॥सूत ऊवाच॥
विश्वास-प्रस्तुतिः
प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयम्भुवः।
ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ॥ ४०.१ ॥
मूलम्

यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ।
अव्यक्तान्ग्रसते व्यक्तं प्रत्याहारे च कृत्स्नशः ॥ ४०.२ ॥

परं तदनुकल्पानामपूर्णे कल्पसङ्क्षये।
उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ॥ ४०.३ ॥

अन्ते द्रुमस्य यम्प्राप्ते पश्चिमस्य मनोस्तदा ।
अन्ते कलियुगे तस्मिन्क्षीणे संहार उच्यते ॥ ४०.४ ॥

सम्प्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते।
प्रत्याहारे तदा तस्मिन् भूततन्मात्रसङ्क्षये ॥ ४०.५ ॥

महदादेर्विकारस्य विशेषान्तस्य सङ्क्षये।
स्वभावकारिते तस्मिन्प्रवृत्ते प्रतिसञ्चरे ॥ ४०.६ ॥

आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मकं गुणम्।
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ।
प्रविष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् ॥ ४०.७ ॥

आपस्तदा प्रनष्टा वै वेगवत्यो महास्वनाः।
सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च ॥ ४०.८ ॥

अपामस्ति गुणो यस्तु ज्योतिषे लीयते रसः।
नश्यन्त्यापस्तदान्ते च रसतन्मात्रसङ्क्षयात् ॥ ४०.९ ॥

तेजसा संहृतरसा ज्योतिष्ट्वं प्राप्नुवन्त्युत ।
ग्रस्ते च सलिले तेजः सर्वतोमुखमीक्ष्यते ॥ ४०.१० ॥

अथाग्निः सर्वतो व्याप्त आदत्ते तज्जलन्तदा।
सर्वमापूर्यतेऽर्चिर्भिस्तदा जगदिदं शनैः ॥ ४०.११ ॥

अर्चिर्भिः सन्तते तस्मिंस्तिर्यगूर्ध्वमधस्ततः ।
ज्योतिषोऽपि गुणं रूपं वायुरन्ति प्रकाशकम्।
प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते ॥ ४०.१२ ॥

प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः।
उपशाम्यति तेजो हि वायुना धूयते महत् ॥ ४०.१३ ॥

निरालोके तदा लोके वायुभूते च तेजसि।
ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः ॥ ४०.१४ ॥

ऊर्ध्वं चाधश्च तिर्यक्च दोधवीति दिशो दश ।
वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत् ॥ ४०.१५ ॥

प्रशाम्यति तदा वायुः खन्तु तिष्ठत्यनावृतम्।
अरूपमरसस्पर्घमगन्धं न च मूर्तिमत् ॥ ४०.१६ ॥

सर्वमापूरयन्नादैः सुमहत्तत्प्रकाशते।
परिमण्डलन्तत्सुषिरमाकाशं शब्दलक्षणम् ॥ ४०.१७ ॥

शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति।
तन्तु शब्दगुणन्तस्य भूतादिं ग्रसते पुनः ॥ ४०.१८ ॥

भूतेन्द्रियेषु युघपद्भूतादौ संस्थितेषु वै।
अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ॥ ४०.१९ ॥

भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षणः।
महानात्मा तु विज्ञेयः सङ्कल्पो व्यवसायकः ॥ ४०.२० ॥

बुद्धिर्मनश्च लिङ्गश्च महानक्षर एव च।
पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्वचिन्तकाः ॥ ४०.२१ ॥

सम्प्रलीनेषु भूतेषु गुणसाम्ये तमोमये।
स्वात्मन्येव स्थिते चैव कारणे लोककारणे ॥ ४०.२२ ॥

विनिवृत्ते तदा सर्गे प्रकृत्यावस्थितेन वै ।
तदाद्यन्तपरोक्षत्वा ददृष्टत्वाच्च कस्यचित् ॥ ४०.२३ ॥

अनाख्यानादबोधत्वादज्ञानाज्ज्ञानिनामपि।
आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ॥ ४०.२४ ॥

भावग्राह्यानुमानाच्च चिन्तयित्वेदमुच्यते।
स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मिके ॥ ४०.२५ ॥

