०४८

॥सनत्कुमार उवाच॥

विश्वास-प्रस्तुतिः

गयायात्रां प्रवक्ष्यामि श्रृणु नारद मुक्तिदाम्।
निष्कृतिः श्राद्धकर्तॄणां ब्रह्मणा गीयते पुरा ॥ ४८.१ ॥

मूलम्

उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः।
विधाय कार्पटीवेशं कृत्वा ग्रामं प्रदक्षिणम् ॥ ४८.२ ॥

ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्।
ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ॥ ४८.३ ॥

प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः।
अहङ्कारविमुक्तो यः स तीर्थफलमश्नुते ॥ ४८.४ ॥

यस्य हस्तौ च पादौ च मनश्चापि सुसंयतम्।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ४८.५ ॥

ततो गयाप्रवेशे च पूर्वतोऽस्ति महानदी ।
तत्र तोयं समुत्पाट्य स्नातव्यं निर्मले जले ॥ ४८.६ ॥

देवादींस्तर्पयित्वाथ श्राद्धं कृत्वा यथाविधिः ।
स्ववेदशाखागदितमर्घ्यावाहनवर्जितम् ॥ ४८.७ ॥

अपरेऽह्नि शुचिर्भूत्वा गच्छेद्वै प्रेतपर्वते ।
ब्रह्मकुण्डे ततः स्नात्वा देवादींस्तर्पयेत्सुधीः ॥ ४८.८ ॥

कुर्याच्छ्राद्धं सपिण्डानां प्रयतः प्रेतपर्वते।
प्राचीनावीतिना भाव्यं दक्षिणाभिमुखः सुधीः ॥ ४८.९ ॥

कव्यबालोऽनलः सोमो यमश्चैवार्यमा तथा।
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥ ४८.१० ॥

आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह।
मदीयाः पितरो ये च कुले जाताः सनाभयः ॥ ४८.११ ॥

तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम्।
ते सर्वे तृप्तिमायान्तु श्राद्देनानेन शाश्वतीम् ॥ ४८.१२ ॥

आचम्योक्ताव च पञ्चाङ्गं प्राणायामं प्रयत्नतः।
पुनरावृत्तिरहितब्रह्मलोकाप्तिहेतवे ॥ ४८.१३ ॥

एवञ्च विधिवच्छ्राद्धं कृत्वा पूर्वं यताक्रमम्।
पितॄनावाह्य चाभ्यर्च्य मन्त्रैः पिण्डप्रदो भवेत् ॥ ४८.१४ ॥

तीर्थे प्रेतशिलादौ च चरुणा सघृतेन वा ।
प्रक्षाल्य पूर्वं तत्स्थानं पञ्चगव्यैः पृथक्पृथक्।
तैर्मन्त्रैरथ सम्पूज्य पञ्चगव्यैश्च देवताम् ॥ ४८.१५ ॥

यावत्तिला मनुष्यैश्च गृहीता पितृकर्मसु।
गच्छन्ति तावदसुराः सिंहत्रस्ता यथा मृगाः ॥ ४८.१६ ॥

अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि ।
मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ॥ ४८.१७ ॥

वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम्।
पाद्यपूर्वं समारभ्य दक्षिणाग्रकुशैः क्रमात्।
पित्रादीनां समास्तीर्य शेषं गृह्योक्तमाचरेत् ॥ ४८.१८ ॥

दद्युः श्राद्धं सपिण्डानां तेषां दक्षिणभागतः।
कुशानास्तीर्यं विधिना सकृद्दत्वा तिलोदकम् ॥ ४८.१९ ॥

गृहीत्वाञ्जलिना तेभ्यः पितृतीर्थेन यत्नतः।
सक्तुना मुष्टिमात्रेण दद्यादक्षय्यपिण्डकम्।
सम्बन्धिनस्तिलाद्भिश्च कुशेष्वावाहयेत्ततः ॥ ४८.२० ॥

आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥ ४८.२१ ॥

अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम्।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥ ४८.२२ ॥

पिता पितामह श्चैव तथैव प्रपितामहः।
माता पितामही चैव तथैव प्रपितामही ॥ ४८.२३ ॥

मातामहस्तत्पिता च प्रमातामहकादयः।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ ४८.२४ ॥

मुष्टिमात्रप्रमाणञ्च ह्यार्द्रामलकमात्रकम्।
शमीफत्रप्रमाणं वा पिण्डं दद्याद्गयाशिरे।
उद्धरेत्सप्तगोत्राणि कुलानि शतमुद्धरेत् ॥ ४८.२५ ॥

पितुर्मातुः स्वभार्याया भगिन्या दुहितुस्तथा।
पितृष्वसुर्मातृष्वसुः सप्त गोत्राः प्रकीर्त्तिताः ॥ ४८.२६ ॥

चतुर्विंशतिविंशश्च षोडश द्वादशैव हि।
रुद्रादिवसवश्चैव कुलान्येकोत्तरं शतम् ॥ ४८.२७ ॥

नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः।
न कारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः ॥ ४८.२८ ॥

पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम्।
दक्षिणा चान्नसङ्कल्पं तीर्थश्राद्धेष्वयंविधिः ॥ ४८.२९ ॥

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते।
आवाहयिष्ये तान्सर्वान्दर्भपृष्ठे तिलोदकैः ॥ ४८.३० ॥

बन्धुवर्गकुले ये च गतिर्येषां न विद्यते।
आवाहयिष्ये तान्त्सर्वान् दर्भपृष्ठे तिलोदकैः ॥ ४८.३१ ॥

इत्येतैर्मन्त्रैः सजलैस्तिलैर्दर्भेषु ध्यानवान्।
आवाह्याभ्यर्च्य तेभ्यश्च पिण्डान्दद्याद्यथाक्रमम् ॥ ४८.३२ ॥

मूलम्

इत्येतैर्मन्त्रैः सजलैस्तिलैर्दर्भेषु ध्यानवान्।
आवाह्याभ्यर्च्य तेभ्यश्च पिण्डान्दद्याद्यथाक्रमम् ॥ ४८.३२ ॥

विश्वास-प्रस्तुतिः

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४८.३३ ॥

मातामहकुले ये च गतिर्येषां न विद्यते।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४८.३४ ॥

मूलम्

मातामहकुले ये च गतिर्येषां न विद्यते।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४८.३४ ॥

विश्वास-प्रस्तुतिः

बन्धुवर्गकुले ये च गतिर्येषां न विद्यते।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४८.३५ ॥

अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४८.३६ ॥

अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे।
विद्युच्चोरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥ ४८.३७ ॥

दावदाहे मृता ये च सिंहव्याग्रहताश्च ये।
दंष्ट्रिभिः श्रृङ्गिभिर्वापि तेभ्यः पिण्डं ददाम्यहम् ॥ ४८.३८ ॥

उद्बन्धनमृता ये च विषशस्त्रहताश्च ये।
आत्मापघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥ ४८.३९ ॥

अरण्ये वर्त्मनि वने क्षुधया तृषया हताः।
भूतप्रेतपिशाचाद्यैस्तेभ्यः पिण्डं ददाम्यहम् ॥ ४८.४० ॥

रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः।
तेषामुद्धरणार्ताय इमं पिण्डं ददाम्यहम् ॥ ४८.४१ ॥

असिपत्रवने घोरे कुम्भीपाकेषु ये गताः।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४८.४२ ॥

अनेकयातनासंस्थाः प्रेतलोकञ्च ये गताः।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४८.४३ ॥

अनेकयातनासंस्था ये नीता यमकिङ्करैः।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४८.४४ ॥

नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४८.४५ ॥

पशुयोनि गता येच पक्षिकीटसरीसृपाः।
अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम् ॥ ४८.४६ ॥

जात्यन्तरसहस्रेषु भ्रमन्तः स्वेन कर्मणा।
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥ ४८.४७ ॥

दिव्यन्तरिक्षभूमिष्ठाः पितरो बान्धवादयः।
मृता असंस्कृता ये च तेब्यः पिण्डं ददाम्यहम् ॥ ४८.४८ ॥

ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम।
ते सर्वे तृप्तिमायान्तु पिण्डेनानेन सर्वदा ॥ ४८.४९ ॥

येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ ४८.५० ॥

पितृवंशे मृता ये च मातृवंशे च ये मृताः।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ ४८.५१ ॥

ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः।
क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ॥ ४८.५२ ॥

विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ ४८.५३ ॥

आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः।
कुलद्वये ये मम दासभूता भृत्या स्तथैवाश्रितसेवकाश्च ॥ ४८.५४ ॥

मित्राणि शिष्याः पशवश्च वृक्षा दृष्टा ह्यदृष्टाश्च कृतोपकाराः।
जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधा पिण्डमहं ददामि ॥ ४८.५५ ॥

एतैश्च सर्वमन्त्रैस्तु स्त्रीलिङ्गान्तं समूह्य च।
पिण्डान्दद्याद्यथापूर्वं स्त्रीणां मात्रादिकक्रमात् ॥ ४८.५६ ॥

स्वगोत्रे परगोत्रे वा दम्पत्योः पिण्डपातनम्।
अपृथङ् निष्फलं श्राद्धं पिण्डञ्चोदकतर्पणम् ॥ ४८.५७ ॥

पिण्डपात्रे तिलान्क्षिप्त्वा पूरयित्वा शुभोदकैः।
परिषिच्य त्रिधा सर्वान् प्रणिपत्य समापयेत् ॥ ४८.५८ ॥

पितॄन्विसृज्य चाचम्य साक्षिणः श्रावयेत्सुरान् ।
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा।
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥ ४८.५९ ॥

आगतोऽस्मि गयां देव पितृकार्ये गदाधर।
त्वमेव साक्षी भगवन्ननृणोऽहमृणत्रयात् ॥ ४८.६० ॥

सर्वस्थानेषु चैवं स्यात् पिण्डदानन्तु नारद।
प्रेतपर्वतमारभ्य कुर्यात्तीर्थेषु च क्रमात् ॥ ४८.६१ ॥

तिलमिश्रांस्ततः सक्तून्निःक्षिपेत्प्रेतपर्वते।
अपसव्येन देवर्षे दक्षिणाभिमुखेन च ॥ ४८.६२ ॥

मूलम्

तिलमिश्रांस्ततः सक्तून्निःक्षिपेत्प्रेतपर्वते।
अपसव्येन देवर्षे दक्षिणाभिमुखेन च ॥ ४८.६२ ॥

विश्वास-प्रस्तुतिः

ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम।
ते सर्वे तृप्तिमायान्तु सक्तुभिस्तिलमिश्रितैः ॥ ४८.६३ ॥

आब्रह्मस्तम्बपर्यन्तं यत्किञ्चित्सचराचरम्।
मया दत्तेन तोयेन तृप्तिमायान्तु सर्वशः ॥ ४८.६४ ॥

प्रेतत्वाच्च विमुक्ताः स्युः पितरस्तस्य नारद।
प्रेतत्वं तस्य माहात्म्यात्कुले चापि न जायते ॥ ४८.६५ ॥

नाम्ना प्रेतशिला ख्याता गयाशिरसि मुक्तये।
तीर्थमन्त्रादिरूपेण स्थित श्चादिगदाधरः ॥ ४८.६६ ॥

इति श्रीवायुपुराणे वायुप्रोक्ते गयामाहात्म्यं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥ *