०३९

वायुरुवाच॥

विश्वास-प्रस्तुतिः

असाधारणवृत्तैस्तु हुतशेषादिभिर्द्विजैः।
धर्मवैशेषिकैश्चैव ह्याचूर्णसूक्ष्मदर्शिभिः ॥ ३९.१ ॥

मूलम्

ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः।
चतुर्द्दशैते मनवः कीर्त्तिताः कीर्त्तिवर्धनाः ॥ ३९.२ ॥

अतीता वर्त्तमानाश्च तथैवानागताश्च ये।
ऋषिभि र्दैवतैश्चैव सह गन्धर्वराक्षसैः ॥ ३९.३ ॥

सर्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः।
ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ॥ ३९.४ ॥

ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ॥ ३९.५ ॥

तैस्तथ्यकारिभिर्युक्तैः श्रद्धावद्भिरदर्पितैः।
वर्णाश्रमाणां धर्मेषु श्रौतस्मार्त्तेषु संस्थितैः।
विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ॥ ३९.६ ॥

।.ऋषय ऊचुः॥

विश्वास-प्रस्तुतिः

महर्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वया विभो।
प्रतिलोके च कर्त्तव्यमनेकैः समधिष्ठिताः ॥ ३९.७ ॥

यावन्तश्चैव ते लोका दह्यन्ते ये न तेप्रभो।
एतन्नः कथय प्रीत्या त्वं हि वेत्थ यथा तथम् ॥ ३९.८ ॥

एवमुक्तस्ततो वायुर्मुनिभिर्विनयात्मभिः।
प्रोवाच मधुरं वाक्यं यथातत्त्वेन तत्त्ववित् ॥ ३९.९ ॥

चतुर्द्दशैव स्थानानि वर्णितानि महर्षिभिः।
लोकाख्यानि तु यानि स्युर्येषु तिष्ठन्ति मानवाः ॥ ३९.१० ॥

सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै।
भूरादयस्तु सङ्ख्याताः सप्त लोकाः कृतास्त्विह ॥ ३९.११ ॥

अकृतानि तु सप्तैव प्राकृतानि तु यानि वै।
स्थानानि स्थानिभिः सार्द्धं कृतानि तु निबन्धनम् ॥ ३९.१२ ॥

पृथिवीं चान्तरिक्षं च दिव्यं यच्च महः स्मृतम्।
स्थानान्येतानि चत्वारि स्मृतान्यार्णवकानि च ॥ ३९.१३ ॥

क्षयातिशययुक्तानि तथा युक्तानि वक्ष्यते।
यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसम्प्लवम् ॥ ३९.१४ ॥

जनस्तपश्च सत्यञ्च स्थानान्येतानि त्रीणि तु।
ऐकान्तिकानि सत्त्वानि तिष्ठन्तीहाप्रसंयमात् ॥ ३९.१५ ॥

व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै।
भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ॥ ३९.१६ ॥

स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः।
जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ॥ ३९.१७ ॥

सत्यन्तु सप्तमो लोको निरालोकस्ततः परम्।
भूरिति व्याहृते पूर्वं भूर्लोकश्च ततोऽभवत् ॥ ३९.१८ ॥

द्वितीयं भुव इत्युक्त अन्तरिक्षं ततोऽभवत्।
तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ॥ ३९.१९ ॥

व्याहारैस्त्रिभिरेतैस्तु ब्रह्मलोकमकल्पयत्।
ततो भूः पार्थिवो लोक अन्तरिक्षं ततोऽभवत्।
तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ॥ ३९.२० ॥

स्वर्लोको वै दिवं ह्येतत्पुराणे निश्चयं गतम्।
भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ॥ ३९.२१ ॥

वायुर्भुवस्याधिपतिस्तेन वायुर्भुवपतिः।
भव्यस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ॥ ३९.२२ ॥

महेति व्याहृतेनैवं महर्लोकस्ततोऽभवत्।
विनिवृत्ताधिकाराणां देवानां तत्र वै क्षयः ॥ ३९.२३ ॥

जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः ।
तासां स्वायम्भुवाद्यानां प्रजानां जननाज्जनः ॥ ३९.२४ ॥

यास्ताः स्वायम्भुवाद्या हि पुरस्तात्परिकीर्त्तिताः।
कल्पदग्धे तदा लोके प्रतिष्ठन्ति तदा तपः ॥ ३९.२५ ॥

ऋभुः सनत्कुमाराद्या यत्र सन्त्यूर्ध्वरेतसः ।
तपसा भावितात्मानस्तत्र सन्तीति वा तपः ॥ ३९.२६ ॥

सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु सः स्मृतः।
ब्रह्मलोकस्ततः सत्यं सप्तमः स तु भास्करः ॥ ३९.२७ ॥

गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः।
सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः।
स्वर्लोकवासिनः सर्वे देवा भुविनिवासिनः ॥ ३९.२८ ॥

मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ।
अनिकेतान्तरिक्षास्ते भुवर्लौक्या दिवौकसः ॥ ३९.२९ ॥

आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा।
ऋषयोऽङ्गिरसश्चैव भुवर्लोकं समाश्रिताः ॥ ३९.३० ॥

एते वैमानिका देवास्ताराग्रहनिवासिनः।
इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसम्भवाः ॥ ३९.३१ ॥

भूर्लोकप्रथमा लोका महदन्ताश्च ते स्मृताः।
आरभ्यन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ॥ ३९.३२ ॥

शुक्राद्याश्चाक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः।
महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ॥ ३९.३३ ॥

भूर्लोकप्रथमा लोका महदन्ताश्च ये स्मृताः।
तान् सर्वान् सप्त सूर्यास्ते अर्च्चिर्भिर्निदहन्ति वै ॥ ३९.३४ ॥

मरीचिः कश्यपो दक्षस्तथा स्वायम्भुवोऽङ्गिराः ।
भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ॥ ३९.३५ ॥

प्रजानां पतयः सर्वे वर्त्तन्ते तत्र तैः सह।
निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्ध्वरेतसः ॥ ३९.३६ ॥

ऋभुः सनत्कुमाराद्या वैराज्यास्ते तपोधनाः।
मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः ।
चतुर्द्दशानां सर्वेषां पुनरावृत्तिहेतवः ॥ ३९.३७ ॥

योगं तपश्च सत्यञ्च समाधाय तदात्मनि।
षष्ठे काले निवर्त्तन्ते तत्तदाहर्विपर्यये ॥ ३९.३८ ॥

सत्यन्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम्।
ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ॥ ३९.३९ ॥

पर्यासपारिमाण्येन भूर्लोकः समितिः स्मृतः ।
भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् ॥ ३९.४० ॥

सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः।
ध्रुवाज्जनान्तरं यच्च महर्लोकस्तदुच्यते ॥ ३९.४१ ॥

विख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः।
भूर्लोकवासिनः सर्वे ह्यन्नादास्तु रमात्मकाः ॥ ३९.४२ ॥

भुवे स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते।
चतुर्थे येऽपि वर्त्तन्ते मह र्लोकं समाश्रिताः ॥ ३९.४३ ॥

विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा।
सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितम् ॥ ३९.४४ ॥

एते दैवा यजन्ते वै यज्ञैः सर्वैः परस्परम्।
अतीतान् वर्तमानांश्च वर्त्तमानाननागतान् ॥ ३९.४५ ॥

प्रथमानन्तरैरिष्ट्वा ह्यन्तराः साम्प्रतैः पुनः।
निवर्त्ततीत्यासम्बन्धोऽतीते देवगणे ततः ॥ ३९.४६ ॥

विनिवृत्ताधिकाराणां सिद्धिस्तेषान्तु मानसी।
तेषान्तु मानसी ज्ञेया शुद्धा सिद्धिपरम्परा ॥ ३९.४७ ॥

उक्ता लोकाश्च चत्वारो जनस्यानुविधिस्तथा।
समासेन मया विप्रा भूयस्तं वर्त्तयामि वः ॥ ३९.४८ ॥

मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः।
पुलस्त्यः पुलहश्चैव क्रतुरित्येवमादयः ॥ ३९.४९ ॥

पूर्वं ते सम्प्रसूयन्ते ब्रह्मणो मनसा इह।
ततः प्रजाः प्रतिष्ठाप्य जनमेवाश्रयन्ति ते ॥ ३९.५० ॥

कल्पदाहप्रदीप्तेषु तदा कालेषु तेषु वै।
भूरा दिषु महान्तेषु भृशं व्याप्तेष्वथाग्निना ॥ ३९.५१ ॥

