॥नारद उवाच॥
विश्वास-प्रस्तुतिः
कथं शिला समुत्पन्ना ययाक्रान्तो गयासुरः ।
किं रूपं किं च माहात्म्यं तस्याः किं वद नाम च ॥ ४५.१ ॥
मूलम्

।.सनत्कुमार उवाच॥
विश्वास-प्रस्तुतिः
आसीद्धर्मो महातेजाः सर्वविज्ञानपारगः।
विश्वरुपा च तत्पत्नी भर्त्तृव्रतपरायणा ॥ ४५.२ ॥

तस्यां धर्मव्रतायास्तु कन्या धर्मव्रता सती।
सर्व लक्षणसम्पन्ना लक्ष्मीरिव गुणाधिका ॥ ४५.३ ॥

तस्यां ये तु गुणा ह्यासंस्ते तिष्ठन्ति जगत्र्त्रये।
धर्मो धर्मव्रतायास्तु त्रिषु लोकेषु मार्गयन् ॥ ४५.४ ॥

नानु रूपं वरं लेभे धर्मोऽथ वरसिद्धये।
तपः कुरु वरार्थं त्वं तथेत्युक्त्वा वनं ययौ ॥ ४५.५ ॥

कन्या सा च तपस्तेपे सर्वेषां दुष्करञ्च यत्।
वायुभक्षा श्वेतकल्पे युगानामयुतं पुरा ॥ ४५.६ ॥

ब्रह्मणो मानसः पुत्रो मरीचिर्नाम विश्रुतः ।
पर्यटन्पृथिवीं सर्वां कन्यारत्नं ददर्श सः ॥ ४५.७ ॥

रूपयौवनसम्पन्नां परमे तपसि स्थिताम्।
पप्रच्छाथ मरीचिस्तां का त्वं कस्यापि तद्वद ॥ ४५.८ ॥

रूपेणानेन मां भीरु विमोहयसि सुव्रते ।
ब्रह्मात्मजोऽहं विख्यातो मरीचिर्वेदपारगः ॥ ४५.९ ॥

मरीचेर्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम्।
अहं धर्मव्रता नाम धर्मपुत्री तपोऽन्विता ॥ ४५.१० ॥

पतिव्रतार्थं विप्रेन्द्र चरामि परमं तपः।
धर्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्व्कम् ॥ ४५.११ ॥

पतिव्रता दर्शनान्मे भविष्यसि शुभव्रते।
पतिव्रतेच्छया पृथ्वीं विचरामि ह्यहर्निशम् ॥ ४५.१२ ॥

त्वञ्चेत्पतिव्रता जाता भजे त्वां भज मां वरम्।
लोके न त्वादृशी कन्या मम तुल्यो न ते वरः ॥ ४५.१३ ॥

धर्मव्रते धर्मपत्नी तस्मात्त्वं भव मेऽधुना।
धर्मव्रता मुनिं प्राह धर्मं याचय सुव्रत ॥ ४५.१४ ॥

तच्छ्रुत्वा धर्ममगमन्मुनिं धर्मो ददर्श ह।
तेजःपुञ्जं वरं नत्वा आसनार्घ्यादिनार्च्चयत् ॥ ४५.१५ ॥

किमर्तमागतः पृष्टो मरीचिर्धर्ममब्रवीत्।
कन्यार्थं भ्रमता पृथ्वी दृष्टा ते कन्यका वरा ।
मह्यं कन्याञ्च तां देहि श्रेयस्तव भविष्यति ॥ ४५.१६ ॥

अर्घ्यादिना समभ्यर्च्य धर्मं प्रोचे तथेति तम्।
धर्मव्रतां समानीय दत्तवांस्तां मरीचये ॥ ४५.१७ ॥

वरं च दत्तवांस्तस्मै तद्वाक्यं यत्तथा कृतम्।
अग्निहोत्रेण सहितां स्वाश्रमं तां द्विजोऽनयत् ॥ ४५.१८ ॥

रेमे मुनिस्तया सार्द्धं यथा विष्णुः श्रिया सह।
पार्वत्या च यथा शम्भुः सरस्वत्या यथा ह्यजः ॥ ४५.१९ ॥

जज्ञे पुत्रशतं तस्यां मरीचेर्विष्णुनोपमम्।
मरीचिः फलपुष्पार्थं वनं गत्वा समागतः ॥ ४५.२० ॥

श्रान्तः कदाचित्तां पत्नीमुवाचेति पतिव्रताम्।
भुक्त्वा तु शयनस्थस्य पादसंवाहनं कुरु ॥ ४५.२१ ॥

धर्मव्रता तथेत्युक्त्वा शयनस्थस्य सा मुनेः।
पादसंवाहनं चक्रे घृते नाभ्यज्य तत्परा ॥ ४५.२२ ॥

