०३८

विश्वास-प्रस्तुतिः

श्रुत्वा पादं तृतीयन्तु क्रान्तं सूतेन धीमता।
ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॥ ३८.१ ॥

मूलम्

ऋषय ऊचुः॥

विश्वास-प्रस्तुतिः

पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण यस्त्वया।
चतुर्थं विस्तरात्पादं संहारं परिकीर्त्तय ॥ ३८.२ ॥

मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह।
सप्तर्षीणामथैतेषां साम्प्रतस्यान्तरे मनोः ॥ ३८.३ ॥

विस्तरावयवञ्चैव निसर्गस्य महात्मनः।
विस्तरेणानुपूर्व्या च सर्वमेव ब्रवीहि मे ॥ ३८.४ ॥

सूत उवाच॥

विश्वास-प्रस्तुतिः

भवतां कथयिष्यामि सर्वमेतद्यथातथम्।
पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ॥ ३८.५ ॥

मनोर्वैवस्वतस्येमं साम्प्रतस्य महात्मनः।
विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ॥ ३८.६ ॥

मन्वन्तराणां सङ्क्षेपं भविष्यैः सह सप्तभिः।
प्रलयञ्चैव लोकानां ब्रुवतो मे निबोधत ॥ ३८.७ ॥

एतान्युक्तानि वै सम्यक् सप्तसप्तसु वै मया।
मन्वन्तराणि सङ्क्षेपाच्छृणुतानागतानि मे ॥ ३८.८ ॥

सावर्णस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह।
भविष्यस्य भविष्यन्ति समासात्तु निबोधत ॥ ३८.९ ॥

अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः।
कौशिको गातवश्चैव जामदग्न्यश्च भार्गवः ॥ ३८.१० ॥

द्वैपायनो वसिष्ठश्च कृपः शारद्वतस्तथा।
आत्रेयो दीप्तिमांश्चैव ऋष्यश्रृङ्गस्तु काश्यपः ॥ ३८.११ ॥

भारद्वाजस्तथा द्रौणिरश्वत्थामा महायशाः।
एते सप्त महात्मानो भविष्याः परमर्षयः ॥ ३८.१२ ॥

सुतपा श्चामिताभाश्च सुखाश्चैव गणास्त्रयः।
तेषां गणास्तु देवानां एकैको विंशकः स्मृतः ॥ ३८.१३ ॥

नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः।
रितस्तपश्च शुक्रश्च द्युतिर्ज्योतिः प्रभाकरौ ॥ ३८.१४ ॥

प्रभासो भासकृद्धर्मस्तेजोरश्मिऋतुर्विराट्।
अर्चिष्मान् द्योतनो भानुर्यशकीर्त्तिर्बुधो धृतिः।
विंशतिः सुतपा ह्येते नामभिः परिकीर्तिताः ॥ ३८.१५ ॥

प्रभुर्विभुर्विभासश्च जेता हन्ताऽरिहा रितुः।
सुमतिः प्रमतिर्दीप्तिः समाख्यातो महोमहान् ॥ ३८.१६ ॥

देहो मुनिर्नयो ज्येष्ठः समः सत्यश्च विश्रुतः।
इत्येते ह्यमिताभास्तु विंशतिः परिकीर्त्तिताः ॥ ३८.१७ ॥

दमो दाता विदः सोमो वित्तवैद्यौ यमो निधिः।
होमं हव्यं हुतं दानं देयं दाता तपः शमः ॥ ३८.१८ ॥

ध्रुवं स्थानं विधानञ्च नियमश्चेति विंशतिः।
मुख्या ह्येते समाख्याताः सावर्णे प्रथमेऽन्तरे ॥ ३८.१९ ॥

मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः।
साम्प्रतस्य भविष्यन्ति सावर्णस्यान्तरे मनोः ॥ ३८.२० ॥

तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनः पुरा।
वीरवांश्चावरीयांश्च निर्मोहः सत्यवाक् कृती ॥ ३८.२१ ॥

चरिष्णुराज्यो विष्णुश्च वाचः सुमतिरेव च।
सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ॥ ३८.२२ ॥

नव चान्येषु वक्ष्यामि सावर्णेश्चान्तरेषु वै।
सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ॥ ३८.२३ ॥

मेरुसावर्णिनस्ते वै दृष्टा ये दिव्यदृष्टिभिः।
दक्षस्य ते हि दौहित्राः प्रियाया दुहितुः सुताः ॥ ३८.२४ ॥

महता तपसा युक्ता मेरुपृष्ठे महौजसः।
ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ॥ ३८.२५ ॥

महर्लोकगतावृत्य भविष्या मेरुमाश्रिताः।
महाभावात्तु ते पूर्वं जज्ञिरे चाक्षुषेऽन्तरे ॥ ३८.२६ ॥

दक्षेण जनिताः पुत्राः कन्यायामात्मनः कथम्।
भवेत्तु ब्रह्मणश्चैव धर्मेण च महात्मनः ॥ ३८.२७ ॥

अतो भविष्यान् वक्ष्यामि सावर्णमनवस्तु ये।
तेषां जन्म प्रभावञ्च नमस्कृत्य प्रचेतसे ॥ ३८.२८ ॥

वैवस्वते ह्युपस्पृष्टे किञ्चिच्छिष्टे च चाक्षुषे।
जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे ॥ ३८.२९ ॥

प्राचेतसस्य दक्षस्य दौहित्रा मनवस्तु ये।
सावर्णा नामतः पञ्च चत्वारः परमर्षिजाः ॥ ३८.३० ॥

सञ्ज्ञापुत्रस्तु सावर्ण एको वैवस्वतस्तथा।
ज्येष्ठः सञ्ज्ञासुतो नाम मनुर्वैवस्वतः प्रभुः ॥ ३८.३१ ॥

वैवस्वतेऽन्तरे प्राप्ते समुत्पत्तिस्तयोः शुभा।
चतुर्द्दशैते मनवः कीर्त्तिताः कीर्त्तिवर्द्धनाः ॥ ३८.३२ ॥

