०४३

॥वायुरुवाच॥

विश्वास-प्रस्तुतिः

अत ऊर्ध्वं प्रवक्ष्यामि गयामाहात्म्यमुत्तमम्।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्रसंशयः ॥ ४३.१ ॥

मूलम्

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

सनकाद्यैर्महाभागैर्देवर्षिः स च नारदः।
सनत्कुमारं पप्रच्छ प्रणम्य विधिपूर्वकम् ॥ ४३.२ ॥

नारद उवाच॥

विश्वास-प्रस्तुतिः

सनत्कुमार मे ब्रूहि तीर्थं तीर्थोत्तमोत्तमम्।
तारकं सर्वभूतानां पठतां श्रृण्वतां तथा ॥ ४३.३ ॥

सनत्कुमार उवाच॥

विश्वास-प्रस्तुतिः

वक्ष्ये तीर्थवरं पुण्यं श्राद्धादौ सर्वतारकम्।
गयातीर्थं सर्वदेशे तीर्थेभ्योऽप्यधिकं श्रृणु ॥ ४३.४ ॥

गयासुरस्तपस्तेपे ब्रह्मणा क्रतवेऽर्थितः।
प्राप्तस्य तस्य शिरसि शिलां धर्मो ह्यधारयत् ॥ ४३.५ ॥

तत्र ब्रह्माऽकरोद्यागं स्थितश्चापि गदाधरः।
फल्गुतीर्थादिरूपेण निश्चलार्थमहर्निशम्।
गयासुरस्य विप्रेन्द्रब्रह्माद्यैर्दैवतैः सह ॥ ४३.६ ॥

कृतयज्ञो ददौ ब्रह्मा ब्राह्मणेभ्यो गृहादिकम्।
स्वेतकल्पे तु वाराहे गयायागमकारयत् ॥ ४३.७ ॥

गयानाम्ना गया ख्याता क्षेत्रं ब्रह्नमभिकाङ्क्षितम्।
काङ्क्षन्ति पितरः पुत्रान्नरकाद्भयभीरवः ॥ ४३.८ ॥

गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति।
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत्।
पद्भ्यामपि जलं स्पृष्ट्वा सोऽस्मभ्यं किं न दास्यति ॥ ४३.९ ॥

गयां गत्वान्नदाता यः पितरस्तेन पुत्रिणः ।
पक्षत्रयनिवासी च पुनात्यासप्तमं कुलम्।
नो चेत्पञ्चदशाहं वा सप्तरात्रिं त्रिरात्रिकम् ॥ ४३.१० ॥

महाकल्पकृतं पापं गयां प्राप्य विनश्यति।
पिण्डं दद्याच्च पित्रादेरात्मनोऽपि तिलैर्विना ॥ ४३.११ ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः।
पापन्तत्सङ्गजं सर्वं गयाश्राद्धाद्विनश्यति ॥ ४३.१२ ॥

आत्मजोऽप्यन्यजो वापि गयाभूमौ यदा तदा।
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥ ४३.१३ ॥

ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा।
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ॥ ४३.१४ ॥

ब्रह्मज्ञानेन किं कार्यं गोगृहे मरणेन किम्।
वासेन किं कुरुक्षेत्रे यदि पुत्रो गयां व्रजेत् ॥ ४३.१५ ॥

गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः।
अधिमासे जन्मदिने चास्तेऽपि गुरुशुक्रयोः ॥ ४३.१६ ॥

न त्यक्तव्यं गयाश्राद्धं सिंहस्थेऽपि बृहस्पतौ।
तथा दैवप्रमादेन प्रहतेषु व्रणेषु च।
पुनः कर्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ॥ ४३.१७ ॥

सकृद्गयाभिगमनं सकृत्पिण्डस्य पातनम्।
दुर्लभं किं पुनर्नित्यमस्मिन्नेव व्यवस्थितिः ॥ ४३.१८ ॥

प्रमादान्म्रियते क्षेत्रे ब्रह्मादेर्मुक्तिदायके।
ब्रह्मज्ञानाद्यथा मुक्तिर्लभ्यते नात्र संशयः ॥ ४३.१९ ॥

कीटकादिमृतानाञ्च पितॄणां तारणाय च।
तस्मात्सर्वप्रयत्नेन कर्त्तव्यं सुविचक्षणैः ॥ ४३.२० ॥

ब्रह्मप्रकल्पितान्विप्रान्हव्यकव्यादिनाऽर्च्चयेत्।
तैस्तुष्टैस्तोषिताः सर्वाः पितृभिः सह देवताः ॥ ४३.२१ ॥

मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः।
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥ ४३.२२ ॥

दण्डम्प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः।
दण्डं न्यस्ता विष्णुपदे पितृभिः सह मुच्यते ॥ ४३.२३ ॥

न दण्डी किल्बिषं धत्ते पुण्यं वा परमार्थतः।
अतः सर्वां क्रियां त्यक्त्वा विष्णुं ध्यायति भावुकः ॥ ४३.२४ ॥

सन्न्यसेत्सर्वकर्माणि वेदमेकं न सन्न्यसेत्।
मुण्डं कुर्याच्च पूर्वेऽस्मिन्पश्चिमे दक्षिणोत्तरे ॥ ४३.२५ ॥

सार्द्धं क्रोशद्वयं मानं गयेति ब्रह्मणेरितम्।
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥ ४३.२६ ॥

तन्मध्ये सर्वतीर्थानि त्रैलोक्ये यानि सन्ति वै।
श्राद्धकृद्यो गयाक्षेत्रे पितॄणामनृणो हि सः ॥ ४३.२७ ॥

शिरसि श्राद्धकृद्यस्तु कुलानां शतमुद्धरेत्।
गृहाच्चलितमात्रेण गयायां गमनं प्रति।
स्वर्गा रोहणसोपानं पितॄणाञ्च पदे पदे ॥ ४३.२८ ॥

पदे पदेऽश्वमेधस्य यत्फलं गच्छतो गयाम्।
तत्फलञ्च भवेन्नूनं समग्रं नात्र संशयः ॥ ४३.२९ ॥

पायसेनापि चरुणा सक्तुना पिष्टकेन वा।
तण्डुलैः फलमूलाद्यैर्गयायां पिण्डपातनम् ॥ ४३.३० ॥

तिलकल्केन खण्डेन गुडेन सघृतेन वा।
केवलेनैव दध्ना वा ऊर्जेन मधुनाऽथ वा ॥ ४३.३१ ॥

पिण्याकं सघृतं खण्डं पितृभ्योऽक्षयमित्युत।
इज्यते वार्त्तवं भोज्यं हविष्यान्नं मुनीरितम् ॥ ४३.३२ ॥

एकतः सर्ववस्तूनि रसवन्ति मधूनि हि।
स्मृत्वा गदाधराङघ्र्यब्जं फल्गुतीर्थाम्बु चैकतः ॥ ४३.३३ ॥

पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम्।
दक्षिणा चान्न सङ्कल्पस्तीर्थश्राद्धेष्वयं विधिः ॥ ४३.३४ ॥

नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः।
सकारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः ॥ ४३.३५ ॥

अन्यत्रावाहिताः काले पितरो यान्त्यमुं प्रति।
तीर्थे सदा वसन्त्येते तस्मादावाहनं न हि ॥ ४३.३६ ॥

तीर्थश्राद्धं प्रयच्छद्भिः पुरुषैः फलकाङ्क्षिभिः।
कामं क्रोधं तथा लोभं त्यक्त्वा कार्या क्रियाऽनिशम् ॥ ४३.३७ ॥

ब्रह्मचार्यकभोजी च भूशायी सत्यवाक्छुचिः।
सर्वभूतहिते रक्तः स तीर्थफलमश्नुते ॥ ४३.३८ ॥

तीर्थान्यनुसरन्धीरः पाषण्डं पूर्वतस्त्यजेत्।
पाषण्ढः स च विज्ञेयो यो भवेत्कामकारतः ॥ ४३.३९ ॥

तीर्थेषु ये नरा धीराः कर्म कुर्वन्ति तद्घताः।
यथा ब्रह्मविदो वेद्यं वस्तु चानन्यचेतसः।
प्रविशन्ति परेशाख्यं ब्रह्म ब्रह्मपरायणाः ॥ ४३.४० ॥

यास्ते वैतरणी नाम नदी त्रैलोक्यविश्रुता।
साऽवतीर्णा गयाक्षेत्रे पितॄणां तारणाय वै।
स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत् ॥ ४३.४१ ॥

तथाऽक्षयवटं गत्वा विप्रान्सन्तोषयिष्यति।
ब्रह्मप्रकल्पितान्विप्रान्हव्यकव्यादिनाऽर्च्चयेत्।
तैस्तुष्टैस्तोषिताः सर्वाः पितृभिः सह देवताः ॥ ४३.४२ ॥

गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते।
सान्निध्यं सर्वतीर्थानां गयातीर्थं ततो वरम् ॥ ४३.४३ ॥

मीने मेषे स्थिते सूर्ये कन्यायां कार्मुके घटे।
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥ ४३.४४ ॥

मकरे वर्त्तमाने च ग्रहणे चन्द्रसूर्ययोः ।
दुर्लभं त्रिषु लोकेषु गयाश्राद्धं सुदुर्लभम् ॥ ४३.४५ ॥

गयायां पिण्डदानेन यत्फलं लभते नरः।
न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥ ४३.४६ ॥

इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम त्रिचत्वारिंशोऽद्यायः ॥ ४३ ॥*