निद्रायमाणेऽथ मुनौ ब्रह्मा तं देशमागतः।
इत्येष दृष्ट्वा ब्रह्माणं मनसार्च्चयितुं प्रभुम् ॥ ४५.२३ ॥

पादसंवाहनं कुर्यां किं पूज्योऽयं जगद्गुरुः।
इत्याकुला समुत्तस्थौ मत्वा सा तं गुरोर्गुरुम् ॥ ४५.२४ ॥

अर्घ्यपाद्यादिकं दत्त्वा ब्रह्माणं समपूजयत्।
सत्कृतायान्तु शय्यायां विश्राममकरोदजः ॥ ४५.२५ ॥

एतस्मिन्नन्तरे भर्त्ता समुत्तस्थौ च तल्पतः।
धर्मव्रतामपश्यन्स विप्रः क्रुद्धः शशाप ताम् ॥ ४५.२६ ॥

पादसंवाहनं त्यक्त्वायस्मादाज्ञां विहाय मे ।
गतान्यत्र ततः पापाच्छापदग्धा शिला भव ॥ ४५.२७ ॥

भर्त्रा धर्मव्रता शप्ता मरीचिं प्राह सा रुषा।
शयाने त्वयि सम्प्राप्ते ब्रह्मा त्वज्जनको गुरुः ॥ ४५.२८ ॥

त्वयोत्थाय हि कर्त्तव्यं स्वगुरोः पूजनं सदा।
मया तु धर्मचारिण्या तव कार्ये कृते मुने ॥ ४५.२९ ॥

अदोषाहं यतः शप्ता तस्माच्छापं ददामि ते।
त्वञ्च शापं महादेवाद्भर्त्तः प्राप्स्यस्यसंशयम् ॥ ४५.३० ॥

व्याकुलं तं पतिं दृष्ट्वा व्याकुलागात्प्रजापतिम्।
नत्वा शयानं ब्रह्माणमग्निं प्रज्वाल्य चेन्धनैः ॥ ४५.३१ ॥

गार्हपत्ये स्थिता चक्रे तपः परमदुष्करम्।
तथा शप्तो मरीचिश्च तपस्तेपे सुदारुणम् ॥ ४५.३२ ॥

पतिव्रतायास्तपसा मरीचेस्तपसा यथा।
इन्द्रादयश्च सन्तप्ता गतास्ते शरणं हरिम् ॥ ४५.३३ ॥

ऊचुः क्षीराम्बूदौ सुप्तं सन्तप्तास्तपसा हरे।
पतिव्रतायाश्च मुनेस्त्रैलोक्यं रक्ष केशव ॥ ४५.३४ ॥

इन्द्रादीनां वचः श्रुत्वा विष्णुर्धर्मव्रतां ययौ।
एतस्मिन्नेव काले तु प्रबुद्धो भगवानजः।
ऊचुर्धर्मर्वतां देवा अग्निस्थां तां सकेशवाः ॥ ४५.३५ ॥

अग्निमध्ये तपः कर्त्तुं कस्य शक्तिः पतिव्रते।
त्वया कृतं तत्परमं सर्वलोकभयङ्करम् ॥ ४५.३६ ॥

वरं वरय धर्मज्ञे अस्मत्तो यदभीप्सितम्।
विष्ण्वादीनां वचः श्रुत्वा देवान्धर्मव्रताब्रवीत् ॥ ४५.३७
विश्वास-प्रस्तुतिः
भर्तृशापमशक्ताहं निवर्त्तयितुमोजसा।
दत्तो मरीचिना शापो मह्यं स ह्यपगच्छतु ॥ ४५.३८ ॥

धर्मव्रतावचः श्रुत्वा प्रोचुरेतां सुराः पुनः ।
धर्मव्रते धर्मपुत्रि शापोऽयं परमर्षिणा ॥ ४५.३९ ॥

दत्तस्ते न निराकर्त्तुं शक्यो देवद्विजातिभिः।
तस्मादन्यं वरं ब्रूहि यतो धर्मस्य संस्थितिः ॥ ४५.४० ॥

भवेद्वै त्रिषु लोकेषु वेदोक्तस्य शुभव्रते।
देवानां वचनं श्रुत्वा देवान्धर्मव्रताब्रवीत् ॥ ४५.४१ ॥

भर्त्तुः शापान्मोचयितुं न शक्ताश्च यदामराः।
मह्यं वरं प्रयच्छध्वमेवंविधमनुत्तमम् ॥ ४५.४२ ॥

शिलाहं हि भविष्यामि ब्रह्माण्डे पावनी शुभा।
नदीनदसरस्तीर्थदेवादिभ्योऽतिपावनी ॥ ४५.४३ ॥

