।.नारद उवाच॥
विश्वास-प्रस्तुतिः
कथं व्यक्तस्वरूपेण स्थितश्चादिगदाधरः।
कथं व्यक्तस्वरूपेण व्यक्ताव्यक्तात्मना स्थितः ॥ ४७.१ ॥
मूलम्

कथं गदा समुत्पन्ना यथा ह्यादिगदाधरः।
गदालोलं कथं चासीत् सर्वपापक्षयङ्करम् ॥ ४७.२ ॥

सनत्कुमार उवाच॥
विश्वास-प्रस्तुतिः
गदो नामासुरो ह्यासीद्वज्राद्वज्रतरो दृढः।
तपसा दारुणेनासौ ब्रह्मलब्धवरः पुरा।
प्रार्थितो ब्रह्मणे प्रादात्स्वशरीरास्थि दुस्त्यजम् ॥ ४७.३ ॥

ब्रह्मोक्तो विश्वकर्मापि गदां चक्रेऽद्बुतां तदा।
तदस्थि वज्रनिष्पेषैः कुन्दैः स्वर्गे ह्यधारयत् ॥ ४७.४ ॥

अथ कालेन महाता मनौ स्वायम्भुवे क्वचित।
हेती रक्षो ब्रह्मपुत्रः तपस्तेपे सुदारुणम् ॥ ४७.५ ॥

दिव्यवर्षसहस्राणां शतं वायुमभक्षयत्।
उन्मुखश्चोर्ध्वबाहुश्च पादाङ्गुष्ठभरेण ह ॥ ४७.६ ॥

एकेनातिष्टदव्यग्रः शीर्णपर्णानिलाशनः।
ब्रह्मादींस्तपसा तुष्टान्वरं वव्रे वरप्रदान् ॥ ४७.७ ॥

देवैर्दैत्यैश्च शस्त्रैर्विविधैर्मनुजादिभिः।
कृष्णेशानादिचक्राद्यैरवध्यः स्यां महाबलः ॥ ४७.८ ॥

तथेत्युक्त्वान्तर्हितास्ते हेतिर्देवानथाजयत्।
इन्द्रत्वमकरोद्धेतिर्भीता ब्रह्महरादयः ॥ ४७.९ ॥

हरिं ते शरणं जग्मुरूचुर्हेतिं जहीति तान् ।
ऊचे हरिरवध्योऽयं हेतिर्देवासुरैः सुराः ॥ ४७.१० ॥

महास्त्रं मे प्रयच्छध्वं हेतिं हन्मि हि येन तम्।
इत्युक्तास्ते ततो देवा गदां तां हरये ददुः ॥ ४७.११ ॥

दधार तां गदामादौ देवैरुक्तो गदाधरः ।
गदया हेतिमाहत्य देवैः स त्रिदिवं ययौ ॥ ४७.१२ ॥

गदामादाववष्टभ्य गयासुरशिरःशिलाम्।
निश्चलार्थं स्थितो यस्मात्तस्मादादिगदाधरः ॥ ४७.१३ ॥

शिलापर्वतरूपेण व्यक्त आदिगदाधरः ।
शिलासौ मुण्डपृष्ठाद्रिः प्रभासो नामपर्वतः ॥ ४७.१४ ॥

उद्यन्तो गीतनादश्च भस्मकूटो गिरिर्महान्।
गृध्र कूटः प्रेतकूटश्चादिपालोऽरविन्दकः ॥ ४७.१५ ॥

पञ्चलोकः सप्तलोको वैकुण्ठो लोहदण्डकः ।
क्रौञ्चपादोऽक्षयवटः फल्गुतीर्थं मधुश्रवाः ॥ ४७.१६ ॥

दधिकुल्या मधुकुल्या देविका च महानदी।
वैतरण्यादिरूपेण व्यक्त आदिगदाधरः ॥ ४७.१७ ॥

विष्णोः पदं रुद्रपदं ब्रह्मणः पदमुत्तमम्।
काश्यपस्य पदं दिव्यं द्वौ हस्तौ यत्र निर्गतौ ॥ ४७.१८ ॥

पञ्चाग्नीनां पदान्यत्र इन्द्रागस्त्यपदे परे।
रवेश्च कार्त्तिकेयस्य क्रौञ्चमातङ्गयोरपि ॥ ४७.१९ ॥

मुख्यलिङ्गानि सर्वाणि व्यक्ताव्यक्तात्मना स्थितः।
आद्यो गदाधरश्चैव व्यक्तः श्रीमान् गदाधरः ॥ ४७.२० ॥

गायत्री चैव सावित्री सन्ध्या चैव सरस्वती ।
गयादित्यश्चोत्तरार्को दक्षिणार्कोऽपि नैमिषः ॥ ४७.२१ ॥

श्वेतार्को गणनाथश्च वसवोऽष्टौ मुनीश्वराः।
रुद्राश्चैकादशैवाथ तथा सप्तर्षयोऽपरे ॥ ४७.२२ ॥

सोमनाथश्च सिद्धेशः कपर्द्दीशो विनायकः।
नारायणो महालक्ष्मीर्ब्रह्मा श्रीपुरुषोत्तमः ॥ ४७.२३ ॥

मार्कण्डेयेशः कौटीशो ह्यङ्गिरेशः पितामहः।
जनार्दनो मङ्गला च पुण्डरीकाक्ष उत्तमः ॥ ४७.२४ ॥

इत्यादिव्यक्तरूपेण स्थितश्चादिगदाधरः।
हेतिर्यो राक्षसस्तस्मिन्हते विष्णुः पुरं गतः ॥ ४७.२५ ॥

ब्रह्मणा सह रुद्राद्यैः कारिते निश्चलेऽसुरे ।
तुष्टावाद्यगदापाणिं वेधा हर्षेण निर्वृतः ॥ ४७.२६ ॥

ब्रह्मोवाच॥
विश्वास-प्रस्तुतिः
गदाधरं व्यपगतकालकल्मषं गयागतं विदितगुणं गुणातिगम्।
गुहागतं गिरिवरगौरगेहगं गणार्च्चितं वरदमहं नमामि ॥ ४७.२७ ॥

अहःश्रियं त्रिदशगणादिसुश्रियं भवश्रियं दितिभवदारणश्रियम्।
कलिश्रियं कलिमलमर्दनश्रियं गदाधरं नौमि तमाश्रितश्रियम् । ४७.२८ ॥
विश्वास-प्रस्तुतिः
दृढादॄढं परिवृढगाढसंस्तुतं कामाद्भुतं सुदृढमरूढिरूढिगम्।
तमाढ्यगं दृढदुरिताद्यढौकितं स्वढौकृतं दृढतरगोत्रसूक्तिभम् ॥ ४७.२९ ॥

विदेहकं करणकलाविवर्जितं विजन्मकं दिवकरवेदिभूषितम्।
गदाधरं ध्वनिमुखवर्जितं परं नमाम्यहं सतत मनादिमीश्वरं हरिम् ॥ ४७.३० ॥

मनोऽतिगं मतिगतिवर्जितं परं सदाद्वयं स्तुतिशिरसि संस्तुतं बुधैः।
चिदात्मकं कलिगतकारणातिगं गदाधरं हृदयगतं नमामि तम् ॥ ४७.३१ ॥

देवैः सार्द्धं ब्रह्मणैवं स्तुतश्चादिगदाधरः ।
ऊचे वरं वृणीष्व त्वं वरं ब्रह्मा तमब्रवीत् ॥ ४७.३२ ॥

शिलायां देवरूपिण्यां न तिष्ठामस्त्वया विना।
स्थास्यामोऽत्र त्वया सार्द्धं नित्यं व्यक्तादिरूपिणा ॥ ४७.३३ ॥

एवमस्तु श्रिया सार्द्धं स्थितश्चादिगदाधरः।
लोकानां रक्षणार्थाय जगतां मुक्तिहेतवे।
सुव्यक्तः पुण्डरीकाक्षो जनार्दन इति श्रुतः ॥ ४७.३४ ॥

वेदैरगम्या या मूर्त्तिरादिभूता सनातनी।
सुव्यक्ता श्वेतकल्पे सा भविष्यति तथा पुनः।
वाराहकल्पे ह्यव्यक्ता व्यक्तिमप्यगमत्पुरा ॥ ४७.३५ ॥

सन्तारणाय लोकानां देवानां रक्षणाय च।
गयाशिरसि सुव्यक्तो भविष्यति न संशयः ॥ ४७.३६ ॥

ये द्रक्ष्यन्ति सदा भक्त्या देवमादिगदाधरम्।
कुष्ठरोगादिनिर्मुक्ता यास्यन्ति हरिमन्दिरम् ॥ ४७.३७ ॥

ते प्राप्स्यन्ति धनं धान्यमायुरारोग्यमेव च ॥ ४७.३८ ॥

कलत्रपुत्रपौत्रादिगुणकीर्त्तिसुखानि च।
श्रद्धया ये नमस्यन्ति राज्यं ब्रह्मपुरं तथा।
भुक्त्वा व्रजेयुः सततं पुण्यपुञ्जफलं नराः ॥ ४७.३९ ॥

गन्धदानेन गन्धाढ्यः सौभाग्यं पुष्पदानतः।
धूपदानेन राज्याप्तिर्दीपाद्दीप्तिर्भविष्यति ॥ ४७.४० ॥

ध्वजदानात्पापहानिर्यात्राकृद्ब्रह्मलोकभाक्।
श्राद्धपिण्डप्रदो यस्तु विष्णुं नेष्यति वै पितॄन् ॥ ४७.४१ ॥

श्रद्धया ये नमस्यन्ति सतोत्रेणादिगदाधरम्।
स्तोष्यन्ति च समभ्यर्च्य पितॄन्नेष्यन्ति माधवम्।
शिवोऽपि परया प्रीत्या तुष्टावादिगदाधरम् ॥ ४७.४२ ॥

॥शिव उवाच॥
विश्वास-प्रस्तुतिः
अव्यक्तरूपो यो देवो मुण्डपृष्ठादिरूपतः ।
फल्गुतीर्थादिरूपेण नमाम्यादिगदाधरम् ॥ ४७.४३ ॥

व्यक्ताव्यक्तस्वरूपेण पदरूपेण संस्थितः।
मुखलिङ्गादिरूपेण नमाम्यादिगदाधरम् ॥ ४७.४४ ॥

अव्यक्तरूपो यो देवो जनार्दनस्वरूपतः।
मुण्डपृष्ठे स्वयं जातो नामाम्यादिगदा धरम् ॥ ४७.४५ ॥

शिलायां देवरूपिण्यां स्थितं ब्रह्मादिभिः सुरैः।
पूजितं सत्कृतं देवैस्तं नमामि गदाधरम् ॥ ४७.४६ ॥

यं च दृष्ट्वा ततः स्पृष्ट्वा पूजयित्वा प्रणम्य च ।
श्राद्धादौ ब्रह्मलोकाप्तिर्नमाम्यादिगदाधरम् ॥ ४७.४७ ॥

महदादेश्च जगतो व्यक्तस्यैकं हि कारणम्।
अव्यक्तज्ञानरूपं तं नमाम्यादिगदाधरम् ॥ ४७.४८ ॥

देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम्।
जाग्रत्स्वप्नविनिर्मुक्तं नमाम्यादिगदाधरम् ॥ ४७.४९ ॥

नित्यानित्यविनिर्मुक्तं सत्यमानन्दमव्ययम्।
तुरीयं ज्योतिरात्मानं नमाम्यादिगदाधरम् ॥ ४७.५० ॥

॥सनत्कुमार उवाच॥
विश्वास-प्रस्तुतिः
एवं स्तुतो महेशेन प्रीतो ह्यादिगदाधरः।
स्थितो देवः शिलायां स ब्रह्माद्यैर्दैवतैः सह ॥ ४७.५१ ॥

संस्थितं मुण्डपृष्ठाद्रौ देवमादिगदाधरम्।
स्तुवन्ति पूजयन्तीह ब्रह्मलोकं प्रयान्तु ते ॥ ४७.५२ ॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ॥ ४७.५३ ॥

वन्ध्या च लभते पुत्रं वेदवेदाङ्गपारगम्।
राजा विजयमाप्नोति शूद्रश्च सुखमाप्नुयात् ॥ ४७.५४ ॥

पुत्रार्थी लभते पुत्रानभ्यर्च्यादिगदाधरम्।
मनसा प्रार्थितं सर्वं पूजाद्यैः प्राप्नुयाद्धरेः ॥ ४७.५५ ॥

इति श्रीवायुपुराणे वायुप्रोक्ते गयामाहात्म्यं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥*