नारद उवाच॥
विश्वास-प्रस्तुतिः
गयासुरः कथं जातः किम्प्रभावः किमात्मकः ।
तपस्तप्तं कथं तेन कथं देहपवित्रता ॥ ४४.१ ॥
मूलम्

सनत्कुमार उवाच॥
विश्वास-प्रस्तुतिः
विष्णोर्नाभ्यम्बुजाज्जातो ब्रह्मा लोकपितामहः।
प्रजाः ससर्ज सम्प्रोक्तः पूर्वं देवेन विष्णुना ॥ ४४.२ ॥

आसुरेणैव भावेन ह्यसुरानसृजत्पुरा।
सौमनस्येन भावेन देवान्सुमनसोऽसृजत् ॥ ४४.३ ॥

गयासुरोऽसुराणाञ्च महाबलपराक्रमः।
योजनानां सपादञ्च शतं तस्योच्छ्रयः स्मृतः ॥ ४४.४ ॥

स्थूलः षष्टिर्योजनानां श्रेष्ठोऽसौ वैष्णवः स्मृतः।
कोलाहलगिरिवरे तपस्तेपे सुदारुणम् ॥ ४४.५ ॥

बहुवर्षसहस्राणि निरुच्छ्वासं स्थिरोऽभवत्।
तत्तपस्तापिता देवाः सङ्क्षोभं परमं गताः ॥ ४४.६ ॥

ब्रह्मलोकं गता देवाः प्रोचुस्तेऽथ पितामहम्।
गयासुराद्रक्ष देव ब्रह्मा देवांस्ततोऽब्रवीत् ॥ ४४.७ ॥

व्रजामः शङ्करं देवा ब्रह्माद्याश्च गताः शिवम्।
कैलासे चाब्रुवन्नत्वा रक्ष देव महासुरात् ॥ ४४.८ ॥

ब्रह्माद्यानब्रवीच्छम्भुर्व्रजामः शरणं हरिम्।
क्षीराब्धौ देवदेवेशः स नः श्रेयो विधास्यति।
ब्रह्मा महेश्वरो देवा विष्णुं नत्वा प्रतुष्टुवुः ॥ ४४.९ ॥

देवा ऊचुः ॥
विश्वास-प्रस्तुतिः
ॐ नमो विष्णवो भर्त्रे सर्वेषां प्रभविष्णवे।
रोचिष्णवे जिष्णवे च राक्षसादिग्रसिष्णवे ॥ ४४.१० ॥

धरिष्णवेऽखिलस्यास्य योगिनां पारयिष्णवे ।
वर्द्धिष्णवे ह्यनन्ताय नमो भ्राज्ष्णिवे नमः ॥ ४४.११ ॥
मूलम्
धरिष्णवेऽखिलस्यास्य योगिनां पारयिष्णवे ।
वर्द्धिष्णवे ह्यनन्ताय नमो भ्राज्ष्णिवे नमः ॥ ४४.११ ॥
सनत्कुमार उवाच॥
विश्वास-प्रस्तुतिः
एवं स्तुतो वासुदेवः सुराणां दर्शनं ददौ।
किमर्थमागता देवा विष्णुनोक्तास्तमब्रुवन् ॥ ४४.१२ ॥

गयासुरभयाद्देव रक्षास्मानब्रवीद्धरिम्।
ब्रह्माद्या यान्तु तं दैत्यमागमिष्याम्यहं ततः ॥ ४४.१३ ॥

केशवे गरुडारूढो वरं दातुं गयासुरे।
सर्वे स्वं स्वं समास्थाय ययुर्वाहनमुत्तमम् ॥ ४४.१४ ॥

ऊचुस्तं वासुदेवाद्याः किमर्थं तप्यते त्वया।
सन्तुष्टाः स्वागताः सर्वे वरं ब्रूहि गयासुर ॥ ४४.१५ ॥

गयासुर उवाच॥
विश्वास-प्रस्तुतिः
यदितुष्टाः स्थ मे देवा ब्रह्मविष्णुमहेश्वराः।
सर्वदेवद्विजातिभ्यो यज्ञतीर्थशिलोच्चयात् ॥ ४४.१६ ॥