अनिर्द्देश्या प्रवृत्तिर्वै स्वात्मिका कारणे न तु।
एवं सप्तादयोऽभ्यस्तात्क्रमात्प्रकृतयस्तु वै ॥ ४०.२६ ॥

प्रत्याहारे तदा सर्गे प्रविश्यन्ति परस्परम्।
येनेदमावृतं सर्वं मण्डलन्तु प्रलीयते ॥ ४०.२७ ॥

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम्।
उदकावरणं यच्च ज्योतिषां लीयते तु तत् ॥ ४०.२८ ॥

यत्तैजसं चावरणमाकाशं ग्रसते तु तत्।
यद्वायव्यं चावरणमाकाशं ग्रसते तु तत् ॥ ४०.२९ ॥

आकाशावरणं यच्च भूतादिर्ग्रसते तु तत्।
भूतादिं ग्रसते चापि महान्वै बुद्धि लक्षणः ॥ ४०.३० ॥

महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम्।
एतौ संहारविस्तारौ ब्रह्माव्यक्तौ ततः पुनः ॥ ४०.३१ ॥

सृजते ग्रसते चैव विकारान्सर्गसंयमे।
संहारकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ॥ ४०.३२ ॥

गत्वा जवञ्जवीभावे स्थानेष्वेषु प्रसंयमान्।
प्रत्याहारे वियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ॥ ४०.३३ ॥

अव्यक्तं क्षेत्रमित्याहुर्ब्रह्म क्षेत्रज्ञ उच्यते।
साधर्म्यवैधर्मकृतसंयोगोऽनादिमांस्तयोः ॥ ४०.३४ ॥

एवं सर्गेषु विज्ञेयं क्षेत्रज्ञेष्विह ब्राह्मणाः ।
ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक्पृथक् ॥ ४०.३५ ॥

विषयाविषयत्वञ्च क्षेत्रक्षेत्रज्ञयोः स्मृतम्।
ब्रह्मा तु विषयो ज्ञेयोऽविषयः क्षेत्रमुच्यते ॥ ४०.३६ ॥

क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते।
बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ॥ ४०.३७ ॥

अव्यूहा शङ्कराच्चैव ज्योतिर्वच्च व्यवस्थितः।
यस्मात्प्रतिशरीरं हि सुखदुःखोपलब्धिता।
तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ॥ ४०.३८ ॥

यदा प्रवर्त्तते चैषां भेदानां चैव संयमाः।
स्वभावकारिताः सर्वे कालेन महता तदा ॥ ४०.३९ ॥

निवर्त्तते तदा तस्य स्थितिरागः स्वयम्भुवः।
सहसा योज्यकैः सर्वैर्ब्रह्मलोक निवासिभिः ॥ ४०.४० ॥

विनिवृत्ते तदा रागे स्थितावात्मनिवासिनाम्।
तत्कालवासिनां तेषां तदा तद्दोषदर्शिनाम् ॥ ४०.४१ ॥

उत्पद्यतेऽथ वैराग्यमात्मवाद प्रणाशनम्।
भोज्यभोक्तृत्वनानात्वे तेषां तद्भवदर्शिनाम् ॥ ४०.४२ ॥

पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः।
प्रकृतौ करणा नीताः सर्वे नानाप्रदर्शिनः ॥ ४०.४३ ॥

स्वात्मन्येवावतिष्ठन्ते प्रशान्ता दर्शनात्मकाः।
शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ॥ ४०.४४ ॥

तत्रैव परिनिर्वाणाः स्मृता नागामिनस्तु ते।
निर्गुणत्वानिरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ॥ ४०.४५ ॥

इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयम्भुवः।
भिद्यन्ते सर्वभूतानां करणानि प्रसंयमे ॥ ४०.४६ ॥

इत्येष संयमश्चैव तत्त्वानां करणैः सह।
तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्त्तको द्विजाः ॥ ४०.४७ ॥

सूत उवाच॥
विश्वास-प्रस्तुतिः
धर्माधर्मौ तपो ज्ञानं शुभे सत्यानृते तथा।
ऊर्ध्व भावो ह्यधोभावो सुखदुःखे प्रियाप्रिये ॥ ४०.४८ ॥

सर्वमेतत्प्रयातस्य गुणमात्रात्मकं स्मृतम्।
निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् ॥ ४०.४९ ॥

प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति।
योन्यवस्था स्वभावे च देहिनां तु निषिच्यते ॥ ४०.५० ॥

जन्तूनां पापपुण्यन्तु प्रकृतौ यत्प्रतिष्ठितम् ।
अव्यक्त स्थानि तान्येव पुण्यपापानि जन्तवः।
ये जयन्ति पुनर्देहे देहान्यत्वे तथैव च ॥ ४०.५१ ॥

धर्माधर्मौ तु जन्तूनां गुणमात्रात्मकावुभौ ।
करणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ॥ ४०.५२ ॥

सुचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः।
सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः।
संयुज्यन्ते वियुज्यन्ते करणैः सञ्चरन्ति च ॥ ४०.५३ ॥

राजसी तामसी चैव सात्विकी चैव वृत्तयः।
गुणमात्राः प्रवर्त्तन्ते पुरुषाधिष्ठितास्त्रिधा ॥ ४०.५४ ॥

ऊर्ध्वं देवात्मकं सत्त्वमधोभागात्मकं तमः।
तयोः प्रवर्त्तकं मद्ये इहैवावर्त्तकं रजः ॥ ४०.५५ ॥

इत्येवं परिवर्त्तन्ते त्रयः स्रोतोगुणात्मकाः।
लोकेषु सर्वभूतानां तन्न कार्यं विजानता ॥ ४०.५६ ॥

अविद्याप्रत्ययारम्भा आरभ्यन्ते हि मानवैः ।
एतास्तु गतयस्तिस्रः शुभाः पापात्मिकाः स्मृताः ॥ ४०.५७ ॥

तम साभिभवाज्जन्तुर्याथातथ्यं न विन्दति।
अतत्द्दर्शनात्सोऽथ त्रिविधं बध्यते ततः ॥ ४०.५८ ॥

प्राकृतेन च बन्धेन तथा वैकारिकेन च।
दक्षिणाभिस्तृतीयेन बद्धोऽत्यन्तं विवर्त्तते ॥ ४०.५९ ॥

इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः।
अनित्ये नित्यसञ्ज्ञा च दुःखे च सुखदर्शनम् ॥ ४०.६० ॥

अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः।
येषामेते मनोदोषा ज्ञानदोषा विपर्ययात् ॥ ४०.६१ ॥

रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम्।
अज्ञानं तमसो मूलं कर्मद्वयफलं रजः।
कर्मजस्तु पुनर्देहो महादुःखं प्रवर्त्तते ॥ ४०.६२ ॥

श्रोत्रजा नेत्रजा चैव त्वग्जिह्वाघ्राणतस्तथा।
पुनर्भवकरी दुःखा कर्मणां जायते तु सा ॥ ४०.६३ ॥

सतृष्णोऽभिहितो बालः स्वकृतैः कर्मणः फलैः।
तैलपालीकवज्जीवस्तत्रैव परि वर्त्तते ॥ ४०.६४ ॥

तस्मात्स्थूलमनर्थानामज्ञानमुपदिश्यते ।
तं शक्तमवधार्यैकं ज्ञाने यत्नं समाचरेत् ॥ ४०.६५ ॥

ज्ञानाद्विजयते सर्वं त्यागाद्बुद्धिर्विरज्यते।
वैराग्याच्छुद्ध्यते चापि शुद्धः सत्त्वेन मुच्यते ॥ ४०.६६ ॥

अत ऊर्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम्।
अभिषङ्गाय यो यस्माद्विषयोऽप्यवशात्मनः ॥ ४०.६७ ॥

अनिष्टमभिषङ्गं हि प्रीतितापविषादनम्।
दुःखलाभे न तापञ्च सुखानुस्मरणं तथा ॥ ४०.६८ ॥

इत्येष वैषयो रागः सम्भूत्याः कारणं स्मृतम्।
ब्रह्मादौ स्थावरान्ते वै संसारे ह्याधिभौतिके।
अज्ञानपूर्वकं तस्मादज्ञानन्तु विवर्जयेत् ॥ ४०.६९ ॥

यस्य चार्षं न प्रमाणं शिष्टाचारं तथैव च।
वर्णाश्रमविरोधी यः शिष्टशास्त्रविरोधकः ॥ ४०.७० ॥