वेदे श्रुतौ पुराणे च सर्वे ते प्रभविष्णवः।
प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः ॥ ३८.३३ ॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता।
पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ॥ ३८.३४ ॥

प्रजाभिस्तपसा चैव विस्तरं तेषु वक्ष्यते।
चतुर्द्दशैव ते ज्ञेयाः सर्गाः स्वायम्भुवादयः ॥ ३८.३५ ॥

मन्वन्तराधिकारेषु वर्तन्ते च सकृत् सकृत्।
विनिवृत्ताधिकारास्ते महर्लोकं समाश्रिताः ॥ ३८.३६ ॥

समतीतास्तु ये तेषामष्टौ षष्ठास्तथापरे।
पूर्वेषु साम्प्रतश्चायं शान्तिर्वैवस्वतः प्रभुः ॥ ३८.३७ ॥

ये शिष्टास्तान् प्रवक्ष्यामि सह देवर्षिदानवैः।
सह प्रजानिसर्गेण सर्वांस्त्वनागतान् द्विजान् ॥ ३८.३८ ॥

वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः।
अन्यूना नातिरिक्तास्ते यस्मात् सर्वे विवस्वतः ॥ ३८.३९ ॥

पुनरुक्ता बहुत्वात्तु वक्ष्ये न तेषु विस्तरम्।
मन्वन्तरेषु भाव्येषु भूतेष्वपि तथैव च ॥ ३९.४० ॥

कुले कुले निसर्गांस्तु तस्माद्भूयो विभागशः ।
तेषामेव हि शिष्टार्थं विस्तरेण क्रमेण च ॥ ३९.४१ ॥

दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता।
सर्वकन्यावशिष्टा तु श्रेष्ठा धर्मपरा सुता।
गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽन्तिके ॥ ३९.४२ ॥

वैराजस्तमुपासीनं धर्मेण च भवेन च।
भवधर्मसमीपस्थं दक्षं ब्रह्माब्यभाषत ॥ ३९.४३ ॥

दक्ष कन्या तवेयं वै जनयिष्यति सुव्रता।
चतुरो वै मनून् पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् ॥ ३८.४४ ॥

ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा।
तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह ॥ ३८.४५ ॥

सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत।
सदृशानुरूपांस्तेषां चतुरो वै कुमारकान् ॥ ३८.४६ ॥

संसिद्धाः कार्यकरणे सम्भूतास्ते श्रियान्वितः।
उपभोगसमर्थैश्च सद्योजातैः शरीरकैः ॥ ३८.४७ ॥

ते दृष्ट्वा तान् स्वयम्बुद्ध्वा ब्रह्मा व्याहाहिणस्तदा।
संरब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत ॥ ३८.४८ ॥

अभिध्यानान्मनोत्पन्नानूचुर्वै ते परस्परम्।
यो यस्य वपुषा तुल्यो भजतां स तु तं सुतम् ॥ ३८.४९ ॥

यस्य यः सदृशश्चापि रूपे वीर्य च नामतः।
तं गृह्णातु सुभद्रं वो वर्णतो यस्य यः समः ॥ ३८.५० ॥

ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा।
तस्मादात्मसमः पुत्रः पितुर्मातुश्च जायते ॥ ३८.५१ ॥

एवं ते समयं कृत्वा सवर्णान् जगृहुः सुतान्।
यस्मात् सवर्णास्तेषां वै ब्रह्मादीनां कुमारकाः ॥ ३८.५२ ॥

सवर्णा मनवस्तस्मात् सवर्णत्वं हि ते यतः।
मननान्माननाच्चैव तस्मात्ते मनवः स्मृताः ॥ ३८.५३ ॥

चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह।
रुचेः प्रजापतेः पुत्रो रौच्यो नामाभवत्सुतः ॥ ३८.५४ ॥

भूत्यामुत्पादितो यस्तु भौत्यो नामाभवत्सुतः।
वैवस्वतेऽन्तरे राजा द्वौ मनू तु विवस्वतोः ॥ ३८.५५ ॥

वैवस्वतो मनुर्यश्च सावर्णो यश्च विश्रुतः।
ज्येष्ठः सञ्ज्ञासुतो विद्वान् मनुर्वैवस्वतः प्रभुः ॥ ३८.५६ ॥

सवर्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः ।
सवर्णा मनवो ये च चत्वारस्तु महर्षिजाः ॥ ३८.५७ ॥

तपसा सम्भृतात्मानः स्वेषु मन्वन्तरेषु वै।
भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ॥ ३८.५८ ॥

प्रथमं मेरुसावर्णेर्दक्षपुत्रस्य वै मनोः।
पुत्रा मरीचिगर्भाश्च सुशर्माणश्च ते त्रयः ।
सम्भूताश्च महात्मानः सर्वे वैवस्वतेऽन्तरे ॥ ३८.५९ ॥

दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः।
भविष्यस्य भविष्यस्तु एकैको द्वादशो गणः ॥ ३८.६० ॥

ऐश्वर्यसङ्ग्राहो राहो बाहुवशस्तथैव च।
पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ॥ ३८.६१ ॥

वाजियो वाजिजिच्चैव प्रभृतिश्च ककुद्यथ।
दधिक्रावायपक्वाश्च प्रणीतो विजयो मधुः ॥ ३८.६२ ॥

तेजस्मान्नथवो द्वौ तु द्वादशैते मरीचयः।
सुशर्माणस्तु वक्ष्यामि नामतस्तु निबोधत ॥ ३८.६३ ॥

वर्णस्तथाप्यङ्गविश्वौ मुरण्यो व्रजनो मतः।
अमितो द्रवकेतुश्च जम्भोस्थाजस्रशक्रकाः ॥ ३८.६४ ॥

सुनेमिर्द्युतपाश्चैव सुशर्माणः प्रकीर्त्तिताः।
तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः ॥ ३८.६५ ॥

स्कन्दः सोमप्रतीकाशः कार्तिकेयस्तु पावकः।
माघातिथिश्च पौलस्त्यो वसुः काश्यप एव च ॥ ३८.६६ ॥

ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा।
वसितश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥ ३८.६७ ॥

सुतपाः पौलवश्चैव सप्तैते रोहितान्तरे।
धृतिकेतुदीप्तिकेतुशापहस्ता निरामयः ॥ ३८.६८ ॥

पृथुश्रवास्तथा नाको भूरिद्युम्नो बृहद्रथः।
प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः ॥ ३८.६९ ॥

दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः।
द्वितीयस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः ॥ ३८.७० ॥

सुखामना विरुद्धाश्च द्वावेव तु गणौ स्मृतौ।
त्विषिवन्तश्च ते सर्वे शतसङ्ख्याश्च ते समाः ॥ ३८.७१ ॥

प्राणा नायच्छतः प्रोक्त ऋषिभिः पुरुषेषु वै।
देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः ॥ ३८.७२ ॥

तेषामिन्द्रस्तथा विद्वान् भविष्यः शान्तिरुच्यते।
हविष्मान् पौलहः श्रीमान् सुकीर्तिश्चापि भार्गवः ॥ ३८.७३ ॥

आपोमूर्तिस्तथात्रेयो वसिष्ठश्चापि यः स्मृतः।
पौलस्त्यः प्रतिपश्चापि नाभागश्चैव काश्यपः।
अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः ॥ ३८.७४ ॥

सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणश्च वीर्यवान्।
शतानीको निरामित्रो वृषसेनो जयद्रथः ॥ ३८.७५ ॥

भूरिद्युम्नः सुवर्च्चाश्च दशैते मानवाः स्मृताः।
एकादशे तु पर्याये सावर्णे वै तृतीयके ॥ ३८.७६ ॥

निर्माणरतयो देवाः कामजा वै मनोजवाः।
गणास्त्वेते त्रयः ख्याता देवतानां महात्मनाम् ॥ ३८.७७ ॥

एकैकं त्रिंशतस्तेषां गणास्तु त्रिदिवौकसाम्।
मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः ॥ ३८.७८ ॥

निर्माणरतयो देवा रात्रयस्तु विहङ्गमाः।
गणास्ते वै त्रयः प्रोक्ता देवतानां भविष्यति ॥ ३८.७९ ॥

मनोजवा मुहूर्त्तास्तु इति देवाः प्रकीर्त्तिताः ।
एते हि ब्रह्मणः पुत्रा भविष्या मनवः स्मृताः ॥ ३८.८० ॥

तेषामिन्द्रो वृषो नाम भविष्यः सुरराट् ततः।
तेषां सप्तर्षयश्चापि कीर्त्त्यमानान्निबोधत ॥ ३८.८१ ॥

हविष्मान् काश्यपश्चापि वपुष्मान् यश्च भार्गवः।
वारुणिश्चैव चात्रेयो वासिष्ठो भग एव च ॥ ३८.८२ ॥

पुष्टिश्चाङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा।
पौलहो ह्यग्नितेजाश्च देवा ह्येकादशेऽन्तरे ॥ ३८.८३ ॥

सर्ववेगः सुधर्मा च देवानीकः पुरोवहः।
क्षेमधर्मा गृहेषुश्च ह्यादर्शः पौण्ड्रको मनः ॥ ३८.८४ ॥

सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै मनोः।
द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः ॥ ३८.८५ ॥

चतुर्थे ऋतुसावर्णे देवास्तस्यान्तरे श्रृणु।
पञ्चैव तु गणाः प्रोक्ता देवतानामनागताः ॥ ३८.८६ ॥

हरिता रोहिताश्चैव देवाः सुमनसस्तथा।
सुकर्माणः सुपाराश्च पञ्च देवगणाः स्मृताः ॥ ३८.८७ ॥

ब्रह्मणो मानसा ह्येते एकैको दशको गणः।
अरुन्तिजो हरिश्चैव विद्वान् यश्च सहस्रशः ॥ ३८.८८ ॥

पर्वतानुचरश्चैव ह्यपोंऽशुश्च मनोजवः।
उर्ज्जा स्वाहा स्वधा तारा दशैते रोहिताः स्मृताः ॥ ३८.८९ ॥

तपोजानिर्भृतिश्चैव वाचा बन्धुश्च यः स्मृतः ।
रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ॥ ३८.९० ॥

व्युष्टिर्विधिश्च वै देवो दशैते रोहिताः स्मृताः ।
उषिताद्यास्तु ये देवास्त्रयस्त्रिशत्प्रकीर्तिताः ॥ ३८.९१ ॥

देवान् सुमनसो विद्धि सुकर्माणो निबोधत।
सुपर्वा वृषभः पृष्टः कृपिद्युम्नौ विपश्चितः ॥ ३८.९२ ॥

विक्रमश्च क्रमश्चैव निभृतः कान्त एव च॥
एते सुकर्मणो देवाः सुतांश्चैषां निबोधत ॥ ३८.९३ ॥

विश्वास-प्रस्तुतिः

वर्योदितस्तथा जिष्टो वर्चस्वी द्युतिमान् हविः।
शुभो हविकृतात्प्राप्तिर्व्यापृथो दशमस्तथा ॥ ३८.९४ ॥

सुपारा मानसास्त्वेते देवा वै सम्प्रकीर्त्तिताः।
तेषामिन्द्रस्तु विज्ञेय ऋतधामा महायशाः ॥ ३८.९५ ॥

कृतिर्वसिष्ठपुत्रस्तु ह्यात्रेयः सुतपास्तथा।
तपोमूर्तिश्चाङ्गिरसस्तपस्वी काश्यपस्तथा ॥ ३८.९६ ॥

तपोऽशयानः पौलस्त्यः पुलहश्च तपोरतिः।
भार्गवः सप्तमस्त्वेषां विज्ञेयस्तु तपोमतिः ॥ ३८.९७ ॥

एते सप्तर्षयः सिद्धा अन्ये सावर्णिकेऽन्तरे।
देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥ ३८.९८ ॥

मित्रवान् मित्रबिन्दुश्च मित्रसेनो ह्यमित्रहा।
मित्रबाहुः सुवर्चाश्च द्वादशैते मनोः सुताः ॥ ३८.९९ ॥

त्रयो दशे तु पर्याये भाव्या रौच्यान्तरे पुनः।
त्रय एव गणाः प्रोक्ता देवानान्तु स्वयम्भुवा ॥ ३८.१०० ॥

ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः।
सुत्रामाणः सुधर्माणः सुकर्माणश्च ते त्रयः ॥ ३८.१०१ ॥

त्रिदशानां गणाः प्रोक्ता भविष्याः सोमपायिनः।
त्रयस्त्रिंशद्देवता याः प्राभविष्यन्त याज्ञिकैः ॥ ३८.१०२ ॥

आज्येन पृषदाज्येन ग्रहश्रेष्ठेन चैव हि।
देवैर्देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ॥ ३८.१०३ ॥

सुत्रामाणः प्रयाज्यास्तु ह्याद्याज्यास्तु साम्प्रतम्।
सुकर्मणोऽनुयाज्यास्तु पृषदाज्याशिनस्तु ये ॥ ३८.१०४ ॥

उपयाज्याः सुधर्माण इति देवाः प्रकीर्त्तिताः ।
दिवस्पतिर्महासत्त्वस्तेषामिन्द्रो भविष्यति ॥ ३८.१०५ ॥

पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचेः सुताः ।
अङ्गिराश्चैव धृतिमान् पौलस्त्यः पथ्यवांस्तु सः ॥ ३८.१०६ ॥

पौलहस्तत्त्व दर्शी च भार्गवश्च निरुत्सकः।
निष्प्रकम्पस्तथात्रेयो निर्मोहः कश्यपस्तथा ॥ ३८.१०७ ॥

स्वरूपश्चैव वासिष्ठः सप्तैते तु त्रयोदशे।
चित्रसेनो विचित्रश्च तपो धर्मधृतो भवः ॥ ३८.१०८ ॥

अनेकक्षत्रबद्धश्च सुरसो निर्भयः पृथः।
रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे ॥ ३८.१०९ ॥

चतुर्द्दशे तु पर्याये भौतस्याप्यन्तरे मनोः ।
देवतानां गणाः पञ्च प्रोक्ता येतु भविष्यति ॥ ३८.११० ॥

चाक्षुषाश्च कनिष्ठाश्च पवित्रा भाजरास्तथा।
वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः ॥ ३८.१११ ॥

सप्तैव तांस्तान् भागांश्च विद्धि चाक्षुषसञ्ज्ञकान्।
बृहदाद्यानि सामानि कनिष्ठान् सप्त तान् विदुः।
सप्त लोकाः परित्रास्ते भाजिराः सप्त सिन्धवः ॥ ३८.११२ ॥

वाचावृद्धानृषीन् विद्धि मनोः स्वायम्भुवस्य वै।
सर्वे मन्वन्तरेन्द्राश्च विज्ञेयास्तुल्यलक्षणाः ॥ ३८.११३ ॥

तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः।
त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च।
सर्वशः स्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ॥ ३८.११४ ॥

भूतापवादिनो हृष्टा मध्यस्था भूतवादिनः।
भूतानुवादिनः सक्तास्त्रयो वेदाः प्रवादिनाम् ॥ ३८.११५ ॥

अग्निध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः।
भार्गवो ह्यग्निबाहुश्च शुचिराङ्गिरसस्तथा।
ओजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥ ३८.११६ ॥

सवर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः।
एको वैवस्वतश्चैव सावर्णो मनुरुच्यते ॥ ३८.११७ ॥

रौच्यो भौत्यश्च यौ तौ तु मनोः पौलहभार्गवौ।
भौत्यस्यैवाधिपत्ये तु पूर्णः कल्पस्तु पूर्यते ॥ ३८.११८ ॥

निःशेषेषु च सर्वेषु तदा मन्वन्तरेष्विह।
अन्तेऽनेकयुगे तस्मिन् क्षीणे संहार उच्यते ॥ ३८.११९ ॥

सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा।
भुक्त्वा त्रैलोक्यमध्यस्था युगाख्यां ह्येकसप्ततिम् ॥ ३८.१२० ॥

पितृभिर्मनुभिश्चैव सार्द्धं सप्तर्षिभिस्तु ये।
यज्वानश्चैव तेऽप्यन्ये तद्भाक्ताश्चैव तैः सह ॥ ३८.१२१ ॥

महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः।
ततस्तेषु गतेषूर्ध्वं क्षीणे मन्वन्तरे तदा।
अनाधारमिदं सर्वं त्रैलोक्यं वै भविष्यति ॥ ३८.१२२ ॥

ततः स्थानानि शून्यानि स्थानिनां तानि वै द्विजाः।
प्रभ्रश्यन्ति विमुक्तानि ताराऋक्षग्रहैस्तथा ॥ ३८.१२३ ॥

ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह।
सेन्द्राष्टेषु महर्लोकं यस्मिंस्ते कल्पवासिनः ॥ ३८.१२४ ॥

जिताद्याश्च गणा ह्यत्र चाक्षुषान्ताश्चतुर्दश।
मन्वन्तरेषु सर्वेषु देवास्ते वै महौजसः ॥ ३८.१२५ ॥

ततस्तेषु गतेषूर्ध्वं सायोज्यं कल्पवासिनाम्।
समेत्य देवास्ते सर्वे प्राप्ते सङ्कलने तदा ॥ ३८.१२६ ॥

महर्लोकं परित्यज्य गणास्ते वै चतुर्द्दश।
सशरीराश्च श्रूयन्ते जनलोकं सहानुगाः ॥ ३८.१२७ ॥

एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति।
भूतादिष्ववशिष्टेषु स्थावरान्तेषु चाप्युत ॥ ३८.१२८ ॥

शून्येषु लोकस्थानेषु महान्तेषु भूरादिषु।
देवेषु च गतेषूर्ध्वं सायोज्यं कल्पवासिनाम् ॥ ३८.१२९ ॥

संहृत्य तांस्ततो ब्रह्मा देवर्षिपितृदानवान्।
संस्थापयति वै सर्गं महदॄष्ट्या युगक्षये ॥ ३८.१३० ॥

