॥सनत्कुमार उवाच॥
विश्वास-प्रस्तुतिः
आदौ तु पञ्चतीर्थेषु चोत्तरे मानसे विधिः।
आचम्य कुशहस्तेन शिरश्चाभ्युक्ष्य वारिणा ॥ ४९.१ ॥
मूलम्

उत्तरं मानसं गच्छेन्मन्त्रेण स्नानमाचरेत्।
उत्तरे मानसे स्नानं करोम्यात्मविशुद्धये ॥ ४९.२ ॥

सूर्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये।
देवादींस्तर्पयित्वाथ श्राद्धं कुर्यात् सपिण्डकम् ॥ ४९.३ ॥

मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम्।
सूर्यं नत्वार्च्चयित्वाथ सूर्यलोकं नयेत्पितॄन् ॥ ४९.४ ॥

नमो भगवते भर्त्रे सोमभौमज्ञरूपिणे।
जीवभार्गवसौरेयराहुकेतुस्वरूपिणे ॥ ४९.५ ॥

उत्तरान्मानसान्मौनी व्रजेद्दक्षिणमानसम्।
उदीचीतीर्थमित्युक्तं तत्रौदीच्यं विमुक्तिदम् ।
अत्र स्नातो दिवं याति स्वशरीरेण मानवः ॥ ४९.६ ॥

मध्ये कनखलं तीर्थं त्रिषुलोकेषु विश्रुतम्।
स्नातः कनकवद्भाति नरो याति पवित्रताम् ॥ ४९.७ ॥

तस्य दक्षिणभागे च तीर्थं दक्षिणमानसम्।
अतः कनखलं लोके ख्यातं तीर्थमनुत्तमम् ॥ ४९.८ ॥

दक्षिणे मानसे चैव तीर्थत्रयमुदाहृतम्।
स्नात्वा तेषु विधानेन कुय्याच्छ्राद्धं पृथक्पृथक् ॥ ४९.९ ॥

दक्षिणे मानसे स्नानं करोम्यात्मविशुद्धये।
सूर्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये ॥ ४९.१० ॥

ब्रह्महत्यादिपापौघ यातनाया विमुक्तये।
दिवाकर करोमीह स्नानं दक्षिणमानसे ॥ ४९.११ ॥

नमामि सूर्यं तृप्त्यर्थं पितॄणां तारणाय च।
पुत्रपौत्रधनैश्वर्यायायुरारोग्य वृद्धये ॥ ४९.१२ ॥

अनेन स्नानपूजादि कृत्वा श्राद्धं सपिण्डकम्।
कृत्वा नत्वा च मौन्यर्कमिमं मन्त्रमुदीरयेत् ॥ ४९.१३ ॥

फल्गुतीर्थं व्रजेत्तस्मात् सर्वतीर्थोत्तमोत्तमम्।
मुक्तिर्भवति कर्त्तॄणां पितॄणां श्राद्धतः सदा ॥ ४९.१४ ॥

ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा।
दक्षिणाग्नौ हुतं तत्र तद्रजः फल्गुतीर्थकम् ॥ ४९.१५ ॥

तस्मिन्फलति फल्ग्वा गौः कामधेनुर्जलं मही।
दृष्टेरन्तर्गतं यस्मात्फल्गुतीर्थं न निष्फलम् ॥ ४९.१६ ॥

तीर्थानि यानि सर्वाणि भुवनेष्वखिलेष्वपि।
तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह ॥ ४९.१७ ॥

गङ्गा पादोदकं विष्णोः फल्गुर्ह्यादिगदाधरः।
स्वयं हि द्रवरूपेण तस्माद्गङ्गाधिकं विदुः ॥ ४९.१८ ॥

अश्वमेधसहस्राणां सहस्रं यः समाचरेत्।
नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ॥ ४९.१९ ॥

फल्गुतीर्थे विष्णुजले करोमि स्नानमादृतः।
पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये ॥ ४९.२० ॥

फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत्।
सपिण्डकं स्वसूत्रोक्तं नमेदथ पितामहम् ॥ ४९.२१ ॥

नमः शिवाय देवाय ईशाय पुरुषाय वै।
अघोरवामदेवाय सद्योजाताय शम्भवे ॥ ४९.२२ ॥

फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्।
आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ॥ ४९.२३ ॥

नत्वा गदाधरं देवं मन्त्रेणानेन पूजयेत् ।
ओं नमो वासुदेवाय नमः सङ्कर्षणाय च ॥ ४९.२४ ॥

प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे ।
पञ्चतीर्थे नरः स्नात्वा ब्रह्मलोकं नयेत्पितॄन् ॥ ४९.२५ ॥

अमृतैः पञ्चभिः स्नानं पुष्पवस्त्राद्यलङ्कृतम्।
न कुर्याद्यो गदापाणेस्तस्य श्राद्धमसार्थकम् ॥ ४९.२६ ॥

नागकूटाद्गृध्रकूटाद्युपादुत्तरमानसात्।
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थन्तदुच्यते ॥ ४९.२७ ॥

मुण्डपृष्ठनगाधस्तात्फल्गुतीर्थमनुत्तमम्।
अत्र श्राद्धादिना सर्वे पितरो मोक्षमाप्नुयुः ॥ ४९.२८ ॥

प्रथमेऽह्नि विधिः प्रोक्तो द्वितीये दिवसे व्रजेत्।
धर्मारण्यं तत्र धर्मो यस्माद्यज्ञमकारयत् ॥ ४९.२९ ॥

गमनाद्ब्रह्मलोकाप्तिर्भवत्येव हि नारद।
मतङ्ग वाप्यां यः स्नात्वा तर्पणं श्राद्धमाचरेत् ॥ ४९.३० ॥

गत्वा नत्वा मतङ्गेशमिमं मन्त्रमुदीरयेत्।
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः ॥ ४९.३१ ॥

मयागत्यमतङ्गेऽस्मिन्पितॄणां निष्कृतिः कृता।
पूर्वं हि ब्रह्मतीर्थं च कूपे श्राद्धादि कारयेत् ॥ ४९.३२ ॥

तत्कूपयूपयोर्मध्ये सर्वांस्तारयते पितॄन्।
धर्मं धर्मेश्वरं नत्वा महाबोधितरुं नमेत् ॥ ४९.३३ ॥

नमस्तेऽश्वत्थराजाय ब्रह्मविष्णुशिवात्मने।
बोधिद्रमाय कर्तॄणां पितॄणां तारणाय च ॥ ४९.३४ ॥

येऽस्मत्कुले मातृवंशे बान्धवा दुर्गतिं गताः।
त्वद्दर्शनात्स्पर्शनाच्च स्वर्गतिं यान्तु शाश्वतीम् ॥ ४९.३५ ॥

ऋणत्रयं मया दत्तं गयामागत्य वृक्षराट्।
त्वत्प्रसादान्महापापाद्विमुक्तोऽहं भवार्णवात् ॥ ४९.३६ ॥

तृतीये ब्रह्मसरसि स्नात्वा श्राद्धं सपिण्डकम्।
कृत्वा सर्वप्रमाणेन मन्त्रेण विधिवत्सुतः ॥ ४९.३७ ॥

स्नानं करोमि तीर्थेऽस्मिन् ऋणत्रयविमुक्तये।
तत्कूपयूपयोर्मध्ये ब्रह्मलोकं नयेत्पितॄन् ॥ ४९.३८ ॥

यागं कृत्वोत्थियो यूपो ब्रह्मणा यूप इत्यसौ।
कृत्वा ब्रह्मसरःश्राद्धं सर्वांस्तारयते पितॄन् ॥ ४९.३९ ॥

यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत्।
ब्रह्माणं च नमस्कृत्य ब्रह्मलोकं नयेत्पितॄन् ॥ ४९.४० ॥

नमोऽस्तु ब्रह्मणेऽजाय जगज्जन्मादिरूपिणे ।
भक्तानाञ्च पितॄणाञ्च तारकाय नमो नमः ॥ ४९.४१ ॥