एष मार्गो हि निरधितिर्यग्योनौ च कारणम्।
तिर्यग्योनिगतञ्चैव कारणं स निरुच्यते ॥ ४०.७१ ॥

विविधा यातना स्थाने तिर्यग्योनौ च षड्विधे।
कारणे विषये चैव प्रतिघातस्तु सर्वशः ॥ ४०.७२ ॥

अनैश्वर्यन्तु तत्सर्वं प्रतिघातात्मकं स्मृतम् ।
इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा ॥ ४०.७३ ॥

सत्त्वस्थमात्रकं चित्तं यथा सत्त्वप्रदर्शनात्।
तत्त्वानाञ्च तथा तत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् ॥ ४०.७४ ॥

सत्त्वक्षेत्रज्ञनानात्वमेतज्ज्ञानार्थदर्शनम्।
नानात्वदर्शनं ज्ञानं ज्ञानाद्वै योगमुच्यते ॥ ४०.७५ ॥

तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ।
संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ॥ ४०.७६ ॥

निःसम्बन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते।
स्वात्मव्यवस्थितश्चापि विरूपाख्येन लिख्यते ॥ ४०.७७ ॥

इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञानमोक्षयो।
स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ॥ ४०.७८ ॥

पूर्वं वियोगो ज्ञानेन द्वितीयो रागसङ्क्षयात्।
लिङ्गाभावात्तु कैवल्यं कैवत्यात्तु निरञ्जनम् ॥ ४०.७९ ॥

निरञ्जनत्वाच्छुद्धस्तु ततो नेता न विद्यते।
तृष्णाक्षयात्तृतीयस्तु व्याख्यातं मोक्षकारणम् ॥ ४०.८० ॥

निमित्तमप्रतीघाते इष्टशब्दादिलक्षणे।
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥ ४०.८१ ॥

क्षेत्रज्ञेष्ववसज्यन्ते गुणमात्रात्मकानि तु।
अत उर्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ॥ ४०.८२ ॥

दिव्ये च मानुषे चैव विषये पञ्चलक्षणे।
अप्रद्वेषोऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात् ॥ ४०.८३ ॥

तापप्रीतिविषादानां कार्यन्तु परिवर्जनम्।
एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ॥ ४०.८४ ॥

अनित्यमशिवं दुःखमिति बुद्ध्यानुचिन्त्य च।
विशुद्धं कार्यकरणं सत्वाभ्येति तरान्तु यः ॥ ४०.८५ ॥

परिपव्ककषायो हि कृत्स्नान्दोषान्प्रपश्यति।
ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ॥ ४०.८६ ॥

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः।
स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ॥ ४०.८७ ॥

प्राणस्थानानि भिन्दन्हि छिन्दन्मर्माण्यतीत्य च।
शैत्यात्प्रकुपितो वायुरूर्ध्वन्तु क्रमते ततः ॥ ४०.८८ ॥

स चायं सर्वभूतानां प्राणस्थानेष्ववस्थितः।
समासात्संवृते ज्ञाने संवृतेषु च कर्मसु ॥ ४०.८९ ॥

स जीवोऽनभ्यधिष्टानः कर्मभिः स्वैः पुराकृतैः।
अष्टाङ्गप्राणवृत्तीर्वै स विच्यावयते पुनः ॥ ४०.९० ॥

शरीरं प्रजहंसो वै निरुच्छ्वासस्ततो भवेत्।
एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ॥ ४०.९१ ॥

यथेह लोके खद्योतं नीयमानमितस्ततः ।
रञ्जनं तद्वधे यत्तु नेता नेता न विद्यते ॥ ४०.९२ ॥

तृष्णाक्षयस्तृतीयस्तु व्याख्यातं मोक्षलक्षणम्।
शब्दाद्ये विषये दोषविषये पञ्चलक्षणे ॥ ४०.९३ ॥

अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् ।
वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च ॥ ४०.९४ ॥

अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम्।
अव्यक्ताद्यस्तु विज्ञेया भूतान्ताः प्रकृतेर्लयाः ॥ ४०.९५ ॥

वर्णाश्रमाचारयुक्ताः शिष्टाः शास्त्राविरोधिनः।
वर्णाश्रमाणां धर्मोऽयं देवस्थानेषु कारणम् ॥ ४०.९६ ॥

ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवता।
ऐश्वर्यमणिमाद्यं हि कारणं ह्यष्टलक्षणम् ॥ ४०.९७ ॥

निमित्तमप्रतीघात इष्टे शब्दादिलक्षणे।
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥ ४०.९८ ॥

क्षेत्रज्ञेष्वनुसज्यन्ते गणमात्रात्मकानि तु।
प्रावृट्काले पृथक्त्वेन पश्यन्तीह न चक्षुषा ॥ ४०.९९ ॥

पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा।
श्वाविति श्वानपानश्च योनीः प्रविशतस्तथा ॥ ४०.१०० ॥

तिर्यगूर्ध्वमधस्ताच्च धावतोऽपि यथाक्रमम्।
जीवप्राणास्तथा लिङ्गं कारणञ्च चतुष्टयम् ॥. ४०.१०१ ॥
विश्वास-प्रस्तुतिः
पर्यायवाचकैः शब्दैरेकार्थैः सोऽभिलिख्यते।
व्यक्ताव्यक्ते प्रमाणोऽयं स वै रूपं तु कृत्स्नशः ॥ ४०.१०२ ॥

अव्यक्तान्त गृहीतं च क्षेत्रज्ञाधिष्ठितञ्च यत् ।
एवं ज्ञात्वा शुचिर्भूत्त्वा ज्ञानाद्वै विप्रमुच्यते ॥ ४०.१०३ ॥

नष्टञ्चैव यथा तत्त्वं तत्त्वानां तत्त्वदर्शनम्।
यथेष्टं परिनिर्याति भिन्ने देहे सुनिर्वृते ॥ ४०.१०४ ॥

भिद्यते करणञ्चापि ह्यव्यक्ताज्ञानिनस्ततः।
मुक्तो गुणशरीरेण प्राणाद्येन तु सर्वशः ॥ ४०.१०५ ॥

नान्यच्छरीरमादत्ते दग्धे बीजे यथाङ्कुरः।
जीविकः सर्वसंसाराद्बीजशारीरमानसः ॥ ४०.१०६ ॥

ज्ञानाच्चतुर्द्दशाच्छुद्धः प्रकृतिं सोऽनुवर्त्तते।
प्रकृतिं सत्यमित्याहु र्विकारोऽनृतमुच्यते ॥ ४०.१०७ ॥

तत्सद्भावोऽनृतं ज्ञेयं सद्भावः सत्यमुच्यते।
अनामरूपक्षेत्रज्ञनामरूपं प्रचक्षते ॥ ४०.१०८ ॥

यस्मात्क्षेत्रं विजानाति तस्मात्क्षेत्रज्ञ उच्यते।
क्षेत्रप्रत्ययतो यस्मात्क्षेत्रज्ञः शुभ उच्यते ॥ ४०.१०९ ॥

क्षेत्रज्ञः स्मर्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाष्यते।
क्षेत्रत्वप्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययी सदा ॥ ४०.११० ॥

क्षयणात् करणाच्चैव क्षतत्राणात्तथैव च।
भोज्यत्वाद्विषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ॥ ४०.१११ ॥

महदाद्यं विशेषान्तं सवैरूप्यं विलक्षणम्।
विकारलक्षणं तद्वै साक्षरक्षरमेव च ॥ ४०.११२ ॥

तमेव च विकारन्तु यस्माद्वै क्षरते पुनः।
तस्माच्च कारणाच्चैव क्षरमित्यभिधीयते ॥ ४०.११३ ॥

सुखदुःखमोहभावा भोज्यमित्यभिधीयते।
अचेतत्वाद्धि विषयस्तद्धि धर्मविभुः स्मृतः ॥ ४०.११४ ॥

न क्षीयते न क्षरति विकारप्रसृतन्तु तत्।
अक्षरं तेन चाप्युक्तमक्षीणत्वात्तथैव च ॥ ४०.११५ ॥

यस्मात्पुर्यनुशेते च तस्मात्पुरुष उच्यते।
पुरप्रत्ययिको यस्मात्पूरुषेत्यभिधीयते ॥ ४०.११६ ॥

पुरुषं कथयस्वाथ कथन्तज्ज्ञैर्विभाष्यते।
शुद्धो निरञ्जनाभासो ज्ञानाज्ञानविवर्जितः ॥ ४०.११७ ॥

अस्ति नास्तीति सोऽन्यो वा बद्धो मुक्तो गतः स्थितः।
नैर्हेतिकान्तनिर्द्देश्यसूक्तस्तस्मिन्न विद्यते ॥ ४०.११८ ॥

शुद्धत्वान्न तु देश्यो वै दृष्टत्वात्समदर्शनः।
आत्मप्रत्ययकारी सारनूनञ्चापि हेतुकम्।
भावग्राह्यमनुमान्यं चिन्तयन्न प्रमुह्यते ॥ ४०.११९ ॥

यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम्।
दृश्यादृश्येषु निर्द्देश्यं तदा तदुद्धरं वरम् ॥ ४०.१२० ॥

एवं ज्ञात्वा स विज्ञाता ततः शान्तिं नियच्छति।
कार्ये च कारणे चैव बुद्ध्यादौ भौतिके तदा ॥ ४०.१२१ ॥

सम्प्रयुक्तो वियुक्तो वा जीवतो वा मृतस्य च।
विज्ञाता न च दृश्येत पृथक्त्वेनेह सर्वशः ॥ ४०.१२२ ॥

स्वेनात्मानं तमात्मानं कारणात्मा नियच्छति।
प्रकृतौ कारणे चैव स्वात्मन्येवोपतिष्ठति ॥ ४०.१२३ ॥

अस्ति नास्तीति सोऽन्यो वा इहामुत्रेति वा पुनः।
एकत्वं वा पृथक्त्वं वा क्षेत्रज्ञपुरुषेति वा ॥ ४०.१२४ ॥

आत्मवान् स निरात्मा वा चेतनोऽचेतनोऽपि वा।
कर्त्ता वा सोऽप्यकर्त्ता वा भोक्ता वा भोज्यमेव वा ॥ ४०.१२५ ॥

यज्ज्ञात्वा न निवर्त्तन्ते क्षेत्रज्ञे तु निरञ्जने।
अवाच्यं तदनाख्यानादग्राह्यत्वादहेतुनि ॥ ४०.१२६ ॥

अप्रतर्क्यमचिन्त्यत्वादवाप्यत्वाच्च सर्वशः।
नाभिलिम्पति तत्तत्त्वं सम्प्राप्य मनसा सह ॥ ४०.१२७ ॥

क्षेत्रेज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने।
व्यपे(ये)तसुखदुःखे च निरुद्धे शान्तिमागते ॥ ४०.१२८ ॥

निरात्मके पुनस्तस्मिन्वाच्यावाच्यो न विद्यते।
एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः ॥ ४०.१२९ ॥

सृजते ग्रसते चैव ग्रस्तः पर्यवतिष्ठते।
क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्वं प्रवर्त्तते ॥ ४०.१३० ॥

अधिष्ठानप्रवृत्तेन तस्य ते बुद्धिपूर्वकम्।
साधर्म्यवैधर्म्यकृतसंयोगो विधितस्तयोः।
अनादिमान् स संयोगो महापुरुषजः स्मृतः ॥ ४०.१३१ ॥

यावच्च सर्गप्रतिसर्गकालस्तावच्च तिष्ठति सुसन्निरुध्य।
पूर्वं हितव्ये तदबुद्धिपूर्वं प्रवर्त्तते तत्पुरुषार्थमेव ॥ ४०.१३२ ॥

एषा निसर्गप्रतिसर्गपूर्वं प्रधानिकी चेश्वरकारिता च।
अनाद्यनन्ता ह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति ॥ ४०.१३३ ॥

इत्येष प्राकृतः सर्गस्तृतीयो हेतुलक्षणः।
उक्तो ह्यस्मिंस्तदात्यन्तं कविभिस्तत्प्रमुच्यते ॥ ४०.१३४ ॥

इत्येष प्रतिसर्गोवस्त्रिविधः कीर्त्तितो मया॥
विस्तरेणानुपूर्व्या च भूयः किं वर्त्तयाम्यहम् ॥ ४०.१३५ ॥
इति श्रीमहापुराणे वायुप्रोक्ते चत्वारिंशोऽध्यायः ॥ ४० ॥ *