तत्र युगसहस्रान्तमहर्यर्द्ब्रह्मणो विदुः।
रात्रिं युगसहस्रान्तामहोरात्रविदो जनाः ॥ ३८.१३१ ॥

नैमित्तिकः प्राकृतिको यश्चैवात्यन्तिकोऽर्थतः।
त्रिविधः सर्वभूतानामित्येष प्रतिसञ्चरः ॥ ३८.१३२ ॥

ब्राह्मो नैमित्तिकस्तस्य कल्पदाहः प्रसंयमः।
प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः ॥ ३८.१३३ ॥

ज्ञानाच्चात्यन्तिकः प्रोक्तः कारणानामसम्भवः ।
ततः संहृत्य तान् ब्रह्मा देवांस्त्रैलोक्यवासिनः ॥ ३८.१३४ ॥

अहरन्ते प्रकुरुते सर्गस्य प्रलयं पुनः।
सुषुप्सुर्भगवान् ब्रह्मा प्रजाः संहरते तदा ॥ ३८.१३५ ॥

ततो युगसहस्रान्ते सम्प्राप्ते च युगक्षये।
तत्रात्मस्थाः प्रजाः कर्त्तुं प्रपेदे स प्रजापतिः ॥ ३८.१३६ ॥

तदा भवत्यनावृष्टिस्तदा सा शत वार्षिकी।
तथा यान्यल्पसाराणि सत्त्वानि पृथिवीतले ॥ ३८.१३७ ॥

तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च।
सप्तरश्मिरथो भूत्वा ह्युदतिष्ठद्विभावसुः ॥ ३८.१३८ ॥

असह्यरश्मिर्भगवान् पिबन्नम्भो गभस्तिभिः।
हरिता रश्मयस्तस्य दीप्यमानास्तु सप्तभिः ॥ ३८.१३९ ॥

भूय एव विवर्तन्ते व्याप्नुवन्तो वनं शनैः।
भौमं काष्ठं धनं तेजो भृशमद्भिस्तु दीप्यते ॥ ३८.१४० ॥

तस्मादुदकं सूर्यस्य तपतोऽति हि कथ्यते।
नावृष्ट्या तपते सूर्यो नावृष्ट्या परिविष्यते ॥ ३८.१४१ ॥

नावृष्ट्या परिचिन्वन्ति वारिणा दीप्यते रविः।
तस्मादपः पिबन् या वै दीप्यते रविरम्बरे ॥ ३८.१४२ ॥

तस्य ते रश्मयः सप्त पिबन्त्यम्भो महार्णवात्।
तेनाहारेण सन्दीप्तः सूर्यः सप्त भवत्युत ॥ ३८.१४३ ॥

ततस्ते रश्मयः सप्त सूर्यभूताश्चतुर्दिशम्।
चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा ॥ ३८.१४४ ॥

प्राप्नुवन्ति च भाभिस्तु ह्यूर्द्धं चाधश्च रश्मिभिः।
दीप्यन्ते भास्कराः सप्त युगान्ताग्निः प्रतापिनः ॥ ३८.१४५ ॥

ते वारिणा च सन्दीप्ता बहुसाहस्ररश्मयः।
खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुन्धराम् ॥ ३८.१४६ ॥

ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा।
साद्रिनद्यर्णवा पृथ्वी विस्नेहा समपद्यत ॥ ३८.१४७ ॥

दीप्ताभिः सन्तताभिश्च चित्राभिश्च समन्ततः।
अधश्चोर्ध्वश्च तिर्यक् च संरुद्धं सूर्यरश्मिभिः ॥ ३८.१४८ ॥

सूर्यग्नीनां प्रवृद्धानां संसृष्टानां परस्परम्।
एकत्वमुपयातानामेकज्वालं भवत्युत ॥ ३८.१४९ ॥

सर्वलोकप्रणाशञ्च सोऽग्निर्भूत्वा तु मण्डली।
चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा ॥ ३८.१५० ॥

ततः प्रलीयते सर्वं जङ्गमं स्थावरं तदा।
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत् ॥ ३८.१५१ ॥

अम्बरीषमिवाभाति सर्वं मारिषितं जगत्।
सर्वमेव तदार्चिर्भिः पूर्णं जज्वाल्यते नभः ॥ ३८.१५२ ॥

पाताले यानि भूतानि महोतधिगतानि च ।
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ ३८.१५३ ॥

द्वीपाश्च पर्वताश्चैव वर्षाण्यथ महोदधिः।
सर्वं तद्भस्मसाच्चक्रे सर्वात्मा पावकस्तु सः ॥ ३८.१५४ ॥

समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वतः।
पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ ३८.१५५ ॥

ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा।
लोकान् संहरते दीप्तो घोरः संवर्त्तकोऽनलः ॥ ३८.१५६ ॥

ततः स पृथिवीं भित्त्वा रसातलमशोषयत्।
निर्दह्य तांस्तु पातालान्नागलोकमथादहत् ॥ ३८.१५७ ॥

अधस्तात्पृथिवीं दग्ध्वा ह्यूर्ध्वं स दहते दिवम्।
योजनानां सहस्राणि ह्ययुतान्यर्बुदानि च ॥ ३८.१५८ ॥

उदतिष्ठञ्छिखास्तस्य बह्वयः संवर्त्तकस्य तु।
गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान् ।
तदा दहति सन्दीप्तो गोलकं चैव सर्वशः ॥ ३८.१५९ ॥

भूर्लोकन्तु भुवर्लोकं स्वर्लोकञ्च महस्तथा।
घोरं दहति कालाग्निरेवं लोकचतुष्टयम् ॥ ३८.१६० ॥

व्याप्तेषु तेषु लोकेषु तिर्यगूर्ध्वमथाग्निना।
तत्तेजः समनुप्राप्तं कृत्स्नं जगदिदं शनैः।
अयोगुडनिभं सर्वं तदा ह्येवं प्रकाशते ॥ ३८.१६१ ॥

ततो गजकुलाकारास्तडिद्भि समलङ्कृताः।
उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्त्तका घनाः ॥ ३८.१६२ ॥