देवेभ्योऽतिपवित्रोऽहमृषिभ्योऽपि शिवाव्ययात्।
मन्त्रेभ्यो देवदेवेभ्यो योगिभ्यश्चापि सर्वशः ॥ ४४.१७ ॥

न्यासिभ्यश्चापि कर्मिभ्यो धर्मिभ्यश्च तथा पुनः।
ज्ञातिभ्योऽतिपवित्रेभ्यः पवित्रः स्यां सदा सुराः ॥ ४४.१८ ॥

पवित्रमस्तु तं देवा दैत्यमुक्त्वा ययुर्दिवम्।
दैत्यं दृष्ट्वा च स्पृष्ट्वा च सर्वे हरिपुरं ययुः ॥ ४४.१९ ॥

शून्यं लोकत्रयं जातं शून्या यमपुरी ह्यभूत्।
यम इन्द्रादिभिः सार्द्धं ब्रह्मलोकं ततोऽगमत् ॥ ४४.२० ॥

ब्रह्माणमूचिरे देवा गयासुरविलोपिताः।
त्वया दत्तोऽधिकारो वै गृहाण त्वं पितामह ॥ ४४.२१ ॥

ब्रह्माब्रवीत्ततो देवान्व्रजामो विष्णुमव्ययम्।
ब्रह्मादयोऽब्रुवन्विष्णुं त्वया दत्तवरेऽसुरे ॥ ४४.२२ ॥

तद्दर्शनाद्ययुः स्वर्गं शून्यं लोक त्रयं ह्यभूत्।
देवैरुक्तो वासुदेवो ब्रह्माणं स वचोऽब्रवीत् ॥ ४४.२३ ॥

गत्वासुरं प्रार्थयस्व यज्ञार्थं देहि देहकम्।
विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यन्महासुरम् ॥ ४४.२४ ॥

गयासुरोऽब्रवीद्दृष्ट्वा ब्रह्माणं त्रिदशैः सहः।
सम्पूज्योत्थाय विधिवत्प्रण्तः श्रद्धयान्वितः ॥ ४४.२५ ॥

॥गयासुर उवाच॥
विश्वास-प्रस्तुतिः
अद्य मे सफलं जन्म अद्य मे सफलं तपः।
यदागतोऽतिथिर्ब्रह्मा सर्वं प्राप्तं मयाद्य वै ॥ ४४.२६ ॥

योगिन्योगाङ्गवित्सर्वलोकस्वामिन्पितर्गुरो।
यदर्थमा गतो ब्रह्मन्स्तत्कार्यं करवाण्यहम् ॥ ४४.२७ ॥

॥ब्रह्मोवाच॥
विश्वास-प्रस्तुतिः
पृथिव्यां यानि तीर्थानि दृष्टानि भ्रमता मया।
यज्ञार्थं न तु ते तानि पवित्राणि शरीरतः ॥ ४४.२८ ॥

त्वया देहे पवित्रत्वं प्राप्तं विष्णुप्रसादतः।
अतः पवित्रं देहं त्वं यज्ञार्थं देहिमेऽसुर ॥ ४४.२९ ॥

धन्योऽहं देव देवेश यद्देहं प्रार्थ्यते त्वया।
पितृवंशः कृतार्थो मे देहे यागं करोषि चेत् ॥ ४४.३० ॥

त्वयैवोत्पादितो देहः पवित्रस्तु त्वया कृतः।
सर्वेषामुपकाराय यागोऽवश्यं भवत्विति ॥ ४४.३१ ॥

इत्युक्त्वा सोऽपतद्भूमौ श्वेतकल्पे गयासुरः।
नैऋतीं दिशमाश्रित्य तदा कोलाहले गिरौ ॥ ४४.३२ ॥

शिरः कृत्वोत्तरे दैत्यः पादौ कृत्वा तु दक्षिणे।
ब्रह्मा सम्भृतसम्भारो मानसानृत्विजोऽसृजत् ॥ ४४.३३ ॥

अग्निशर्माणम्मृतं शौनकं याञ्जलिं मृदुम्।
कुमुथिं वेद कौण्डिल्यं हारीतं काश्यपं कृपम् ॥ ४४.३४ ॥

गर्गं कौशिकवासिष्ठौ मुनिं भार्गवमव्ययम्।
वृद्धं पाराशरं कण्वं माण्डव्यं श्रुतिकेवलम् ॥ ४४.३५ ॥

श्वेतं सुतालं दमनं सुहोत्रं कङ्कमेव च।
लौकाक्षिञ्च महाबाहुं जैगीषव्यं तथैव च ॥ ४४.३६ ॥

दधिपञ्चमुखं विप्रमृषभं कर्कमेव च।
कात्यायनं गोभिलञ्च मुनिमुग्रमगाव्रतम् ॥ ४४.३७ ॥

सुपालकं गौतमञ्च तथा वेदशिरोव्रतम्।
जटामालिनमव्यग्रं चाटुहासञ्च दारुणम् ॥ ४४.३८ ॥

आत्रेयं चाप्यङ्गिरसमौपमन्युं महा व्रतम्।
गोकर्णञ्च गुहावासं शिखण्डिनमुमाव्रतम् ॥ ४४.३९ ॥

एतानन्यांश्च विप्रेन्द्रान्वेधा लोकपितामहः ।
परिकल्प्याकरोद्यागं गयासुरशरीरके ॥ ४४.४० ॥

अग्निशर्मापि पञ्चाग्नीन्मुखादेतानथासृजत्।
दक्षिणाग्निं गार्हपत्याहवनीयौ तपोऽव्ययः ॥ ४४.४१ ॥

सत्यावसथ्यौ देवर्षे येषु यज्ञाः प्रतिष्ठिताः।
यज्ञस्य च प्रतिष्ठार्थं विप्रेभ्यो दक्षिणां ददौ ॥ ४४.४२ ॥

हुत्वा पूर्णाहुतिं ब्रह्ना स्नात्वा चावभृथेन तु।
यज्ञयूपं सुरैः सार्द्धं समानीय व्यरोपयत् ॥ ४४.४३ ॥

ब्रह्मणः सहसा श्रेष्ठे सरस्येवाश्रितं शुभम्।
चलितश्चकितो ब्रह्मा धर्मराजमभाषत ॥ ४४.४४ ॥

जाता गृहे तव शिला समानीयाविचारयन्।
दैत्यस्य शीघ्रं शिरसि तां धारय ममाज्ञया ॥ ४४.४५ ॥

निश्चलार्थं यमः श्रुत्वा धारयन्मस्तके शिलाम्।
शिलायां धारितायान्तु सशिलश्चासुरोऽचलत् ॥ ४४.४६ ॥

देवानूचेऽथ रुद्रादीञ्छिलायां निश्चलाः किल।
तिष्ठन्तु देवाः सकलास्तथेत्युक्त्वा च ते स्थिताः ॥ ४४.४७ ॥

देवाः पादैर्लक्षयित्वा तथापि चलितोऽसुरः।
ब्रह्माथ व्याकुलो विष्णुं गतः क्षीराब्धिशायिनम्।
तुष्टाव प्रणतो भूत्वा नत्वा चादृत्य तं प्रभुम् ॥ ४४.४८ ॥

।.ब्रह्मोवाच॥
विश्वास-प्रस्तुतिः
ब्रह्माण्डस्य पते नाथ नमामि जगतां पतिम्।
कतिं कीर्त्तिमतां नॄणां बुक्तिमुक्तिप्रदायकम् ॥ ४४.४९ ॥

विष्वक्सेनोऽब्रवीद्विष्णुं देव त्वां स्तौति पद्मजः।
हरिराहानय त्वं तं विष्णूक्तः स तमानयत्।
अजमूचे हरिः कस्मादागतोऽसि वदस्व तत् ॥ ४४.५० ॥