शिखा संवर्त्तका ज्ञेया प्राप्नुवन्ति सदा जनाः।
यामादयो गणाः सर्वे महर्लोकनिवासिनः ॥ ३९.५२ ॥

महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते।
सर्वे सूक्ष्मशरीरास्ते तत्रस्थास्तु भवन्ति ते ॥ ३९.५३ ॥

तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्त्तिधरास्तथा ।
जन लोके विवर्त्तन्ते यावत्सम्प्लवते जगत् ॥ ३९.५४ ॥

व्युष्टायान्तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनिनः।
अहरादौ प्रसूयन्ते पूर्ववत्क्रमशास्त्विह ॥ ३९.५५ ॥

स्वायम्भुवादयः सर्वे मरीच्यन्तास्तु साधकाः।
देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ॥ ३९.५६ ॥

यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः।
पूर्वं पूर्वं प्रसूयन्ते पश्चिमे पश्चचिमास्तथा।
देवान्वये देवता हि सप्त सम्भूतयः स्मृताः।
व्यतीताः कल्यजास्तेषां तिस्रः शिष्टास्तथा परे ॥ ३९.५८ ॥

आवर्त्तमाना देवास्ते क्रमेणैते न सर्वशः।
गत्वा जवन्तवीभावन्दशकृत्वः पुनः पुनः ॥ ३९.५९ ॥

ततस्ते वै गणाः सर्वे दृष्ट्वा भावेष्वनित्यताम्।
भाविनोऽर्थस्य च बलात् पुण्याख्यातिबलेन च ॥ ३९.६० ॥

निवृत्तवृत्तयः सर्वे स्वस्थाः सुमनसस्तथा।
वैराजे तूपपद्यन्ते लोकमुत्सृज्य तज्जनम् ॥ ३९.६१ ॥

ततोऽन्येनैव कालेन नित्ययुक्तास्तपस्विनः।
कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये ॥ ३९.६२ ॥

ईहोत्पन्नास्ततस्ते वै स्थाना आपूरयन्त्युत।
देवत्वे च ऋषित्वे च मनुष्यन्वे च सर्वशः ॥ ३९.६३ ॥

एवं देवगणाः सर्वे दशकृत्वो निवर्त्त्य वै।
वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् ॥ ३९.६४ ॥

पूर्णे पूर्णे ततः कल्पे स्थित्वा वैराजके पुनः।
ब्रह्मलोके विवर्त्तन्ते पूर्वपूर्वक्रमेण तु ॥ ३९.६५ ॥

एतस्मिन् ब्रह्मलोके तु कल्पे वैराजके गते।
वैराजं पुनरप्येके कल्पस्थानमकल्पयन् ॥ ३९.६६ ॥

एवं पूर्वानुपूर्व्येण ब्रह्मलोकगतेन वै।
एवं तेषु व्यतीतेषु तपसा परिकल्पिते।
वैराजे तूपपद्यन्ते दशकृत्वो निवर्त्तते ॥ ३९.६७ ॥

एवं देवयुगानीह व्यतीतानि सहस्रशः।
निधनं ब्रह्मलोके तु गतानामृषिभिः सह ॥ ३९.६८ ॥

॥सूत उवाच।.

विश्वास-प्रस्तुतिः

न शक्यमानुपूर्वेण तेषां वक्तुं प्रविस्तरम्।
अनादित्वाच्च कालस्य ह्यसं ख्यानाच्च सर्वशः।
एवमेव न सन्देहो यथावत्कथितं मया ॥ ३९.६९ ॥

तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः।
सूतमाहुः पुराणज्ञं व्यासशिष्यं महा मतिम् ॥ ३९.७० ॥

ऋषय ऊचुः॥

विश्वास-प्रस्तुतिः

वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः।
तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ॥ ३९.७१ ॥

तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थतत्त्ववित्।
सूतः पौराणिको वाक्यं विनयेनेदमब्रवीत् ॥ ३९.७२ ॥

ततः प्राप्यन्त ते सर्वे शुद्धिशुद्धतमाश्च ये।
आभूत सम्प्लवास्तत्र दश तिष्ठन्ति तेजनाः ॥ ३९.७३ ॥

सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्त्तयः।
स्थितलोकास्थितत्वाच्च तेषां भूतं न विद्यते ॥ ३९.७४ ॥

ऊचुः सनत्कुमाराद्याः सिद्धास्ते थोगधर्मिणः।
ख्यातिं नैमित्तिकीं तेषां पर्याये समुपस्थिते ॥ ३९.७५ ॥

स्थानत्यागे मनश्चापि युगपत्सम्प्रवर्त्तते।
ऊचुः सर्वे तदान्योऽन्यं वैराजाञ्छुद्धबुद्धयः ॥ ३९.७६ ॥

एवमेव महाभागाः प्रणवं सम्प्रविश्य ह।
ब्रह्मलोके प्रवर्त्तानस्तन्नः श्रेयो भविष्यति ॥ ३९.७७ ॥

एवमुक्त्वा तदा सर्वे ब्रह्मान्ते व्यवसायिनः।
योजयित्वा तदा सर्वे वर्त्तन्ते योगधर्मिणः ॥ ३९.७८ ॥

तत्रैव सम्प्रलीयन्ते शान्ता दीपार्चिषो यथा।
ब्रह्मकायमवर्त्तन्त पुनरावृत्तिदुर्लभम् ॥. ३९.७९ ॥

विश्वास-प्रस्तुतिः

लोकं तं समनुप्राप्य सर्वे ते भावनामयम्।
आनन्दं ब्रह्मणः प्राप्य ह्यमृतत्वाय ते गताः ॥ ३९.८० ॥

वैराजेभ्यस्तथैवोर्ध्वमन्तरे षड्गुणे ततः।
ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ॥ ३९.८१ ॥

ते सर्वे प्रणवात्मानो बुद्धशुद्धतपास्तथा।
आनन्दं ब्रह्मणः प्राप्यामृतत्वञ्च भजन्त्युत ॥ ३९.८२ ॥

द्वन्द्वैस्ते नाभिभूयन्ते भावत्रयविवर्ज्जिताः।
आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः ॥ ३९.८३ ॥

प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनैः।
तेब्रह्मलौकिकाः सर्वे गतिं प्राप्य विवर्त्तनीम् ॥ ३९.८४ ॥

ब्रह्मणा सह देवैश्च सम्प्राप्ते प्रतिसञ्चरे।
तपसोऽन्ते क्रियात्मानो बुद्धावस्था मनीषिणः।
अव्यक्ते सम्प्रलीयन्ते सर्वे ते क्षणदर्शिनः ॥ ३९.८५ ॥

इत्येतदमृतं शुक्रं नित्यमक्षयमव्ययम्।
देवर्षयो ब्रह्मसत्रं सनातनमुपासते ॥ ३९.८६ ॥

अपुनर्मार्गगादीनां तेषां चैवोर्ध्वरेतसाम् ।
कर्माभ्यासकृता शुद्धिर्वेदान्तेषूपलक्ष्यते ॥ ३९.८७ ॥

तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते।
हित्वा शरीरं पाप्मानममृतत्वाय ते गताः ॥ ३९.८८ ॥

वीतरागा जितक्रोधाः निर्मोहाः सत्यवादिनः।
शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥ ३९.८९ ॥

निःसङ्गाः शुचयश्चैव ब्रह्मसायुज्यगाः स्मृताः ।
अकामयुक्तैर्ये वीरास्तपोभिर्द्दग्धकिल्बिषाः।
तेषामभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ॥ ३९.९० ॥

एतद्ब्रह्मपदं दिव्यं परमं व्योम्नि भास्वरम्।
गत्वा न यत्र शोचन्ति ह्यमरा ब्रह्मणा सह ॥ ३९.९१ ॥

कस्मादेष परार्द्धश्च कश्चैष पर उच्यते।
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ॥ ३९.९२ ॥

सूत उवाच॥

विश्वास-प्रस्तुतिः

श्रृणुध्वं मे परार्द्धञ्च परिसङ्ख्यां परस्य च।
एवं दश शतञ्चैव सहस्रञ्चैव सङ्ख्यया ॥ ३९.९३ ॥

विज्ञेयमासहस्रन्तु सहस्राणि दशायुतम्।
एकं शतसहस्रन्तु नियुतं प्रोच्यते बुधैः ॥ ३९.९४ ॥

तथा शतसहस्राणामर्बुदं कोटिरुच्यते।
अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः ॥ ३९.९५ ॥

सहस्रमपि कोटीनां खर्वमाहुर्मनीषिणः।
दशकोटिसहस्राणि निखर्वमिति तं विदुः ॥ ३९.९६ ॥

शतं कोटिसहस्राणां सङ्कुरित्यभिधीयते।
कोटि सहस्र स्राणां कोटीनां दशधा पुनः।
गुणितानि समुद्रं वै प्राहुः सङ्ख्याविदो जनाः ॥ ३९.९७ ॥

कोटीनां सहस्रमयुतमित्ययं मध्य उच्यते।
कोटि सहस्र नियुता स चान्त इति सञ्ज्ञितः ॥ ३९.९८ ॥

कोटिकोटिसहस्राणिं परार्द्ध इति कीर्त्यते ।
परार्द्धद्विगुणञ्चापि परमाहुर्मनीषिणः ॥ ३९.९९ ॥

शतमाहुः परिदृढं सहस्रं परिपद्मकम्।
विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ॥ ३९.१०० ॥

अर्बुदं निर्बुदञ्चैव खर्बुदञ्च ततः स्मृतम्।
खर्वञ्चैव निखर्वञ्च शङ्कुः पद्मं तथैव च ॥ ३९.१०१ ॥

समुद्रं मध्यमञ्चैव परार्द्धमपरं ततः।
एवमष्टादशैतानि स्थानानि गणनाविधौ ॥ ३९.१०२ ॥

शतानीति विजानीयात् सञ्ज्ञितानि महर्षिभिः।
कल्पसङ्ख्या प्रवृत्तस्य परार्द्धं ब्रह्मणः स्मृतम् ॥ ३९.१०३ ॥

तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतिसृज्यते।
पर एष परार्द्धञ्च सङ्ख्यातः सङ्ख्यया मया ॥ ३९.१०४ ॥

यस्मादस्य परं वीर्यं परमायुः परन्तपः।
परा शक्तिः परो धर्मः परा विद्या परा धृतिः ॥ ३९.१०५ ॥

परं ब्रह्म परं ज्ञानं परमैश्वर्यमेव च।
तस्मात्परतरं भूतं ब्रह्मणोऽन्यन्न विद्यते ॥ ३९.१०६ ॥

परे स्थितो ह्येष परः सर्वार्थेषु ततः परः।
सङ्ख्यातस्तु परो ब्रह्मा तस्यार्द्धं तु परार्द्धता ॥ ३९.१०७ ॥

सङ्ख्येयं चाप्यसङ्ख्येयं सततं चापि तं त्रिकम्।
सङ्ख्येयं सङ्ख्यया दृष्टमपारार्द्धाद्विभाष्यते ॥ ३९.१०८ ॥

राशौ दृष्टे न सङ्ख्यास्ति तदसङ्ख्यस्य लक्षणम्।
आनन्त्यं सिकताख्येषु दृष्टवान् पञ्चलक्षणम् ॥ ३९.१०९ ॥

ईश्वरैस्तत्प्रसङ्ख्यातं शुद्धत्वाद्दिव्यदृष्टिभिः।
एवं ज्ञानप्रतिष्ठत्वात् सर्वं ब्रह्मानुपश्यति ॥ ३९.११० ॥

एतच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः।
बाष्पपर्याकुलाक्षास्तु प्रहर्षाद्घद्घदस्वराः ॥ ३९.१११ ॥

पप्रच्छुर्मातरिश्वानं सर्वे ते ब्रह्मवादिनः।
ब्रह्मलोकस्तु भगवन् यावन्मात्रान्तरः प्रभो ॥ ३९.११२ ॥

योजनाग्रेण सङ्ख्यातः साधनं योजनस्य तु।
क्रोशस्य च परीमाणं श्रोतुमिच्छामि तत्त्वतः ॥ ३९.११३ ॥

तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवाक्।
उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ॥ ३९.११४ ॥

एतद्वोऽहं प्रवक्ष्यामि श्रृणुध्वं मे विवक्षितम्।
अव्यक्ताद्व्यक्तभागो वै महास्थूलो विभाष्यते ॥ ३९.११५ ॥

दशैव महतां भागा भूतादिः स्थूल उच्यते।
दशभागाधिकं चापि भूतादिः परमाणुकः ॥ ३९.११६ ॥

परमाणुः सुसूक्ष्मस्तु बावग्राह्यो न चक्षुषा।
यदभेद्यतमं लोके विज्ञेयं परमाणु तत् ॥ ३९.११७ ॥

जालान्तरगतं भानोर्यत्सूक्ष्मं दृश्यते रजः।
प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ॥ ३९.११८ ॥

अष्टानां परमाणूनां समवायो यदा भवेत् ।
त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ॥ ३९.११९ ॥

त्रसरेणवश्च येऽप्यष्टौ रथरेणुस्तु स स्मृतः ।
तेऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः ॥ ३९.१२० ॥

बालाग्राण्यष्ट लिक्षा स्याद्यूका तच्चाष्टकं भवेत्।
यूकाष्टकं यवं प्राहुरङ्गुलन्तु यवाष्टकम् ॥ ३९.१२१ ॥

द्वादशाङ्गुलपर्वाणि वितस्तिस्थानमुच्यते।
रत्निश्चाङ्गुलपर्वाणि विज्ञेयो ह्येकविंशतिः ॥ ३९.१२२ ॥

चत्वारि विंशतिश्चैव हस्तः स्यादङ्गुलानि तु।
किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः ॥ ३९.१२३ ॥

षण्णवत्यङ्गुलञ्चैव धनुराहुर्मनीषिणः।
एतद्गव्यूतिसङ्ख्यायां पादानां धनुषः स्मृतः ॥ ३९.१२४ ॥

धनुर्दण्डो युगं नाली तुल्यान्येतान्यथाङ्गुलैः।
धनुषस्त्रिशतं नल्वमाहुः सङ्ख्याविदो जनाः ॥ ३९.१२५ ॥

धनुःसहस्रे द्वे चापि गव्यूतिरुपदिश्यते।
अष्टौ धनुःसहस्राणि योजनन्तु विधीयते ॥ ३९.१२६ ॥

एतेन धनुषा चैव योजनं तु समाप्यते।
एतत्सहस्रं विज्ञेयं शक्रक्रोशान्तरन्तथा ॥ ३९.१२७ ॥

योजनानान्तु सङ्ख्यातं सङ्ख्याज्ञानविशारदैः।
एतेन योजनाग्रेण श्रृणुध्वं ब्रह्मणोऽन्तरम् ॥ ३९.१२८ ॥

महीतलात्सहस्राणां शतादूर्ध्वं दिवाकरः।
दिवाकरात्सहस्रेण तावदूर्ध्वं निशाकरः ॥ ३९.१२९ ॥

पूर्णं शतसहस्रन्तु योजनानां निशाकरात्।
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥ ३९.१३० ॥

शतं सहस्रं सङ्ख्यातो मेरुर्द्विगुणितं पुनः।
ग्रहान्तरमथैकैकमूर्ध्वं नक्षत्रमण्डलात् ॥ ३९.१३१ ॥

ताराग्रहाणां सर्वेषामधस्ताच्चरते बुधः।
तस्योर्ध्वञ्चरते शुक्रस्तस्मादूर्ध्वं च लोहितः ॥ ३९.१३२ ॥

ततो बृहस्पतिश्चोर्ध्वं तस्मादूर्ध्वं शनैश्चरः।
ऊर्ध्वं शतसहस्रन्तु योजनानां शनैश्चरात् ॥ ३९.१३३ ॥

सप्तर्षिमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते।
ऋषिभिस्तु सहस्राणां शतादूर्ध्वं विभाव्यते ॥ ३९.१३४ ॥

योऽसौ तारामये दिव्ये विमाने ह्रस्वरूपके।
उत्तानपादपुत्रोऽसौ मेढिभूतो ध्रुवो दिवि ॥ ३९.१३५ ॥

त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया।
मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ॥ ३९.१३६ ॥

वर्णाश्रमेभ्य इज्या तु लोकेऽस्मिन्या प्रवर्त्तते।
सर्वेषां देवयोनीनां स्थितिहेतुः सवै स्मृतः ॥ ३९.१३७ ॥

त्रैलोक्यमेतद्वयाख्यातमत ऊर्ध्वं निबोधत।
ध्रुवा दूर्ध्वं महर्लोको यस्मिस्ते कल्पवासिनः।
एकयोजनकोटी सा इत्येवं निश्चयं गतम् ॥ ३९.१३८ ॥

द्वे कोट्यौ तु महर्लोकाद्यस्मिंस्ते कल्पवासिनः।
यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः ॥ ३९.१३९ ॥

चतुर्गुणोत्तरादूर्ध्वं जनलोकात्तपः स्मृतम्।
वैराजा यत्र ते देवा भूतदाहविवर्जिताः ॥ ३९.१४० ॥