गोप्रचारसमीपस्था आम्रा ब्रह्मप्रकल्पिताः।
तेषां सेचनमात्रेण पितरो मोक्षगामिनः ॥ ४९.४२ ॥

आम्रं ब्रह्मसरोद्भूतं ब्रह्मदेवमयं तरुम्।
विष्णुरूपं प्रसिञ्चामि पितॄणां मुक्तिहेतवे ॥ ४९.४३ ॥

एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददामि।
आम्रश्च तृप्ता एका क्रियाद्व्यर्थकरी प्रसिद्धा ॥ ४९.४४ ॥

ततो यम बलिं दद्यान्मन्त्रेणानेन संयतः।
यमराजधर्मराजौ निश्चलार्थं व्यवस्थितौ ॥ ४९.४५ ॥

ताभ्यां बलिं प्रयच्छामि पुतॄणां मुक्तिहेतवे।
ततः श्वानबलिं दद्यान्मन्त्रेणानेन नारद ॥ ४९.४६ ॥

द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ।
ताभ्यां बलिं प्रयच्छामि रक्षेतां पथि सर्वादा ॥ ४९.४७ ॥

ततः काकबलिं दद्यान्मन्त्रेणानेन नारद।
ऐन्द्रवारुणवायव्ययाम्या वै नैऋतास्तथा ॥ ४९.४८ ॥

वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं समर्पितम्।
फल्गुतीर्थे चतुर्थेऽह्नि स्नानादिकमथाचरेत् ॥ ४९.४९ ॥

गयाशिरस्यथ श्राद्धं पादे कुर्यात्सपिण्डकम्।
साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रितं कृतम् ॥ ४९.५० ॥

नागाज्जनार्द्दनाद्ब्रह्मयूपाच्चोत्तरमानसात्।
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥ ४९.५१ ॥

पितामहं समासाद्य यावदुत्तरमानसम्।
फल्गुतीर्थन्तु विज्ञेयं देवानामपि दुर्लभम् ॥ ४९.५२ ॥

क्रौञ्चपादात्फल्गुतीर्थं यावत्साक्षाद्गयाशिरः।
मुखं गयासुरस्यैतत्तस्माच्छ्राद्धमिहाक्षयम् ॥ ४९.५३ ॥

मुण्डपृष्ठान्नगाधस्तात्साक्षात्तत्फल्गुतीर्थ कम्।
आद्यो गदाधरो देवो व्यक्ताव्यक्तात्मना स्थितः ॥ ४९.५४ ॥

विष्ण्वादिपदरूपेण पितॄणां मुक्तिहेतवे।
एतद्विष्णुपदं दिव्यं दर्शनात्पापनाशनम् ॥ ४९.५५ ॥

स्पर्शनात्पूजनाद्वापि पितॄणां दत्तमक्षयम्।
श्राद्धं सपिण्डकं कृत्वा कुलसाहस्रमात्मना ॥ ४९.५६ ॥

नयेद्विप्णुपदं दिव्यमनन्तं शिवमव्ययम्।
श्राद्धं कृत्वा रुद्रपदे नयेत्कुलशतं नरः ॥ ४९.५७ ॥

सहात्मना शिवपुरं तथा ब्रह्मपदे नरः।
ब्रह्मलोकं कुलशतं समुद्धृत्य नयेत्पितॄन् ॥ ४९.५८ ॥

कश्यपस्य पदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन्।
दक्षिणाग्निपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ॥ ४९.५९ ॥

गार्हपत्यपदे श्राद्धी वाजपेयफलं लभेत्।
श्राद्धं कृत्वाहवनीये अश्वमेधफलं लभेत् ॥ ४९.६० ॥

श्राद्धं कृत्वा सभ्यपदे ज्योतिष्टोमफलं लभेत् ।
आवसथ्यपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ॥ ४९.६१ ॥

श्राद्धं कृत्वा शक्रपदे इन्द्रलोकं नयेत्पितॄन्।
अगस्त्यस्य पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ॥ ४९.६२ ॥

क्रौञ्चमातङ्गयोः श्राद्धी ब्रह्मलोकं नयेत्पितॄन्।
श्राद्धी सूर्यपदे पञ्च पापिनोऽर्क्कपुरं नयेत् ॥ ४९.६३ ॥

कार्तिकेयपदे श्राद्धी शिवलोकं नयेत्पितॄन्।
गणेशस्य पदे श्राद्धी रुद्रलोकं नयेत्पितॄन् ॥ ४९.६४ ॥

गजकर्णतर्पणकृन्निर्मलं स्वर्नयेत्पितॄन्।
अन्येषाञ्च पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ॥ ४९.६५ ॥

सर्वेषां काश्यपं श्रेष्ठं विष्णो रुद्रस्य वै पदम्।
ब्रह्मणश्च पदं चापि श्रेष्ठं तत्र प्रकीर्त्तितम् ॥ ४९.६६ ॥

प्रारम्भे च समाप्तौ च तेषामन्यतमं स्मृतम्।
श्रेयस्करं भवेत्तत्र श्राद्धकर्त्तुश्च नारद ॥ ४९.६७ ॥

कश्यपस्य पदे दिव्ये भारद्वाजो मुनिः पुरा।
श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ॥ ४९.६८ ॥

शुक्लकृष्णौ ततो हस्तौ पदमुद्भिद्य निर्गतौ।
दृष्ट्वा हस्तद्वयं तत्र मुनिः संशयमागतः ॥ ४९.६९ ॥

ततः स्वमातरं शान्तां पप्रच्छ स महामुनिः।
कश्यपस्य पदे दिव्ये शुक्ले कृष्णेऽथ वा करे ॥ ४९.७० ॥

भारद्वाज महाप्राज्ञ देहि कृष्णाय पिण्डकम् ॥ ४९.७१ ॥
विश्वास-प्रस्तुतिः
भारद्वाजस्ततः पिण्डं दातुं कृष्णाय चोद्यतः।
श्वेतोऽदृश्योऽब्रवीत्तत्र पुत्रस्त्वं हि ममौरसः ॥ ४९.७२ ॥

कृष्णोऽब्रवीन्मम क्षेत्रं ततो मे देहि पिण्डकम्।
स्वैरिण्यथाब्रवीद्दातुं क्षेत्रिणे बीजिने ततः ॥ ४९.७३ ॥

भारद्वाजस्ततः पिण्डं कश्यपस्य पदे ददौ ।
हंसयुक्तविमानेन ब्रह्मलोकमुभौ गतौ ॥ ४९.७४ ॥

रामो रुद्रपदे श्राद्धे पिण्डदानाय चोद्यतः।
पिता दशरथः स्वर्गात्प्रसार्य करमागतः ॥ ४९.७५ ॥

नादात्पिण्डं करे रामो ददौ रुद्रपदे ततः।
शास्त्रार्थातिक्रमाद्भीतं रामं दशरथोऽब्रवीत् ॥ ४९.७६ ॥

तारितोऽहं त्वया पुत्र रुद्रलोकमवाप्नुयाम्।
हस्ते पिण्डप्रदानेन स्वर्गतिर्न हि मे भवेत् ॥ ४९.७७ ॥

त्वञ्च राज्यं चिरं कृत्वा पालयित्वा द्विजान्प्रजाः।
यज्ञान्सदक्षिणान्कृत्वा विष्णुलोकं व्रजिष्यसि ॥ ४९.७८ ॥

पुर्ययोध्याजनैः सार्द्धं कृमिकीटादिभिः सह।
इत्युक्त्वासौ दशरथो रुद्रलोकं परं ययौ ॥ ४९.७९ ॥

भीष्मो विष्णुपदे श्रेष्ठे आहूय पितरं स्वकम्।
श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ॥ ४९.८० ॥

पितुर्विनिर्गतौ हस्तौ गयाशिरसि शन्तनोः।
नादात्पिण्डं करो भीष्मो ददौ विष्णुपदे ततः ॥ ४९.८१ ॥

शन्तनुः प्राह सन्तुष्टः शास्त्रार्थे निश्चलो भवान्।
त्रिकालदृष्टिर्भवत् चान्ते विष्णुश्च ते गतिः ॥ ४९.८२ ॥

स्वेच्छया मरणं चास्तु इत्युक्त्वा मुक्तिमागतः।
कनकेशञ्च केदारं नारसिंहं च वामनम् ॥ ४९.८३ ॥

उदङ्मार्गे समभ्यर्च्च्य पितॄन्सर्वांश्च तारयेत्।
गयाशिरसि यः पिण्डान्येषां नाम्ना तु निर्वपेत् ॥ ४९.८४ ॥

नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः।
गयाशिरसि यः पिण्डं शमीपत्रप्रमाणतः ॥ ४९.८५ ॥

कन्दमूलफलाद्यैर्वा दद्यात्स्वर्गं नयेत्पितॄन्।
पदानि यत्र दृश्यन्ते विष्ण्वादीनां तदग्रतः ॥ ४९.८६ ॥

श्राद्धं कृत्वा सपिण्डञ्च तेषां लोकान्नयेत्पितॄन्।
सर्वत्र मुण्डपृष्ठाद्रिः पदैरेभिः सुलक्षितः ॥ ४९.८७ ॥

प्रयान्ति पितरः सर्वे ब्रह्मलोकमनामयम्।
हेत्यसुरस्य यच्छीर्षं गदया तद्द्विधाकृतम् ॥ ४९.८८ ॥

ततः प्रक्षालिता यस्मात्तीर्थं तच्च विमुक्तये।
गदालोलमिति ख्यातं सर्वेषामुत्तमोत्तमम् ॥ ४९.८९ ॥

गदालोले महातीर्थे गदाप्रक्षालनाद्धरेः।
स्नानं करोमि सिद्ध्यर्थमक्षयं पदमाप्नुयाम् ॥ ४९.९० ॥

पञ्चमेऽह्नि गदालोले स्नात्वा कुर्यात्सपिण्डकम्।
श्राद्धं पितॄन्ब्रह्मलोकं नयेदात्मानमेव च ॥ ४९.९१ ॥

ब्रह्मप्रकल्पितान्विप्रान् हव्यकव्यादिनार्च्चयेत्।
तैस्तुष्टैस्तोषिताः सर्वाः पितृभिः सह देवताः ॥ ४९.९२ ॥

कृते श्राद्धेऽक्षयवटे अन्नेनैव प्रयत्नतः।
पितॄन्नयेद्ब्रह्मलोकमक्षयन्तु सनातनम् ॥ ४९.९३ ॥

वटवृक्षसमीपे तु शाकेनाप्युदकेन वा।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ ४९.९४ ॥

देयं दानं षोडशकं गयातीर्थपुरोधसे।
वस्त्रं गन्धादिभिः पुत्रैः सम्यक्सम्पूज्य यत्नतः ॥ ४९.९५ ॥

गयातीर्थवटे चैव पितॄणां दत्तमक्षयम् ।
दृष्ट्वा नत्वा च सम्पूज्य वटेशं सुसमाहितः ॥ ४९.९६ ॥

पितॄन्नयेद्ब्रह्मलोकमक्षयन्तु सनातनम्।
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्त था ॥ ४९.९७ ॥

गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम्।
एकार्णवे वटस्याग्रे यः शेते योगनिद्रया ॥ ४९.९८ ॥

बालरूपधरस्तस्मै नमस्ते योगशायिने।
संसारवृक्षशस्त्रायाशेषपापहराय च ॥ ४९.९९ ॥

अक्षयब्रह्मदात्रे च नमोऽक्षयवटाय वै।
कलौ माहेश्वरा लोका येन तस्माद्गदाधरः।
लिङ्गरूपोऽभवत्तञ्च वन्दे श्रीप्रपितामहम् ॥ ४९.१०० ॥