देवदेव कृते योगे प्रचचाल गयासुरः।
शिलायां देवरूपिण्यां न्यस्तायां तस्य मस्तके ॥ ४४.५१ ॥

रुद्रादिषु च देवेषु संस्थितेष्वसुरोऽचलत्।
इदानीं निश्चलार्थं हि प्रसादं कुरु माधव ॥ ४४.५२ ॥

ब्रह्मणो वचनं श्रुत्वा ह्याकृष्य स्वशरीरतः ।
मूर्त्तिं ददौ निश्चलार्थं ब्रह्मणे भगवान्हरिः ॥ ४४.५३ ॥

आनीय मूर्त्तिं ब्रह्मापि शिलायां समधारयत्।
तथापि चलितं वीक्ष्य पुनर्देवमथाह्वयत् ॥ ४४.५४ ॥

आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितोऽभवत्।
जनार्द्दनाभिधानेन पुण्डरीकेति नामतः।
शिलायान्निश्चलार्थं हि स्वयमादिगदाधरः ॥ ४४.५५ ॥

निश्चलार्थं पञ्चधासीच्छिलायां प्रपितापहः।
पितामहोऽथ फल्ग्वीशः केदारः कनकेश्वरः ॥ ४४.५६ ॥

ब्रह्मा स्थितः स्वयं तत्र गजरूपी विनायकः।
गयादित्यश्चोत्तरार्को दक्षिणार्कस्त्रिधा रविः ॥ ४४.५७ ॥

लक्ष्मीः सीताभिधानेन गौरी च मङ्गलाह्वया।
गायत्री चैव सावित्री त्रिसन्ध्या च सरस्वती ॥ ४४.५८ ॥

इन्द्रो बृहस्पतिः पूषा वसवोऽष्टौ महाबलाः।
विश्वेदेवाश्चाश्विनेयौ मारुतो विश्वनायकः।
सयक्षोरगगन्धर्वास्तस्थुर्देवाः स्वशाक्तिभिः ॥ ४४.५९ ॥

आद्यया गदया चासौ यस्माद्दैत्यः स्थिरीकृतः।
स्थित इत्येव हरिणा तस्मादादिगदाधरः ॥ ४४.६० ॥

ऊचे गयासुरो देवान्किमर्थं वञ्चितो ह्यहम्।
यज्ञार्थं ब्रह्मणे दत्तं शरीरममलं मया।
विष्णोर्वचनमात्रेण किं न स्यां निश्चलो ह्यहम् ॥ ४४.६१ ॥

यत्सुरैः पीडितोऽत्यर्थं गदया हरिणा तथा।
पीडितो यद्यहं देवाः प्रसन्नाः सन्तु सर्वदा ॥ ४४.६२ ॥

गदाधरादयस्तुष्टाः प्रोचुः सार्द्धं गयासुरम्।
वरं ब्रूहि प्रसन्नाः स्मो देवानूचे गयासुरः ॥ ४४.६३ ॥

यावत्पृथ्वी पर्वताश्च यावच्चन्द्रार्कतारकाः।
तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णुमहेश्वराः।
अन्ये च सकला देवा मन्नाम्ना क्षेत्रमस्तु वै ॥ ४४.६४ ॥

पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ।
तन्मध्ये सर्वतीर्थानि प्रयच्छन्तु हितं नृणाम् ॥ ४४.६५ ॥

स्नानादितर्पणं कृत्वा पिण्डदानात्फलाधिकम्।
महात्मा वै सहस्रञ्च कुलानां चोद्धरेन्नरः ॥ ४४.६६ ॥

व्यक्ताव्यक्तस्वरूपेण यूयं तिष्ठत सर्वदा।
गदाधरः स्वयं लोकाद्भूयात्सर्वाघनाशनात् ॥ ४४.६७ ॥

श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते।
ब्रह्महत्यादिकं पापं विनश्यतु च सेविनाम् ॥ ४४.६८ ॥

