॥सनत्कुमार उवाच॥
विश्वास-प्रस्तुतिः
वक्ष्ये शिलाया माहात्म्यं श्रृणु नारद मुक्तिदम्।
यस्या गायन्ति देवाश्च माहात्म्यं मुनिपुङ्गवाः ॥ ४६.१ ॥
मूलम्

शिला स्थिता पृथिव्यां सा देवरूपातिपावनी।
विचित्राख्यं शिलातीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ४६.२ ॥

तस्याः संस्पर्शनाल्लोकाः सर्वे हरिपुरं ययुः।
शून्ये लोकत्रये जाते शून्या यमपुरी ह्यभूत् ॥ ४६.३ ॥

यम इन्द्रादिभिर्गत्वा ऊचे ब्रह्माणमद्भुतम्।
अधिकारं गृहाणाथ यमदण्डं पितामह ॥ ४६.४ ॥

यममूचे ततो ब्रह्मा स्वगृहे धारयस्व ताम्।
ब्रह्मोक्तो धर्मराजस्तु गृहे तां समधारयत् ॥ ४६.५ ॥

यमोऽधिकारं स्वं चक्रे पापिनां शासनादिकम्।
एवंविधा गुरुतरा शिला जगति विश्रुता ॥ ४६.६ ॥

यथा ब्रह्ना यथा विष्णुर्यथा देवो महेश्वरः।
ब्रह्माण्डे च यथा मेरु स्तथेयं देवरूपिणी ॥ ४६.७ ॥

गयासुरस्य शिरसि गुरुत्वाद्धारिता यतः ।
अतः पवित्रयोर्योगः पितॄणां मोक्षदायकः ॥ ४६.८ ॥

पवित्रयोर्द्वयोर्योगे हयमेध मजोऽकरोत्।
भागार्थमागतान्दृष्ट्वा विष्ण्वादीनब्रवीच्छिला ॥ ४६.९ ॥

शिलास्थितिप्रतिज्ञां तु कुर्वन्तु पितृमुक्तये।
तथेत्युक्त्वा शिलायान्ते देवा विष्ण्वादयः स्थिताः ॥ ४६.१० ॥

शिलारूपेण मूर्त्त्या च पदरूपेण देवताः।
मूर्त्तामूर्तस्वरूपेण स्थिताः पूर्वप्रतिज्ञया ॥ ४६.११ ॥

दैत्यस्य मुण्ड पृष्ठे तु यस्मात्सा संस्थिता शिला।
तस्मात्स मुण्डपृष्ठाद्रिः पितॄणां ब्रह्मलोकदः ॥ ४६.१२ ॥

आच्छादितः शिलापादः प्रभासेनाद्रिणा यतः।
भासितो भास्करेणेति प्रभासः परिकल्पितः ॥ ४६.१३ ॥

प्रभासं हि विनिर्भिद्य शिलाङ्गुष्ठो विनिर्गतः।
अङ्गुष्ठोत्थित ईशोऽपि प्रभासेशः प्रकीर्त्तितः ॥ ४६.१४ ॥

शिलाङ्गुष्ठैकतेशो यः सा च प्रेतशिला स्मृता।
पिण्डदानाद्यतस्तस्यां प्रेतत्वान्मुच्यते नरः ॥ ४६.१५ ॥

महानदीप्रबासाद्योः सङ्गमे स्नानकृन्नरः।
रामो देव्या सह स्नातो रामतीर्थं ततः स्मृतम् ॥ ४६.१६ ॥

प्रार्थितोऽत्र महानद्या राम स्नातो भवेति च।
रामतीर्थं ततो भूत्वा त्रिषु लोकेषु विश्रुतम् ॥ ४६.१७ ॥

जन्मान्तरशतं साग्रं यत्कृतं दुष्कृतं मया।
तत्सर्वं विलयं यातु रामतीर्थाभिषेचनात् ॥ ४६.१८ ॥

मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः।
रामतीर्थे पिण्डदस्तु विष्णुलोकं प्रयात्यसौ।
तथेत्युक्त्वा स्थितो रामः सीतया भरताग्रजः ॥ ४६.१९ ॥