ऋष्यादिभ्यो मुनुभ्यश्च मुख्यदेवेभ्य एव च।
त्रैलोक्ये यानि लिङ्गानि व्यक्ताव्यक्तात्मकान्यपि।
तानि तिष्ठन्तु मद्देहे तीर्थरूपेण सर्वदा ॥ ४५.४४ ॥

तीर्थान्यपि च सर्वाणि नक्षत्रप्रमुखास्तथा।
तिष्ठन्तु देवाः सकला देव्यश्च मुनयस्तथा ॥ ४५.४५ ॥

ब्रह्मा विष्णुश्च रुद्रश्च लक्षयित्वा पदं मयि।
पञ्चाग्नयः कुमाराद्या बहुरुपेण संस्थिताः ॥ ४५.४६ ॥

मूर्त्तामूर्त्तस्वरूपेण पदरूपेण देवताः।
शिलायां क्रोशमात्रेण मूर्त्तिरूपाः स्थिता भुवि ॥ ४५.४७ ॥

तां दृष्ट्वा सर्वलोकश्च महापातकनाशिनीम्।
पूतो धर्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ॥ ४५.४८ ॥

शिलास्थितेषु तीर्थषु स्नात्वा कृत्वाथ तर्पणम्।
श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते ॥ ४५.४९ ॥

गदाधरो दृश्यतीर्थं सर्वतीर्थोत्तमोत्तमम्।
स्थास्यन्ति च मरिष्यन्ति यान्तु ब्रह्मपुरीं नराः।
वाराणसी प्रयागश्च पुरुषोत्तमसञ्ज्ञकम् ॥ ४५.५० ॥

गङ्गासागरसञ्ज्ञञ्च नित्यं तिष्ठतु फल्गुनि।
गदाधराधिष्ठितं तत्सर्वतीर्थोत्तमोत्तमम्।
मुक्तिर्भवेत् पितॄणां च मृतानां श्राद्धतः सदा ॥ ४५.५१ ॥

जरायुजाण्डजा वापि स्वेदजा वापि चोद्भिदः।
त्यक्त्वा देहं शिलायान्ते यान्तु विष्णुस्वरूपताम् ॥ ४५.५२ ॥

यथार्च्चिते हरौ सर्वे यज्ञाः पूर्णा भवन्ति हि।
तथा श्राद्धं तर्पणञ्च स्नानं चाक्षयमस्त्विह ॥ ४५.५३ ॥

मम देहे सुरेशानां ये जपन्ति श्रुतादिकम्।
अचिरेणापि ते सिद्धाः सिद्धिभाजो भवन्तु वै ॥ ४५.५४ ॥

पितॄणां कुलसाहस्रमात्मना सहितं नरः।
श्राद्धादिना समुद्धृत्य विष्णुलोकं नयेद्ध्रुवम् ॥ ४५.५५ ॥

यावत्यो हि सरिच्छ्रेष्ठा गङ्गाद्याश्च ह्रदाः शुभाः।
समुद्राद्याः सरोमुख्या मानसाद्याः सुरेश्वराः।
नृणां श्राद्धं विदधतो मुक्तये निवसन्तु मे ॥ ४५.५६ ॥

शरीरेण समायान्तु क्वचिन्नो यान्तु देवताः।
एको विष्णुस्त्रिधामूर्त्तिर्यावत्सङ्कीर्त्यते बुधैः ॥ ४५.५७ ॥

तावच्छिलायां सर्वाणि तीर्थानि सह दैवतैः।
सदा तिष्ठन्तु मुनयो गन्धर्वाणां गणाश्च ये ॥ ४५.५८ ॥

सर्वदेवस्वरूपा च नामेयं देवरूपिणी।
यावत्तिष्ठति ब्रह्माण्डं तावत्तिष्ठतु वै शिला।
मम देहेऽश्मरूपे च ये जपन्ति तपन्ति च ॥ ४५.५९ ॥

जुहोत्यग्नौ च तेषां वै तदक्षय्योपतिष्ठताम् ।
अक्षयन्तु भवेच्छ्राद्धं जपहोमतपांसि च।
शिलापर्वतरूपेण मयि तिष्ठतु सर्वदा ॥ ४५.६० ॥

पतिव्रतावचः श्रुत्वा देवाः प्रोचुः पतिव्रताम्।
त्वया यत्प्रार्थितं सर्वं तद्भविष्यत्यसंशयम् ॥ ४५.६१ ॥

गयासुरस्य शिरसि भविष्यसि यदा स्थिरा।
तदा पादादिरूपेण स्थास्यामस्त्वयि सुस्थिराः।
वरं शिलायै दत्त्वैवं तत्रैवान्तर्द्दधुः सुराः ॥ ४५.६२ ॥

इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥ *