धर्मस्य
संसिद्धिर् हरि-तोषणम् ॥ [भा।पु। १.२.१३]
इत्य् अन्तया रीत्या भगवत्-सन्तोषणैक-तात्पर्येण शुद्ध-भक्त्य्-उत्पादकतया निरूपणात् परम एव । यतः सोऽपि तद्-एक-तात्पर्यत्वात् प्रकर्षेण उज्झितं कैतवं फलाभिसन्धि-लक्सणं कपटं यस्मिन् तथाभूतः । प्र-शब्देन सालोक्यादि-सर्व-प्रकार-मोक्षाभिसन्धिर् अपि निरस्तः । यत एवासौ तद्-एक-तात्पर्यत्वेन निर्मत्सराणां फल-कामुकस्यैव परोत्कर्षासहनं मत्सरः तद्-रहितानाम् एव तद्-उपलक्षणत्वेन पश्व्-आलम्भने, दयालूनाम् एव च सतां स्व-धर्म-पराणां विधीयते इति एवम् ईदृश-स्पष्टम् अनुक्तवतः कर्म-शास्त्राद् उपासना-शास्त्राच् चास्य तत्-तत्-प्रतिपादकांशे श्रैष्ठ्यम् उक्तम् । उभयत्रैव धर्मोत्पत्तेः । तद् एवं सति साक्षात् कीर्तनादि-रूपस्य वार्ता ति दूरत एव आस्ताम् इति भावः ।
अथ ज्ञान-काण्ड-शाखेभ्योऽप्य् अस्य पूर्ववत् श्रैष्ठ्यम् आह वेद्यम् इति । भगवद्-भक्ति-निरपेक्ष-प्रायेषु तेषु प्रतिपादितम् अपि श्रेयः-सृतिं भक्तिम् उदस्य [भा।पु। १०.१४.४] इत्य्-आदि-न्यायेन वेद्यं निश्चेयं भवतीत्य् अत्रैव वेद्यम् इत्य् अर्थः ।
ताप-त्रयम् उन्मूलयति तन्-मूल-भूताविद्या-पर्यन्तं खण्डयतीति तथा शिवं परमानन्दं ददात्य् अनुभावयतीति तथा । अन्यत्र मुक्ताव् अनुभवामनने ह्य् अपुरुषार्थत्वापातः स्यात् इति तन्-मननाद् अत्र तु वैशिष्ट्यम् इति । न चास्य तत्-तद्-दुर्लभ-वस्तु-साधनत्वे तादृश-निरूपण-सौष्ठवम् एव कारणम् ।
अपि तु स्वरूपम् अपीत्य् आह श्रीमद्-भागवत इति । श्रीमद्-भागवतत्वं भगवत्-प्रतिपादकत्वं श्रीमत्त्वं श्री-भगवन्-नामादेर् इव तादृश-स्वभाविक-शक्तिमत्त्वम् । नित्य-योगे मतुप् । अत एव समस्ततयैव निर्दिश्य नीलोत्पलादिवत्त्वन्-नामत्वम् एव बोधितम् । अन्यथा त्व् अविमृष्ट-विधेयांश-दोषः स्यात् ।
अत उक्तं श्री-गारुडे—ग्रन्थोऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः । इति टीका-कृद्भिर् अपि श्री-भागवताभिधः सुर-तरुर् इति ।
अतः क्वचित् केवल-भागवताख्यत्वं तु सत्य-भामा भामा इतिवत् । तादृश-प्रभावत्वे कारणं परम-श्रेष्ठ-कर्तृत्वम् अप्य् आह । महामुनिः श्री-भगवान् तस्यैव परम-विचार-पारङ्गत-महा-प्रभाव-गण-शिरोमणित्वाच् च । स मुनिर् भूत्वा समचिन्तयद् इति श्रुतेः । तेन प्रथमं चतुः-श्लोकी-रूपेण सङ्क्षेपतः प्रकाशिते कस्मै येन विभाषितोऽयम् [भा।पु। १२.१३.१९]13 इत्य्-आद्य्-अनुसारेन सम्पूर्ण एव प्रकाशिते ।
तद् एवं श्रैष्ठ्य-जातम् अन्यत्रापि प्रायः सम्भवतु नाम सर्व-ज्ञान-शास्त्र-परम-ज्ञेय-पुरुषार्थ-शिरोमणि-श्री-भगवत्-साक्षात्कारस् तत्रैव सुलभ इति वदन् सर्वोर्ध-प्रभावम् आह किं वेति । परैः शास्त्रैस् तद्-उक्त-साधनैर् वा ईश्वरो भगवान् हृदि किं वा सद्य एवावरुध्यते स्थिरीक्रियते । वा-शब्दः कटाक्षे । किन्तु विलम्बेन कथञ्चिद् एव । अत्र तु शुश्रूषुभिः श्रोतुम् इच्छद्भिर् एव तत्-क्षणाद् अवरुध्यते ।
ननु इदम् एव तर्हि सर्वे किम् इति न शृण्वन्ति तत्राह कृतिभिर् इति सुकृतिभिर् इत्य् अर्थः । श्रवणेच्छा तु तादृश-सुकृतिं विना नोत्पद्यत इति भावः । अथवा अपरैर् मोक्ष-पर्यन्त-कामना-रहितेश्वराराधन-लक्षण-धर्म-ब्रह्म-साक्षात्कारादिभिर् उक्तैर् अनुक्तैर् वा साध्यैस् तैर् अत्र किं वा कियद् वा माहात्म्यम् उपपन्नम् इत्य् अर्थः । यतो य ईश्वरः कृतिभिः कथञ्चित् तत्-तत्-साधनानुक्रम-लब्धया भक्त्या कृतार्थैः सद्यस् तद्-एक-क्षणम् एव व्याप्य हृदि स्थिरीक्रैयते स एवात्र श्रोतुम् इच्छद्भिर् एव तत्-क्षणम् आरभ्य सर्वदैवेति । तस्माद् अत्र काण्ड-त्रय-रहस्यस्य प्रव्यक्त-प्रैत्पादनादेर् विशेषत ईश्वराकर्षि-विद्या-रूपत्वाच् च इदम् एव सर्व-शास्त्रेभ्यः श्रेष्ठम् । अत एवात्र इति पदस्य त्रिर् उक्तिः कृता । सा हि निर्धारणार्थेति । अतो नित्यम् एतद् एव सर्वैर् एव श्रोतव्यम् इति भावः ॥२॥
———————————————————————————————————————
**मधुसूदन-सरस्वती (परमहंस-प्रिया) : **ननु इदं पुराणं नारम्भणीयं, गतार्थत्वात् । तद्धि धर्मज्ञानार्थं वा, आत्मतत्त्वज्ञानार्थं वा, उपासनार्थं वा स्यात् । तत्र—
न प्रथमः कल्पः, विष्णुपुराणादिना गतार्थत्वात् ।
न द्वितीयः, चतुर्लक्षणीमीमांसया सिद्धेः ।
न तृतीयः, नारदपञ्चरात्रादिना गतार्थत्वात् । इति ।
अत आह—धर्मः प्रोज्झितकैतव इति । अत्र श्रीमद्भागवते परमो धर्मः । प्रतिपाद्यते इति शेषः । श्रीमत्त्वं च नानाविधरसव्यञ्जकमधुरशब्दवत्त्वम् । एवं च प्रमेयसाम्येऽपि न आरम्भवैयर्थ्यम् । धर्मशास्त्रादीनाम् ईदृशश्रीमत्त्वाभावात् । प्रमेयवैलक्षण्यस्यातिस्फुटत्वात् च सुतराम् अवैयर्थ्यम् । इति भावः ।
श्रीमति भागवते इतिवक्तव्ये श्रीमद्विशेषणस्य नित्ययोगख्यापनाय समासः कृतः । समस्यमानविशेषणविनिर्मोकेणाव्यवहारात् । वषट्कर्तुः प्रथमभक्ष्यः चमस इत्यत्र समासबलेनैव प्रथमत्वविशिष्टभक्ष्यान्तरविधानाभ्युपगमात् । वृत्तिश् च वाक्यं समासश्रुतिश् च । तथा च - भागवतस्वरूपप्रतीतिसमय एव श्रीमत्त्वप्रतीतेः उद्देश्यत्वात् - न अविमृष्टविधेयतांशतादोषः ।
अत्र प्रतिपाद्यानां श्रवणकीर्तनादिलक्षणानां धर्माणां बहुत्वेऽपि, भगवत्स्वरूपप्राप्तिलक्षणफलैक्यात् एकत्वम् । तथा च, एकफलको धर्मराशिः अत्र प्रतिपाद्यते । कर्मकाण्डात्मकधर्मशास्त्रेषु च विभिन्नफलानां धर्माणां प्रतिपादनात्, न पौनरुक्त्यम् । एतदभिव्यनक्ति - परम—इति । सर्वतः श्रेष्ठ इत्य् अर्थः ।
तथा च वक्ष्यति—
स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।
अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति । इति ।
एतेन - मन्वादिधर्मशास्त्रैः अगतार्थत्वम् - उक्तम् । तत्र—
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यम् आत्मनिवेदनम् ॥
इत्य्-आदिभागवतधर्माप्रतिपादनात् ।
ननु तथापि महाभारतेन गतार्थत्वम् । तथा च तत्रैव—
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥
इति भागवताश् च प्रतिपादिताः ।
अत आह—प्रोज्झितकैतव इति । कैतवं - कपटं - युधिष्ठिरादिचरितव्याजः । तत् भागवततात्पर्यकत्वेऽपि महाभारतेऽस्ति । न च अत्र कश्चिद् व्याजोऽस्ति इति, प्राधान्येन भागवतधर्मवर्णनम् अस्यार्थः । तथा च उपसंहरिष्यति—
कलिमलसंहतिकालनोऽखिलशो
हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।
इह तु पुनर्भगवानशेषमूर्तिः
परिपठितोऽनुपदं कथाप्रसङ्गः ॥ इति ।
एतच्च सर्वं व्यासनारदसंवादे स्फुटीभविष्यति । प्र-शब्देन विष्णुपुराणादिभिः अगतार्थत्वं सूचयति । तत्र हि सर्वात्मना न कैतवं प्रोज्झितं—
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्थाः नान्यस्तत्तोषकारणम् ॥
इत्य्-आदिना भागवतधर्माणाम् अपि वर्णाश्रमधर्मसापेक्षत्वकथनात् ।
अत्र तु—
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेः
भजन्नपक्वोऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रमभूदमुष्य
किं को वार्थ आप्तो भजतां स्वधर्मतः ॥
इत्य्-आदिप्रबन्धेन भागवतधर्माणाम् अन्यनिरपेक्षत्वप्रतिपादनात्, प्रकर्षेण कैतवम् उज्झितम् इति । एतच्च—
केचित् केवलया भक्त्या वासुदेवपरायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥
इत्यादौ स्फुटीभविष्यति ।** कैतवम्** अत्र फलाभिसन्धिः । प्र-शब्देन मोक्षाभिसन्धिर् अपि निरस्त । इति अन्ये ॥ तैर्महाभारतादिना गतार्थत्वं परिहर्तव्यम् । अत्र च धर्मः प्रोज्झितकैतव इतिपदाभ्याम् एव अपेक्षितार्थलाभे परम - पदं स्फुटार्थम् । अत्रपरम् - इत्येकं वा पदम् । यस्मिन् धर्मे अत्रपा - निर्लज्जा एव रमन्ते, स तथा । तथा च वक्ष्यति—
शृणून् सुभद्राणि रथाङ्गपाणेः
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तदर्थकानि
गायन्विलज्जो विचरेदसङ्गः ॥
विलज्ज उद्गायति नृत्यते च
मद्भक्तियुक्तो भुवनं पुनाति । इत्य्-आदि ।
ननु एवं सति भिन्नकर्मत्वापातः वर्णाश्रमाचारधर्मानपेक्षत्वात् । इति ।
अत आह—निर्मात्सराणां सताम्—इति । सन्तः - शुद्धान्तःकरणाः - रागद्वेषादिदोषशून्याः - साधवः । तेषाम् एव अयं वर्णाश्रमधर्मनिरपेक्षो भागवतो धर्म इत्य् अर्थः । तथा च वक्ष्यति—
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ इत्य्-आदि ।
तथा च, इह जन्मनि जन्मान्तरेऽनुष्ठितैः सुकृतैः शुद्धसत्त्वानां कुतो भिन्नकर्मत्वापातः, तत्सम्पादकरागद्वेषराहित्यात् । तथा च, अग्रे साधुलक्षणं तन्निष्ठां च वदिष्यति—
स वै मनः कृष्णपदारविन्दयोः
वचांसि वैकुण्ठगुणानुवर्णने । इत्य्-आदि ।
समत्वेनैव मात्सर्याभावसिद्धौ निर्मात्सराणाम् इत्यनेन सर्वभूतानुकम्पाया भागवतधर्मेष्वतिशयत्वं दर्शयति । मत्सरः - असूया - द्वेषस्य पूर्वावस्था सर्वदोषेषु अतिपापिष्ठतरा ।
अभेदभावस्य भक्तिवत् पृथगपेक्षणीयतां दर्शयिष्यति—
सोऽपि वक्रेऽचलां भक्तिं तस्मिन्नीशेऽखिलात्मनि ।
तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ इति ।
अत एवायं ग्रन्थः परमहंससंहिता इति समाख्यायते, सर्वभूताभयदानं विना परमहंसत्वाभावात् । एवं स्वरूपतः, प्रमेयतः, अधिकारितः च वैलक्षण्येन कर्मकाण्डेन अगतार्थत्वम् उक्त्वा; ज्ञानकाण्डेनापि तदाह—वेद्यम्—इत्य्-आदिना । यत् वास्तवम् - अबाध्यं वस्तु - प्रथमश्लोके दर्शितं, तद् अत्र - ग्रन्थे वेद्यं - वेदनार्हम् । सर्वेषाम् इति शेषः ।
शिवदम् इत्यनेन परमानन्दरूपतया तस्य पुरुषार्थत्वं कथितम् । शिवं ददाति सर्वेभ्य इति, शिवदम् । तथा च श्रुतिः—
को ह्येवान्यात् कः प्राण्याद् यदेष आकाश आनन्दो न स्यात् ।
एष ह्येवानन्दयति ।
इति आनन्दरूपस्यैव सतः सर्वानन्दहेतुत्वं दर्शयति । तापत्रयं च - आध्यात्मिकं - ज्वरशोकादि, आधिदैविकं - ग्रहावेशादि, आधिभौतिकं - व्याघ्रसर्पादि—इति । तस्य च उन्मूलनं - निःशेषविनाशनम् ।
तापत्रयोन्मूलनम् इत्यनेन सर्वानर्थनिवृत्तिरूपतया सर्वानर्थहेतोः अनाद्यविद्याया उच्छेदकत्वं सूचितम् । तथा च श्रुतिः—
तम् एव विदित्वातिमृत्युमेति,
निचाय्य तं मृत्युमुखात् प्रमुच्यते,
इत्य्-आद्या ततः सर्वानर्थनिवृत्तिं दर्शयति । एवञ्च, यत् परमपुरुषार्थभूतं शुद्धं ब्रह्म वासुदेवाख्यं चतुर्लक्षणीमीमांसया विचार्य मुमुक्षुभिः त्रैवर्णिकैः परमहंसपरिव्राजकैः एव कथञ्चित् वेदनीयं, तत् अत्र स्त्रीशूद्रादिभिः अपि वेदितुं शक्यम् इति महान् अतिशयः । स्त्रीशूद्रादीनां चतुर्लक्षणीमीमांसाश्रवणेऽनधिकारस्य तत्रैव व्युत्पादितत्वात् । मन्दमतीनां च त्रैवर्णिकानां तादृशदुरूहतर्केषु अप्रवेशात् । इह तु तत् तादृशरसव्यञ्जकैः एव शब्दैः कोमलोक्त्या भूयोभूयः प्रतिपादनात् मन्दमध्योत्तमानां सर्वेषां ब्रह्मवेदनं युक्तम् । इति भावः ।
ननु एवं सति अभिनवकविकाव्यस्यापि ब्रह्मप्रतिपादकस्य स्त्रीशूद्रादिश्रवणयोग्यत्वेन एतत्तुल्यता स्यात् इति आशङ्क्य; आह—महामुनिकृते—इति । महान् - भगवदवतारत्वात्, भगवान् बादरायणः । स एव मुनिः, सततं मननशीलत्वात् । तेनापि नारदोपदेशम् आसाद्य रचितम् एतत् । तथा च उक्तम्—
अष्टादशपुराणानां कर्ता सत्यवतीसुतः ।
कृष्णद्वैपायनं व्यासं विद्धि नारायणं स्वयम् ॥ इति ।
इतिहासपुराणं च पञ्चमो वेद उच्यते । इति च । तथा च, व्यासकर्तृत्वसाम्येऽपि वेदसामाख्यानात् चतुर्लक्षणीमीमांसातोऽपि उत्कृष्टम् एतत् । किमुत अभिनवकावव्यात् । इत्य् अर्थः । महामुनिकृते इत्यनेन पाठमात्रादपि महत् पुण्यं, प्रामाण्यं च अव्याहतम् इति सूचितम् । एवं ज्ञानकाण्डेन अगतार्थत्वम् उक्त्वा; उपासनाकाण्डेनापि तत् आह—किं वा परैः - इत्य्-आदिना ।
परैः - एतद्भिन्नैः - नारदपञ्चरात्रादिभिः ग्रन्थैः । किं वा इति कटाक्षे । न किञ्चिद् अपि प्रयोजनम् इत्य् अर्थः । तथा च, तैः निष्प्रयोजनैः सप्रयोजनस्य अस्य कुतो वैयर्थ्यम् इति भावः ।
ननु भगवदुपासनं तेषां प्रयोजनम् इति, कुतो निष्प्रयोजनत्वम् इति ।
अत आह—ईश्वर—इत्य्-आदि । ईश्वरः - परमात्मा - वासुदेवाख्यः प्रथमश्लोकोक्तः एतद्ग्रन्थश्रवणेच्छावद्भिर् अपि हृदि अवरुद्ध्यते - प्रेमरसनया बद्ध्यते; किं पुनः श्रवणपरैः । तदपि न विलम्बेन । किन्तु । सद्यः, तत्क्षणात् इति पदद्वयोपादानम् अतिशैघ्र्यसूचनाय ।
ईश्वरः - स्वतन्त्रः । तस्य अवरोधनं - स्वाधीनतया अवस्थापनम् । तदपि न विस्तृते देशे । किन्तु । स्वहृदि अतिसङ्कुचिते स्थाने । तदपि **श्रवणेच्छामात्रेणैव **। इति कियान् अतिशयो वक्तुं शक्यः । तत् किं पञ्चरात्रादिदेवताकाण्डं सर्वथा अनपेक्षितम् एव । तथा च, तदारम्भो व्यर्थः । इति । अत आह—कृतिभिः इति । कृतिनः - कुशलाः - रसभावनाचतुराः ।
तथा च, नीरसानाम् अकृतीनां तद् उपादेयम् इति, न आरम्भवैयर्थ्यम् इति भावः ।
अत्र शुश्रूषुभिः इति कृद्योगे न लोकाव्ययनिष्ठाखलर्थतृणाम् - इत्य्-आदिना षष्ठीप्रतिषेधात्, कर्मणि द्वितीया प्राप्ता चेत्; इमं शुश्रूषुभिः इतिवक्तव्येऽपि, अत्र इतिसप्तमी यथाकथञ्चित् विषयतामात्रेणैव इदं फलम् इति सूचयति । द्वितीयाप्रयोगे तु कर्तुरीप्सिततमं कर्म इति पाणिनीयस्मरणात्, ईप्सिततमत्वे सत्येव एतत् फलम् इतिभ्रमः स्यात् । एवञ्च, धर्मः प्रोज्झितकैतव इत्यत्र क्रियापदानभिधानं सर्वप्रकारेण अत्रैव धर्मस्य पर्यवसानं सूचयितुम् । एवं, वास्तवम् इत्यत्र कर्तृपदानभिधानम् अविशेषेणैव सर्वाधिकारसूचनार्थम् । इति न्यूनपदता न दोषः । एवञ्च, अस्मिन् ग्रन्थे भगवान्, भगवद्भक्तिः, तत्साधनीभूतो भागवतधर्मः, तदनुष्ठातारश् च एवं भागवताः प्रतिपाद्यन्ते इति ध्वनितम् । तथा च, सर्वशास्त्रापेक्षया श्रेष्ठत्वात्, इदम् एव सर्वदा श्रोतव्यम् इति भावः ॥२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-भागवतस्य शास्त्र-रूपत्वेन शास्त्राणां च जीव-हिताहित-प्रदर्शकत्वेन हिताहितयोश् चाधिकारि-निश्चयाशक्तेर् विषीदतः श्रोतॄन् आनन्दयन्न् अस्माद् एव सर्वतोऽपि सार एव पदार्थः सर्वैर् एव प्राप्तो भगव्तीति स्पष्टम् आह धर्म इति । अत्र श्रीमति भागवते ईश्वरः आश्रय-तत्त्वं श्री-कृष्णः कृतिभिर् निर्मत्सरैर् एव तत्-पद्योक्त-लक्षणाधिकारिभिर् इत्य् अर्थः । श्रवणादिभिः सद्य एव हृदि अवरुध्यते वशीक्रियत इति प्रेमा सूचितः, तस्य प्रेमैक-वश्यत्वात् । प्रणय-रसनया धृताङ्घ्र-पद्म [भा।पु। ११.१२.५५] इति । न रोधयति मां योग [भा।पु। ११.१२.१] इत्य्-आदिभ्यश् च । ततश् च तत्-क्षणाद् एव शुश्रूषुभिर् इति । तत्-क्षणम् आरभ्य तेषां श्रवणेच्छा च भवेद् इति श्रद्धातः पूर्वम् एव श्रवणे प्रेमा भवेत्, किं पुनः श्रद्धायां सत्याम् ? इति भावः । पाद्मे—सकृद् अपि परिगीतं श्रद्धया हेलया वा भृगुवर नर-मात्रं तारयेत् कृष्ण-नाम इतिवत् ।
तथा ह्य् उक्तम् अलौकिक-पदार्थानां शक्तेर् अचिन्त्यत्व-प्रस्तावे—यत्र स्वल्पोऽपि सम्बन्धः सद्-धियां भाव-जन्मने [भ।र।सि। १.२.११०] इति ईश्वरे मनः स्थिरीक्रियते इत्य् एव परम-पुरुषार्थ इउच्यते । अत्र ईश्वरो मनसि अवरुध्यते इति ततस् तन्-निर्गमणस्यासामर्थ्यं तच् चावरोधनं सद्य एव विनापि श्रद्धयेति क्वापि श्री-कृष्णाकर्षियं महा-विद्येति गम्यते ।
अत्र कृतिभिर् इति सद्य इति पदाभ्याम् अकृतिभिस् त्व् असद्यः किंचिद् विलम्बेनेति लभ्यते । भावुकाः पिबत [भा।पु। १.१.३] इति संसारिणां करुणायाह [भा।पु। १.२.३] इत्य् उक्तिभ्याम् उभयेषाम् अप्य् अत्राधिकारात् । श्लेषेण तस्य श्री-कृष्णस्य क्षणाद् उत्सवाद् हेतोर् इति । प्रेम-मयेन हृदा अवरोधाद् एव तस्य परमानन्द उत्पद्यत इति तत्-सुख-तात्पर्येण प्रेम्णा लक्षणम् अप्य् उक्तम् ।
अतः किं वा अपरैः शास्त्रैस् तद्-उक्त-साधनैर् वा ? न किम् अपि फलम् इत्य् अर्थः । एवम् अस्य शास्त्रस्य प्रयोजन-वैशिष्ट्यम् उक्तं कर्तर्य् अपि वैशिष्ट्यम् आह । महामुनिः श्री-भगवान् स मुनिर् भूत्वा समचिन्तयद् इति श्रुतेः । तेन कृते प्रथमं चतुःश्लोकि-रूपेण सङ्क्षेपतः प्रकाशिते—कस्मै येन विभाषितोऽयम् अतुल [भा।पु। १२.१३.१९] इत्य् उक्तस् ततः सम्पूर्ण एव प्रकाशिते ।
श्रवणादिभिः किम् अत्र ज्ञायते इत्य् अपेक्षायाम् आह वेद्यम् इति वास्तवम् आदि-मध्यावसानेषु स्थिरं यद् वस्तु तन् निर्मत्सराणां तु श्रवणाद्य्-आवृत्त्या मत्सरापगम एवेति । तैर् अपि नात्र प्रयत्नाभावः कर्तव्यः । तत् पक्षेऽपि वेद्यं वेदितुम् अर्हम् इत्य् अर्थ-लाभाद् इति भावः । तच् च भगवतः स्वरूपं नाम-रूप-गुणादि-वैकुण्ठादि-धामानि च भक्ताश् च भक्तिश् चेति अन्यज् जगद्-आदि-सर्व्म् अवान्तरम् अस्थिरं वस्त्व् इत्य् अर्थे लब्धे वैकुण्ठादि-जगद्-आद्योर् वस्तुत्वेऽपि वास्तवत्वावास्तवत्वाभ्यां भेदश् च बोधितः । ततश् च मिथ्याभूत-ख-पुष्पादिकम् एवावस्तु इत्य् आयातम् ।
वेदनेन किं स्यात् तत्राह शिवदम् । प्रेमवत् पार्षदत्वम् इत्य् अनुसंहितं फलं ताप-त्रय-विनाशो मोक्ष इत्य् अननुसंहितं फलं च दर्शितम् । अत्र किम् अनुष्ठेयम् इत्य् अपेक्षायाम् आह धर्म इति । प्रकर्षेण उज्झितं कैतवं फलाभिसन्धि-लक्षणं कपटं यस्मिन् स इति स-काम-कर्म-योगो व्यावृत्तः । प्र-शब्देन मोक्षाभिसन्धिर् अपि निरस्त इति । निष्काम-कर्म-शम-दमाद्य्-अङ्ग-ज्ञान-योगाष्टाङ्ग-योगाश् च व्यावृत्ताः । परम इति सर्व-श्रेष्ठत्वेन सर्व-सुकरत्वेन फल-प्राप्ताव् अप्य् अहेयत्वेन च शुद्ध-भक्ति-योग एव उक्त इत्य् अभिधेय-तत्त्वं विशिष्य दर्शितम् । स वै पुंसां परो धर्मः [भा।पु। १.२.६] इत्य् अग्रिमोक्तेर् अत्र पुं-मात्रस्यैवाधिकारित्वं ज्ञेयम् ।
तथा अत्रात्रेति पदस्य त्रिर् उक्तिर् निर्धारणार्था । अत्रैवेश्वरोऽवरुध्यते नान्यत्र । अत्रैव वास्तवं वस्तु वेद्यं नान्यत्र । अत्रैव प्रोज्झित-कैतवो धर्मो नान्यत्रेत्य् अन्य-योग-व्यवच्छेदकः । अत्रावरुध्यत एवेत्य् आदिर् अयोग-व्यवच्छेदकश् च ज्ञेयः ॥२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **बहु-शास्त्र-श्रुतैर् बहुभिः साध्य-साधनैर् व्याकुलान् श्रोतृन-भिमुखान् कर्तुम् अस्य शास्त्रस्य सर्वातिशायिनम् उत्कर्षम् आह—द्वाभ्यआम् । तत्र वाच्योत्कर्षात् प्रकाशकोत्कर्षाच् च तम् आह—धर्म इति । अत्र श्रीमति विषयतः शब्दोपन्यासाच् च मनोज्ञे भागवते परमः श्रेष्ठो धर्मो निरूप्यते स च धर्मोऽग्निहोत्रादिः, श्रवण-कीर्तनादिश् च । पारम्य-सम्पादनाय विशेषणं—प्रोज्झितेति । प्रोज्झितं सन्त्यक्तं कैतवं फलाभि-सन्धिर् यत्र सः । फलं च स्वर्गादि कृष्णान्यत्-तल्-लोक-सुखैश्वर्यं च क्रमात् । हृद्-विशुद्धेः कृष्णस्य च फलस्यानुसन्धिर् अस्त्य् एवेति ज्ञेयम् । न च श्रीमत्-त्वस्य समासेन न्यग्-भावाद्-अविमृष्ट-विधेयांशत्वम् एवं-नामत्वात्, क्वचिद्-भागवतम् इत्य् उक्तिस् तु भामेतिवद्-बोध्या । अत्र वस्तु वास्तवं च निरूप्यते, कुटस्थं स्वरूपतो गुणतश् च परिणाम-शून्यं वस्तु
यत् तु कालान्तरेणापि नान्य-सञ्ज्ञाम् उपैति वै ।
परिणामादि-संभूतां तद्-वस्तु नृप! तच् च किम् ॥ [वि।पु। २.१३.१००]
इति वैष्णव-वाक्यात् । वस्तुनस् तस्य नित्य-विभूति-लक्षणं परव्योम-शब्दितं श्रीमद्-गोकुलादि-धाम च सपरिकरं वास्तवम्, तच् च कीदृशम् इत्य् आह—निर्मत्सराणां निरहङ्काराणां सतां वेद्यम् इति मत्सरिणां मुख्यो नाधिकारः । ततः किम्? अत आह—शिवदं ताप-त्रयोन्मूलनम् इति—आध्यात्मिकादेस् ताप-त्रयस्योन्मूलनं ध्यातं सन्-निरवशेषतया विनाशकं मङ्गल-रूप-स्व-प्रदं चेति परम-पुरुषार्थ-प्रदायीत्य् अर्थः । अत्र कीदृशीत्य् आह—महा-मुनीति । स मुनिर् भूत्वा समचिन्तयद् इति श्रवणान्-महा-मुनिर् भगवान् । तेन कृते नारायण-रूपेण सङ्क्षेपतो, व्यास-रूपेण तु विस्तरतः प्रादुष्कृत इत्य् अर्थः । नन्व् इह शास्त्रान्तरवत् साध्य-साधनं कुतो न निरूप्यते? तत्राह—किं-वेति । अपायि-फलकैस् तैः शास्त्रैस् तद् उक्तैः साधनैश् च किं वेति । अत्र तु शुश्रूषुभिः श्रोतुम् इच्छद्भिर् अपि, किम् उत श्रुतवद्भिर् ईश्वरो निखिल-नियन्ताप्य् आश्रयतत्त्वं श्री-कृष्णः सद्यो जात-प्रेमभिर् हृद्य्-अवरुद्यते तत्-क्षणात् कालाव्यवधिना प्रेम-रसनया वशीक्रियत इत्य् अर्थः । यद् वा, —तस्य कृष्णस्य क्षणाद् उत्सवद्-धेतोर् इति प्रेम-मयेन हृदावरोधस् तस्य परमानन्दकरः, पद्म-कोशेनेव मधुपस्येति बोध्यम् । यद्य् एवं तर्ह्य् एतत् सर्वे कुतो न शृण्वन्ति? तत्राह—कृतिभिर् इति सत्-प्रसङ्ग-कुशलैर् इत्य् अर्थः । सत्-प्रसङ्गं विना दुर्लभम् इदम् इत्य् अर्थः । इहात्रेति त्रिरुपादानात् कथित-पदत्वं नाशङ्क्यं, तस्य निर्धारणार्थत्वात् व्याख्येयास्ते त्रयोऽर्थास् तथात्रैव नान्यत्रेत्य् अन्ययोग-व्यवच्छेदात् । परम-धर्मस्य तादृशस्य वस्तुनो वेद्यस्य भगवद्-वशीकारि-भक्तेश् च वाच्यस्य प्रकाशकस्य च महा-मुनेर् उत्कर्षात् शास्त्रस्य स दर्शितः, ईदृशत्वाद् एव सर्वेषां श्रोतव्यम् एतत् ॥२॥
॥ १.१.३ ॥
निगम-कल्प-तरोर् गलितं फलं
शुक-मुखाद् अमृत-द्रव-संयुतम् ।
पिबत भागवतं रसम् आलयं
मुहुर् अहो रसिका भुवि भावुकाः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **ज्ञात-फलस्यापि प्रशंसा-विधिभ्यां क्षिप्र-प्रवृत्तिर् भवतीति प्रशस्य विधत्ते । निगम-कल्प-तरोर् गलितम् इति । भगवता गलितं शुकेन द्रवीकृतम् । उक्तं च ब्रह्माण्डे—
धर्म-पुष्पस् त्व् अर्थ-पत्रः काम-पल्लव-संयुतः ।
महा-मोक्ष-फलो वृक्षो वेदो यं समुदीरितः ॥
पतितानि फलानीह कृष्ण-द्वैपायनेन तु ।
भारतादीनि यानीह तथा भागवतं भुवि ॥
आद्रीकृतानि तानीह शुक-प्रभृतिभिर् जनैः ।
ख्यापयद्भिर् गुरु-प्रोक्तान् वेदार्थान् ग्रन्थ-निष्ठिताम् ॥
कानिचिद् दर्शयामास वृक्षस्याग्रे फलानि तु ।
व्याचक्षमाणो वेदार्थं भगवान् लोक-पूजितः ॥
