॥शौनकादिऋषय ऊचुः॥
विश्वास-प्रस्तुतिः
सूत सूत महाभाग त्वया भगवता सता।
व्यासप्रसादाधिगतशास्त्रसम्बोधनेन च ॥ ४२.१ ॥
मूलम्

अष्टादशपुराणानि सेतिहासानि चानघ।
उपक्रमोपसंहार विधिनोक्तानि कृत्स्नशः ॥ ४२.२ ॥

चतुर्दशसहस्रं च मात्स्यं प्रोक्तमतिस्फुटम्।
तत्सङ्ख्यकं भविष्यञ्च प्रोक्तं पञ्चशताधिकम् ॥ ४२.३ ॥

मार्कण्डेयं महारम्यं प्रोक्तं नवसहस्रकम्।
कथितं ब्रह्मवैवर्त्तमष्टादशसहस्रकम् ॥ ४२.४ ॥

शतोत्तरञ्च ब्रह्माण्डं सूर्यसङ्ख्यासहस्रकम् ।
अथ भागवतं दिव्यमष्टादशसहस्रकम् ॥ ४२.५ ॥

सहस्राणि दशैवोक्तं पुराणं ब्रह्मनामकम्।
अयुतश्लोकघटितं पुराणं वामनाभिधम् ॥ ४२.६ ॥

तथैवायुत सङ्ख्यातं षट्शताधिकमादिकम्।
त्रयोविंशतिसाहस्रमनिलं तद्गतं शुभम् ॥ ४२.७ ॥

त्रयोविंशतिसाहस्रं नारदीयमुदाहृतम् ।
एकोनविंशसाहस्रं वैनतेयमुदाहृतम् ॥ ४२.८ ॥

सहस्रपञ्चपञ्चाशत्प्रोक्तं पाद्मं सुविस्तरम्।
सप्तदशसहस्रन्तु कूर्मं प्रोक्तं मनोहरम् ॥ ४२.९ ॥

चतुर्विंशति साहस्रं सौकरं परमाद्भुतम्।
एकाशीतिसहस्राणि स्कान्दमुक्तं सुविस्तृतम् ॥ ४२.१० ॥

एवमष्टादशोक्तानि पुराणानि बृहन्ति च।
पुराणेष्वेषु बहवो धर्मास्ते विनिरूपिताः ॥ ४२.११ ॥

ब्राह्मणक्षत्रियविशां ये च सङ्करजातयः।
गङ्गाद्या या महानद्यो यज्ञव्रततपांसि च ॥ ४२.१३ ॥

अनेकविधदानानि यमाश्च नियमैः सह।
योगधर्मा बहुविधाः साङ्ख्या भागवतास्तथा ॥ ४२.१४ ॥

भक्तिमार्गा ज्ञानमार्गा वैराग्यानिलनीरजाः।
उपासनविधिश्चोक्तः कर्मसंशुद्धिचेतसाम् ॥ ४२.१५ ॥

ब्राह्मं शैवं वैष्णवं च सौरं शाक्तं तथार्हतम्।
षड्दर्शनानि चोक्तानि स्वभावनियतानि च ॥ ४२.१६ ॥

एतदन्यच्च विविधं पुराणेषु निरुपितम्।
अतः परं किमप्यस्ति न वा बोद्धव्यमुत्तमम् ॥ ४२.१७ ॥

न ज्ञायेत यदि व्यासो गोपयेदथ वा भवान् ।
अत्र नः संशयं छिन्धि पूर्णः पौराणिको यतः ॥ ४२.१८ ॥

श्रृणु शौनक वक्ष्यामि प्रश्रमेनं सुदुर्लभम्।
अतिगोप्यतरं दिव्यमनाख्येयं प्रचक्षते ॥ ४२.१९ ॥

पराशरसुतो व्यासः कृत्वा पौराणिकीं कथाम्।
सर्ववेदार्थघटितां चिन्तयामास चेतसि ॥ ४२.२० ॥