नैमिषं पुष्करं गङ्गा प्रयागश्चाविमुक्तिकम्।
एतान्यन्यानि तीर्थानि दिवि भुव्यन्तरिक्षतः।
समायान्तु सदा नॄणां प्रयच्छन्तु हितं सुराः ॥ ४४.६९ ॥

किं बहूक्त्या सुरगणा युष्मास्वेकापि देवता।
चेन्न तिष्ठेदहं चापि समयः प्रतिपाल्यताम् ॥ ४४.७० ॥

गयासुरवचः श्रुत्वा प्रोचुर्विष्ण्वादयःसुराः।
त्वया यत्प्रार्थितं सर्वं तद्भविष्यत्यसंशयम् ॥ ४४.७१ ॥

अस्मत्पादानर्च्चयित्वा यास्यन्ति परमां गतिम्।
देवैर्दत्तवरो दैत्यो हर्षितो निश्चलोऽभवत् ॥ ४४.७२ ॥

स्थितेषु चैव देवेषु ब्राह्मणेभ्यो ददावजः।
ग्रामांश्च पञ्चपञ्चाशत्पञ्चक्रोशीं गयां तथा।
गृहान्कृत्वा ददौ दिव्यान्सर्वोपस्करसंयुतान् ॥ ४४.७३ ॥

कामधेनुं कल्पवृक्षं पारिजातादिकांस्तरून्।
महानदीं क्षीरवहां घृतकुल्यास्तथैव च ॥ ४४.७४ ॥

मधुश्रवां मधुकुल्यां दध्याद्याढ्यसरांसि च।
सुवर्णदीर्घिकां चैव बहूनन्नादिपर्वतान् ॥ ४४.७५ ॥

भक्ष्यभोज्यफलादींश्च सर्वं ब्रह्मा सृजन्ददौ।
न याचयध्वं विप्रेन्द्रा अन्यानुक्त्वा ददावजः ॥ ४४.७६ ॥

दत्त्वा ययौ ब्रह्मलोकं नत्वा ह्यादिगदाधरम् ।
धर्मारण्ये तत्र धर्मं याजयित्वा ययाचिरे ॥ ४४.७७ ॥

धर्मयागे च लोभाद्वै प्रतिगृह्य धनादिकम्।
ततो ब्रह्मा समागत्य ब्राह्मणांस्ताञ्छशाप ह ॥ ४४.७८ ॥

कृतवन्तो यतो लोभं मद्दत्तेष्वखिलेष्वपि।
तस्मादृणाधिका यूयं भविष्यन्ति सदा द्विजः ॥ ४४.७९ ॥

युष्माकं स्याद्वारिवहा नदी पाषाणपर्वताः।
नद्यादयो वारिवहा मृन्मयाश्च यथा गृहाः ॥ ४४.८० ॥

कामधेनुः कल्पवृक्षो मल्लोकमुपतिष्ठताम्।
एवं शप्ता ब्रह्मणा ते प्रार्थयन्तोऽब्रुवन्नजम् ॥ ४४.८१ ॥

त्वया यद्दत्तमखिलं तत्सर्वं शापतो गतम्।
जीवनार्थं प्रसादं नो भगवान्कर्त्तुमर्हसि ॥ ४४.८२ ॥

तच्छ्रुत्वा ब्राह्मणान्ब्रह्मा प्रोवाचेदं दयान्वितः।
तीर्थोपजीविका यूयमाचन्द्रार्कं भविष्यथ ॥ ४४.८३ ॥

लोकाः पुण्या गयायां ये श्राद्धिनो ब्रह्मलोकगाः।
युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा ॥ ४४.८४ ॥

आक्रान्तं दैत्यजठरं धर्मेण विरजाद्रिणा।
नाभिकूपसमीपे तु देवी या विरजा स्थिता।
तत्र पिण्डादिकं कृत्वा त्रिःसप्तकुलमुद्धरेत् ॥ ४४.८५ ॥

महेन्द्रगिरिणा तस्य कृतौ पादौ सुनिश्चलौ।
iतत्र पिण्डादिकृत्सप्त कुलान्युद्धरते नरः ॥ ४४.८६ ॥

इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥ * ॥ *