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः।
केचिद्वैढूर्यसङ्काशा इन्द्रनीलनिभाऽपरे ॥ ३८.१६३ ॥

शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा ।
धूम्र वर्णा घनाः केचित्केचित्पीताः पयोधराः ॥ ३८.१६४ ॥

केचिद्रासभवर्णाभा लाक्षारक्तनिभास्तथा।
मनःशिलाभास्त्वपरे कपोताभास्तथाम्बुदाः ॥ ३८.१६५ ॥

इन्द्रगोपनिभाः केचिदुत्तिष्ठन्ति घना दिवि।
केचित्पुरधराकाराः केचिद्गजकुलोपमाः ॥ ३८.१६६ ॥

के चित्पर्वतसङ्काशाः केचित्स्थलनिभा घनाः।
कुण्डागारनिभाः केचित्केचिन्मीनकुलोपमाः ॥ ३८.१६७ ॥

बहुरूपा घोररूपा घोरस्वरनिनादिनः।
तदा जलधराः सर्वे पूरयन्ति नभःस्थलम् ॥ ३८.१६८ ॥

ततस्ते जलदा घोरा नवीना भास्करात्मिकाः।
सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ॥ ३८.१६९ ॥

ततस्ते जलदा वर्षं मुञ्चन्ति च महोद्यमम्।
सुघोरमशिवं सर्वं नाशयन्ति च पावकम् ॥ ३८.१७० ॥

प्रवृष्टैश्च तथात्यर्थं वारिभिः पूर्यते जगत्।
अद्भिस्तेजोऽभिभूतञ्च तदाग्निः प्राविशत्यपः ॥ ३८.१७१ ॥

नष्टे चाग्नौ वर्षशते पयोदाः पाकसम्भवाः।
प्लावयन्ति जगत्सर्वं बृहज्जालपरिस्रवैः ॥ ३८.१७२ ॥

धाराभिः पूरयन्तीमं चोद्यमानाः स्वयम्भुवा।
अन्ये तु सलिलौघैस्तु वेलामभिभवन्त्यपि।
साद्रिर्द्वीपान्तरं पृथ्वी ह्यद्भिः सञ्छाद्यते तदा ॥ ३८.१७३ ॥

तस्य वृष्ट्या च तोयं तत्सर्वं हि परिमण्डितम्।
प्रविशत्युदधौ विप्राः पीतं सूर्यस्य रश्मिभिः ॥ ३८.१७४ ॥

आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति।
पुनः पतति तद्भूमौ तेन पूर्यन्ति चार्णवाः ॥ ३८.१७५ ॥

ततः समुद्राः स्वां वेलां परिक्रामन्ति सर्वशः।
पर्वताश्च विशीर्यन्ते मही चाप्सु निमज्जति ॥ ३८.१७६ ॥

ततस्तु सहसोद्भ्रान्तः पयोदांस्तान्नभस्तले।
संवेष्टयति घोरात्मा दिवि वायुः समन्ततः ॥ ३८.१७७ ॥

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे।
पूर्णे युगसहस्रे वै निःशेषः कल्प उच्यते ॥ ३८.१७८ ॥

अथाम्भसा वृते लोके प्राहुरेकार्णवं बुधाः।
अथ भूमितलं खञ्च वायुश्चैकार्णवे तदा।
नष्टे भावेऽवलीनं तत्प्राज्ञायत न किञ्चन ॥ ३८.१७९ ॥

पार्थिवास्त्वथ सामुद्रा आपो हैमाश्च सर्वशः।
प्रसरन्त्यो व्रजन्त्येकं सलिलाख्यां भजन्त्युत ॥ ३८.१८० ॥

आगतागतिकं चैव तदा तत्सलिलं स्मृतम्।
प्रच्छाद्य तिष्ठति महीमर्णवाख्यं च तज्जलम् ॥ ३८.१८१ ॥

आभान्ति यस्मात्ता भाभिर्भाशब्दव्याप्तिदीप्तिषु।
भस्म सर्वमनुप्राप्य तस्मादम्भो निरुच्यते ॥ ३८.१८२ ॥

नानात्वे चैव शीघ्रे च धातुर्वै अर उच्यते।
एकार्णवे तदा यो वै न शीघ्रास्तेन ता नराः ॥ ३८.१८३ ॥

तस्मिन् युगसहस्रान्ते दिवसे ब्रह्मणो गते।
तावन्तं कालमेवं तु भवत्येकार्णवं जगत्।
तदा तु सर्वव्यापारा निवर्त्तन्ते प्रजापतेः ॥ ३८.१८४ ॥

एवमेकार्णवे तस्मिन्नष्टे स्थावर जङ्गमे।
तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् ॥ ३८.१८५ ॥

सहस्रशीर्षा सुमनाः सहस्रपात् सहस्रचक्षुर्वदनः सहस्रवाक्।
सहस्रबाहुः प्रथमः प्रजापतिस्त्रीयपथे यः पुरुषो निरुच्यते ॥ ३८.१८६ ॥

आदित्यवर्णो भुवनस्य गोप्ता ह्यपूर्व एकः प्रथमस्तुराषाट् ।
हिरण्यगर्भः पुरुषो महान् वै सम्पद्यते वै तमसः परस्तात् ॥ ३८.१८७ ॥

चतुर्युगसहस्रान्ते सर्वतः सलिलप्लुते।
सुषुप्सुरप्रकाशां स्वां रात्रिं तु कुरुते प्रभुः ॥ ३८.१८८ ॥

चतुर्विधा यदा शेते प्रजाः सर्वाण्डमण्डिताः।
पश्यन्ते तं महात्मानं कालं सप्त महर्षयः ॥ ३८.१८९ ॥

जनलोकविवर्त्तन्तस्तपसा लब्धचक्षुषः।
भृग्वादयो महात्मानः पूर्वे व्याख्यातलक्षणाः ॥ ३८.१९० ॥

सत्यादीन् सप्तलोकान् वै ते हि पश्यन्ति चक्षुषा।
ब्रह्माणं ते तु पश्यन्ति महाब्राह्मीषु रात्रिषु ॥ ३८.१९१ ॥