वर्णाश्रमवतां धर्मो मया सम्यगुदाहृतः।
मुक्तिमार्गा बहुविधा उक्ता वेदाविरोधतः ॥ ४२.२१ ॥

जीवेश्वरब्रह्मभेदो निरस्तः सूत्रनिर्णये।
निरूपितं परं ब्रह्म श्रुतियुक्तविचारतः ॥ ४२.२२ ॥

अक्षरं परमं ब्रह्म परमात्मा परं पदम्।
यदर्थं ब्रह्मचर्यादिवानप्रस्थयतिव्रतम् ॥ ४२.२३ ॥

आचरन्ति महाप्राज्ञा धारणाञ्च पृथग्विधाम्।
आसनं प्राणरोधश्च प्रत्याहारश्च धारणा ॥ ४२.२४ ॥

ध्यानं समाधिरेतानि यमैश्च नियमैः सह।
अष्टाङ्गानि यदर्थञ्च चरन्ति मुनिपुङ्गवाः ॥ ४२.२५ ॥

यदर्थं कर्म कुर्वन्ति वेदाज्ञामात्रतत्पराः।
परार्पणधिया सम्यग् निष्कामाः कलिलोज्झिताः ॥ ४२.२६ ॥

यज्ज्ञप्तये निराकर्त्तुं पापाचरणमात्मनः।
गङ्गादितीर्थचर्याणि निषेवन्ते शुचिव्रताः ॥ ४२.२७ ॥

तद्ब्रह्म परमं शुद्धमनाद्यन्तमनामयम्।
नित्यं सर्वगतं स्थाणु कूटस्थं कूटविर्जितम् ॥ ४२.२८ ॥

सर्वेन्द्रियचराभासं प्राकृतेन्द्रियवर्जितम्।
दिक्कालाद्यनवच्छिन्नं नित्यं चिन्मात्रमव्ययम् ॥ ४२.२९ ॥

अध्यास्तं सर्पवद्यत्र विश्वमेतत्प्रकाशते।
विश्वस्मिन्नपि चान्वेति निर्विकारश्च रज्जुवत् ॥ ४२.३० ॥

सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम्।
तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ॥ ४२.३१ ॥

सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः।
यस्माद्भवन्ति ब्रह्माण्ड कोटयो न भवन्ति च ॥ ४२.३२ ॥

यदुन्मेषनिमेषाभ्यां जगतां प्रलयोदयौ।
भवेतां या परा शक्तिर्यदाधारतया स्थिता ॥ ४२.३३ ॥

यस्मिन्निदं यतश्चेदं येनेदं यदिदं स्मृतम्।
यदज्ञानाज्जगद्भाति यस्मिन् ज्ञाते जगन्न हि ॥ ४२.३४ ॥

असत्यं यज्जडं दुःखमवस्त्विति निरूपितम्।
विपरीतमतो यद्वै सच्चिदानन्दमूर्त्तिकम् ॥ ४२.३५ ॥

जीवे जाग्रति विश्वाख्यं स्वप्ने यत्तैजसं स्मृतम् ।
सुषुप्तौ प्राज्ञसञ्ज्ञं तत्सर्वावस्थासु संस्मृतम् ॥ ४२.३६ ॥

यच्चक्षुषां चक्षुरथ श्रोत्राणां श्रोत्रमस्ति च।
त्वक् त्वचां रसनं तस्य प्राणं प्राणस्य यद्विदुः ॥ ४२.३७ ॥

बुद्धिर्ज्ञानेन च प्राणाः क्रियाशक्त्या निरन्तरम्।
यन्नेशिरि समभ्येतुं ज्ञातुं च परमार्थतः ॥ ४२.३८ ॥

रज्जावहिर्मरौ वारि नीलिमा गगने यथा।
असद्विश्वमिदं भाति यस्मिन्नज्ञानकल्पितम् ॥ ४२.३९ ॥

घटावच्छिन्न एवायं महाकाशो विभिद्यते।
कार्योपाधिपरिच्छिन्नं तद्वद्यज्जीवसञ्ज्ञिकम् ॥ ४२.४० ॥

मायया चित्रकारिण्या विचित्रगुणशीलया ।
ब्रह्माण्डं चित्रमतुलं यस्मिन् भित्ताविवार्पितम् ॥ ४२.४१ ॥

धावतोऽन्यानतिक्रान्तं वदतो वागगोचरम् ।
वेदवेदान्तसिद्धान्तैर्विनिर्णीतं तदक्षरम् ॥ ४२.४२ ॥

अक्षरान्न परं किञ्चित्सा काष्ठा सा परा गतिः ।
इत्येवं श्रूयते वेदे बहुधापि विचारिते ॥ ४२.४३ ॥

अक्षरस्यात्मनश्चापि स्वात्मरूपतया स्थितम्।
परमानन्दसन्दोहरूपमानन्द विग्रहम् ॥ ४२.४४ ॥

लीलाविलासरसिकं बल्लवीयूथमध्यगम्।
शिखिपिच्छकिरीटेन बास्वद्रत्नचितेन च ॥ ४२.४५ ॥

उल्लसद्विद्युदाटोपकुण्डलाभ्यां विराजितम्।
कर्णोपान्तचरन्नेत्रखञ्जरीटमनोहरम् ॥ ४२.४६ ॥

कुञ्जकुञ्जप्रियावृन्दविलासरतिलम्पटम्।
पीताम्बरधरं दिव्यं चन्दनालेपमण्डितम् ॥ ४२.४७ ॥

अधरामृत संसिक्तवेणुनादेन वल्लवीः।
मोहयन्तञ्चिदानन्दमनङ्गमदभञ्जनम् ॥ ४२.४८ ॥

कोटिकामकलापूर्णं कोटिचन्द्रांशुनिर्मलम्।
त्रिरेखकण्ठविलसद्रत्नगुञ्जामृगा कुलम् ॥ ४२.४९ ॥

यमुनापुलिने तुङ्गे तमालवनकानने।
कदम्बचम्पकाशोकपारिजातमनोहरे ॥ ४२.५० ॥
मूलम्
यमुनापुलिने तुङ्गे तमालवनकानने।
कदम्बचम्पकाशोकपारिजातमनोहरे ॥ ४२.५० ॥
विश्वास-प्रस्तुतिः
शिखिपारावतशुकपिककोलाहलाकुले।
निरोधार्थं गवामेव धावमानमितस्ततः ॥ ४२.५१ ॥

राधाविलासरसिकं कृष्णाख्यं पुरुषं परम्।
श्रुतवानस्मि वेदेभ्यो यतस्तद्गोचरोऽभवत् ॥ ४२.५२ ॥

एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते।
गोलोकसञ्ज्ञिके कृष्णो दीव्यतीति श्रुतं मया ॥ ४२.५३ ॥

नातः परतरं किञ्चिन्निगमागमयोरपि।
तथापि निगमो वक्ति ह्यक्षरात् परतः परः ॥ ४२.५४ ॥

गोलोकवासी भगवानक्षरात्पर उच्यते।
तस्मादपि परः कोऽसौ गीयते श्रुतिभिः सदा ॥ ४२.५५ ॥

उद्दिष्टो वेद वचनैर्विशेषो ज्ञायते कथम्।
श्रुतेर्वार्थोऽन्यथा बोध्यः परतस्त्वक्षरादिति ॥ ४२.५६ ॥

श्रुत्यर्थे संशयापन्नो व्यासः सत्यवतीसुतः।
विचारयामास चिरं न प्रपेदे यथातथम् ॥ ४२.५७ ॥

विचारयन्नपि मुनिर्नाप वेदार्थनिश्चयम्।
वेदो नारायणः साक्षाद्यत्र मुह्यन्ति सूरयः ॥ ४२.५८ ॥

तथापि महतीमार्त्तिं सतां हृदयतापिनीम्।
पुनर्विचारयामास कं व्रजामि करोमि किम् ॥ ४२.५९ ॥

पश्यामि न जगत्यस्मिन्सर्वज्ञं सर्वदर्शनम्।
अज्ञात्वाऽन्यतमं लोके सन्देहविनिवर्त्तकम् ॥ ४२.६० ॥

मेरोः कुहरिणीं गत्वा चचार परमं तपः।
यत्र कार्त्तस्वरक्फूर्जज्ज्योत्स्नाजालैर्निरन्तरम् ॥ ४२.६१ ॥

सदा प्रबाधते विष्वक्तमःस्तोमं दृशन्तुदम्।
चकास्ते यत्र परमं कान्तारमतिसुन्दरम् ॥ ४२.६२ ॥

नानाद्रुमलत —त्पक्षिनिनादितम्।
क्षुत्पिपासाभयक्रोधतापग्लानिविवर्जितम् ॥ ४२.६३ ॥

जलाशयैर्बहुविधैः पद्मिनीखण्डमण्डितैः ।
जातरूपशिलानद्धतटसञ्चारपाक्ष ॥ ४२.६४ ॥
मूलम्
जलाशयैर्बहुविधैः पद्मिनीखण्डमण्डितैः ।
जातरूपशिलानद्धतटसञ्चारपाक्ष ॥ ४२.६४ ॥
विश्वास-प्रस्तुतिः
युक्तमम्भोज पवनैः सेव्यमानं समन्ततः।
शिवैरध्यासितम्भावैर्हिंस्रैः सत्त्वैः समुज्झितम् ॥ ४२.६५ ॥

निर्जनं दिव्यलतिकाप्रियखण्डवराजितम्।
शूकैः पारावतै र्हृद्यैरुन्मदन्मत्तकोकिलम् ॥ ४२.६६ ॥

उत्पतत्पद्मरजसां पटलामोददिङ्मुखम्।
तत्रापि काञ्चिनी दिव्या गुहा परमशोभना ॥ ४२.६७ ॥

तां प्रविश्य जिता हारो जितचित्तो जितासनः।
सस्मार वेदांश्चतुरस्तदेकाग्रमना मुनिः ॥ ४२.६८ ॥

त्रयी जगाम शरदां शतस्य स्मरतोऽस्य हि ।
प्रादुरासंस्ततो वेदाश्चत्वारश्चारुदर्शनाः ॥ ४२.६९ ॥

स्फुरत्पद्मपलाशाक्षा जटामुकुटधारिणः।
कुशमुष्टिकराम्भोजा मृगत्वङ्मण्डितांसकाः ॥ ४२.७० ॥

स्वरैः षोडशभिः क्लृप्त वदनाः प्रणवान्तराः।
कचवर्गोद्भवैर्वर्णैः पञ्चावयवपाणयः ॥ ४२.७१ ॥

पवर्गदक्षचरणा वामपादास्तवर्गतः।
आतरन्त्यन्तवर्णाश्च येषां कुक्षिद्वयात्मकौ ॥ ४२.७२ ॥

नाभिनिद्राः कान्तपृष्ठा मोदरा यरलवोत्कचाः।
अग्निदक्षांशरुचिरा धराग्रीवा भृतासकाः ॥ ४२.७३ ॥

अन्तस्थसन्धिसंस्थाना वैखरीवाग्विजृम्भिताः।
अपश्यन्मथुरामेषां हृदयाम्भोजकल्पिताम् ॥ ४२.७४ ॥

हरेर्भगवतः साक्षादाविर्भावस्थली हि सा।
काशीमपश्यद्भ्रूमध्ये मायामाधारसंस्थिताम् ॥ ४२.७५ ॥

लिङ्गदेशे ततः काञ्चीमवन्तीं नाभिमण्डले ।
कण्ठस्थां द्वारकामेषां प्रयागं प्राणगं तथा ॥ ४२.७६ ॥

सव्यापसव्ययोस्तेषां गड्गाऽपि यमुना नदी ।
मध्ये सरस्वती साक्षाद्गयाक्षेत्रं तथानने ॥ ४२.७७ ॥

हनुग्रीवामध्यगतं प्रभासक्षेत्रमुत्तमम्।
बदर्याश्रममेतेषां ब्रह्मरन्ध्रे ददर्श ह ॥ ४२.७८ ॥

पौण्ड्रवर्धननेपालपीठं नयनयोर्युगे।
पीठं पूर्णगिरिन्नाम ललाटे समदृश्यत ॥ ४२.७९ ॥

कण्ठे च मथुरापीठं काञ्चीपीठं कटिस्थितम्।
जालन्धरं तथा पीठं स्तनदेशेष्वदृश्यत ॥ ४२.८० ॥

भृगुपीठं कर्णदेशे ह्ययोध्यां नासिकापुटे।
ब्रह्मरन्ध्रे स्थितं ब्राह्यं शैवं सीमन्तसीमनि ॥ ४२.८१ ॥

शाक्तं जिह्वाग्र धिषणं वैष्णवं हृदयाम्बुजे।
सौरं चक्षुःप्रदेशस्थं बौद्धञ्छायासु सङ्गतम् ॥ ४२.८२ ॥

सौत्रामणिं कण्ठदेशे पशुबन्धमथोरसि।
वाजपेयं कटितटे ह्यग्निहोत्रं तथानने ॥ ४२.८३ ॥

अश्वमेधं कटितटे नरमेधमथोदरे।
राजसूयं शिरोदेशे आवसथ्यं तथाऽधरे ॥ ४२.८४ ॥

ऊर्द्द्वोष्ठे दक्षिणाग्निञ्च गार्हपत्यं मुखान्तरे।
हव्यं श्रुतौ मन्त्रभेदांस्तथा रोमस्ववस्थितान्।
भृत्यैरिव महाराजं पुराणैर्न्यायमिश्रितैः ॥ ४२.८५ ॥

संहिताभिश्च तन्त्रैश्च पृथक्पृथगुपासितान्।
कर्म ज्ञानोपासनाभिर्जनानुग्रहकारकान् ॥ ४२.८६ ॥

दृष्ट्वा सुविस्मितमना मुनिः कृष्णो बभूव तान् ।
ब्रह्मतेजोमयान्दिव्यांस्तपतोऽर्कानिवच्युतान्।
ज्लतोऽग्नी निवोदर्कान्कोटीन्दुसमदर्शनान् ॥ ४२.८७ ॥

ववन्दे सहसोत्थाय दण्डवत्पतितो मुनिः।
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहमितीरयन् ॥ ४२.८८ ॥

अद्य मे सफलं जन्म अद्य मे सफलं मनः।
अद्य मे सफलञ्चायुर्यद्भवन्तोऽक्षिगोचराः ॥ ४२.८९ ॥

अलौकिकंलौकिकञ्च यत् किञ्चिदपि विद्यते।
न तद्वोऽविदितं वेद्यं भूत भव्यं भवच्च यत् ॥ ४२.९० ॥

न प्रवृत्तिफला यूयं दर्शयन्तोऽपि तान्सदा।
यदृच्छाकरसङ्कोचविधानायेह रागिणाम् ॥ ४२.९१ ॥

प्रपञ्चस्यापि मिथ्यात्वे ब्रह्मत्वे वा निधीतरौ।
न मृषारागविषयौ तत्सङ्कोचविधिक्षयौ ॥ ४२.९२ ॥

अतो लोकहितैर्नूनं परमार्थनिरूपणे।
स्वोक्ताः स्वर्गादिविषयाः नश्वरा इति निन्दिताः ॥ ४२.९३ ॥

अधिकारिविभेदेन कर्मज्ञानोपदेशतः।
त्रातं सर्वं जगन्नूनं शब्दब्रह्मात्ममूर्त्तिभिः ॥ ४२.९४ ॥

अतोऽहं प्रष्टुमिच्छमि भवन्तश्चेत्कृपालवः ।
कर्मणां फलमादिष्टं सर्गः कामैकचेतसाम् ॥ ४२.९५ ॥

ईशार्पितधियां पुंसां कृतस्यापि च कर्मणः।
चित्तशुद्धिस्ततो ज्ञानं मोक्षश्च तदनन्तरम् ॥ ४२.९६ ॥

मोक्षो ब्रह्मैक्यमित्येवं सच्चिदानन्दमेव यत्।
सर्वं समाप्यते तस्मिञ्ज्ञाते यद्धि कृताकृतम् ॥ ४२.९७ ॥

यन्निःसङ्गं चिदाकाशं ज्ञानरूपमसंवृतम्।
निरीहमचलं शुद्धमगुणं व्यापकं स्मृतम् ॥ ४२.९८ ॥

विकारेषु विनश्यत्सु निर्विकारं न नश्यति।
यथान्धतमसा व्याप्तलोकस्य रविरोजसा ॥ ४२.९९ ॥

लोहस्येव मणिस्तद्वदरणिश्चानले यथा।
यदाभासेन सा सत्तां प्रतिपद्य विजृम्भते ॥ ४२.१०० ॥

जीवेश्वरादिरूपेण विश्वाकारेण चाप्यहो।
तस्यामपि प्रलीनायां कूटस्थञ्च यदेकलम् ॥ ४२.१०१ ॥

भवद्भिरेवं निर्णीतं तत्तथैव न संशयः।
तथापि मम जिज्ञासा वर्त्तते केवलं हृदि ॥ ४२.१०२ ॥

अतोऽपि परमं किञ्चिद्वर्त्तते किल वा न वा।
तद्वदन्तु महाभागा भवन्तस्तत्त्वदर्शनाः ॥ ४२.१०३ ॥

यच्छ्रवः फलमेवेह जनुषो मे कृतार्थता।
एवं ब्रुवन्तमनघं व्यासं सत्यवतीसुतम्।
साधु साध्विति सङ्कीर्त्य प्रत्यूचु र्निगमा वचः ॥ ४२.१०४ ॥

साधु साधु महाप्राज्ञा विष्णुरात्मा शरीरिणाम्।
अजोऽपि जन्म सम्पद्य लोकानुग्रहमीहसे ॥ ४२.१०५ ॥

अन्यथा ते न घटते संसारकर्मबन्दनम्।
अस्पृष्टो मायया देव्या कदाचिज्ज्ञानगूहया ॥ ४२.१०६ ॥

बिभर्षि स्वेच्छया रूपं स्वेच्छयैव निगूहसे।
अस्मत्सम्मत एवार्थो भवता सम्प्रदर्शितः ॥ ४२.१०७ ॥

पुराणेष्वितिहासेषु सूत्रेष्वपि च नैकधा।
अक्षरं ब्रह्म परमं सर्वकारणकारणम् ॥ ४२.१०८ ॥

तस्यात्मनोऽप्यात्म भावतया पुष्पस्य गन्धवत्।
रसवद्वा स्थितं रूपमवेहि परमं हि तत् ॥ ४२.१०९ ॥

अनुभूतं तदस्माभिर्जाते प्राकृतिके लये।
अक्षरात्परतस्तस्माद्यत्परं केवलो रसः ।
न च तत्र वयं शक्ताः शब्दातीते तदात्मकाः ॥ ४२.११० ॥