राम राम महाबाहो देवानामभयङ्कर।
त्वां नमस्येऽत्र देवेशं मम नश्यतु पातकम् ॥ ४६.२० ॥

मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्यात्सपिण्डकम् ।
प्रेतत्वात्तस्य पितरो विमुक्ताः पितृतां ययुः ॥ ४६.२१ ॥

आपस्त्वमसि देवेश ज्योतिषां पतिरेव च।
पाप नाशय मे देव मनोवाक्कायकर्मजम् ॥ ४६.२२ ॥

नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत्।
तञ्च शम्भुं नमस्कृत्य कुर्याद्यमबलिं ततः ॥ ४६.२३ ॥

रामे वनं गते शैलमागत्य भरतः स्थितः ।
पितृपिण्डादिकं कृत्वा रामं संस्थाप्य तत्र च ॥ ४६.२४ ॥

रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः।
भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम्।
मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ॥ ४६.२५ ॥

स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनात्।
मतङ्गस्य पदे श्राद्धी सर्वांस्तारयते पितॄन् ॥ ४६.२६ ॥

रामतीर्थे नरः स्नात्वा रामं सीतां समर्च्य च।
रामेश्वरं प्रणम्याथ न देही जायते पुनः ॥ ४६.२७ ॥

शिलाया जघनं भूयः समाक्रान्तं नगेन तु।
धर्मराजेन सम्प्रोक्तो न गच्छेति नगः स्मृतः ॥ ४६.२८ ॥

यमराजधर्मराजौ निश्चलार्थं व्यवस्थितौ।
ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्ति हेतवे ॥ ४६.२९ ॥

द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ।
ताभ्यां बलिं प्रयच्छामि स्यातामेतावहिंसकौ ॥ ४६.३० ॥

ऐन्द्रवारुण वायन्ययाम्यनैऋत्यसंस्थिताः।
वायसाः प्रतिगृह्णन्तु भूयो पिण्डं मया स्थितम् ॥ ४६.३१ ॥

यमोऽसि यमदूतोऽसि वायसोऽसि महाबल।
सप्तजन्मकृतं पापं बलिं भुक्त्वा विनाशय ॥ ४६.३२ ॥

रामे वनं गते शैलमागत्य भरतेन हि।
पितुः पिण्डादिकं कृत्वा रामेशः स्थापितोऽत्र वै ॥ ४६.३३ ॥

स्नात्वा नत्वा च रामेशं रामसीता समन्वितम्।
तत्र श्राद्धं सपिण्डञ्च कृत्वा विष्णुपुरं व्रजेत्।
पितृभिः सह धर्मात्मा कुलानाञ्च शतैःसह ॥ ४६.३४ ॥
मूलम्
स्नात्वा नत्वा च रामेशं रामसीता समन्वितम्।
तत्र श्राद्धं सपिण्डञ्च कृत्वा विष्णुपुरं व्रजेत्।
पितृभिः सह धर्मात्मा कुलानाञ्च शतैःसह ॥ ४६.३४ ॥
विश्वास-प्रस्तुतिः
रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः।
भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम्।
मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ॥ ४६.३५ ॥

वह्निर्द्वौ वरुणौ रुद्राश्चत्वारः पितृमोक्षदाः।
भरताश्रममासाद्य तान्नमेत्पूजयेन्नरः ॥ ४६.३६ ॥

पापेभ्यश्चोपपापेभ्यो मुच्यते पितृभिः सह।
यत्र कुत्रापि देवर्षे भरतस्याश्रमे नरः ।
स्नातः श्राद्धादिकं कुर्यात्तत्कल्पेऽपि न हीयते ॥ ४६.३७ ॥

गयायां चाक्षयं श्राद्धं जपहोमतपांसि च।
सर्वमानन्त्यमाहुर्वै यद्दत्तं भरताश्रमे ॥ ४६.३८ ॥

चतुर्युगस्वरूपेण चतस्रो रविमूर्त्तयः ।
दृष्टाः स्पृष्टाः पूजितास्ताः पितॄणां मुक्तिदायकाः ॥ ४६.३९ ॥

मुक्तिर्वाम्मन इत्येव तारकाख्यो विधिः परः।
संसारार्णवतप्तानां नावावेतौ सुरेश्वरौ।
तारकं ब्रह्म विश्वेषां मृतानां जीवतामिदम् ॥ ४६.४० ॥

त्रिविक्रमञ्च ब्रह्माणं यः पश्येत्पुरुषोत्तमम्।
पितृभिः सह धर्मात्मा स याति परमां गतिम् ॥ ४६.४१ ॥

शिलाया वामपादेऽपि तथाभ्युद्यन्तको गिरिः ।
स्थापितः पिण्डदस्तत्र पितॄन्ब्रह्मपुरं नयेत् ॥ ४६.४२ ॥

नैमिषारण्यपार्श्वे तु ईचे ब्रह्मा सुरैः सह।
मुख्यसञ्ज्ञं हि तत्तीर्थं देवास्तत्र पदे स्थिताः ॥ ४६.४३ ॥

त्रिषु तेषु पदेष्वेव तीर्थेषु मुनिसत्तम।
यत्किञ्चिदशुभं कर्म तत्प्रणश्यति नारद ॥ ४६.४४ ॥

तन्नैमिषवनं पुण्यं सेवितं पुण्यपूरुषैः।
तत्र व्यासः शुकः पैलः कण्वो वेधाः शिवो हरिः ॥ ४६.४५ ॥

तेषां दर्शनमात्रेण मुच्यते पातकैर्नरः।
वामहस्ते शिलायास्तु तथा चोद्यन्तको गिरिः ॥ ४६.४६ ॥

स पर्वतः समानीतो ह्यगस्त्येन महात्मना।
तत्र ब्रह्मा हरश्चैव तपश्चोग्रञ्च चक्रतुः ॥ ४६.४७ ॥

तत्रागस्त्यस्य हि वरं कुण्डं त्रैलोक्यदुर्लभम्।
यत्र मुन्यष्टकं सिद्धं तपस्तप्त्वा शिवं गतम्।
कुण्डे मुन्यष्टकं नत्वा पितॄन्ब्रह्मपुरं नयेत् ॥ ४६.४८ ॥

अगस्त्येनाथ देवर्षे ह्युदयाद्रेर्महात्मना।
शिलाया वामहस्तेऽपि स्थापितो गिरिराट् शुभः।
वादित्राद्यैर्दिव्यगीतैराढ्यो वादित्रको गिरिः ॥ ४६.४९ ॥

तत्र विद्याधरो नाम गन्धर्वाप्सरसाङ्गणैः।
समेतोऽद्यापि कीतानि दिव्यानि सह गीयते ॥ ४६.५० ॥

मोहनश्च सुनीथश्च शैलूजो मोहनोत्तमः।
पर्वतो नारदध्यानी सङ्गीती पुष्पदन्तकः।
हाहा हूहूप्रभृतयो गीतदानं प्रजक्रिरे ॥ ४६.५१ ॥

तथा चित्ररथो नाम सर्वगन्धर्वसंवृतः।
गायति मधुराण्येव गीतान्यद्रौ महोत्सवम् ॥ ४६.५२ ॥

अतः स पर्वतो देवैः सेव्यतेऽद्यापि नित्यशः।
धर्मजास्तत्र देवेशो हरो भस्माङ्गरागवान् ॥ ४६.५३ ॥

पार्वत्या सहितो रुद्रः पर्वते गीतनादिते।
मोदते पूजितोद्येयः पितॄणां परमां गतिम् ॥ ४६.५४ ॥

गयायां परमात्मा हि गोपतिर्वा गदाधरः।
हीयते वैष्णवी माया तथा रुद्रार्च्चया मुने ॥ ४६.५५ ॥

शिलाया दक्षिणे हस्ते भस्मकूटो गिरिर्धृतः।
धर्मराजेन तत्रास्ते ह्यगस्त्यः सह भार्यया ॥ ४६.५६ ॥

अगस्त्यस्य पदे स्नातः पिण्डदो ब्रह्मलोकगः।
ब्रह्मणस्तु वरं लेभे माहात्म्यं भुवि दुर्लभम् ॥ ४६.५७ ॥

लोपामुद्रां तथा भार्यां पितॄणां परमां गतिम्।
तत्रागस्त्येश्वरं दृष्ट्वा मुच्यते ब्रह्महत्यया ॥ ४६.५८ ॥

अगस्त्यञ्च सभार्यञ्च पितॄन्ब्रह्मपुरं नयेत्।
दण्डिनाथ तपस्तेपे सीताद्रेर्दक्षिणे गिरौ ॥ ४६.५९ ॥

वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः।
तदग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी।
कपिलेशो नदीतीरे ह्यमासोमसमागमे ॥ ४६.६० ॥

कपिलायां नरः स्नात्वा कपिलेशं समर्च्य च।
कृते श्राद्धे पिण्डदाने पितरो मोक्षमाप्नुयुः ॥ ४६.६१ ॥

तत्राग्निधारा गिरिवरादागतोद्यन्तकादनु।
तत्र सारस्वतं कुण्डं सरस्वत्या प्रकल्पितम् ॥ ४६.६२ ॥

शुक्रस्तत्र सुतैः सार्द्धं षण्डामर्क्कादिभिः प्रभुः।
तत्र तत्र मुनीन्द्राणां पदेषु मुनिसत्तम।
श्राद्धपिण्डादिकृत्स्नातः पितॄंस्तारयते नरः ॥ ४६.६३ ॥

शिलाया वामहस्तेऽपि गृद्रकूटो गिरिर्धृतः।
गृध्ररूपेण संसिद्धास्तपस्तप्त्वा महर्षयः ॥ ४६.६४ ॥

अतो गिरिर्गृध्रकूटस्तत्र गृध्रेश्वरः स्थितः।
दृष्ट्वा गृध्रेश्वरं नत्वा यायाच्छम्भोः पदं नरः ॥ ४६.६५ ॥

तत्र गृध्रे गुहायाञ्च पिण्डदः शिवलोकभाक् ।
तत्र गृध्रे वटं नत्वा प्राप्तकामो दिवं व्रजेत् ॥ ४६.६६ ॥

ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत्।
शूरक्षेत्रञ्च तत्रास्ते पिण्डदः स्वर्नयेत्पितॄन् ॥ ४६.६७ ॥

आदिपालेन गिरिणा समाक्रान्तं शिलोदरम्।
तत्रास्ते गजरूपेण विघ्रेशो विग्ननाशनः।
तं दृष्ट्वा मुच्यते विघ्नैः पितॄन् ब्रह्मपुरं नयेत् ॥ ४६.६८ ॥

नितम्बे मुण्डपृष्ठस्य देवदारुवनं त्वभूत्।
मुण्डपृष्ठारविन्द्राद्री दृष्ट्वा पापं विनाशयेत्।
गयानाभौ सुषुम्नायां पिण्डदः स्वर्नयेत्पितॄन् ॥ ४६.६९ ॥

शिलाया वामपादे तु स्थापितः प्रेतपर्वतः।
धर्मराजेन पापेभ्यो गिरिः प्रेतशिलाह्वयः ॥ ४६.७० ॥

पादेन दूरे निक्षिप्तः शिलायाः पादभारतः।
गतः शिलायाः संसर्गात्प्रेतकूटः पवित्रताम् ॥ ४६.७१ ॥

प्रेतकुण्डञ्च तत्रास्ते देवास्तत्र पदे स्थिताः।
तत्र कुण्डादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ॥ ४६.७२ ॥

पृथक्स्थिताश्च बहवो विघ्नकारिण एव ते।
श्राद्धादिकारिणां नॄणां तीर्थे पितृविमुक्तये।
प्रेता धानुष्करूपेण करग्रहणकारकाः ॥ ४६.७३ ॥

पादाङ्कितां मुण्डपृष्ठां महादेवनिवासिनीम्।
तां दृष्ट्वा सर्वलोकश्च मुक्तः पापोपपातकैः ॥ ४६.७४ ॥

गयाशिरसि पुण्ये च सर्वपापैर्विवर्जिते।
ग्रेतादिवर्जितं यस्मात्ततोऽतिपावनं वरम् ॥ ४६.७५ ॥

कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्।
च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ॥ ४६.७६ ॥

वैकुण्ठो लोहदण्डश्च गृध्रकूटश्च शोणकः।
अत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत् ॥ ४६.७७ ॥

क्रौञ्चरूपेण हि मुनिर्मुण्डपृष्ठे तपोऽकरोत्।
तस्य पादाङ्कितो यस्मात्क्रौञ्चपादस्ततः स्मृतः ॥ ४६.७८ ॥

स्नातो जलाशये तत्र नयेत्स्वर्गं स्वकं कुलम्।
बलिः काकशिलायाञ्च काकेभ्य ऋणमोक्षदः ॥ ४६.७९ ॥

मुण्डपृष्ठस्य सानौ हि लोमशो लोमहर्षणः।
द्वावेतौ परमं तप्त्वा तपःसिद्धिं परां गतौ ॥ ४६.८० ॥

आहूतास्तु सरिच्छ्रेष्ठा लोमशेन महानदी।
शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ४६.८१ ॥

कावेरी सिन्धुरीरा च चन्दना च सरिद्वरा।
वासिष्ठी सरयूर्गङ्गा यमुना गण्डकीन्दिरा ॥ ४६.८२ ॥

महावैतरणी नाम्ना निक्षरा च दिवौकसः ।
सावव्यलकनन्दा च ह्युदीची कन्काह्वया ॥ ४६.८३ ॥

कौशिकी ब्रह्मदा ज्येष्ठा सर्वस्याघविमोचिनी।
कृष्णवल्वा चर्मवती द्वे नद्यौ मुक्तिदायिके ॥ ४६.८४ ॥

आहूते सरितां श्रेष्ठे लोमह्रर्षेण साहसात् ।
तपसस्तु प्रभावेण नर्मदा मुनिपुङ्गव।
तासु सर्वासु यः स्नात्वा पिण्डदः स्वर्नयेत्पितॄन् ॥ ४६.८५ ॥

ब्रह्मयोनिं प्रविश्याथ निर्गच्छेद्यस्तु मानवः।
परं ब्रह्म स यातीह विमुक्तो योनिसङ्कटात् ॥ ४६.८६ ॥

निक्षरायां पुष्करिण्यां स्नातः श्राद्धादिकं नरः।
कुर्यात्क्रौञ्चपदे दिव्ये नियमाद्वासरत्रयम्।
सर्वान्पितॄन्नयेत्स्वर्गं पञ्चपापिन एव च ॥ ४६.८७ ॥

जनार्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः।
आत्मनोऽप्यथवान्येषां सव्येनापि तिलैर्विना।
जीवतां दधिसम्मिश्रं सर्वे ते विष्णुलोकगाः ॥ ४६.८८ ॥

यस्तु पिण्डो मया दत्तस्तव हस्ते जनार्दन।
यदुद्दिश्य त्वया देयस्तस्मिन्पिण्डो मृते प्रभो ॥ ४६.८९ ॥

एष पिण्डो मया दत्तस्तव हस्ते जनार्दन।
अन्तकाले गते मह्यं त्वया देयो गयाशिरे ॥ ४६.९० ॥

जनार्दन नमस्तुभ्यं नमस्ते पितृमोक्षद।
पितृपते नमस्तेऽस्तु नमस्ते पितृरूपिणे ॥ ४६.९१ ॥

गयायां पितृरूपेण स्वयमेव जनार्दनः।
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ॥ ४६.९२ ॥

नमस्ते पुण्डरीकाक्ष ऋणत्रयविमोचक।
लक्ष्मीकान्त नमस्तेऽस्तु पितॄणां मोक्षदो भव ॥ ४६.९३ ॥

वामजानु सुसम्पात्य नत्वा भीमो जनार्दनम्।
श्राद्धं सपिण्डकं कृत्वा भ्रातृभिर्ब्रह्मलोकभाक्।
पितृभिः सह धर्मात्मा कुलानाञ्च शतेन च ॥ ४६.९४ ॥

शिलायां व्यक्तरूपेण व्यक्ताव्यक्तात्मना स्थितः।
लक्ष्मीशो विभुधैः सार्द्धं तस्माद्देवमयी शिला ॥ ४६.९५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम षट्चत्वारिंशोऽध्याय- ॥ ४६ ॥*