षड्गुणन्तु तपोलोकात्सत्यलोकान्तरं स्मृतम्।
अपुनर्मारकामानां ब्रह्मलोकः स उच्यते ॥ ३९.१४१ ॥

यस्मान्न च्यवते भूयो ब्रह्माणं स उपासते ।
एककोटिर्योजनानां पञ्चाशन्नियुतानि तु ॥ ३९.१४२ ॥

ऊर्ध्वं भागस्ततोऽण्डस्य ब्रह्मलोकात्परः स्मृतः।
चतुरश्चैव कोट्यस्तु नियुताः पञ्चषष्टि च ॥ ३९.१४३ ॥

एषोऽर्द्धंशप्रचारोऽस्य गत्यन्तश्चापरः स्मृतः।
ध्रवाग्रमेतद्वयाख्यातं योजनाग्राद्यथाश्रुतम् ॥ ३९.१४४ ॥

अधोगतीनां वक्ष्यामि भूतानां स्थानकल्पनाम्।
गच्छन्ति घोरकर्माणः प्राणिनो यत्र कर्मभिः ॥ ३९.१४५ ॥

नरको रौरवो रोधः सूकरस्ताल एव च।
तप्तकुम्भो महाज्वालः शबलोऽथ विमोचनः ॥ ३९.१४६ ॥

कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः ।
अधःशिराः पूयवहो रुधिरान्धस्तथैव च ॥ ३९.१४७ ॥

तथा वैतरणं कृष्णमसिपत्रवनं तथा।
अग्निज्वालो महाघोरः सन्दंशोऽथ श्वभोजनः ॥३९.१४८ ॥

तमश्च कृष्णसूत्रश्च लोहश्चाप्यसिजस्तथा।
अप्रतिष्ठोऽथ वीच्यश्वनरका ह्येवमादयः ॥ ३९.१४९ ॥

तामसा नरकाः सर्वे यमस्य विषये स्थिताः।
येषु दुष्कृतकर्माणः पतन्तीह पृथक्पृथक् ॥ ३९.१५०

विश्वास-प्रस्तुतिः

भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्त्तिताः।
रौरवे कूटसाक्षी तु मिथ्या यश्चाभिशंसति।
क्रूरग्रहे पक्षवादी ह्यसत्यः पतते नरः ॥ ३९.१५१ ॥

रोधे गोघ्नो ब्रूणहा च ह्यग्निदाता पुरस्य च।
सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ॥ ३९.१५२ ॥

ताले पतेत्क्षत्रियहा हत्वा वैश्यञ्च दुर्गतिम्।
ब्रहमहत्याञ्च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ॥ ३९.१५३ ॥

तप्तकुम्भी स्वसागामी तथा राजभटश्च यः।
तप्तलोहे चाश्ववणिक्तथा बन्धनरक्षिता ॥ ३९.१५४ ॥

साध्वीविक्रयकर्त्ता च यस्तु भक्तं परित्यजेत्।
महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै ॥ ३९.१५५ ॥

वेदो विक्रीयते येन वेदं दूषयते च यः।
गुरूंश्चैवावमन्यन्ते वाक्क्रोशैस्ताडयन्ति च ॥ ३९.१५६ ॥

अगम्यगामीच नरो नरकं शबलं व्रजेत्।
विमोहे पतिते चौरे मर्यादां यो भिनत्ति वै ॥ ३९.१५७ ॥

दुरध्वं कुरुते यस्तु कीटलोहं प्रपद्यते।
देवब्राह्मणविद्वेष्टा गुरूणाञ्चाप्यपूजकः।
रत्नं दूषयते यस्तु कृमिभक्ष्यं प्रपद्यते ॥ ३९.१५८ ॥

पर्यश्नाति य एकोऽन्यो ब्राह्मणीं सुहृदः सुताम्।
लालाभक्षे स पतति दुर्गन्धे नरके गतः ॥ ३९.१५९ ॥

काण्डकर्त्ता कुलालश्च निष्कहर्त्ता चिकित्सकः।
आरा मेष्वग्निदाता यः पतते स विशंसने ॥ ३९.१६० ॥

असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः।
नक्षत्रैर्जीवितो यश्च नरो गच्छत्यधोमुखम् ॥ ३९.१६१ ॥

क्षीरं सुरां च मांसं च लाक्षां गन्धं रसन्तिलान्।
एवमादीनि विक्रीणन्घोरो पूयवहे पतेत् ॥ ३९.१६२ ॥

यः कुक्कुटानि बध्नाति मार्जारान्सूकरांश्च तान्।
पक्षिणश्च मृगाञ्छागान्सोऽप्येनं नरकं व्रजेत् ॥ ३९.१६३ ॥

आजीविको माहिषकस्तथा चक्रध्वजी च यः।
रङ्गोपजीविको विप्रः शाकुनिग्राम याजकः ॥ ३९.१६४ ॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी।
सुरापो मांसभक्षश्च तथा च पशुघातकः ॥ ३९.१६५ ॥

विश(श्व)स्ता महिषादीनां मृग हन्ता तथैव च।
पर्वकारश्च सूची च यश्च स्यान्मित्रघातकः।
रुधिरान्धे पतन्त्येते एवमाहुर्मनीषिणः ॥ ३९.१६६ ॥

उपविष्टमेकपङ्क्त्यां विषमं भोजयन्ति ये।
पतन्ति नरके घोरे विङ्‌भुजे नात्र संशयः ॥ ३९.१६७ ॥

मृषावादी नरो यश्च तथा प्राक्रोशकोऽशुभः।
पतेत्तु नरके घोरो मूत्राकीर्णे स पापकृत् ॥ ३९.१६८ ॥

मधुग्राहाबिहन्तारो यन्ति वैतरणीं नराः।
उन्मत्ताश्चित्तभग्नाश्च शौचाचारविवर्ज्जिताः ॥ ३९.१६९ ॥

क्रोधना दुःखदाश्चैव कुहकाः कृष्टगामिनः।
असि पत्रवने छेदी तथा ह्यौरभ्रिकाश्च ये।
कर्त्तनैश्च निकृष्यन्ते मृगव्याधाः सुदारुणैः ॥ ३९.१७० ॥

आश्रमप्रत्यवसिता अग्निज्वाले पतन्ति वै।
भौज्यन्ते श्याम शबलैरयस्तुण्डैश्च वायसैः ॥ ३९.१७१ ॥

इज्यायां व्रतमालोपात्सन्दंशे नरके पतेत्।
स्कन्दन्ते यदि वा स्वप्ने व्रतिनो ब्रह्मचारिणः ॥ ३९.१७२ ॥

पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये।
तेसर्वे नरकं यान्ति नियतन्तु श्वभोजने ॥ ३९.१७३ ॥

वर्णाश्रमविरूद्धानि क्रोधहर्षसमन्विताः।
कर्माणि ये तु कुर्वन्ति सर्वे निरयगामिनः ॥ ३९.१७४ ॥

उपरिष्टात्सितो घोर उष्णात्मा रौरवो महान्।
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥ ३९.१७५ ॥

एवमादि क्रमेणैव वर्ण्यमानान्निबोधत।
भूमेरधस्तात्सप्तैव नरकाः परिकीर्तिताः ॥ ३९.१७६ ॥

अधर्मसूनवस्ते स्युरन्धतामिस्रकादयः।
रौरवः प्रथमस्तेषां महा रौरव एव च ॥ ३९.१७७ ॥

अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः।
तृतीयः कालसूत्रः स्यान्महाहविविधिः स्मृतः ॥ ३९.१७८ ॥

अप्रतिष्ठ श्चतुर्थः स्यादवीची पञ्चमः स्मृतः।
लोहपृष्ठस्तमस्तेषामविधेयस्तु सप्तमः ॥ ३९.१७९ ॥

घोरत्वाद्रौरवः प्रोक्तः साम्भको दहनः स्मृतः।
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपोऽधमः ॥ ३९.१८० ॥

सर्पो निकृन्तनः प्रोक्तः कालसूत्रेति दारुणः।
अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सुदारुणः ॥ ३९.१८१ ॥

अवीचिर्दारुणः प्रोक्तो यन्त्रसम्पीडनाच्च सः।
तस्मात्सुदारुणो लोहः कर्मणां क्षयणाच्च सः ॥ ३९.१८२ ॥

तथाभूतो शरीरत्वादविधिभ्यस्तु स स्मृतः।
पीडबन्धवधासङ्गादप्रतीकारलक्षणः ॥ ३९.१८३ ॥

ऊर्ध्वं सैलमितास्ते तु निरालोकाश्च ते स्मृताः।
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ॥ ३९.१८४ ॥

ऊर्ध्वं लोकैः समावेतौ निरालोकौ च तावुभौ।
कूटाङ्गारप्रमाणैश्च शरीरी मूत्रनायकः ॥ ३९.१८५ ॥

उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः।
दुःख प्रकर्षश्चोग्रत्वं तेषु सर्वेषु वै स्मृतः ॥ ३९.१८६ ॥

यातनाश्चाप्यसङ्ख्येया नारकाणां तथा स्मृताः।
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ॥ ३९.१८७ ॥

तिर्यग्योनौ प्रसूयन्ते कर्मशेषे गते ततः।
देवाश्च नारकाश्चैव ह्यूर्ध्वं चाधश्च संस्थिताः ॥ ३९.१८८ ॥

धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्त्तयः।
उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ॥ ३९.१८९ ॥

पश्यन्ति नारकान्देवा ह्यधोवक्रान् ह्यधोगतान्।
नारकाश्च तथा देवान् सर्वान्पश्यन्त्यधो मुखान् ॥ ३९.१९० ॥

अनग्रमूलता यस्माद्धारणाश्च स्वभावतः।
तस्मादूर्ध्वमधोभावो लोकालोके न विद्यते ॥ ३९.१९१ ॥

एषा स्वाभाविकी सञ्ज्ञा लोकालोके प्रवर्त्तते।
अथाब्रुवन्पुनर्वायुं ब्राह्मणाः सत्रिणस्तदा ॥ ३९.१९२ ॥

सर्वेषामेव भूतानां लोकालोकनिवासिनाम्।
संसारे संसरन्तीह यावन्तः प्राणिनश्च तान् ॥ ३९.१९३ ॥

सह्ख्यया परिसङ्ख्याय ततः प्रब्रूहि कृत्स्नशः।
ऋषीणां तद्वचः श्रुत्वा मारुतो वाक्यमब्रवीत् ॥ ३९.१९४ ॥

न शक्या जन्तवः कृत्स्नाः प्रसङ्ख्यातुं कथञ्चन।
अनाद्यन्ताश्च सङ्कीर्णा ह्यप्यूहेन व्यवस्थिताः।
गणना विनिवृत्तैषामानन्त्येन प्रकीर्त्तिताः ॥ ३९.१९५ ॥

न दिव्यचक्षुषा ज्ञातुं शक्या ज्ञानेन वा पुनः।
चक्षुषा वै प्रसङ्ख्यातुमतो ह्यन्ते नराधिपः ॥ ३९.१९६ ॥

अनाध्यानादवेद्यत्वान्नैव प्रश्नो विधीयते।
ब्रह्मणा सञ्ज्ञितं यत्तु सङ्ख्यया तन्निबोधत ॥ ३९.१९७ ॥

यः सहस्रतमो भागः स्थावराणां भवेदिह।
पार्थिवाः कृमयस्तावत्संसेकाद्येषु सम्भवाः ॥ ३९.१९८ ॥

संसेकजानाम्भागेन सहस्रेणैव सम्मिताः।
औदका जन्तवः सर्वे निश्चयात्तद्विचारितम् ॥ ३९.१९९ ॥

सहस्रेणैव भागेन सत्वानां सलिलौकसाम् ।
विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः ॥ ३९.२०० ॥

यः सहस्रतमो भागस्तेषां वै पक्षिणां भवेत्।
पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ॥ ३९.२०१ ॥

चतुष्पदानां सर्वेषां सहस्रेणैव सम्मताः ।
भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्वशः ॥ ३९.२०२ ॥

यः सहस्रतमो भागो भागे तु द्विपदां पुनः।
धार्मिकास्तेन भागेन विज्ञेयाः सम्मिताः पुनः ॥ ३९.२०३ ॥

सहस्रेणैव भागेन धार्मिकेभ्यो दिवङ्गताः।
यः सहस्रतमो भागो धार्मिकाणां भवेद्दिवि।
सम्मितास्तेन भागेन मोक्षिणस्तावदेव हि ॥ ३९.२०४ ॥

स्वर्गोपपादकैस्तुल्या यातना स्थानवासिनः।
पतिता श्चूर्णमुद्देशाद्दुरात्मानो म्रियन्ति ये।
रौरवे तामसे ह्येते शीतोष्णं प्राप्नुवन्ति ते ॥ ३९.२०५ ॥

वेदनाकटुकास्तब्धा यातना स्थानमागताः।
उष्णस्तु रौरवो ज्ञेयस्तेजो घोररसात्मकः ॥ ३९.२०६ ॥

ततो घनात्मिकश्चापि शीतात्मा सततं तपः।
एवं सुदुर्लभाः सन्तः स्वर्गे च धार्मिका नराः ॥ ३९.२०७ ॥

एषा सङ्ख्या कृता सङ्ख्या ईश्वरेण स्वयम्भुवा।
गणना विनिवृत्तैषा सङ्ख्या ब्राह्मी च मानुषी ॥ ३९.२०८ ॥

ऋषय ऊचुः।
महो जनस्तपः सत्यं भूतो भाव्यो भवस्तथा।
उक्ता ह्येते त्वया लोका लोकानामन्तरेण च।
लोकान्तरञ्च यादृग्वै तन्नो ब्रूहि यथातथम् ॥ ३९.२०९ ॥

तेषां तद्वचनं श्रुत्वा ऋषीणामूर्ध्वरेतसाम्।
स वायुर्दृष्टतत्त्वार्थ इदन्तत्त्वमुवाच ह ॥ ३९.२१०
वायुरुवाच॥

विश्वास-प्रस्तुतिः

व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः।
प्रत्याहारेण ध्यानेन तपसा च क्रियात्मनः ॥ ३९.२११ ॥

ऋभुः सनत्कुमाराद्याः सम्बुद्धाः शुद्धबुद्धयः।
व्यपेतशोका विरजाः सन्तो ब्रह्मेवसत्तमाः ॥ ३९.२१२ ॥

अक्षयाः प्रीतिसंयुक्ता ब्रह्मे तिष्टन्ति योगिनः।
ऋषीणां वालखिल्यानां तैर्यथाद्दृतमीश्वरैः ॥ ३९.२१३ ॥

यथा चैव मया दृष्टं सान्निध्यन्तत्र कुर्वता।
अनह्यसत्कृतार्थानामालयं चेश्वरस्य यत् ॥ ३९.२१४ ॥

ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् ।
ज्ञानं वैराग्यमैश्वर्यन्तपः सत्यं क्षमा धृतिः ॥ ३९.२१५ ॥

द्रष्टृत्वमात्मसम्बन्धमधिष्ठानत्वमेव च।
अव्ययानि दशैतानि तस्मिंस्तिष्ठति शङ्करे ॥ ३९.२१६ ॥

विबुत्वात्खलु योगाग्निर्ब्रह्मणोऽनुग्रहेरतः।
स लोकविग्रहो भूत्वा साहाय्यमुपतिष्ठते ॥ ३९.२१७ ॥

अक्षरं ध्रुवमव्यग्रमष्टमन्त्वौपसर्गिकम्।
तस्येश्वरस्य यन्मात्रस्थानं मायामयं परम् ॥ ३९.२१८ ॥

मायया कृतमाचष्टे मायी देवो महेश्वरः।
देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्त्यते ॥ ३९.२१९ ॥

विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत।
त्रयोदशैव कोट्यस्तु नियुता दश पञ्च च।
भूर्लोकाद्ब्रह्मलोको वैयोजनैः सम्प्रकीर्त्त्यते ॥ ३९.२२० ॥

एकयोजनकोटी तु पञ्चाशन्नियुतानि च।
ऊर्ध्वं भागवताण्डन्तु ब्रह्मलोकात्परं स्मृतम् ॥ ३९.२२१ ॥

एषोर्ध्वगप्रचारस्तु गत्यन्तञ्च ततः स्मृतम् ।
नित्या ह्यपरिसङ्ख्येयाः परस्परगुणाश्रयाः ॥ ३९.२२२ ॥

सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः।
येभ्योऽधिकर्त्ता सञ्जज्ञो क्षेत्रज्ञो ब्रह्मसञ्ज्ञितः ॥ ३९.२२३ ॥

तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम्।
अनुत्पाद्यं परन्धाम परमाणु परेशयम् ॥ ३९.२२४ ॥

अक्षयश्चाप्यनुह्यश्च अमूर्त्तिर्मूर्त्तिमानसौ।
प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः ॥ ३९.२२५ ॥

विधिरन्यैरनौपम्यः परमाणुर्महेश्वरः।
सतेजा एष तमसो यः परस्तात्प्रकाशकः ॥ ३९.२२६ ॥

यदण्डमासीत्सौवर्णं प्रथमन्त्वौपसर्गिकम्।
बृहतं सर्वतोवृत्तमीश्वराद्व्यवजायत ॥ ३९.२२७ ॥

ईश्वराद्बीजनिर्भेदः क्षेत्रज्ञो बीज ईष्यते।
योनिं प्रकृतिमाचष्टे सा च नारायणात्मिका ॥ ३९.२२८ ॥

विबुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च।
सन्निसर्गः स तन्वा च लोकधातुर्महात्मनः ॥ ३९.२२९ ॥

पुरस्ताद्ब्रह्मलोकस्य ह्यण्डादर्वाक्च ब्रह्मणः।
तयोर्मध्ये पुरं दिव्यं स्थानं यस्य मनोमयम् ॥ ३९.२३० ॥

तद्विग्रहवतः स्थानमीश्वरस्यामितौजसः।
शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम् ॥ ३९.२३१ ॥

सहस्राणां शतं पूर्णं योजनानां द्विजोत्तमाः।
अभ्यन्तरे तु विस्तीर्णं महीमण्डलसंस्थितम् ॥ ३९.२३२ ॥

मध्याह्नार्कप्रकाशेन परतेजोऽभिमर्दिना।
शातकौम्भेन महता प्राकारेणार्कवर्चसा ॥ ३९.२३३ ॥

द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः।
तपनीयनिभैः शुभ्रैर्गाढं सुकृतवेष्टनम् ॥ ३९.२३४ ॥

तच्चाकाशे पुरं रम्यं दिव्यं घण्टादिनादितम्।
न तत्र क्रमते मृत्युर्न तपो न जरा श्रमाः ॥ ३९.२३५ ॥

न हि तस्य पुरस्यान्यैरुपमां कर्तुमर्हति।
सहस्राणां शतं पूर्णं योजनानां दिशो दश ॥ ३९.२३६ ॥

तत्पुरं गोवृषाङ्कस्य तेजसा व्याप्य तिष्ठति।
भावेन मनसो भूमिर्विन्यस्ता कनकामयी ॥ ३९.२३७ ॥

रत्नवालुकया तत्र विन्यस्ता शुशुभेऽधिकम्।
शारदेन्दुर्पकाशानि बालसूर्यनिबानि च ॥ ३९.२३८ ॥

अर्द्ध श्वेतार्द्धरक्तानि सौवर्णानि तथैव च।
रथचक्रप्रमाणानि नालैर्मरकतप्रभैः ॥ ३९.२३९ ॥

सौकुमारेण रूपेण गन्धिनाप्रतिमेन च।
तत्र दिव्यानि पद्मानि वनेषूपवनेषु च ॥ ३९.२४० ॥

भृङ्गपत्रनिकाशानि तपनीयानि यानि च।
अर्द्धकृष्णार्द्धरक्तानि सुकुमारान्तराणि च ॥ ३९.२४१ ॥

आतपत्र प्रमाणानि पङ्कजैः संवृतानि च।
भूयः सप्त महानद्यस्तासान्नामानि बोधत ॥ ३९.२४२ ॥

वरा वरेण्या वरदा वरार्हा वरवर्णिनी।
वरमा वरभद्रा च रम्यास्तस्मिन्पुरोत्तमे ॥ ३९.२४३ ॥

पद्मोत्पलदलोन्मिश्रं फेनाद्यावर्त्तविग्रहम्।
जलं मणिदलप्रख्यमावहन्ति सरिद्वराः ॥ ३९.२४४ ॥

न तु ब्रह्मर्षयो देवा नासुराः पितरस्तथा।
न खल्वन्येऽप्रमेयस्य विदुरीशस्य तत्पुरम् ॥ ३९.२४५ ॥

तत्र ये ध्यानमव्यग्राः सुयुक्ता विजितेन्द्रियाः।
पश्यन्तीह महात्मानः पुरन्तद्गोवृषात्मनः ॥ ३९.२४६ ॥

मध्ये पुरवरेन्द्रस्य तस्याप्रतिमतेजसः।
सुमहान्मेरुसङ्गाशो दिव्यो भद्रश्रिया वृतः ॥ ३९.२४७ ॥

सहस्र पादः प्रासादस्तपनीयमयः शुभः।
अनुपमेयै रत्नैश्च सर्वतः स विभूषितः ॥ ३९.२४८ ॥

स्फटिकैश्चन्द्रसङ्काशैर्वैढूर्यैः सोमसम्प्रभैः।
बालसूर्यप्रभैश्चैव सौवर्णैश्चाग्निसम्प्रभैः ॥ ३९.२४९ ॥

राजतैश्चापि शुशुभे इन्द्रनीलमयैः शुभैः।
दृढैर्वज्रमयैश्चैव इत्येवं सुमहाहितैः ॥ ३९.२५० ॥

जलैश्च विविधाकारैर्दीप्यद्भिरधिवासितम्।
चन्द्ररश्मिप्रकाशाभिः पताकाभिरलङ्कृतम् ॥ ३९.२५१ ॥

रुक्मघण्टानिनादैश्च नित्यप्रमुदितोत्सवः।
किन्नराणामधीवासैः सन्ध्याभ्राकारराजितैः ॥ ३९.२५२ ॥

परिवारसमन्तात्तु हेमपुष्पोदकप्रभैः।
यथा हि मेरुशैलेन्द्रो हेमश्रृङ्गैर्विराजते ॥ ३९.२५३ ॥

चामीकरमयीभिस्तु पताकाभिस्तथा पुरम् ।
एवं प्रासादराजोऽसौ भूमिकाभिर्विराजते ॥ ३९.२५४ ॥

वसन्तप्रतिमा यत्र त्र्यम्बकस्य निवेशने।
लक्ष्मीः श्रीश्च वपुर्माया कीर्त्तिः शोभा सरस्वती ॥ ३९.२५५ ॥

देव्या वै सहिता ह्येता रूपगन्धसमन्विताः।
नित्या ह्यपरिसङ्ख्याताः परस्परगुणाश्रयाः ।
भूषणं सर्वरत्नानां योन्यः कान्तिविलासयोः ॥ ३९.२५६ ॥

कोटिशतं महाभागा विभज्यात्मानमात्मना।
भगवन्तं महात्मानं प्रतिमोदन्त्यतन्द्रिताः। ॥ ३९.२५७ ॥

तासां सहस्रशश्चान्याः पृष्ठतः परिचारिकाः।
रूपिण्यश्च श्रिया युक्ताः सर्वाः कमललोचनाः ॥ ३९.२५८ ॥

लीलाविलाससंयुक्तैर्भावैरतिमनोहरैः।
गणैस्ताः सह मोदन्ते शैलाभैः पावकोपमैः ॥ ३९.२५९ ॥

कुब्जा कामनिकामैश्च वरगात्रा हयाननाः ।
पुण्ड्राश्च विकटाश्चैव करलाश्चिपिटाननाः ॥ ३९.२६० ॥

लम्बोदरा ह्रस्वभुजा विनेत्रा ह्रस्वपादिकाः।
मृगेन्द्रवदनाश्चान्या गजवक्रोदरास्तथा ॥ ३९.२६१ ॥

गजाननास्तथैवान्याः सिंह व्याघ्राननास्तथा।
लोहिताक्षा महास्तन्यः सुभगाश्चारुलोचनाः ॥ ३९.२६२ ॥

ह्रस्वकुञ्चितकेशाश्च सुन्दर्यश्चारुलोचनाः।
अन्याश्च कामरूपिण्यो नानावेषधराः स्त्रियः ॥ ३९.२६३ ॥

अभ्यन्तरपरिस्कन्धा देवावासगृहोचिताः।
रराम भगवांस्तत्र दशबाहुर्महेश्वरः ॥ ३९.२६४ ॥

नन्दिना च गणैः सार्द्धं विश्वरूपैर्महात्मभिः।
तथा रुद्रगणैश्चापि तुल्यौदार्यपराक्रमैः ॥ ३९.२६५ ॥

पावकात्मजसङ्काशैर्यूपदंष्ट्रोत्कटाननैः।
वन्द्यमानो विमानश्च पूज्यमानश्च तत्परैः ॥ ३९.२६६ ॥

सर्वर्तुकुसुमां मालां जिघ्रमाणोरसि स्थितान् ।
नीलोत्पलदलश्यामं पृथुताम्रायतेक्षणम् ॥ ३९.२६७ ॥

ईषत्कराल्लम्बोष्ठं तीक्ष्णदंष्ट्रा गणाञचितम्।
षडूर्ध्वनेत्रं दुष्प्रेक्ष्यं रुचिरञ्चीरवाससम् ॥ ३९.२६८ ॥

आहवेष्वपरिक्लिष्टं देवानामरिनाशनम्।
बाहुना बाहुमावेश्य पार्श्वे सव्येऽन्तरे स्थितम् ॥ ३९.२६९ ॥

रराजापदिशन्तस्य वामाग्रकरगोचरम्।
महाभैरवनिर्घोषं बलेनाप्रतिमौजसम्।
दशवर्णधनुश्चैव विचित्रं शोभतेऽधिकम् ॥ ३९.२७० ॥

त्रिशूलं विद्युताभासममोघं शत्रुनाशनम्।
जाज्वल्यमानं वपुषा परमं तत्त्विषा युतम् ॥ ३९.२७१ ॥

असिश्चैवौजसां श्रेष्ठः शीतरश्मिः शशी तथा।
तेजसा वपुषा कान्त्या देवेशस्य महात्मनः।
शुशुभेऽभ्यधिकं तत्र वेद्यामग्निशिखा इव ॥ ३९.२७२ ॥

स्थितः पुरस्ताद्देवस्य शातकौम्भमयो महान्।
शुशुभे रुचिरः श्रीमान्सोदकः सकमण्डलुः ॥ ३९.२७३ ॥

असिमावेश्य चाङ्गेषु पाण्डुराम्बर धारिणी।
उरश्छदेन महता मौक्तिकेन विराजिता।
चतुर्भुजा महाभागा विजया लोकसम्मता ॥ ३९.२७४ ॥

देव्या आद्यः प्रतीहारी श्रीरिवाप्रतिमा परा।
विभ्राजती स्थिता चैव कृत्वा देवस्य चाञ्जलिम् ॥ ३९.२७५ ॥

तस्याः पृष्ठानुगाश्चान्याः स्त्रियोऽप्सरोगणान्विताः।
ताः खल्वभिनवैः कान्तैरुपतिष्ठन्ति शङ्करम् ॥ ३९.२७६ ॥

सर्वलक्षणसम्पन्ना वादित्रै रुपबृंहिताः।
उपगायन्ति देवेशं गणा गन्धर्वयोनयः ॥ ३९.२७७ ॥

अभ्युन्नतो महोरस्कः शरन्मेघसमद्युतिः।
शोभते नन्दमानश्च गोपतिस्तस्य वेश्मनि ॥ ३९.२७८ ॥

स्कन्दश्च सपरीवारः पुत्रोऽस्यामितवीर्यवान्।
रक्ताम्बरधरः श्रीमान्वराम्बुजदलेक्षणः ॥ ३९.२७९ ॥

तस्य शाखो विशाखश्च नैगमेयश्च चाष्टवान्।
व्यपेतव्यसनाक्रूराः प्रजानां पालने रताः ॥ ३९.२८० ॥

तैः सार्द्धं स महावीर्यः शोभते शिखिवाहनः ।
व्यालक्रीडनकैस्तत्र क्रीडते विश्वतोमुखः ॥ ३९.२८१ ॥

ये नृपा विभुधेन्द्राणां काञ्चनस्य प्रदायिनः।
ये च स्वायतना विप्रा गृहस्था ब्रह्मवादिनः ॥ ३९.२८२ ॥

गूढस्वाध्याय तपसस्तथा चैवोञ्छवृत्तयः।
एते सभासदस्तस्य देवेशस्य च सम्मताः ॥ ३९.२८३ ॥

मन्वन्तराण्यनेकानि व्यवर्त्तन्त पुनः पुनः।
श्रूयतां देवदेवस्य भविष्याश्चर्यमुत्तमम् ॥ ३९.२८४ ॥

व्याघ्राश्चैवानुगास्तत्र काञ्चनाभास्तरस्विनः।
स्वच्छन्दचारिणः सर्वे स्वयं देवेन निर्मिताः॥ ३९.२८५ ॥

मृत्योर्मृत्युसमास्ते तु यमदर्पापहारिणः ।
विभूतिमप्यसङ्ख्येयां को न खल्वभिधास्यते ॥ ३९.२८६ ॥

अतःपरमिदं भूयो भवेनाद्भुतमुत्तमम्।
भूतानामनुकम्पार्थं यत्कृतं तन्निबोधत ॥ ३९.२८७ ॥

मन्दरादिप्रकाशानां बलेनाप्रतिमौजसाम्।
हारकुन्देन्दुवर्णानां विद्युद्वननिनादिनाम् ॥ ३९.२८८ ॥

चूडामणिधराणां वै मेघसन्निभवाससाम्।
श्रीवत्साङ्कितवज्राणामङ्गुलीशूलपाणिनाम् ॥ ३९.२८९ ॥

एवं दिशानां देवानां रूपेणोत्तमशालिनाम्।
तस्य प्रासादमुख्यस्य स्तम्भेषूत्तमशोभिषु ॥ ३९.२९० ॥

संयताग्निमयीभिस्तु श्रृङ्खलाभिः पृथक्पृथक्।
मायासहस्रं सिंहानां सुखं तत्र निवासिनाम् ॥ ३९.२९१ ॥

स्तम्भेऽप्यपासृताषष्टं(?) त्र्यम्बकस्य निवेशने।
अथ तत्प्रतिसम्पूज्य वायोर्वाक्यं सुविस्मिताः।
ऋषयः प्रत्यभाषन्त नैमिषेयास्तपस्विनः ॥ ३९.२९२ ॥

भगवन्सर्वभूतानां प्राण सर्वत्रग प्रभो।
के ते सिंहमहाभूताः क्व ते जाताः किमात्मकाः ॥ ३९.२९३ ॥

सिंहाः केनापराधेन भूतानां प्रभविष्णुना।
वैश्वानरमयैः पाशैः संरुद्धास्तु पृथक्पृथक् ॥ ३९.२९४ ॥

तेषां तद्वचनं श्रुत्वा वायुर्वाक्यं जगाद ह ।
यद्वै सहस्रं सिंहानामीश्वरेण महात्मना।
व्यपनीय स्वकाद्देहात्क्रोधास्ते सिंहविग्रहाः ॥ ३९.२९५ ॥

भूतानामभयं दत्त्वा पुराबद्धाग्निबन्धने।
यज्ञभागनिमित्तं च ईश्वरस्याज्ञया तदा ॥ ३९.२९६ ॥

तेषां विधानमुक्तेन सिंहेनैकेन लीलया।
देव्या मन्युं कृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ ३९.२९७ ॥

निःसृता च महादेव्या महाकाली महेश्वरी।
आत्मनः कर्मसाक्षिण्या भूतैः सार्द्धं तदानुगैः ॥ ३९.२९८ ॥

स एष भगवान्क्रोधो रुद्रावासकृतालयः।
वीरभद्रोऽप्रमेयात्मा देव्या मन्युप्रमार्ज्जनः ॥ ३९.२९९ ॥

तस्य वेश्म सुरेन्द्रस्य सर्वगुह्यतमस्य वै।
सन्निवेशस्त्वनौपम्यो मया वः परिकीर्त्तितः ॥ ३९.३०० ॥

अतः परं प्रवक्ष्यामि ये तत्र प्रति वासिनः।
रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ॥ ३९.३०१ ॥

नानारत्नविचित्रेषु पताकाबहुलेषु च।
सर्वकामसमृद्धेषु वनोपवनशोभिषु ॥ ३९.३०२ ॥

राजतेषु महान्तेषु शातकौम्भमयेषु च।
सन्ध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च ॥ ३९.३०३ ॥

इष्टैः शब्दादिभिर्भागैर्ये भवस्यानुसारिणः ।
प्रासादवर पुष्पेषु तेषु मोदन्ति सुव्रताः ॥ ३९.३०४ ॥

ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः ।
गीतवादित्रघोषाश्च संस्तवाश्च समन्ततः ॥ ३९.३०५ ॥

संहताश्चैवमतुला नानाश्रयकृतास्तथा।
एवमादीनि वर्त्तन्ते तेषां प्रासादमूर्द्धनि ॥ ३९.३०६ ॥

सहस्रपादः प्रासादस्तपनीयमयः शुभः।
अनौपम्यैर्वरै रत्नैः सर्वतः परिभूषितः ॥ ३९.३०७ ॥

स्फटिकैश्चन्द्रसङ्काशैर्वैढूर्यमणिसम्प्रभैः।
बालसूर्यमयैश्चापि सौवर्णैश्चाग्निसम्प्रभैः ॥ ३९.३०८ ॥