एतेषाम् अर्थन् तेषां वा रसान् पिबत सज्जनाः ।
आमोक्षान् महती तृप्तिर् अहो मे पश्यतो भवेत् ॥ इति ॥३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं तु न केवलं सर्व-शास्त्रेभ्यः श्रेष्ठत्वाद् अस्य श्रवणं विधीयते, अपि तु सर्व-शास्त्र-फल-रूपम् इदम् । अतः परमादरेण सेव्यम् इत्य् आह—निगामेति ।
निगमो वेदः, स एव कल्प-तरुः सर्व-पुरुषार्थोपायत्वात्, तस्य फलं भागवतं नाम । तत् तु वैकुण्ठ-गतं नारदेनानीय मह्यं दत्तम् । मया च शुकस्यमुखे निहितम् । तच् च तन्-मुखाद् भुवि गलितं शिष्य-प्रशिष्यादि-रूप-पल्लव-परम्परा शनैर् अखण्डम् एवावतीर्णं, न तूच्च-निपातेन स्फुटितम् इत्य् अर्थः । एतच् च भविष्यद् अपि भूतवन् निर्दिष्टम् । अनागताख्यानेनैवास्य शास्त्रस्य प्रवृत्तेः । अत एव्आमृत-रूपेण द्रवेण संयुतम् । लोके हि शुक-मुख-स्पृष्टं फलम् अमृतम् इव स्वादु भवतीति प्रसिद्धम् । अत्र शुको मुनिः ।
अमृतं परमानन्दः स एव द्रवो रसः । रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.७] इति श्रुतेः । अतो हे रसिकाः ! रस-ज्ञाः ! तत्रापि भावुकाः ! हे रस-विशेष-भावना-चतुराः ! अहो भुवि गलितम् इत्य् अलभ्य-लाभोक्तिः । इदं भागवतं नाम फलं मुहुः पिबत ।
ननु त्वग्-अष्ट्य्-आदिकं विहाय फलाद् रसः पीयते । कथं फलम् एव पातव्यं ? तत्राह—रसं रस-रूपम् । अतस् त्वग्-अष्ट्य्-आदेर् हेयांशस्याभावात् फलम् एव कृत्स्नं पिबत । अत्र च रस-तादात्म्य-विवक्षया रसवत्त्वस्याविवक्षितत्वाद् गण-वचनेऽपि रस-शब्दे मतुपः प्राप्त्य्-अभावात् तेन विनैव रसं फलम् इति सामानाधिकरण्यम् । तत्र फलम् इत्य् उक्ते पानासंभवो हेयांश-प्रसक्तिश् च भवेद् इति तन्-निवृत्त्य्-अर्थं रसम् इत्य् उक्तं रसम् इत्य् उक्ते गलितस्य रसस्य पातुम् अशक्यत्वात् फलम् इति द्रष्टव्यम् । न च भावतामृत-पानं मोक्षेऽपि त्याज्यम् इत्य् आह । आलयं लयो मोक्षः । अभिविधाव् आ-कारः । लयम् अभिव्याप्य । नहीदं स्वर्गादि-सुखवन् मुक्तैर् उपेक्ष्यते किं तु सेव्यत एव । वक्ष्यति हि—
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थंभूत-गुणो हरिः ॥ [भा।पु। १.७.११] इति ॥३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **त्रिकाण्डतोऽपि श्रैष्ठ्ये तदीयावयव-सारत्व-निर्देशेन दोष-परिहार-पूर्वकं कारणान्तरं योजयन् पूर्वतोऽपि वैशिष्ट्यम् आह—निगमेति ।
हे **भावुकाः **! परम-मङ्गलायनाः ! ये **रसिका **भगवत्-प्रीति-रसज्ञा इत्य् अर्थः, ते यूयं वैकुण्ठात् क्रमेण भुवि पृथिव्याम् एव गलितम् अवतीर्णं **निगम-कल्प-तरोः **सर्व-फलोत्पत्ति-भुवः शाखोपशाखाभिर् वैकुण्ठम् अध्यारूढस्य वेद-रूप-तरोर् यत् खलु रस-रूपं श्री-भागवताख्यं **फलं **तद् भुव्य् अपि स्थिताः **पिबत **आस्वाद्यान्तर्गतं कुरुत ।
**अहो **इत्य् अलभ्य-लाभ-व्यञ्जना भागवताख्यं यच् छास्त्रं तत् खलु रसवद् अपि रसैकमयता-विवक्षया रस-शब्देन निर्दिष्टम् । भागवत-शब्देनैव तस्य रसस्यान्यदीयत्वं व्यावृत्तम् । भागवतस्य तदीयत्वेन रसस्यापि तदीयत्वाक्षेपात् । शब्द-श्लेषेण च भगवत्-सम्बन्धि-रसम् इति गम्यते । स च रसो भगवत्-प्रीति-मय एव । यस्यां वै श्रूयमाणायां [भा।पु। १.७.७] इत्य्-आदि-फल-श्रुतेः । यन्-मयत्वेनैव श्री-भगवति रस-शब्दः श्रुतौ प्रयुज्यते रसो वै सः [तै।उ। २.७.१] इति । स एव च प्रशस्यते रसं ह्य् एवायं लब्ध्वानन्दी भवति इति । तत्र **रसिका **इत्य् अनेन प्राचीनार्वाचीन-संस्काराणाम् एव तद्-विज्ञत्वं दर्शितम् ।
**गलितम् **इत्य् अनेन तस्य सुपाकिमत्वेनाधिक-स्वादुमत्त्वम् उक्त्वा शास्त्र-पक्षे सुनिष्पन्नार्थत्वेनाधिक-स्वादुत्वं दर्शितम् । रसम् इत्य् अनेन फल-पक्षे त्वग्-अष्ट्य्-आदि-राहित्यं व्यज्यात्र च पक्षे हेयांश-राहित्यं दर्शितम् । तथा भागवतम् इत्य् अनेन सत्स्व् अपि फलान्तरेषु निगमस्य परम-फलत्वेनोक्त्वा तस्य परम-पुरुषार्थत्वं दर्शितम् ।
एवं तस्य रसात्मकस्य फलस्य स्वरूपतोऽपि वैशिष्ट्ये सति परमोत्कर्ष-बोधनार्थं वैशिष्ट्यान्तरम् आह **शुक **इति । अत्र फल-पक्षे कल्प-तरु-वासित्वाद् अलौकिकत्वेन शुकोऽप्य् अमृत-मुखोऽभिप्रेयते । ततस् तन्-**मुखं **प्राप्य यथा तत् फलं विशेषतः स्वादु भवति तथा परम-भागवत-मुख-सम्बन्धं भगवद्-वर्णनम् अपि । ततस् तादृश-परम-भागवत-वृन्द-महेन्द्र-श्री-शुकदेव-मुख-सम्बन्धं किम् उतेति भावः । अत एव परम-स्वाद-परम-काष्ठा-प्राप्तत्वात् स्वतोऽन्यतश् च तृप्तिर् अपि न भविष्यतीत्य् **आलयं **मोक्षानन्दम् अप्य् अभिव्याप्य **पिबत **इत्य् उक्तम् । तथा च वक्ष्यते—परिनिष्ठितोऽपि [भा।पु। २.१.९] इत्य्-आदि । अनेनास्वाद्यान्तरवन् नेदं कालान्तरेऽप्य् आस्वादक-बाहुल्येऽपि व्ययिष्यतीत्य् अपि दर्शितम् ।
यद् वा, तत्र तस्य रसस्य भगवत्-प्रीतिमयत्वेऽपि द्वैविध्यम्—तत्-प्रीत्य्-उपयुक्तत्वं तत्-प्रीति-परिणामत्वं चेति । यथोक्तं द्वादशे—
कथा इमास् ते कथिता महीयसां
विताय लोकेषु यशः परेयुषाम् ।
विज्ञान-वैराग्य-विवक्षया विभो
वचो-विभूतीर् न तु पारमार्थ्यम् ॥
यत् तूत्तमः-श्लोक-गुणानुवादः
सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णेऽमलां भक्तिम् अभीप्समानः ॥ [भा।पु। १२.३.१४-१५] इति ।
ततः सामान्यतो रसत्वम् उक्त्वा विशेषतोऽप्य् आह—**अमृत **इति । अमृतं तल्-लीला-रसः । हरि-लीला-कथा-व्रातामृतानन्दित-सत्-सुरं [भा।पु। १२.१३.११] इति द्वादशे श्री-भागवत-विशेषणात् । लीला-कथा-रस-निषेवणं [भा।पु। १२.४.४०] इति तस्यैव रसत्व-निर्देशाच् च । सत्-सुरम् इति सन्तोऽत्रात्मारामाः । इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य्-आदिवत् । त एव सुराः, अमृत-मात्र-स्वादित्वात् ।
अत्र त्व् अमृत-द्रव-पदेन लीला-रसस्य सार एवोच्यते । तस्माद् एवं व्याख्येयम्—यद्यपि प्रीति-मय-रस एव श्रेयान्, तथाप्य् अस्त्य् अत्र विवेकः । रसानुभविनो ह्य् अत्र द्विविधाः—पिबतेत्य् उपदेश्याः, स्वतस् तद्-अनुभविनो लीला-परिकराश् च । तत्र लीला-रसानुभविनो ह्य् अत्र परिकरा एव तस्य सारम् अनुभवन्ति अन्तरङ्गत्वात् । परे तु यत् किञ्चिद् एव बहिरङ्गत्वात् । यद्यप्य् एवं तथापि तद्-अनुभव-मयं रस-सारं स्वानुभव-मयेन रसेनैकतया विभाव्य पिबत । यतस् तादृशतया तादृश-शुक-मुखाद् गलितं प्रवाह-रूपेण वहन्तम् इत्य् अर्थः ।
तद् एवं भगवत्-प्रीतेः परम-रसतापत्तिः शब्दोपात्तैव । अन्यत्र च सर्व-वेदान्त-सारं हि [भा।पु। १२.१३.१५] इत्य् आदौ तद्-रसामृत-तृप्तस्य इत्य्-आदि । एवम् एवाभिप्रेत्य भावुका इत्य् अत्र रस-विशेष-भावना-चतुरा इति टीका । तथा स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् विहातुम् इच्छेन् न रस-ग्रहो जनः [भा।पु। १.५.१९] इत्य्-आदि ।
अत्र वैकुण्ठ-स्थित-कल्प-तरु-फलस्य रस-मात्र-रूपत्वं च यथा हयशीर्ष-पञ्चरात्रे पञ्च-तत्त्व-निरूपणे—
द्रव्य-तत्त्वं शृणु ब्रह्मन् प्रवक्ष्यामि समासतः ।
सर्व-भोग-प्रदा यत्र पादपाः कल्प-पादपाः ॥
गन्ध-रूपं स्वादु-रूपं द्रव्यं पुष्पादिकं च यत् ॥
हेयांशानाम् अभावाच् च रस-रूपं भवेद् धि तत् ।
त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् ॥
सर्वं तद् भौतिकं विद्धि न ह्य् अभूतमयं हि तत् ।
रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ इति ।
अत्र वैकुण्ठ इति तत्-प्रकरण-लब्धम् ॥३॥
———————————————————————————————————————
**मधुसूदन-सरस्वती (परमहंस-प्रिया) : **एवं तावत् प्रथमश्लोकेन शास्त्रार्थस्य परमपुरुषावयवत्वम् उक्तम् । द्वितीयश्लोकेन शास्त्रस्य परमपुरुषापेक्षसाधनत्वम् । शास्त्रम् एव परमपुरुषार्थ इति तृतीयश्लोकेन आह—निगम इत्य्-आदिना । निगमो - वेदः । स एव कल्पतरुः । बहुशाखत्वात्, अशेषपुमर्थप्रदातृत्वात् च । तस्य फलं सारभूतम् । भागवतम् - असाधारण्येन भगवत्प्रतिपादकं पुराणम् ।
पुनः पुनर्वेदमालोच्य रचितत्वात्, तस्य वेदफलत्वम् । सर्ववेदार्थस्य रससङ्ग्रहभूतम् इत्य् अर्थः । तथा च वक्ष्यति—
भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ इति ।
भगवद्भक्तेः सर्ववेदार्थसारत्वात्, तत्प्रतिपादकम् इदं सर्वतः सारभूतम् । पिबत - संसारतापरूपपिपासोपशान्तये श्रवणपुटैः सर्वं हृद्गतं कुरुत । हे रसिकाः - असाधारण्येन रसव्यवहर्तारः । पुनः कीदृशाः । भावुका - विभावानुभावाद्यर्थोपनयचतुराः । भावका इति पाठेऽपि स एवार्थः । स्थायिभावमात्रवत्त्वेन रसिकत्वेऽपि, विभावाद्युपनयासामर्थ्य सति स्वादो न स्यात् । विभावाद्युपनयोऽपि स्थायिभावे असति व्यर्थः । इति विशेषणद्वयेन चातुर्यातिशयो ध्वन्यते ।
एतादृशरसानास्वादे रसिकत्वं युष्माकं व्यर्थम् एव स्यात् इत्य् अर्थः ।
फलस्य कथं पानम्—इति । अत आह—रसम्—इति । त्वगष्ट्यादिस्थानीयासारांशाभावात्, रसमात्ररूपत्वेन पानसम्भव इत्य् अर्थः । रसत्वेऽपि माधुर्य्यातिशया(।यत्वा)भावात् अनास्वाद्यत्वं फलस्य इति । अत आह—अमृतद्रवसंयुतम् इति । अमृतं - मोक्षः । तस्य द्रवः - गतिः - प्राप्तिः । तत्सहितम् । इति परमार्थकल्पतरुफलस्य अमृत्स्वादुत्वेन प्रसिद्धत्वात्, अमृतद्रवसंयुतत्वम् । एतादृशस्यापि साक्षात् न पेयत्वम् अस्ति इति, रसत्वम् उक्तम् । रसत्वेऽपि माधुर्य्यातिशया(।यत्वा)भावे न पेयत्वम् इति, उभयम् उक्तम् इति । आलयम्—इति । लयो - मोक्षः । तम् अभिव्याप्य इत्य् अर्थः । एतत्पानस्यैव मोक्षहेतुत्वात्, अनायासेन मोक्षः सम्पत्स्यते इति; अमृतद्रवसंयुतम् इत्यत्र सूचितम् । एतेन - व्याध्यादिप्रतिबन्धाभावोऽपि - व्याख्यातः । जीवन्मुक्तेरनुपपत्तेः ।
ननु कल्पतरुफलं देवभोग्यं कथमस्माभिः लभ्यताम् । अत आह—शुकमुखाद् भुवि गलितम् इति । अहो इति अलभ्यलाभोक्तिः । शुकेन मुनिना परीक्षिते उपदिष्टं, तत् श्रुत्वा सूतेन शौनकादिभ्यः कथितम् । ततो लोके प्रवृत्तम् इत्य् अर्थः ।** निगमो** - महानङ्कः; स्थानीयं निगम—इति कोषात् । तस्य यः कल्पतरुः - सुरतरुसदृशः उत्तमवृक्षः - आम्रादिः, तस्य फलं रसं - परिपक्वतया रसभूयिष्ठम् अमृतकल्पेन द्रवेण संयुतं भागवतम् - ऐश्वर्यविशेषसम्पन्नस्य महीपतेर्भोग्यं शुकस्य - पक्षिणो मुखात् गलितत्वादेव दुरापम् अपि समासादितम् आलयं - सौकृत्यविशेषवशात् इन्द्रियाणां लयपर्यन्तं कश्चित् सुकृती पिबति । तद्वत् । इति निगमशुकादिव्यङ्ग्य उपमालङ्कारः । रसमा - रससम्पत्, तस्या आलयम् इति रसमालयम् - इत्येकं वा पदम् । निर्गलितास्तु हे रसिकाः भावकाः भागवतं - भगवद्विषयं रसं - भगवद्भक्त्याख्यं पिबत - आस्वादयत आलयं - मनोलयपर्यन्तं; भगवद्भक्तिरसस्य मनोलयहेतुत्वात् । तस्य परमदुर्लभत्वम् आह—फलम् इति । सर्वसुकृतकर्मफलभूतम् । तथा च वक्ष्यति—
दानव्रततपोहोमजपस्वाध्यायसंयमैः ।
श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥ इति ।
एतादृशस्यापि प्राप्तौ दृष्टोपायमाह—**निगमकल्पपतरोः **। निगमो - भागवताख्यः पञ्चमो वेदः । स एव कल्पतरुः, अनेकस्कन्धशोभितत्वात् । तस्मात् गलितं - भागवतात्मना महाकाव्येन व्यञ्जितम् इत्य् अर्थः । वृक्षस्य केनचिद् द्वारेणैव रसव्यञ्जकत्वं दृष्टम् इति; तदर्थं वृक्षं विशिनष्टि - शुकमुखात् इति । शुको - बादरायणिः, मुखं - द्वारं यस्य; तस्मात् निगमकल्पतरोः । शुकपरीक्षित्संवादरूपसम्प्रदायप्रवृत्तिम् अन्तरेण तत्र रसानुभवो न स्यात् इत्य् अर्थः । पुनः कीदृशेन - **अमृतद्रवसम् **। अमृतद्रवो - देवभोग्यो रसो, मोक्षगतिः च । तं स्यति - खण्डयति - निकृष्टताम् आपादयति इति; तथा । भक्तिरसानुभवे स्वर्गमोक्षयोः वाञ्छानुदयात् । तथा च ध्रुवो वक्ष्यति—
या निवृत्तिस्तनुभृतां तव पादपद्म-
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किम्वन्तकासिलुलितात् पततां विमानात् ॥
न नाकपृष्ठं न च सार्वभौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥
इति च नागपत्नीवचनम् । एतादृशं कथमस्माभिः लभ्यताम् । अत आह—**भुवि युतम् **। अहो इति भाग्यातिशयोक्तिः । अत्र च भक्तिरसानुभवासाधारणकारणत्वेन, भागवतस्य रसतादात्मम्यविवक्षया; सामानाधिकरण्यम् । रसस्य तत्तादात्म्येन, भागवताख्यं पुराणम् अपि परमः पुमर्थ इति तत्र प्रवृत्तये न पृथक् यतितव्यम् इति अभिप्रायः ॥३॥
॥ इति श्रीमत्परमहंपरिव्राजकाचार्यविश्वेश्वरसरसवतीपूज्यपादशिष्यश्रीमन्मधुसूदनसरस्वतीकृता श्रीमद्भागवतप्रथमस्कन्धस्य
आद्यपद्यत्रयव्याख्या सम्पूर्णा ॥
॥ हरिः ॐ तत् सत् ॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवम् अस्य शास्त्र-शिरोमणेर् ईश्वरावरोधकत्वादि-प्रभाव-मयम् ऐश्वर्यम् उक्त्वा माधुर्यं चाह निगमेति । **निगमो **वेदः स एव **कल्प-तरुः **। तस्य स्वाश्रितेभ्यो वाञ्छित-विविध-पुरुषार्थ-रूप-फल-दायित्वेऽपि तरुत्वात् यत् साहजिकं तद् इदं भागवतं फलम् । श्लेषेण भगवत्-स्वादिकम् इदं तेनैव स्वभक्तेभ्यो दत्तम् इति तान् विना न कस्याप्य् अन्यस्यात्र स्तवारोपे शक्तिर् इति भावः ।
गलितम् इति वृक्ष-पक्वतया स्वयम् एव पतितं न तु बलात् पातितम् इति स्वादु-सम्पूर्णत्वम् । न चोच्च-निपातनेन स्फुटितं नाप्य् अनतिमधुरं चेत्य् आह **शुकेति **। परमोर्ध्व-चूडातः श्री-नारायणाद् ब्रह्म-शाखायां ततः शुक-मुखं प्राप्य आतपान् मध्व् इव अमृत-द्रव-संयुतम् । शुकेनैव तेन स्व-चञ्च्वा अमृत-निष्क्रामणार्थं द्वारम् अपि कृतम् । अथ च तेन स्वादितत्वाद् अतिमधुरं ततः सुतादि-शाखातः शनैः शनैः पतनाद् अखण्डितं तेन गुरु-परम्परां विना स्व-बुद्धि-बलेनास्वादने श्री-भागवतस्य खण्डितत्वे पानासक्तिः सूचिता ।
ननु कथं फलम् एव पातव्यम् ? इत्य् अत आह रसम् इति । रस-स्वरूपम् एवेदं फलं नात्र त्वग्-अष्ट्य्-आदि-हेयांशोऽस्तीति भावः । लयो मोक्षः सालोक्यादि-जीवन्मुक्तत्वं वा तम् अभिव्याप्य तत्र भगवल्-लीला-गान-प्रसिद्धेः । यद् वा, लयः रसास्वाद-जनितः प्रलयोऽष्टमः सात्त्विकस् तत्-पर्यन्तं पिबतेत्य् अनेन पाने स्तम्भाद्याः सात्त्विका भवन्तीति ज्ञेयम् । तत्र प्रलये सति पानस्यास्पष्टत्वाद् यद्यपि विरामस् तद् अपि पुनः प्रबोधे सति पुनर् अपि प्रलय-पर्यन्तं पिबतु न तु त्यजतेति **मुहुर् **इति पदम् । यद् वा मुहुर् इति पीतस्यापि पुनः पाने स्वादाधिक्यम् एवेति । अहो इत्य् अतिविस्मये । **रसिकाः **हे रसज्ञा ! इति भक्तानाम् एव जात-रतित्वाद् रतेर् एव स्थायि-भावत्वात् स्थायिन एव रस्यमानत्वात् नात्र ज्ञानि-कर्मि-योगिनां कोऽपि दाय इति भावः ।
हे भावुकाः ! तत एव यूयम् एव कुशलिनो अन्येऽमङ्गला एवेति भावः । भावका इति पाठे भावकत्व-व्यापारवन्तः । तथा हि भावकत्व-व्यापारेण भाव्यमानः स्थायी भुज्यत इति भट्ट-नायक-मतम् । तत्र श्लेषेण भगवतः स्वरूपं रस एव भवति । तथा हि तैत्तरीयकोपनिषदि ब्रह्म-विद् आप्नोति परं [टैत्तू १] इत्य् उक्त्वा ब्रह्मणः सकाशाद् आकाशादि-क्रमेणोन्नमय-विराट्-पुरुष-पर्यन्तां सृष्टिम् उक्त्वा तस्य चान्तर् अन्तः-क्रमेण तस्माद् वा एतस्माद् अन्येऽन्तर इत्य्-आदिना अन्न-मय-प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मया आम्नायन्ते तेष्व् अपि आनन्द-मयस्यैव आनन्द-मयोऽभ्यासाद् [वे।सू। १.१.१३] इत्य् अनेन ब्रह्मत्वम् । मत-भेदे च तत्-पुच्छस्यैव आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठा [टैत्तू ५] इत्य् अनेन ब्रह्मत्वं ब्रह्मण एव प्रतिष्ठात्वं च प्रतिपादितम् । तद्-अनन्तरं च रसो वै स रसं ह्य् एवायं लब्ध्वानन्दी भवति [टैत्तू ७] इति श्रुतेः । तत्र श्रुतौ च स इत्य् अनेन प्रक्रान्त आनन्द-मयो वा तत्-पुच्छं ब्रह्म वा न परामृश्यते पृथक् पृथग् उत्तरोत्तरार्थ-प्रकर्ष-प्रक्रम-भङ्गापत्तेः ।
ततश् च तस्या अयम् अर्थः—स प्रसिद्धो वै निश्चितं रस एव आनन्द-मयात् तह्ता ब्रह्मतोऽपि आन्तरः प्रकृष्टः । ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इत्य् अनेन श्री-कृष्णस्यैव ब्रह्मणः प्रतिष्ठात्वम् । मल्लानाम् अशनिर् [भा।पु। १०.४३.१७] इत्य् अत्र तस्मिन्न् एव यौगपद्येन सर्व-रस-साक्षाद्-उपलब्धेस् तत्र च शृङ्गारादि-सर्व-रस-कदम्ब-मूर्तिर् भगवांस् तद् अपि प्रायेण बभाव् इति श्री-स्वामि-चरणानां व्याख्यानाच् च तस्यैव सर्व-रस-रूपत्वं चातः श्री-गीता-श्री-भागवताभ्याम् एव रस-शब्देन श्री-कृष्ण एव व्याख्यातः । तम् एवायं विज्ञान-मयो लब्ध्वा आनन्द-परावधि-काष्ठां प्राप्नोति— सैषानन्दस्य मीमांसा भवति [टैत्तू ८] इति तद्-उत्तर-श्रुत्या रस एव तस्मिन्न् आनन्द-विचार-पर्यवसान-ज्ञापनात् । यद् वा, अयम् आनन्द-मयोऽपि द्विजात्मजा मे युवयोर् दिदृक्षुणा [भा।पु। १०.८९.५०] इति विस्मापनं स्वस्य च सौभगर्धेः [भा।पु। ३] इत्य्-आदिभ्यस् तम् एव लब्ध्वानन्दी भवतीति ।
ततश् च तं रसं श्री-कृष्णं फलं निगम-कल्प-तरोस् तस्मात् सकाशाद् गलितं न तु तत्र साक्षात् स्थितम् इति । तद्-अर्थं निगमो नान्वेष्टव्यः किन्तु शुक-मुखम् एवेत्य् आह—शुक-मुखाद् इति । फलम् इदम् अतिस्वादु ज्ञात्वा ततः आकृष्य आनीय व्यासेन स्नेहात् स्व-पुत्र-मुख एव निहितम् इति संभाव्यत इति भावः । किं वा, शुक-मुखाद् इति हेतौ पञ्चमी—येषाम् अहं प्रिय आत्मा [भा।पु। इत्य्-आदि शुक-वाक्य-प्रामाण्यात् । भुवि व्रज-भूमाव् उत्पद्य हे **भावुकाः रसिकाः **प्रियाः सत्यः **भागवतं **भगवत्-स्वरूप-भूत-रस-माधुर्यं **पिबत **।
यद् वा, भगवतः श्री-कृष्णस्य **रसम् आलयं **लयः श्लेष आलिङ्गनम् इति यावत् तम् अभिव्याप्य । अमृतोऽनश्वरो यो **द्रवो **मनो-नयन-द्रौत्यं तत्-**संयुक्तं **यथा स्यात् तथा पिबतेत्य् अधर-पानं सूचितम् । इदम् एव **निगम-कल्प-तरोर् गलितं **परिपक्वं फलम् इति फलतो गोपी-जनानुगति-मयी रागानुगाख्या भक्तिर् आदिष्टा । यतो निगमोऽपि तल्-लोभाद् एव बृहद्-वामन-दृष्टां तादृशीं भक्तिं विधाय व्रज-भूमाव् उत्पद्य शत-सहस्रशो गोप्यो भूत्वा तद्-अधरामृत-रसं पपाव् इति । वेद-स्तुतौ दृष्टम् इति अतिरहस्योऽर्थः ।
ननु ब्रह्मणो हि प्रतिष्ठाहम् इत्य् एतत् केचिद् अन्यथा व्याचक्षते सत्यम् । तद्-अप्रकारणिकत्वात् कल्प्यत्वाद् अयुक्तम् एव मन्तव्यं किन्त्व् एवम् एव युक्तम् । तथा हि—
मां च योऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ [गीता १४.२६-७] इति ।
अनयोर् अर्थः14— ननु तद्-भक्त्या कथं निर्गुण-ब्रह्म-प्राप्तिः ? सा तु अद्वितीय-तद्-एकानुभवेनैव भवेत् । तत्राह ब्रह्मणो हीति । हि यस्मात् परम-प्रतिष्ठात्वेन प्रसिद्धं श्रुतौ यद् ब्रह्म तस्याप्य् अहं प्रतिष्ठा प्रतिष्ठीयतेऽस्मिन्न् इति प्रतिष्ठा आश्रयोऽन्न-मयादिषु श्रुतिषु सर्वत्रैव प्रतिष्ठा-पदस्य तथार्थत्वात् । अत एवामृतस्य मोक्षस्याप्य् अहं प्रतिष्ठा तस्य लक्षणया स्वर्गादि-परत्वं वारयति अव्ययस्येति । यथा शाश्वतस्य साधन-फल-दशयोर् अपि स्थितस्य धर्मस्य भक्त्य्-आख्यस्य अहं प्रतिष्ठा । तथा तत्-प्राप्यस्यैकान्तिकस्य सुखस्य प्रेम्णश् च प्रतिष्ठा । अतः सर्वस्यापि मद्-अधीनत्वात् कैवल्य-कामनया कृतेन मद्-भजनेन ब्रह्मणि लीयमानो ब्रह्मत्वम् अपि प्राप्नोतीति ।
अत्र श्री-विष्णु-पुराणम् अपि प्रमाणम्— शुभाश्रयः स चित्तस्य सर्वगस्य तथात्मनः [वि।पु। ६.७.७६] इति । व्याख्यातं च तत्रापि स्वामि-चरणैः । सर्वगस्यात्मनः पर-ब्रह्मणोऽपि आश्रयः प्रतिष्ठा । तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् इति । तथा विष्णु-धर्मेऽपि नरक-द्वादशी-प्रसङ्गे -
प्रकृतौ पुरुषे चैव ब्रह्मण्य् अपि स प्रभुः ।
यथैक एव पुरुषो वासुदेवो व्यवस्थितः ॥ इति ।
तत्रैव मासर्क्ष-पूजा-प्रसङे—
यथाच्युतस् त्वं परतः परस्मात्
स ब्रह्म-भूतात् परतः परात्मा ।
तथाच्युत त्वं कुरु वाञ्छितं तन्
ममापदं चापहराप्रमेये ॥ इति ।
तथा हरि-वंशेऽपि विप्र-कुमारानयन-प्रसङ्गे अर्जुनं प्रति श्री-भगवद्-वाक्यं—
तत्-परं परमं ब्रह्म सर्वं विभजते जगत् ।
ममैव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ [ह।वं। २.११४.११-१२]
ब्रह्म-संहितायां [५.४०] अपि—
यस्य प्रभा प्रभवतो जगद्-अण्ड**-कोटि-**
कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ।
अत एव श्रुतिश् च गोपाल-तापनी [२.९५]—योऽसौ जाग्रत्-स्वप्न-सुसुप्तिम् अतीत्य तुर्यातीतो गोपालः॥। तस्मै वै नमो नमः इति ॥३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ स्वरूप-गतस् तम् आह—निगमेति । हे रसिका निगम-कल्पतरोः फलं भागवतं पिबत, तस्य वा एतस्य महतो श्रूतस्य निःश्वसितम् एतद् यद् ऋग्-वेदो यजुर् वेदः साम-वेदोऽथर्वाङ्गिरस इतिहासः । पुराणम् इत्य्-आदि बृहद्-आरण्यकात् [ब्र्।आ।उ। २.४.१०—४.५.११] ऋग्-वेदं भगवोऽध्यमि यजुर् वेदं साम-वेदम् अथर्वाणं चतुर्थम् इतिहासं पुर्वाणञ् च पञ्चमं वेदानां वेदम् इति चन्दोग्याच् च [छा।उ। ७.१.१] निगमः षोडावस्थितो वेदः स एव निखिल-फल-दत्वात् कल्प-तरुस् तस्य फलं कीदृग् इत्य्-आह—भुवि गलितं ब्रह्म-नारदादि-परम्परया पृथिव्यां प्राप्तम् इति सम्प्रदायापेक्षा दर्शिता । अहो इति दुर्लभ-लाभ-व्यञ्जना ।
ननु, फलं कथं पेयं? तराह—रसम् इति तथा चामृत-केल्यादि-मिष्ट-वस्तुवद्-रस-रूपं त्वगादि-शुन्यम् । अतः पेयम् इति । तत्रापि शुक-मुखाद् इति—आतपान्मध्विव तन्-मुखात्-तत्-प्राप्यामृत-द्रवेण संयुतं प्रीत्युज्जृम्भितेन तत्-स्वरेण नैरपेक्ष्याभ्युदित-प्रवचन-माधुर्येण चातिस्वादुतां प्राप्तम् इत्य् अर्थः । इदं भविष्यद् अपि वाल्मीकेन रघुपति-कृतम् इव द्वैपयनेन पूर्वम् एव सार्वज्ञ्याद् उक्तं बोध्यम् ।
ननु किम् अवधि पेयं? तत्राहालयम् इति । लयो भगवत्-पद-संश्लेषणं तम् अभिव्याप्येति मोक्षेऽपीत्य् अर्थः । एतत् साम गायन्न् आस्ते तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरयः [ऋक् १.२२.२०] इत्य्-आदिषु तदापि कीर्तनादि-भक्तेः श्रवणाद्-अतिस्वादुत्वेन हातुम् अशक्यत्वाच् च । एवम् आह—सूत्रकारः आप्रायणात्तत्रापि हि दुष्टं [वे।सू। ४.१.१२] इति । इदम् अत्र बोध्यं—यद्य् अपि भगवन्-निश्वसितत्वात् सर्वोऽपि निगमश् चिदानन्दात्मक-वर्णराशिस् तथापि वाच्य-लघुत्वात्-तस्य तथात्वं तिरोधत्ते अस्य तु तद्-भागस्य वाच्यमहत्त्वाच् च रसात्मक-फल-रूपत्वं प्रस्फुरदस्तीति । यच्-चेह पुण्ययशसां राज्ञां चरितम् उपयोगि, तद् अपि लवणाकर-निपात-न्यायेन तद्-रूपं ज्ञेयं । हे भावुकाः ! शुभवेशाः सन्त इति पशु-हिंसकानां कर्मिणां व्यावृत्तिः । वेद-रूपेऽप्य् अस्मिन् इतिहास-पुराण-भागे स्त्री-शूद्र-द्विज-बन्धूनां [भा।पु। १.४.२५] इत्य्-आदि-वाक्य-बलाद् एव शूद्रादेर् अधिकारः । वर्षासु रथ-कारोऽग्नीनादधीत इति विधि-बलाद् एव सङ्करजातेर् अपि रथ-कारस्याग्न्याधानाङ्गे मन्त्रे यथा स तद्वत् । एवम् एभिस् त्रिभिः शास्त्रस्य विषय-सम्बन्ध-प्रयोजनाधिकारिणः प्रदर्शिताः । तेषु सत्यं परम् इति विषयः । वास्तवं वस्त्वत्र वेद्यम इति वाच्य-वाचक-भावः सम्बन्धः । शिवदं ताप-त्रयोन्मूलनम् आलयं इत्य्-अनुवृत्त-भक्तिक-स्तादृशो मोक्षः प्रयोजनम् । निर्मत्सराणां सतां वेद्यम् इत्य्-अधिकारी चेत्य् अनुबन्ध-चतुष्टयं । सनिष्ठः परिनिष्ठितो निरपेक्षश् चेति त्रि-विधोऽधिकारी । तत्र स्वविहितान् धर्मान् हर्याराधन-धियाचरन् लोकवैचित्रीञ् च दिदृक्षुः प्रथमः । लोक-सञ्जिघृक्षया तान् आचरन् हरि-भक्ति-निरतो द्वितीयः । सत्य-तपो-जपैर् विशुद्धो हर्येकनिरतस् तु तृतीयः । आद्यो मध्यश् च साश्रमः कर्माणि च तयोर् अप-शुकान्य् एव । चरमस् तु निराश्रम एवेति यथा-स्थलं व्यक्ती-भविष्यतीति ॥३॥
॥ १.१.४ ॥
ॐ
नैमिषेऽनिमिष-क्षेत्रे ऋषयः शौनकादयः ।
सत्रं स्वर्गाय लोकाय सहस्र-समम् आसत ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **प्रकारान्तरेण पुरुषार्थ-शङ्क-निवृत्त्य्-अर्थम् आख्यायिका पाद्मे च—
आख्यायिकाः प्रदर्श्यन्ते सर्व-वेदेषु सर्वशः ।
द्योतयन्त्य् अस्तु महतां तात्पर्यां तत्र तत्र ह ॥
अलाभः पुरुषार्थस्य प्रोक्तम् अर्थम् ऋते त्व् इति ।
द्योतनाय महाराज श्रद्धा-वृद्ध्य्-अर्थम् एव च ॥ इति ॥४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवम् अनेन श्लोक-त्रयेण विशिष्टेष्ट-देवतानुस्मरण-पूर्वकं प्रारिप्सितस्य शास्त्रस्य विष्य-प्रयोजनादि-वैशिष्ठ्येन सुख-सेव्यत्वेन च श्रोतॄन् अभिमुखी-कृत्य शास्त्रम् आरभते नैमिश इति । ब्रह्मणा विसृष्टस्य मनोमयस्य चक्रस्य नेमिः शीर्यते कुण्ठी-भवति यत्र तन् नेमिशम्, नेमिशम् एव नैमिशम् । तथा च वायवीये—
एतन् मनोमयं चक्रं मया सृष्टं विसृज्यते ।
यत्रास्य शीर्यते नेमिः स देशस् तपसः शुभः ॥
इत्य् उक्त्वा सूर्य-सङ्काशं चक्रं सृष्ट्वा मनोमयम् ।
प्रणिपत्य महादेवं विससर्ज पितामहः ॥
तेऽपि हृष्टतमा विप्रा प्रणम्य जगतां प्रभुम् ॥
प्रययुस् तस्य चक्रस्य यत्र नेमिर् व्यशीर्यत ।
तद् वनं तेन विख्यातं नैमिशं मुनि-पूजितम् ॥ इति ।
नैमिष इति पाठे वराह-पुराणोक्तं द्रष्टव्यम् । तथाहि गौरमुखम् ऋषिं प्रति भगवद्-वाक्यम्—
एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा ।
उवाच निमिषेणेदं निहतं दानवं वलम् ॥
आरण्येऽस्मिंस् ततस् त्व् एतन् नैमिषारण्य-सञ्ज्ञितम् ।
भविष्यति यथार्थं वै ब्राह्मणानां विशेषकम् ॥ इति ।
अनिमिषः श्री-विष्णुः । अलुप्त-दृष्टित्वात् । तस्य क्षेत्रे । तथा चात्रैव शौनकादि-वचनंऽक्षेट्रेऽस्मिन् वैष्णवे वयम्ऽ इति । स्वः स्वर्गे गीयत इति स्वर्गायो हरिः । स एव लोको भक्तानां निवास-स्थानं तस्मै । तत्-प्राप्तय इत्य् अर्थः । सहस्रं समाः संवत्सरा अनुष्ठान-कालो यस्य तत् सत्रं सत्र-सञ्ज्ञकं कर्मोद्दिश्य आसत उपविविशुः । यद् वा आसताकुर्वतेत्य् अर्थः । आलभेत निर्वपति उपयन्तीत्यादिवत्-प्रत्ययोच्चारण-मात्रार्थत्वेनास्तेर् धात्व्-अर्थस्याविवक्षितत्वात् ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्रापि महा-पुराणस्यास्य प्रश्नोत्तराभ्यां श्री-कृष्णैक-परत्वं दर्शयितुम् आह—ॐ नैमिष इत्य्-आदि । टीकायाम् आसतेत्य् अस्य व्याख्यान्तरे त्व् इदं ज्ञेयम् । तत्-तद्-धात्व्-अर्थस् तत्र तत्र न सम्भवतीति धातुं विना च केवल-प्रत्ययोच्चारणं न युज्यत इति प्रत्ययस्य तिवादेर् अर्थः प्रयोजनं यत्र तादृशतया धात्व्-अर्थस्याविवक्षितत्वात् कृञ्-अर्थानुगत-कर्तृ-वाचि-प्रत्ययेन कृञ्-अर्थस् तु समर्प्यत इति ॥४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।
लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥
तमश् छन्न-दृशां यैर् नः कृते भावार्थ-दीपिका ।
कृता कृपालवस् तेऽत्र श्रीधर-स्वामिनो गतिः ॥
व्याख्या लेख्या तदीया या भक्त-चित्त-प्रमोदिनी ।
काचित् प्रभूनां काचित् तु श्रीमद्-गुरु-कृपोदिता ॥
तद् एवं श्रोतॄन् अभिमुखीकृत्य श्री-भागवत-कथारम्भे पुनर् मङ्गलम् आचरति ॐ इति । यद् उक्तं—
ओङ्कारश् चाथ-शब्दश् च द्वाव् एतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकाव् उभौ ॥ इति ।
शास्त्रस्यास्य प्रणवार्थ-विवृति-रूपत्वं सूचयति नैमिश इति । ब्रह्मणा सृष्टस्य मनो-मय-चक्रस्य नेमिः शीर्यते यत्र तन् नेमिशम्, नेमिशम् एव नैमिशम् । तथा च वायवे—
एतन् मनो-मयं चक्रं मया सृष्टं विसृज्यते ।
यत्रास्य शीर्यते नेमिः स देशस् तपसः शुभः ॥
इत्य् उक्त्वा सूर्य-सङ्काशं चक्रं सृष्ट्वा मनोमयम् ।
प्रणिपत्य महा-देवं विससर्ज पितामहः ॥
तेऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ।
प्रययुस् तस्य चक्रस्य यत्र नेमिर् व्यशीर्यत ॥
तद् वनं तेन विख्यातं नैमिशं मुनि-पूजितम् ॥ इति ।
विविध-भक्ति-वासनावतां जनानां मध्ये यस्य यस्य यत्र यत्रैव स्थले शाम्यद्-वेगं मनः स्थिरीभवति, तस्य तस्य तत्र तत्रैव श्रीमद्-भागवतार्थावगाहनेन स्वाभीप्सितं सिध्यतीत्य् एतन् मात्र-विवक्षया प्रथमत एव शास्त्रस्य नैमिश इत्य् अन्वर्थ-पदस्य न्यासो ज्ञेयः । मूर्धण्य-ष-कारान्त-पाठे वराह-पुराणोक्तं द्रष्टव्यम् । तथा हि गौर-मुखम् ऋषिं प्रति भगवद्-वाक्यं—
एवं कृत्वा ततो देवो मुनिं गौर-मुखं तदा ।
उवाच निमिषेणेदं निहतं दानवं बलम् ॥
अरण्येऽस्मिंस् ततस् त्व् एतन् नैमिषारण्य-सञ्ज्ञितम् ।
भविष्यति यथार्थं वै ब्राह्मणानां विशेषकम् ॥ इति ।
अत्रापि पाठे यत्र कामादीन् शत्रून् शीघ्रम् एव निहन्तुं प्रभवेत् तत्रैव वसेद् इति विवक्षितम् । स्वर्गायेति प्रथमं शौनकादीनां स-काम-कर्मपरत्वम् एवासीत् । रोमहर्षण-सङ्गेन ततो नाना-पुराणादि-शास्त्र-श्रवण-मननादिभिर् जिज्ञासुत्वम् इति प्रसिद्धिः । ततश् च साधोर् उग्रश्रवसः सङ्गेन भक्ति-रसे स्पृहा । यद् उक्तम्—
कर्मण्य् अस्मिन्न् अनाश्वासे धूम-धूम्रात्मनां भवान् ।
आपाययति गोविन्द- पाद-पद्मासवं मधु ॥ [भा।पु। १.१८.१२] इति ।
ततश् च जिज्ञासुत्वम् अपि शिथिलीकुर्वतां तेषां भक्तौ प्रवेशे स्वर्गार्थकं सत्रं तच् च मिषम् एवाभूत् । यद् उक्तं कथायां सक्षणा हरेः [भा।पु। १.१.२१] इति । एतच् च श्री-भागवत-श्रोतृषु तेषु कर्मिषु कर्म-निष्ठा-व्यवधानेन भक्तेः प्रभाव-द्योतनम्, तथैव श्री-भागवत-वक्तरि श्री-गुरु-देवेऽपि परिनिष्ठितोऽपि नैर्गुण्ये [भा।पु। २.१.९] इत्य्-आदिभिर् ब्रह्म-परिनिष्ठा-व्यवधानेनेति । यद् वा स्वः स्वर्गे गीयते इति स्वर्गायो हरिः उरुगाय इतिवत् तस्य लोको वैकुण्ठस् तस्मै । अनिमिषो विष्णुः । तस्य क्षेत्रेऽस्मिन् वैष्णवे वयम् इति तेषाम् उक्तेः सहस्रं समाः संवत्सरा अनुष्ठान-काला यस्य तत् सत्र-सञ्ज्ञं कर्म उद्दिश्य आसत उपविविशुः । यद् वा, आसत अकुर्वत अग्निष्टोमीय-पशोर् आलभनम् आलभते । अमावस्यायां पितृभ्यः श्राद्धं निर्वपति । अष्ट-वर्षायाः कन्यायाः पाणि-ग्रहणम् उपयन्तीतिवत् । धात्व्-अर्थस्य व्यधात् तत्-सामान्य-कृञ्-अर्थ एवात्रासधातुर् वर्तितः ॥४॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
प्रथमे प्रथमस्यास्मिन् षट् प्रश्ना मुनिभिः कृताः ।
निःश्रेयसादि-विषयाः प्रहृष्टैः शौनकादिभिः ॥
एवं शास्त्रोत्कर्षाभिधानेन श्रोतृन् अभिमुखीकृत्य तन्-मुखस्थित-सूत-शौनक-संवाद-प्रस्तावाय तद् उचितं स्थानं दर्शयति—ॐ नैमिशे इति । ॐ इति मङ्गलार्थम्, शास्त्रम् इदं प्रणवार्थ-रूपम् इति बोधनार्थं च ৷नैमिशे तन्-नाम्न्यरण्ये शौनकादय ॠषयः सत्रमासत । यजमाना यत्रर्त्विजः स यागः सत्रम् उच्यते । तद् अकुर्वतेत्य् अर्थः धातुनाम् अनेकार्थत्व-स्वीकारात् । ब्रह्मणा सृष्टस्य मनोमयस्य चक्रस्य नेमिर् यत्र विशीर्षा तन्-नेमिशम् अन्येष्व् अपि दृश्यते इति डः [पानिनि। ३.२.१००] प्रज्ञाद्य् अणि, तद् एव नैमिशम् एवम् उक्तं वायवीये
एतन्-मनोमयं चक्रं मया सृष्टं विसृज्यते ।
यत्रास्य शीर्यते नेमिः स देशस् तपसः शुभः ॥
इत्य् उक्त्वा सूर्य-सङ्काशं चक्रं सृष्ट्वा मनोमयम् ।
प्रणिपत्य महादेवं विससर्ज पितामहः ॥
तेऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभूम् ।
प्रययुस् तस्य चक्रस्य यत्र नेमिर् विशीर्यते ।
तद्-वनं तेन विख्यातं नैमिशं मुनि-पूजितम् ॥
इति, मूर्धन्यान्त-पाठे वाराहीयं भगवद्-वाक्यं दृश्यम्—
एवं कृत्वा ततो देवो मुनिं गौर-मुखं तदा ।
उवाच निमिषेणेदं निहतं दानवं बलम् ॥
अरण्येऽस्मिंस् ततस् त्वेतन्नैमिषारण्य-सञ्ज्ञकम् ।
भविष्यति यथार्थं वै ब्राह्मणानं विशेषकम् ॥
इत्य् एतत् । तथा च यत्र निवृत्त-वेगं मनः स्याद् यत्र कामादि विनश्येत्, तत्रोषित्वा हरिर् ध्येय इति व्यङ्ग्यम् । तादृशं च तद् अरण्यम् इति, कीदृशीत्य् आह—अनिमिषस्यालुप्त-दृष्टेर् विष्णोः क्षेत्रे । किम् अर्थं तदासतेत्य् आह—स्वर्गेऽपि गीयमानत्वात् स्वर्गायो विष्णुः कर्मनि घञ् । स एव स्वाश्रित-निवासत्वाल्-लोकस् तस्मै तं प्राप्तुम् इत्य् अर्थः । हृद्-विशोधनेन कथावसर-दानेन च सत्रस्य तत्-प्रापकत्वात्, सहस्रं समा यस्य तत् सहस्र-वत्सरानुष्ठानकालं सत्रम् इति ॥४॥
॥ १.१.५ ॥
त एकदा तु मुनयः प्रातर् हुत-हुताग्नयः ।
सत्-कृतं सूतम् आसीनं पप्रच्छुर् इदम् आदरात् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सायङ्कालेहुता एव हुता अग्नयो यैस् ते । यद् वा हूयत इति हुतं दध्य्-आदि तेन हुता अग्नयो यैस् ते । यद् वा प्रातः-काले हुता एव हुता अग्नयो यैस् ते । अनेन नित्य-नैमित्तिक-होम-साकल्यं दर्शितम् । इदं वक्ष्यमाणम् आदरात् पप्रच्छुः ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हुता एव हुता अग्नयो यैस् ते ॥५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तं संवादं दर्शयति—त इति । हुता एव हुता अग्नयो यैस् ते इति नित्य-नैमित्तिक-कर्मस्-अम्पत्तिर् उक्ता । इदं वक्ष्यमाणम् ॥५॥
॥ १.१.६ ॥
ऋषय ऊचुः—
त्वया खलु पुराणानि सेतिहासानि चानघ ।
आख्यातान्य् अप्य् अधीतानि धर्म-शास्त्राणि यान्य् उत ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विविदिषितान् अर्थान् प्रष्टुं सूतस्य सर्व-शात्र-ज्ञानातिशयम् आहुः—त्वयेति त्रिभिः श्लोकैः । इतिहासो महाभारतादिस् तत्-सहितानि । न केवलम् अधीतानि अपित्व् आख्यातान्य् अपि व्याख्यातानि च । उत अपि यानि धर्म-शास्त्राणि तान्य् अपि ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **त्वयेति युग्मकम् ॥६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इतिहासो भारतादिर् आख्यातानि ॥६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सूतात्-तत्त्व-याथात्म्यं श्रोतुं तस्य ज्ञानातिशयाम् आह—त्वयोति त्रिभिः । इतिहासो भारतं, न केवलम् अधीतान्य् आपितू व्याख्यातानि च यानि धर्म-शास्त्राणि तान्य् अपि, उतेत्य् अप्य् अर्थे ॥६॥
॥ १.१.७-८ ॥
यानि वेद विदां श्रेष्ठो भगवान् बादरायणः ।
अन्ये च मुनयः सूत परावर-विदो विदुः ॥
वेत्थ त्वं सौम्य तत् सर्वं तत्त्वतस् तद्-अनुग्रहात् ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यानि भगवज्-जातान्य अन्यैर् अप्य् ऋषिभिर् ज्ञायन्ते, तानि वेत्थ । उक्तं हि ब्रह्माण्डे—
द्वैपायनेन यद् बुद्धं ब्रह्माद्यैस् तन् न बुध्यते ।
सर्व-बुद्धं स वै वेद तद् बुद्धं नान्य-गोचरम् ॥ इति ॥७-८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, यानीत्य्-आदि । विदां विदुषां मध्ये श्रेष्ठो व्यासो यानि वेद । परावरे सगुण-निर्गुणे ब्रह्मणी विदन्तीति तथा ॥७॥ वेत्थ जानासि । सौम्य हे साधो । तेषाम् अनुग्रहात् । तत्त्वतो ज्ञाने हेतुम् आह—ब्रूयुर् इति । स्निग्धस्य प्रेमवतः । उत एव । **गुह्यं **रहस्यम् अपि ब्रूयुर् एव ॥८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्त्वतो यथार्थ्येन । तत् तु गुह्यम् इति चेत्, तथापि वक्तव्यम् इत्य् आहुः—ब्रूयुर् इति ॥८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विदां विदुषां परावरे स-गुण-निर्गुणे ब्रह्मणी विदन्तीति ते । **स्निग्धस्य **गुरु-विषयक-स्नेहवतः शिष्यस्यगुरवो गुह्यम् अपि ब्रूयुर् इति विधि-लिङ् एव त्वयि स्निग्धे शिष्ये तेषाम् अवश्यम् एव रहस्य-प्रकाशकत्वम् । तव च सर्व-रहस्य-विज्ञत्वम् अवगम्यते । अतस् तान् अपि प्रति स्वं मतम् एवोत्कृष्य ब्रुवतो मुनीन् अपहाय सर्व-मत-वक्ता त्वम् एवास्माभिः पृच्छ्यसे इति भावः ॥७-८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यानीति—परे नित्य-मुक्तादयोऽवरे भृत्या यस्य परावरः सर्वेश्वरः कृष्णस् तद्-विदः विदुर् जानन्ति ॥७॥ \
\
वेत्थ जानासि, तद् अनुग्रहाद्-बादरायणादि-प्रसादात्, तत्त्वतो ज्ञाने हेतुः ब्रूयुर् इति । स्निग्धस्य गुरौ प्रेमवतः । आह चैवं श्रुतिः—
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशस् ते महात्मनः ॥ इत्य्-आद्या [श्वे।उ। ६.२३]
उत भोः सूत! तथा च गुरु-कृपया शास्त्र-रहस्यं तव प्रस्फुरदस् त्यतस् त्वम् एव पृच्छ्यस इति भावः ॥८॥
॥ १.१.९ ॥
तत्र तत्राञ्जसायुष्मन् भवता यद् विनिश्चितम् ।
पुंसाम् एकान्ततः श्रेयस् तन् नः शंसितुम् अर्हसि ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अञ्जसा ग्रन्थार्जवेन । एकान्ततः श्रेयोऽव्यभिचारि श्रेयः-साधनम् ॥९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पुंसां कलि-भावि-पर्यन्त-पुरुषाणाम् ॥९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तर्हि तत् सर्वम् एव ब्रवीमीति किं तत्राहुस् तत्रेति । आयुष्मन्न् इति त्वया बहु-कालं व्याप्य तान्य् अधीता विचारितानीति भावः । अञ्जसा शीघ्रम् । तत्र तत्र झटित्य् अर्थ-बोधक-वाक्येष्व् इत्य् अर्थः । एकान्ततः एकान्तेन सर्वथेत्य् अर्थः । यद् वा, प्रथमान्तात् तसिः । एकम् अद्वितीयं च तारतम्य-गणनायाम् अन्तर्भूतं च यतोऽन्यद् अधिकं श्रेयो नास्तीत्य् अर्थः । तच् च प्रेमैव न तु स्वर्गापवर्गादिकं ब्रह्म-परमात्म-भगवत्सु मुखस्य भगवत्-स्वरूपस्यापि वशीकारकत्वाद् इत्य् अग्रिम-ग्रन्थे व्यक्तीभविष्यति ॥९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सर्वं तत् किं ब्रवीमि? तत्राह—तत्र तत्रेति । अञ्जसा ग्रन्थार्जवेन पुंसाम् एकान्तं श्रेयो यद्-भवता विनिश्चितं तन् नः शंसितुं वक्तुम् अर्हसि । प्रथमान्तात्तसिर् इति प्रथमः प्रश्नः ॥९॥
॥ १.१.१० ॥
प्रायेणाल्पायुषः सभ्य कलाव् अस्मिन् युगे जनाः ।
मन्दाः सुमन्द-मतयो मन्द-भाग्या ह्य् उपद्रुताः ॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्येऽपि बहुना कालेन बहु-शास्त्र-श्रवणादिभिर् विनिश्स्चिन्वन्तु नेत्य् आहुः—प्रायेणेति । हे सभ्य साधो ! अस्मिन् युगे कलाव् अल्पायुषो जनास् तत्रापि मन्दा अलसास् तत्रापि सुमन्द-मतयस् तत्रापि मन्द-भाग्या विघ्नाकुलास् तत्राप्य् उपद्रता रोगादिभिः ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कलि-पुरुषान् वर्णयति—प्रायेणेति । मन्द-भाग्याः स्वल्प-पुण्याः ॥१०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु मन्-मुखात् तत् तत् सर्वं श्रुत्वा युष्मद्-आदय एव श्रेयो निश्चिन्वन्तु तत्राहुः—हे सभ्य देश-काल-पात्रज्ञ ! अस्मिन् कलौ प्रायेण जना अल्पायुष एव । यदि कथञ्चिद् दीर्घायुषस् तर्हि मन्दाः परमार्थेष्व् अलसाः । यदि केचिन् निरलसा अपि तर्हि निर्बुद्धयः । यदि सुबुद्धयोऽपि स्युस् तदा मन्द-भाग्याः, तादृश-साधु-सङ्ग-हीनाः । यदि लब्ध-सुसङ्गा अपि, तदा उपद्रुताः रोगाद्य्-उपद्रव-वशात् तन्-मुखात् श्रोतुं श्रुत्वा वा स्वश्रयो निश्चित्य तत् तद् अनुष्ठातुं नावकाशं लभन्त इति । यद् वा, अल्पायुषस् तत्रापि मन्दा इत्य्-आदि ॥१०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **त्वद् अधीते सर्व-शास्त्र-श्रवणे नास्माकं वाञ्छेत्य् आह—प्रायेणेति । हे सभ्य! अस्मिन् कलौ जनाः प्रायेणाल्पायुषः, दीर्घायुष्ट्वेपि मन्दाः परतत्त्व-श्रवणेऽलसाः । तत्र नैरालस्येऽपि मन्द-मतयः, अमन्द-मतित्वेऽपि
मन्द-भाग्यास् तत्त्ववित्-सत्-प्रसङ्गभाग्य-रहिताः । तद्-भाग्य-सत्त्वेऽप्य् उपद्रुता रोगाद्य् आक्रान्ताः । यद् वा—अल्पायुषस् तत्रापि मन्दा इत्य्-आदि ॥१०॥
॥ १.१.११ ॥
भूरीणि भूरि-कर्माणि श्रोतव्यानि विभागशः ।
अतः साधोऽत्र यत् सारं समुद्धृत्य मनीषया ।
ब्रूहि भद्राय भूतानां15** येनात्मा सुप्रसीदति ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **न च बहु-शास्त्र-श्रवणेऽपि तावतैव फल-सिद्धिर् इत्य् आहुः—भूरीणीति । भूरीणि कर्माण्य् अनुष्ट्ःएयानि येषु तानि । समुद्धृत्य यथावद् उद्धृत्य । येनोद्धृत-वचनेन आत्मा बुद्धिः संप्रसीदति संयग् उपशाम्यति ॥११॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भूरीणीति सार्धकम् । श्रोतव्यानि शास्त्राणि । ब्रूहि भद्राय भूतानाम् इति क्वचित् पाठः ॥११॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तादृश-श्रेयसः साधनेषु मध्ये यं मुख्यं कलि-काल-वर्तिभिर् जनैः सुशक्यं च तत् साधनं वदेति पृच्छन्ति । भूरीणि कर्माण्य् अनुष्ट्ःएयानि यत्र तानि । श्रोतव्यानि साधनानि तादृश-साधन-प्रतिपादकानि शास्त्राणि वा, येनात्मा बुद्धिः प्रसीदति । तच् च श्रवण-कीर्तनादिकम् एवेत्य् अग्रे ज्ञास्यते ॥११॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **श्रोतव्यानि साधनानि भूरीणि सन्ति । भूरीणि बहूनि कर्माण्यानुष्ठेयानि येषु तानि । अतस् तेषु यत् सारं कलि-जनैर् अनुष्ठातुं शक्यं तत्त्वं मनीषया समुद्धृत्य नोऽस्माकं ब्रुहीति । हे साधो! येन सारेण श्रुतेनात्मा बुद्धिः प्रसीदतीति द्वितीयः ॥११॥
॥ १.१.१२ ॥
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रश्नान्तरम्—सूत जानासीति पञ्चभिः । भद्रं त इत्य् औत्सुक्येनाशीर्वादः । विस्तरेणाशीर्वचनेन विष्णु-कथा-विघाति भवतीति सङ्ग्रहेणोक्तम् । तथा हि
सा हानिस् तन् महच्-छिद्रं स मोहः स च विभ्रमः ।
यन् मुहूर्तं क्षणं वापि वासुदेवं न चिन्तयेत् ॥ इति । 16
भगवान् निरतिशयैश्वर्यादि-गुणः । सत्वतां सच्-छब्देन सत्त्व-मूर्तिर् भगवान् स उपास्यतया विद्यते येषाम् इति सत्वन्तो भक्ताः । स्वार्थेऽण् राक्षस-वायसादिवत् । तस्य चाश्रवणम् आर्षम् । तद् एवं सात्वन्त इति भवति । तेषां पतिः पालकः । यस्यार्थ-विशेषस्य चिकीर्षया वसुदेवस्य भार्यायां देवाक्यां जाटः ॥१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सूतेत्य्-आदि नवकम्। नानावतारावतारिष्व् अपि सत्सु महा-पुराण-प्रारम्भ एव श्री-शौनकादीनां श्री-कृष्णैक-तात्पर्यम् इदम् । अत्र पूर्वं सामान्यतोऽस्माभिर् एकान्त-श्रेयस्त्वेन, सर्व-शास्त्र-सारत्वेन, आत्मसु प्रसाद-हेतुत्वेन च यत् पृष्टं, तद् एतद् एवास्माकं भाति यत् श्री-कृष्णस्य लीला-वर्णनम् इत्य् अभिप्रेत्याहुः—सूतेति । भद्रं त इति श्री-कृष्ण-लीला-प्रश्न-सहोदरौत्सुक्येनाशीर्वादः । **भगवान् **स्वयम् एवावतारी सम्पूर्णैश्वर्यादि-युक्तः । सात्वतां नुड्-अभावे आर्षः, यादवानाम् इत्य् अर्थः । जातो जगद्-दृश्यो बभूव ॥१२॥ [श्री-कृष्ण-सन्दर्भः ६४]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तच् च साधन-सारं श्रवण-कीर्तनादिकं श्री-कृष्ण-यशो-विषयकम् एव वाचयितुं पुनः पृच्छति । सूतेति । भद्रं त तिय् औत्सुक्येनाशीर्वादः । सन्तो भक्ता एव स्व-विभुत्वेन वर्तन्ते यस्य स सत्त्वान् विष्णुः स एव भजनीयो येषाम् इति भक्ताव् इति सूत्रेणान् । सात्त्वता वैष्णवास् तेषां पतिः । नुड्-अभावस् त्व् आर्षः । किं वा, सातिः सुखार्थः, सौत्रो धातुर् हेतुम् अन्य्-अन्तोऽनुपसर्गालिम्प [पा। ३.१.१३८] इति सूत्रोक्तस् तस्माद् वा स्वरूप-न्यायेन क्विपि स्यात् । परमात्मा स सेवतयास्त्य् एषाम् इति मतुपि सान्त्वताः भक्तास् तेषां पतिर् इति । वसुदेवस्य देवक्यां भार्यायां यस्य चिकीर्षया । तच् च स्व-यशः-ख्यापनम् एव तस्यैव न तु भू-भार-हरणादेश् चिकीर्षया वस्तुतः सिद्धान्त-सिद्ध-श्रवण-स्मरणार्हाणि करिष्यन्न् इति कुन्ती-वाक्य-पर्यवसानात् ॥१२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तच् च सारं श्री-कृष्ण-विषयक-श्रवन-कीर्तनाद्य् एवेत्य् आह—सूतेति । भद्रं त इत्योत्सुक्यादाशीर्वादः । सात्वताम् इति—सातिः सुखार्थः अनुपसर्गाल्-लिम्पविन्द इति [पा। ३.१.१३८] सूत्रोक्तो हेतुमण्ण्यन्तः, तस्माद्-वास-रूप [पानिनि। ३.१.९४] न्यायेन क्विपि सात् श्री-कृष्णः, स येषाम् उपास्यतयास्ति ते सात्वन्तो भक्तास् तेषां पतिः स यस्य चिकीर्षया जातः ॥१२॥
॥ १.१.१३ ॥
तन् नः शुष्रूषमाणानाम् अर्हस्य् अङ्गानुवर्णितुम् ॥
यस्यावतारो भूतानां क्षेमाय च भवाय च ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग हे सूत । तन् नोऽनुवर्णयितुम् अर्हसि । सामान्यतस् तावद् अस्यावतरो भूतानाङ्क्षेमाय पालनाय । भवाय समृद्धये ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सामान्यतस् तावत् तस्यावतार-मात्रं क्षेमाय इत्य्-आदि ॥१३॥ [श्री-कृष्ण-सन्दर्भः ६५]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्य जिज्ञासया किं फलम् ? इति चेत्, श्रुत्वा आत्मानं कृतार्थीकरिष्याम इत्य् आहुः—यस्येति सार्धैस् त्रिभिः । यस्यावतार एव क्षेमाय मोक्षाय भवाय भूत्यै सम्पत्तये, किं पुनः स इत्य् अर्थः ॥१३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अतस् तद् अनुवर्णितुम् अर्हसि, तच् च मङ्गल-चरितम् एव । श्रवण-स्मरनार्हाणि करिष्यन् [भा।पु। १.८.३५] इति कुन्तीवाक्य-पर्यवसानात्, भू-भार-हरणन्त्वानुषङ्गिकम् तद् अनुगृहितेनापि शक्यं कर्तुं, पराशरेणानेके यातुधाना ध्रुवेण च विनाशिताः स्मर्यन्ते । तेन श्रुतेन किं फलम् इति चेत्? तेनात्मानं कृतार्थी-करिष्याम इत्य् आह—यस्येति साधैर् योस् त्रिभिः । यस्यावतार एव क्षेमाय मुक्तये भवाय सम्पत्तये किं पुनः स स्वयम् इति तृतीयः ॥१३॥
॥ १.१.१४-१६ ॥
आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥
यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः ।
सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपोऽनुसेवया ॥
को वा भगवतस् तस्य पुण्य-श्लोकेड्य-कर्मणः ।
शुद्धि-कामो न शृणुयाद् यशः कलि-मलापहम् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विवशः बह्व्-अभ्यासात् । उक्तं च ब्रह्म-वैवर्ते—
शारीराद् वाचिकाभ्यासो वाचिकान् मानसो भवेत् ।
मानसाद् विवशान् मुच्येन् नान्यथा मुक्तिर् इष्यते ॥ इति ॥१४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्-प्रभावम् अनुवर्णयन्तस् तद्-यशः श्रवणौत्सुक्यम् आविष्कुर्वन्ति—आपन्न इति त्रिभिः । संसृतिम् आपन्नः प्राप्तः । विवशोऽपि गृणन् । ततः संसृतेः । अत्र हेतुः—यद् यतो नाम्नो भयम् अपि स्वयं बिभेति ॥१४॥
किं च, यस्य पादः संश्रयो येषाम् अत एव प्रशमोऽयनं वर्त्म आश्रयो वा येषां, ते मुनय उपस्पृष्टाः सन्निधि-मात्रेण सेविताः सद्यः पुनन्ति । स्वर् धुनी गङ्गा, तस्या आपस् तु तत्-पादान् निःसृता, न तु तत्रैव तिष्ठन्ति, अतस् तत्-संबन्धेनैव पुनन्त्योऽप्य् अनुसेवया पुनन्ति, न तु सद्य इति मुनीनाम् उत्कर्षोक्तिः ॥१५॥
पुण्य-श्लोकैर् ईड्यानि स्तव्यानि कर्माणि यस्य तस्य यशः । कलि-मलापहं संसार-दुःखोपशनम् ॥१६॥
———————————————————————————————————————
कैवल्य-दीपिका : आपन्न इति । गृणान् कीर्तयन् ॥१४॥ [मु।फ। ८.२६]
एते हि श्लोकाः शुश्रूषोर् वचसा । श्लोकः कीर्तिः । ईड्यं स्तुत्यम् ॥१६॥ [मु।फ। ८.६]
———————————————————————————————————————
**सनातन गोस्वामी : **(ह।भ।वि। ११.४२५) संसृतिम् आपन्नः प्राप्तः । विवशोऽपि, ततः संसृतेः गृणन्न् एव सद्यो विमुच्येत इति जीवन्-मुक्ततोक्ता । अत्र हेतुः—यद् यतो नाम्नो भयम् अपि स्वयं बिभेति ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : विवशोऽपि विशेषेण पराधीनः सन्न् अपि । यस्य श्री-कृष्णस्य नाम तस्य सर्वावतारित्वाद् अवतार-नाम्नाम् अपि तत्रैव पर्यवसानात् । अत एव साक्षात् श्री-कृष्णाद् अपि तत्-तन्-नाम-प्रवृत्ति-प्रकारान्तरेण श्रूयते श्री-विष्णु-पुराणे—तत्र त्व् अखिलानाम् एव भगवन्-नाम्नां कारणान्य् अभवन् [वि।पु। ४.१५.७] इति गद्यम् । तद् इदं च वासुदेव-दामोदर-गोविन्द-केशवादि-नाम ज्ञेयम् ॥१४॥ [श्री-कृष्ण-सन्दर्भः ६६]
यस्य श्री-कृष्णस्य पादौ सम्यग् आश्रयौ येषाम् । अत एव प्रशमायनाः । शमो भगवन्-निष्ठ-बुद्धिता, शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इति स्वयं श्री-भगवद्-वाक्यात् स एव प्रकृष्टः शमः प्रशमः । साक्षात्-पूर्ण-भगवच्-छ्री-कृष्ण-सम्बन्धित्वात्17 श्री-कृष्ण-लीलाकृष्ट-चित्ता इत्य् अर्थः । मुनयः श्री-शुकदेवादयः । 18सद्यः पुनन्ति स-वासन-पापेभ्यः शोधयन्ति । स्वर्धुनी गङ्गा । तस्या आपस् तु—
योऽसौ निरञ्जनो देवश् चित्-स्वरूपो जनार्दनः ।
स एव द्रव-रूपेण गङ्गाम्भो नात्र संशयः ॥ इति ।
स्वयं तथा-विध-रूपापि साक्षाच् छ्री-वामन-देव-चरणान् निःसृता आपोऽनुसेवया साक्षात् सेवाभ्यासेनैव तथा शोधयन्ति, न सन्निधि-मात्रेण सेवया । तत्र साक्षात् सेवयापि न सद्य इति तस्या अपि श्री-कृष्णम् आश्रितानाम् उत्कर्षात् तस्यैवोत्कर्षः ।
एवम् एव ततस् तद्-यशसोऽप्य् आधिक्यम् अग्रे वर्ण्यते—तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वः-सरित्-पाद-शौचं [भा।पु। १०.९०.४७] इति । टीका च—इतः पूर्वं स्वः-सरिद् एव सर्वतोऽधिकं तीर्थम् इत्य् आसीद् इदानीं यदुषु यद् अजनि जातं तीर्थं श्री-कृष्ण-कीर्ति-रूपम् एतत् स्वः-सरिद्-रूपं पाद-शौचं तीर्थम् ऊनम् अल्पं चक्रे इत्य् एषा ॥१५॥ [श्री-कृष्ण-सन्दर्भः ६७]
एतस्य दशम-स्कन्ध-पद्यस्यैव संवादितां व्यनक्ति—को वेति । शुद्धि-कामोऽपि, यतः कलि-युगस्यापि मलापहम् ॥१६॥ [श्री-कृष्ण-सन्दर्भः ६८]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततः संसृतेः अत्र घोराम् इति विवश इति सद्य इति पद-त्रयेण अजामिलादयः सूचिताः । यद् यतो नाम्नः एकस्माद् अपि स्वयं भयं स्वयं भगवान् इतिवन् मूलभूतं भयं महाकाल एव बिभेति किं पुनर् मृत्युर् यमश् च किम् उततमां यमदूता इति भावः ।
यत् पादाव् एव संश्रित्यैव वर्तमानाः सद्य इति स्मृत-मात्र एव पुनन्ति अविद्या-मालिन्यानि शोधयन्ति किं पुनर् दृष्टाः स्पृष्टाः सेविता वेति व्याख्येयम् ।
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर् दर्शन-स्पर्श- पाद-शौचासनादिभिः ॥ [भा।पु। १.१९.३३]
इत्य् अनेनैवैक्यार्थ-प्राप्तेः । स्वर्धुन्या आप इत्य् अत्रापि तस्याः सकाशाद् दूर-देशं नीता इत्य् एव व्याख्येयम् । मुक्तिस् त्वद्-दर्शनाद् एव न जाने स्नान-जं फलम् इति वाक्यार्थ-विरोधात् । किं च स्वर्धुन्या दर्शनाद् एव साधूनां च स्मरणाद् अपि मुक्तिर् इति । तद् अपि साधूनाम् एवोत्कर्षो ज्ञेयः । ततश् च तास् तत्-पादान् निःसृता एव अतस् तत्-सम्बन्धेन पुनन्तोऽपि उप उपरि स्पृष्टाः सत्यः पुनन्ति । नुर् विकल्पे । सेवया प्रणत्य् आदिना वा आदृता वा स्वर्धुन्य् आप इति समासान्त-भावः आर्षः ।
शुद्ध आत्म-प्रसादः येनात्मा सुप्रसीदतीति पूर्वोक्तेः । यशः ब्रह्म-रुद्रेन्द्रजयादिकं रास-क्रीडादिकं चात्रासाधारणम् एव ॥१४-१६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **घोरां संसृतिम् आपन्नोऽतो विवशोऽजामिल-सदृशो जनो यन्-नाम गुणान् ततः संसृतेः सद्यो विमुच्येत, यद्यत एकस्मान्-नामः स्वयं भयं कालो विभेति किमुत तद्-विभूतिर् यमस् तत् किङ्करो वा ॥१४॥ \
\
यद् इति—यत्-पाद-संश्रयाः सन्तः सद्यः स्मृता एव पुनन्त्य् अविद्या-कर्दमात् शोधयान्ति, येषां संस्मरणात् पुंसां सद्यः शुध्यन्ति वै गृहाः [भा।पु। १.१९.३३] इत्य्-आदेः, किं पुनर् उपस्पृष्टाः सेविताः? स्वर्धुन्यापस् तु दूरं नीता अनुषेवया पुनन्ति, समासान्त-विधेर् अनित्यत्वाद् अप्रत्ययो न । वीक्षिता अवगाढाश् च मोक्षम् आनन्दातिशयञ् च ताः कुर्युः । मुक्तिस् तद्-दर्शनाद् एव न जाने स्नानजं फलम् इत्य् उक्तेः । आपस् तत्-पादाद्-विनिर्गता अनुषेवादिना शोधयन्ति सन्तस् तु तत्पाद-संश्रयास् ततः सद्य इति ताभ्यस् तेषाम् उत्कर्षः । प्रकृष्टः शमो भगवन्-निष्ठधीत्व-लक्षणो यस्मात् तादृगयनम् आश्रयणं येषां ते । शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इति तद् उक्तेः ॥१५॥ \
\
को वेति-पुण्य-श्लोकैर् नारदाद्यौः ईड्यानि कर्माणि यस्य तस्य कृष्णस्य भगवतः यशः साद्गुण्य-ख्याति-रूपं पूतना-विमोक्षणादि बालचरितं, शक्रादि-विजयं पौगण्ड-चरितं, रास-विहारादि कैशोर-चरितञ् च । शुद्धि-कामोऽविद्या-विमार्जनेच्छुः ॥१६॥
॥ १.१.१७ ॥
तस्य कर्माण्य् उदाराणि परिगीतानि सूरिभिः ।
ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रश्नान्तरम्—तस्येति । उदाराणि महान्ति विश्व-सृष्ट्यादीनि । सूरिभिर् नारदादिभिः । कला ब्रह्म-रुद्रादि-मूर्तीः ॥१७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस्माद् एवं तस्मात्—तस्येति । उदाराणि परमानन्द-दातॄणि जन्मादीनि । स्वयं परिपूर्णस्य लीलयान्या अपि कलाः पुरुषादि-लक्षणा दधतस् तत्-तद्-अंशान् अप्य् आदाय तस्यावतीर्णस्य सत इत्य् अर्थः ॥१७॥ [श्री-कृष्ण-सन्दर्भः ६९]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्माण्य् अवतारान्तर-साधारणान्य् असुर-वधादीनि । उदाराणि भक्ताभीष्ट-प्रदानि । कला अवतारान् दधत इति । वर्तमान-कालेन तद्-अवताराणां नित्यत्वं तस्य च पूर्णत्वम् आयातम् ॥१७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्य पूर्वोक्ति-महिन्नः कृष्णस्य कर्माणि विश्व-सर्गादीनि उदाराणि महान्ति सूरिभिब्रमाद्यैः कला विरिञ्चादि-विभूतीरिति चतुर्थः ॥१७॥
॥ १.१.१८ ॥
अथाख्याहि हरेर् धीमन्न् अवतार-कथाः शुभाः ।
लीला विदधतः स्वैरम् ईश्वरस्यात्म-मायया ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **आत्म-मायया स्वरूप-भूतेच्छया ।
महामायेत्य् अविद्येति नियतिर् मोहिनीति च ।
प्रकृतिर् व्यसनेत्य् एव तवेच्छानन्त कथ्यते ॥ इति स्कान्दे ।
विष्णु-संहितायां च—
इच्छा-शक्तिर् ज्ञान-शक्तिः क्रिया-शक्तिर् इति त्रिधा ।
शक्ति-शक्तिमतोश् चापि न भेदः कश्चनेष्यते ॥ इति ॥१८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अथेति प्रश्नान्तरे । अवतार-कथाः स्थित्य्-अर्थम् एव तत्-तद्-अवसरे ये मत्स्याद्य्-अवताराः, तदीयाः कथाः । स्वैरं लीलाः कुर्वतः । श्रि-कृष्णावतार-प्रयोजन-प्रश्नैव तच्-चरित-प्रश्नोऽपि जात एवेति ज्ञातव्यम् ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्री कृष्णस्य तावन् मुख्यत्वेन कथय । अथ तद्-अनन्तरम् आनुषङ्गिकतयैवेत्य् अर्थः । हरेः श्री-कृष्णस्य प्रकरण-बलात् । अवताराः पुरुषस्य गुणावतारा लीलावताराश् च । तेषां कथा लीलाः सृष्ट्य्-आदि-कर्म-रूपा भू-भार-हरणादि-रूपाश् च । आत्म-मायया निजेच्छा-रूपया शक्त्या—आत्म-माया तद्-इच्छा स्याद् गुण-माया जडात्मिका इति महा-संहितातः ॥१८॥ [श्री-कृष्ण-सन्दर्भः ७०]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शुभा अमायिकीर् विदधत इति वर्तमान कालेन लीलानां नित्यत्वम् आत्म-मायया योगमायया ॥१८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अथ तस्य हरेर् अवताराणां वराहादीनां कथास् तदैश्वर्य-विजृम्भणा आख्याहि । स्वैरं स्वतन्त्रं यथा स्यादेवं तत् तद् रूपैर् लीला भूम्य्-उद्धरणादि-लक्षणा दधतः प्रकटयतः । आत्म-मायया स्वेच्छया । आत्म-माया तद्-इच्छा स्यात् इति शब्द-महोदधेर् इति पञ्चमः ॥१८॥
॥ १.१.१९ ॥
वयं तु न वितृप्याम उत्तम-श्लोक-विक्रमे ।
यच् छृण्वतां रस-ज्ञानां स्वादु स्वादु पदे पदे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत्यौत्सुक्येन पुनर् अपि तच्-चरितान्य् एव श्रोतुम् इच्छन्तस् तत्रात्मनस् तृप्त्य्-अभावम् आवेदयन्ति—वयं त्व् इति । योग-यागादिषु तृप्ताः स्म । उद्गच्छति तमो यस्मात् स उत्तमः, तथाभूतः श्लोको यस्य तस्य विक्रमे तु विशेषेण न **तृप्यामः, **अलम् इति न मन्यामहे । तत्र हेतुः—यद् विक्रमं शृण्वताम् । यद् वा, अन्ये तृप्यन्तु नाम । वयं तु नेति, तु-शब्दस्यान्वयः ।
अयम् अर्थः—त्रेधा ह्य् अलं-बुद्धिर् भवति उदरादि-भरणेन वा, रसाज्ञानेन वा, स्वाद-विशेषाभावाद् वा । तत्र शृण्वताम् इत्य् अनेन श्रोत्रस्याकाशत्वाद् अभरणम् इत्य् उक्तम् । रस-ज्ञानाम् इत्य् अनेन चाज्ञानतः पशुवत् तृप्तिर् निराकृता । इक्षू-भक्षणवद् रसान्तराभावेन तृप्तिं निराकारोति । पदे पदे प्रति-क्षणं स्वादुतोऽपि स्वादु ॥१९॥
———————————————————————————————————————
कैवल्य-दीपिका : वयं त्व् इति । यद् उ ये विक्रमाः । स्वादु स्वादु स्वादतः स्वादतः । उभय-सुपां सुलुक् पूर्व-सवर्णेति सुलुक् । पदे पदे क्षणे क्षणे ॥१९॥ [मु।फ। ८.७]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **टीकायाम्—इक्षु-भक्षणवद् इति । इक्षु-भक्षणे यथा स्वाद-विशेषाभावो भवति, तथात्र नेत्य् अर्थः । भगवद्-विक्रम-मात्रे तु न तृप्याम एव । तत्रापि तीर्थं चक्रे नृपोनं [भा।पु। १०.९०.४७] इत्य्-आद्य्-उक्त-लक्षणस्य सर्वतोऽप्य् उत्तमश्लोकस्य विक्रमे विशेषेण न तृप्यामः ॥१९॥ [श्री-कृष्ण-सन्दर्भः ७१]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्तमः सर्व-श्रेष्ठः श्लोको यशो यस्य सः । यद् वा, उत्तमैः श्लोक्यते कीर्त्यते इति । तस्य विक्रमे तु विशेषेण न तृप्याम, अलम् इति न मन्यामहे । तेन याग-योगादिषु तृप्ताः स्म इति भावः । यद् विक्रमणं शृण्वताम् । यद् वा, अन्ये तृप्यन्तु नाम, वयं तु नेति, तु-शब्दस्यान्वयः ।
अयम् अर्थः—त्रिधा ह्य् अलं-बुद्धिर् भवति । उदरादि-भरणेन वा, रसाज्ञानेन वा, स्वाद-विशेषाभावाद् वा । तत्र शृण्वताम् इत्य् अनेन श्रोत्रस्याकाशत्वाद् विक्रमस्य चामूर्तत्वात् न भरणम् । रस-ज्ञानाम् इति रसाज्ञानेन पशुवत् तृप्तिर् निराकृता । पदे पदे प्रतिसुप्ति-ङन्तम् एव प्रति-क्षणम् एव स्वादुतोऽपि स्वाद्व् इति चर्वितस्य इक्षु-दण्डादेर् इव न नीरसत्वेन हेयत्वं प्रत्युतातिस्वादुत्वेन परमोपादेयत्वम् इति ॥१९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **औत्सुक्यं प्रकाशयत्ति—वयं त्व् इति । उद्गतस् तमो येषां तैर् नारदादिभिः श्लोक्यते कीर्त्यते इति तस्य कृष्णस्य विक्रमे वयं तु न तृप्यामः, अन्ये तृप्यन्तां नाम तच्छ्रवणेऽलंबुद्धिः न भजामः । तत्र हेतुः—याद् इति । त्रेधा हि तद्-बुद्धिः, उदरादि-पूर्त्या, रसाज्ञानेन स्वादु-विशेषाभावेन वा तत्र **यच्-छृण्वताम् **इति विक्रमस्यामूर्तत्वात्तेन श्रोत्र-विवरस्य पूर्तिर् नेत्य् उक्तम् । रसज्ञानाम् इत्य् अनेन रसाज्ञानात् पशुवत् तृप्तिर्नेत्य् उक्तम् । पदे पदे प्रतिसुप्तिं तं **स्वादुस्वाद्व् **इत्य् अनेन चर्वितेक्षु-दण्डादेर् इव स्वाद-विशेषाभावान्निवृत्तिर्नेत्य् उक्तम् ॥१९॥
॥ १.१.२० ॥
कृतवान् किल कर्माणि सह रामेण केशवः ।
अतिमर्त्यानि भगवान् गूढः कपट-मानुषः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अतः श्री-कृष्ण-चरितानि कथयेत्य् आशयेनाहुः—कृतवान् इति । अतिमर्त्यानि मर्त्यान् अतिक्रान्तानि गोवर्धनोद्धरणादीनि । मनुष्येष्व् असम्भावितानीत्य् अर्थः ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (कृष्ण-सन्दर्भः) : **ननु कथं वा मानुषः सन्न् अतिमर्त्यानि कृतवान् ? तत्राह—कपट-मानुषः । पार्थिव-देह-विशेष एव मानुष-शब्दः प्रतीतिः, तस्मात् कपटेनैवासौ तथा भातीत्य् अर्थः । वस्तुतस् तु नराकृतेर् एव पर-ब्रह्मत्वेनासत्य् अपि प्रसिद्ध-मानुषत्वे नराकृति-नर-लीलात्वेन लब्धम् अप्रसिद्ध-मानुषत्वम् अस्त्य् एव । तत् पुनर् ऐश्वर्याव्याघातकत्वान् न प्रत्याख्यायत इति भावः । अत एव स्यमन्तकाहरणे पुरुषं प्राकृतं मत्वा [भा।पु। १०.५३.२२] इत्य् अनेन जाम्बवतोऽन्यथा-ज्ञान-व्यञ्जकेन तस्य प्राकृतत्वं निषिध्य पुरुषत्वं स्थाप्यते । एवं माया-मनुष्यस्य वदस्व विद्वन्न् [भा।पु। १०.१.७] इत्य्-आदिष्व् अपि ज्ञेयम् । यस्मात् कपट-मानुषस् तस्माद् एव गूढः स्वतस् तु तद्-रूपतयैव भगवान् इति ॥२०॥ [श्री-कृष्ण-सन्दर्भः ७२]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विक्रमम् एव स्पष्टीकुर्वन्ति कृतवान् इति । अतिमर्त्यानि नराकृति-पर-ब्रह्मत्वात् मर्त्योऽपि मर्त्यानतिक्रान्तानि गोवर्धनोद्धरणादीनि तात्कालिक-मनुष्येष्व् असम्भावितानीत्य् अर्थः । तद् अपि गूढः । तत्र हेतुः । कपट-मानुषः कपटं भक्त-हितार्थं ब्रह्म-वेशादिना प्रार्थन-लक्षणं मानुषेषु प्राकृतेषु जरासन्धादिषु तथा यस्य कपटं प्रेम-विलासार्थं धर्मोपदेशादि-लक्षणं मानुषेषु वेणु-नादाकृष्ट-गोपी-कुलेष्व् अप्राकृतेषु यस्य सः । गड्व्-आदित्वात् सप्तम्याः पर-निपातः । तेषां तेषां मायया मोहनात् । कपटी नेश्वरो भवितुम् अर्हतीति प्रत्यायनाद् गूढ इत्य् अर्थः ॥२०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विक्रमं स्फुटयन्ति—कृतवान् इति । अतिमर्त्यानि तदानीन्तनैर्महावलैर् अपि मर्त्यैः कर्तुम् अशक्यानि । गूटो भगवत्वेन बोद्धुम् अशक्यः, यतः कपटं भक्त-हितार्थं विप्र-वेशादिना याच्ञादि-लक्षणं मानुषेषु जरासन्धादिषु यस्य, सप्तम्याः परनिपातो गडादित्यात् ॥२०॥
॥ १.१.२१ ॥
कलिम् आगतम् आज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।
आसीना दीर्घ-सत्रेण कथायां सक्षणा हरेः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु याजनाध्यापनादि-व्यग्राणां कुत एतच् छ्रवणावकाशः स्याद् अत आहुः—कलिम् इति । कलिम् आगत्ं ज्ञात्वा तद्-भिया विष्णु-पदं गन्तु-कामा दीर्घ-सत्रेण निमित्तेनात्र वैष्णवे क्षेत्रे आसीनाः । हरेः कथायां सक्षणा लब्ध्वावसराः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु याज्ञिकानां युष्माकम् ईदृशं कृष्ण-यशः-श्रवणौत्सुक्यम् अतिचित्रं सत्यम् । सम्प्रति त्व् अस्माकं याज्ञिकत्वं प्रथा-मात्रम् एव जातम् इति जानीहीत्य् आहुः कलिम् इति । सक्षणा लब्धावसराः सोत्सवा वा ॥२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु कर्मासक्तानां वस्तच्-छ्रवणे कथम् अवकाशः? तत्राह—कलिम् इति । अस्मिन् क्षेत्रे नैमिशे सक्षणाः सावसराः सोत्सवाश् च, दीर्घ-सत्रारम्भस् त्व् अन्य-कारण-निवृत्यर्थ इति भावः ॥२१॥
॥ १.१.२२ ॥
त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।
कलिं सत्त्व-हरं पुंसां कर्ण-धार इवार्णवम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अस्मिंश् च समये त्वद्-दर्शनम् ईश्वरेणैव संपादितम् इत्य् अभिनन्दन्ति—त्वम् इति । कलिं संसारं निस्तर्तुम् इच्छताम् । अर्णवं तितीर्षितां कर्ण-धारो नाविक इव ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्णधारो नाविकः ॥२२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **त्वम् इति—धात्रा हरिणा, कर्ण-धारो नाविकः ॥२२॥
॥ १.१.२३ ॥
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्म-वर्मणि ।
स्वां काष्ठाम् अधुनोपेते धर्मः कं शरणं गतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुनः प्रश्नान्तरम्—ब्रूहीति । धर्मस्य वर्मणि कवचवद् रक्षके । स्वां काष्ठां मर्यादाम् । स्व-स्व-रूपम् इत्य् अर्थः । अस्य चोत्तरं कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह इत्य् अयं श्लोकः ॥२३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्वां काष्ठां दिशं निज-नित्य-धामेत्य् अर्थः ॥२३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्मस्य कर्मणि कवचवद् रक्षके तत्र हेतुः । योगेश्वर इति सामर्थ्यम् । ब्रह्मण्य इति दयालुत्वम् । स्वां काष्ठां स्वीयां स्थितिं मर्यादाम् । सा च स्वाविर्भावात् स-पाद-शत-वर्षान्ते प्रापञ्चिक-जन-दृष्ट्य्-अविषयता एव । काष्ठोत्कर्षे स्थितौ दिशीति । मर्यादा धारणा स्थितिर् इति चामरः ॥२३॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
प्रथमे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ब्रुहीति—धर्मस्य वर्मणि तद्वत्-तद्रक्षके, योगेश्वर इति रक्षणे सामर्थ्यं, ब्रह्मण्य इति कारुणिकत्वं, काष्ठां दिशं धामेति यष्टश् चेत्य् एभिः कृत्स्नः शास्त्रार्थः पृष्टः ॥२३॥
इति श्रीवैष्णवानन्दिन्यं प्रथम-स्कन्ध-टिप्पन्यां प्रथमऽध्यायः ॥१॥
इति ब्रह्म-सूत्र-भाष्ये श्रीमद्-भागवत-महा-पुराणे
पारमहंस्यां संहितायां वैयासिक्यां प्रथम-स्कन्धे
नैमिषीयोपाख्याने ऋषि-प्रश्नो नाम
प्रथमोऽध्यायः
॥ १.१ ॥
(१.२)
-
वारि-बुद्धिर् मरु-मारीचिकायां प्रसिद्धेति प्राचीन-पुस्तक-पाठः । ↩︎
-
केषुचित् पुस्तकेषु जन्म-स्थिति-भङ्गं यतो भवतीति पाठस् तत्र समाहार-द्वन्द्वो बोध्यः । ↩︎
-
अत्र पाठान्तरं—अष्टादश-सहस्रं तत् पुराणं परिकीर्तितम् इति क्वचित् । ↩︎
-
मूल-रूप-भगवत्-प्रदर्शनाय (ङ, छ, ज) ↩︎
-
निर्गुणस्य ब्रह्मणो (ज, यादवपूर) ↩︎
-
लभ्यते (झ, यादवपूर) ↩︎
-
निमित्त-परम् (झ, यादवपूर); द्वौ पाठौ मूले प्राप्येते। ↩︎
-
प्रामाणिकः (झ, यादवपूर); ↩︎
-
पुराणान्तरतः, द्रष्टव्यः तत्त्व-सन्दर्भः §१९। ↩︎
-
क्रम-वचनानि (झ, यादवपूर) ↩︎
-
सेए तत्त्व-सन्दर्भ ५५-५६। भा।पु। २.१०.१-७। ↩︎
-
तत्त्व-सन्दर्भे “मुक्ता-फले” इत्य् अधिकः पाठः । वस्तुत एतद् वाक्यं श्री-वोपदेव-कृत-हरि-लीला-ग्रन्थे प्राप्यते (१.९) । ↩︎
-
थिस् वेर्से इस् अल्सो चितेद् इन् सेच्तिओन्स् ४८ अन्द् १०७। ↩︎
-
अत्र-प्रभृति विश्वनाथस्य ब्रह्मणो हीति श्लोकस्य सारार्थ-वर्षिणी-तीकानुरूप-व्याख्या प्राप्यते । ↩︎
-
ब्रूहि नः श्रद्दधानानाम् इति श्री-जीवस्य पाठः । ↩︎
-
विस्तरेणारभ्य इतीत्य्-अन्तो ग्रन्थः प्राचीन-पुस्तकेऽस्ति । ↩︎
-
कृष्ण-स्। अद्द्स् हेरे- प्रशम एवायनं वर्त्म आश्रयो वा येषां ते ↩︎
-
कृष्ण-स्। अद्द्स् हेरे- उपस्पृष्टाः सन्निधि-मात्रेण सेविताः ↩︎