सप्तर्षयः प्रपश्यन्ति सप्तकालं स्वरात्रिषु।
कल्पानां परमेष्ठित्वात्तस्मादाद्यः स पठ्यते ॥ ३८.१९२ ॥

स यष्टा सर्वभूतानां कल्पादिषु पुनः पुनः।
एवमावेशयित्वा तु स्वात्मन्येव प्रजापतिः ॥ ३८.१९३ ॥

अथात्मनि महातेजाः सर्वमादाय सर्वकृत्।
ततस्ते वसते रात्रिं तमस्येकार्णवे जले ॥ ३८.१९४ ॥

ततो रात्रिक्षये प्राप्ते प्रतिबुद्धः प्रजापतिः।
मनः सिसृक्षया युक्तं सर्गाय निदधे पुनः ॥ ३८.१९५ ॥

एवं सलोके निर्वृत्ते उपशान्ते प्रजापतौ।
ब्रह्मनैमित्तिके तस्मिन् कल्पिते वै प्रसंयमे ॥ ३८.१९६ ॥

देहैर्वियोगः सत्वानां तस्मिन् वै कृत्स्नशः स्मृतः।
ततो दग्धेषु भूतेषु सर्वेष्वादित्यरश्मिभिः।
देवर्षिमनुवर्येषु तस्मिन् सङ्कलने तदा ॥ ३८.१९७ ॥

गन्धर्वादीनि सत्वानि पिशाचान्तानि सर्वशः।
कल्पादावप्रतप्तानि जनमेवाश्रयन्ति वै ॥ ३८.१९८ ॥

तिर्यग्योनीनि सत्वानि नारकेयानि यान्यपि।
तदा तान्यपि दग्धानि धुतपापानि सर्वशः।
जने तान्युपपद्यन्ते यावत्सम्प्लवते जगत् ॥ ३८.१९९ ॥

व्युष्टायान्तु रजन्यां तु ब्रह्मणेऽव्यक्तयोनये।
जायन्ते हि पुनस्तानि सर्वभूतानि कृत्स्नशः ॥ ३८.२०० ॥

ऋषयो मनवो देवाः प्रजाः सर्वश्चतुर्विधाः।
तेषामपीह सिद्धानां निधनोत्पत्तिरुच्यते ॥ ३८.२०१ ॥

यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमनं स्मृतम्।
तथा जन्मनिरोधश्च भूतानामिह दृश्यते ॥ ३८.२०२ ॥

आभूतसम्प्लवात्तस्माद्भवः संसार उच्यते ।
यथा सर्वाणि भूतानि जायन्ते हि वर्षास्विह ॥ ३८.२०३ ॥

स्थावरादीनि सत्त्वानि कल्पे कल्पे तथा प्रजाः।
यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्यये ॥ ३८.२०४ ॥

दृश्यन्ते तानि तान्येव तथा ब्रह्मात्तरात्रिषु ।
प्रत्याहारे च सर्गे च गतिमन्ति ध्रुवाणि च ॥ ३८.२०५ ॥

निष्क्रमन्ते विशन्ते च प्रजाकारं प्रजापतिम्।
ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम् ॥ ३८.२०६ ॥

संस्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः।
व्यक्ता व्यक्तो महादेवस्तस्य सर्वमिदं जगत् ॥ ३८.२०७ ॥

येनैव सृष्टाः प्रथमं प्रयाता आपो हि मार्गेण महीतलेऽस्मिन्।
पूर्वप्रयातेन तथा ह्यपोऽन्यास्तेनैव तेनैव तु संव्रजन्ति ॥ ३८.२०८ ॥

यथा शूभेन त्वशुभेन चैव तत्रैव तत्रैव विवर्त्तमानाः।
मर्त्यास्तु देहान्तरभावितत्त्वाद्रवेर्वशादूर्ध्वमधश्चरन्ति ॥ ३८.२०९ ॥

ये चापि देवा मनवः प्रजेशा अन्येऽपि ये स्वर्गगताश्च सिद्धाः।
सद्भाविताख्यातिवशाच्च धर्म्याः पुनर्निसर्गेण भवन्ति सत्त्वाः ॥ ३८.२१० ॥

अत ऊर्ध्वं प्रवक्ष्यामि कालमाभूतसम्प्लवम्।
मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः।
सह प्रज्ञानिसर्गेण सह देवैश्चतुर्द्दश ॥ ३८.२११ ॥

स युगाख्या सहस्रं तु सर्वाण्येवान्तराणि वै ।
अस्याः सहस्रे द्वे पूर्णे निःशेषः कल्प उच्यते ॥ ३८.२१२ ॥

एतद्ब्राह्ममहो ज्ञेयं तस्य सङ्ख्यां निबोधत।
निमेषस्तुल्य मात्रा हि कृतो लघ्वक्षरेण तु ॥ ३८.२१३ ॥

मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदश स्मृता।
लवः क्षणास्तु पञ्चैव विंशत्काष्ठा तु ते त्रयः ॥ ३८.२१४ ॥

प्रस्थः सप्तोदकाश्चैव साधिकास्तु लवः स्मृतः।
लवास्त्रिंशत्कला ज्ञेयै मुहूर्तस्त्रिंशतः कलाः ॥ ३८.२१५ ॥

मुहूर्त्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः।
अहोरात्रं कलानान्तु व्यधिकानि शतानि षट् ॥ ३८.२१६ ॥

ताश्चैव सङ्ख्याया ज्ञेयं चन्द्रादित्यगतिर्यथा।
निमेषा दश पञ्चैव काष्ठास्तास्त्रिंशतः कला ॥ ३८.२१७ ॥

त्रिंशत्कला मुहूर्त्तस्तु दशभागः कला स्मृता।
चत्वारिंशत्कलानान्तु मुहूर्त्त इति सञ्ज्ञतः ॥ ३८.२१८ ॥

मुहूर्त्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः।
तत्स्थाने नाम्भसाश्चापि पलान्यथ त्रयोदश ॥ ३८.२१९ ॥

मागधेनैव मानेन जलप्रस्थो विधीयते।
एते चाप्युदकप्रस्थाश्चत्वारो नालिको धटः ॥ ३८.२२० ॥

हेममाषैः कृतच्छिद्रै श्चतुर्भिश्चतुरङ्गुलैः.
समाहनि च रात्रौ च मुहूर्त्तो वै द्विनालिकौ ॥ ३८.२२१ ॥

विश्वास-प्रस्तुतिः

रवेर्गतिविशेषेण सर्वेषु नृषु नित्यशः।
अधिकं षट् शतं पञ्चैव काष्ठास्तास्त्रिंशतः कला ॥ ३८.२२२ ॥

तदहर्मानुषं ज्ञेयं नाक्षत्रन्तु दशाधिकम्।
सावनेन तु मासेन ह्यब्दोऽयं मानुषः स्मृतः ॥ ३८.२२३ ॥

एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः।
अह्नाऽनेन तु या सङ्ख्या मासर्त्वयनवार्षिकी ॥ ३८.२२४ ॥

तदा बद्धमिदं ज्ञानं सञ्ज्ञा या ह्युपलक्ष्यताम्।
कलानां सुपरीमाणात्काल इत्यभिधीयते ॥ ३८.२२५ ॥

यदहर्ब्रह्मणः प्रोक्तं दिव्या कोटी तु तत् स्मृत।
शतानाञ्च सहस्राणि दशद्विगुणतानि च।
नवतिञ्च सहस्राणि तथैवान्यानि यानि तु ॥ ३८.२२६ ॥

एतच्छ्रुत्वा तु ऋषयो विस्मयं परमाद्भुतम्।
संस्थासम्भजनं ज्ञानमपृच्छन्नन्तरन्तदा ॥ ३८.२२७ ॥

॥ऋषय ऊचुः ॥

विश्वास-प्रस्तुतिः

सम्प्लावनस्य कालन्तु मानुषेणैव सम्मतम्।
मानेन श्रोतुमिच्छामः सङ्क्षेपार्थपदाक्षरम् ॥ ३८.२२८ ॥

तेषां श्रुत्वा स देवस्तु वायुर्लोकहिते रतः।
सङ्क्षेपाद्दिव्यचक्षुष्मान् प्रोवाच भगवान् प्रभुः ॥ ३८.२२९ ॥

एते रात्र्यहनी पूर्वं कीर्त्तिते त्विह तौकिके।
तासां सङ्ख्याय वर्षाग्रं ब्राह्यं वक्ष्याम्यहःक्षये ॥ ३८.२३० ॥

कोटिशतानि चत्वारि वर्षाणि मानुषाणि तु।
द्वात्रिंशच्च तथा कोट्यः सङ्ख्याताः सङ्ख्यया द्विजैः ॥ ३८.२३१ ॥

तथा शतसहस्राणि एकोननवतिः पुनः।
आशीतिश्च सहस्राणि एष कालः प्लवस्य तु ॥ ३८.२३२ ॥

मानुषाख्येण सङ्ख्यातः कालो ह्याभूतसम्प्लवः।
सप्त सूर्यास्तदाऽग्रेषु तदा लोकेषु तेषु वै ॥ ३८.२३३ ॥

महाभूतेषु लीयन्ते प्रजाः सर्वाश्चतुर्विधाः ।
सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे ॥ ३८.२३४ ॥

विनिवृत्ते च संहारे उपशान्ते प्रजापतौ।
निरालोके प्रदग्धे तु नैशेन तु समावृते ।
ईश्वराधिष्ठिते ह्यस्मिंस्तदा ह्येकार्णवे तदा ॥ ३८.२३५

विश्वास-प्रस्तुतिः

तावदेकार्णवो ज्ञेयो यावदासीदहः प्रभोः ।
रात्रिस्तु सलिलावस्था निवृत्तौ चाप्यहः समृतम् ॥ ३८.२३६ ॥

अहोरात्रस्तथैवास्य क्रमेण परिवर्त्तते।
आभूतसम्प्लवो ह्येष अहोरात्रः स्मृतः प्रभोः ॥ ३८.२३७ ॥

त्रैलोक्ये यानि सत्वानि गतिमन्ति ध्रुवाणि च।
आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसम्प्लवः ॥ ३८.२३८ ॥

अग्रे भूतः प्रजानान्तु तस्माद्भूतः प्रजापतिः।
आभूतः प्लवते चैव तस्मादाभूतसम्प्लवः ॥ ३८.२३९ ॥

शाश्वते चामृतत्वे च शब्दे चाभूतसम्प्लवः।
अतीता वर्त्तमानाश्च तथैवानागताः प्रजाः।
दिव्यसङ्ख्या प्रसङ्ख्याता ह्यपरार्धगुणीकृता ॥ ३८.२४० ॥

परार्धद्विगुणञ्चापि परमायुः प्रकीर्त्तितम्।
एतावान् स्थितिकालस्तु ह्यजस्येह प्रजामतेः।
स्थित्यन्ते प्रतिसर्गस्य ब्रह्मणः परमेष्ठिनः ॥ ३८.२४१ ॥

यथा वायुप्रवेगेन दीपार्चिरुपशाम्यति।
तथैवं प्रतिसर्गेण ब्रह्मा समुपशाम्यति ॥ ३८.२४२ ॥

तथा ह्यप्रतिसंसृष्टे महदादौ महेश्वरे ॥

महत्प्रलीयतेऽव्यक्ते गुणसाम्यं ततो भवेत् ॥ ३८.२४३ ॥

विश्वास-प्रस्तुतिः

इत्येष च समाख्यातो मया ह्याभूतसम्प्लवः।
ब्रह्मनैमित्तिको ह्येष सम्प्रक्षालनसंयमः ॥ ३८.२४४ ॥

समासेन समाख्यातो भूयः किं वर्त्तयामि वः।
य इदं धारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः ।
कीर्त्तनाच्छ्रवणाच्चापि महतीं सिद्धिमाप्नुयात् ॥ ३८.२४५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते मन्वन्तरकथनं नाम अष्टत्रिंशोऽध्यायः ॥ ३८ ॥ *