चुक्रुशुऋषयः श्रुत्वा नैमिषेयास्तपस्विनः।
आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ॥ ३९.३०९ ॥

के तु तत्र महात्मानो ये भवस्यानुसारिणः।
अनुग्राह्यतमाः सम्यक् प्रमोदन्ते पुरोत्तमे।
ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमथाब्रवीत् ॥ ३९.३१० ॥

श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता।
ह्रीमन्तः सूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ॥ ३९.३११ ॥

मध्याहाराश्च मात्राश्च ह्यात्मारामा जितेन्द्रियाः।
जितद्वन्द्वा महोत्साहाः सौम्या विगतमत्सराः ॥ ३९.३१२ ॥

भावस्थाः सर्वभूतानामव्यापारा अनाकुलाः।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना।
अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ॥ ३९.३१३ ॥

तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम्।
भवस्य रूपसादृश्यं नीताश्चैव ह्यनुत्तमम् ॥ ३९.३१४ ॥

वैश्वानरमुखाः सर्वे विश्वरूपाः कपर्द्दिनः ।
नीलकण्ठाः सितग्रीवास्तीक्ष्णदंष्ट्रास्त्रिलोचनाः ॥ ३९.३१५ ॥

अर्द्धचन्द्रकृतोऽणीषा जटामुकुटधारिणः ।
सर्वे दशभुजा वीराः पद्मान्तर सुगन्धिनः ॥ ३९.३१६ ॥

तरुणादित्यसङ्काशाः सर्वे ते पीतवाससः ।
पिनाकपाणयः सर्वे श्वेतगोवृषवाहनाः ॥ ३९.३१७ ॥

श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः।
तेजसोऽभ्यधिका देवैः सर्वज्ञाः सर्वदर्शिनः ॥ ३९.३१८ ॥

विभज्य बहुधात्मानं जरामृत्युविवर्जिताः।
क्रीडन्ते विविधैर्भावैर्भोगान् प्राप्य सुदुर्लभान् ॥ ३९.३१९ ॥

स्वच्छन्दगतयः सिद्धाः सिद्धैश्चान्यौर्विबोधिताः।
एकादशानां रुद्राणां कोट्योऽनेकमहात्मनाम् ॥ ३९.३२० ॥

एभिः सह महात्मा हि देवदेवो महेश्वरः।
भक्तानुकम्पी भगवान्मोदते पार्वतीप्रियः ॥ ३९.३२१ ॥

नाहन्तेषान्तु रुद्राणां भवस्य च महात्मनः।
नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः ॥ ३९.३२२ ॥

मातरिश्वाऽब्रवीत्पुण्यामित्येतामीश्वरोऽप्युत।
अथ ते ऋषयः सर्वे दिवाकरसमप्रभाः।
श्रुत्वेमां परमां पुण्यां कथां त्रैयम्बकीं ततः ॥ ३९.३२३ ॥

भृशञ्चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम्।
सम्भावयित्वा चाप्येनां वायुमूचुर्महाबलम् ॥ ३९.३२४ ॥

समीरण महाभाग ह्यस्माकं च त्वया विभो।
ईश्वरस्योत्तमं पुण्यमष्टमन्त्वौपसर्गिकम् ॥ ३९.३२५ ॥

तस्य स्थानं प्रमाणञ्च यथावत्परिकीर्त्तितम्।
यो गन्धेन समृद्धं वै परमं परमात्मनः ॥ ३९.३२६ ॥

महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि ।
स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ॥ ३९.३२७ ॥

यस्य भक्तेष्वसम्मोहो ह्यनुकम्पार्थमेव च।
ब्राह्मलक्ष्म्या स्वयं जुष्ठा या साप्रतिमशालिनी ॥ ३९.३२८ ॥

ज्योत्स्नया व्याप्य खं चन्द्रं विन्यस्ता विश्वरूपधृक् ।
विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ॥ ३९.३२९ ॥

महादेवस्य तुल्यानां रुद्राणान्तु महात्मनाम्।
तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्रवम् ॥ ३९.३३० ॥

अपीत्वा खलु सर्वस्य भक्त्यास्माभिस्तु सुव्रताः।
नास्ति किञ्चिदविज्ञेयमन्यच्चैवानुगामिनः।
प्रश्नं देववर प्राण यथावद्वक्तुमर्हसि ॥ ३९.३३१ ॥

स खलूवाच भगवान्किं भूयो वर्त्तयाम्यहम्।
किं मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ॥ ३९.३३२ ॥

आदित्याः पारिपार्श्वेयाः सिंहा वै क्रोधविक्रमाः।
वैश्वानरा भूतगणा व्याघ्राश्चैवानुगामिनः ॥ ३९.३३३ ॥

आभूतसम्प्लवे घोरे सर्वप्राणभृतां क्षये।
किमवस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ॥ ३९.३३४ ॥

एते ये वै त्वया प्रोक्ताः सिंहव्याघ्रगणैः सह।
ये चान्ये सिद्धिसम्प्राप्ता मातरिश्वा जगाद ह ॥ ३९.३३५ ॥

इदञ्च परमं तत्त्वं समाख्यास्यामि श्रृण्वताम्।
विज्ञातेश्वरसद्भावमव्यक्तं प्रभवं तथा ॥ ३९.३३६ ॥

तत्र पूर्वगतास्तेषु कुमारा ब्रह्मणः सुताः।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ ३९.३३७ ॥

वोढुश्च कपिलस्तेषामासुरिश्च महायशाः।
मुनिः पञ्चशिखश्चैव ये चान्येऽप्येवमादयः ॥ ३९.३३८ ॥

ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते।
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ॥ ३९.३३९ ॥

अनेकरुद्रकोट्यस्तु याः प्रसन्ना महेश्वरी ।
शब्दादीन्विषयान्भोगान्सत्यस्याष्टविधश्रयात् ॥ ३९.३४० ॥

प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा।
वैहायपदमव्यग्रं भूतानामनुकम्पया ॥ ३९.३४१ ॥

तत्र यान्ति महात्मानः परमाणुं महेश्वरम्।
तरन्ति सुमहावर्त्तां जन्ममृत्यूदकां नदीम् ॥ ३९.३४२ ॥

ततः पश्यन्ति शर्वाणं परं ब्रह्माणमेव च।
देव्या वै सहिताः सप्त या देव्यः परिकीर्त्तिताः ॥ ३९.३४३ ॥

यत्तत्सहस्रं सिंहानामादित्यानां तथैव च।
वैश्वानरभूतभव्यव्याघ्राश्चैवानुगामिनः ॥ ३९.३४४ ॥

आवेश्यात्मनि तान्सर्वान्सङ्ख्यायोपद्रवांस्तथा।
लोकान् सप्त इमान्सर्वान्महाभूतानि पञ्च च ॥ ३९.३४५ ॥

विष्णुना सह संयुक्तं करोति विकरोति च।
स रुद्रो यः साममयस्तथैव च यजुर्मयः ॥ ३९.३४६ ॥

स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात्।
एको हि भगवान्नाथो ह्यनादिश्चान्तकृद्द्विजाः ॥ ३९.३४७ ॥

ततस्ते ऋषयः सर्वे दिवाकरसमप्रभाः।
स्वंस्वमाश्रमसंवासमारोप्याग्निं तथात्मनि ॥ ३९.३४८ ॥

कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ।
अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ॥ ३९.३४९ ॥

व्रतोपवासनिरताः सर्वभूतदयापराः।
योगं ह्यनुपमन्दिव्यं प्राप्तं तैश्छिन्नसंशयैः ॥ ३९.३५० ॥

प्रपद्य परया भक्त्या ज्ञानयुक्तेन चेतसा।
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥ ३९.३५१ ॥

यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां स्तुतिम्।
ब्राह्मणः क्षत्रियो वापि वैश्यो वा स्वक्रियापरः ॥ ३९.३५२ ॥

लभते रुद्रसालोक्यं भक्तिमान्विगतज्वरः।
अमद्यपश्च यः शूद्रो भवभक्तो जितेन्द्रियः ॥ ३९.३५३ ॥

आभूत सम्प्लवस्थायी ह्यप्रतीघातलक्षणः।
गाणपत्यं स लभते स्थानं वा सर्वकामिकम् ॥ ३९.३५४ ॥

मद्यपो मद्यपैः सार्द्धं भूतसङ्घैश्च मोदते।
सोऽर्च्यमानो महीपृष्ठो मर्त्त्यानां वरदो भवेत्।
इति होवाच भगवान्वायुर्वाक्यमिदं वरः ॥ ३९.३५५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते शिवपुरवर्णनं नामैकोन चत्वारिंशोऽध्यायः ॥ ३९ ॥