०३७

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

तुर्वसोस्तु सुतो वह्निर्वह्नेर्गोभानुरात्मजः।
गोभानोस्तु सुतो वीरस्त्रिसानुरपराजितः ॥ ३७.१ ॥

मूलम्

करन्धमस्त्रिसानोस्तु मरुत्तस्य न चात्मजः।
अन्यस्त्ववीक्षितो राजा मरुत्तः कथितः पुरा ॥ ३७.२ ॥

अनवत्यो मरुत्तस्तु स राजासीदिति श्रुतम्।
दुष्कृतं पौरवं चापि सर्वे पुत्रमकल्पयन् ॥ ३७.३ ॥

एवं ययादिशापेन जरायाः सङ्क्रमेण तु ।
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ ३७.४ ॥

दुष्कृतस्य तु दायादः शरूथो नाम पार्थिवः।
शरूथात्तु जनापीडश्चत्वारस्तस्य चात्मजाः ॥ ३७.५ ॥

पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च।
तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ॥ ३७.६ ॥

द्रुह्योस्तु तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ।
अरुद्धः सेतुपुत्रस्तु बाभ्रवो रिपुरुच्यते ॥ ३७.७ ॥

यौवनाश्वेन समिति कृच्छ्रेण निहतो बली।
युद्धं सुमहदासीत्तु मासान् परि चतुर्दश ॥ ३७.८ ॥

अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः।
ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥ ३७.९ ॥

गान्धारदेशजाश्चापि तुरगा वाजिनां वराः।
गान्धारपुत्रो धर्मस्तु घृतस्तस्य सुतोऽभवत् ॥ ३७.१० ॥

घृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चात्मजः ।
प्रचेतसः पुत्रशतं राजानः सर्व एव ते ॥ ३७.११ ॥

म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमाश्रिताः।
अनोः पुत्रा महात्मानस्त्रयः परमधार्मिकाः ॥ ३७.१२ ॥

सभानरश्च पक्षश्च परपक्षस्तथैव च।
सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ॥ ३७.१३ ॥

कालानलस्य धर्मात्मा सृञ्जयो नाम धार्मिकः ।
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ॥ ३७.१४ ॥

जनमेजयो महा सत्वः पुरञ्जयसुतोऽभवत्।
जनमेजयस्य राजर्षेर्महाशालोऽभवभृपः ॥ ३७.१५ ॥

आसीदिन्द्रसमो राजा प्रतिष्ठितयशा दिवि।
महामनाः सुतस्तस्य महा शालस्य धार्मिकः ॥ ३७.१६ ॥

सप्तद्वीपेश्वरो राजा चक्रवर्त्ती महायशाः।
महामनास्तु पुत्रौ द्वौ जनयामास विश्रुतौ ॥ ३७.१७ ॥

उशीनरञ्च धर्मज्ञं तितिक्षुञ्चैव धार्मिकम्।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ ३७.१८ ॥

मृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती।
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः।
तपसा ते सुमहता जातवृद्धाश्च धार्मिकाः ॥ ३७.१९।
मृगायास्तु मृगः पुत्रो नवाया नव एव तु।
कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ॥ ३७.२० ॥

दृषद्वतीसुतश्चापि शिविरौशीनरो द्विजाः।
शिवेः शिवपुरं ख्यातं यौधेयन्तु मृगस्य तु ॥ ३७.२१ ॥

नवस्य नवराष्ट्रन्तु कृमेस्तु कृमिला पुरी।
सुव्रतस्य तथा वृष्टा शिविपुत्रान्निबोधत ॥ ३७.२२ ॥

शिवेस्तु शिवयः पुत्राश्चत्वारो लोकसम्मताः।
वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ॥ ३७.२३ ॥

तेषाञ्जनपदाः स्फीताः केकया माद्रकास्तथा।
वृषदर्भाः सूचिदर्भास्तितिक्षोः श्रृणुत प्रजाः ॥ ३७.२४ ॥

तैतिक्षुरभवद्राजा पूर्वस्यान्दिशि विश्रुतः।
उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ॥ ३७.२५ ॥

हेमस्य सुतपा जज्ञे सुतः सुतयशा बली ।
जातो मनुष्ययोन्यां वै क्षीणे वंशे प्रजेप्सया ॥ ३७.२६ ॥

महायोगी स तु बलिर्बद्धो यः स महामनाः।
पुत्रानुत्पादयामास चातुर्वर्ण्यकरान् भुवि ॥ ३७.२७ ॥

अङ्गं स जनयामास वङ्गं सुह्लं तथैव च।
पुण्ड्रं कलिङ्गञ्च तथा बालेयं क्षत्रमुच्यते ॥ ३७.२८ ॥

बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः।
बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन धीमते ॥ ३७.२९ ॥

महायोगित्वमायुश्च कल्पायुःपरिमाणकम्।
सङ्ग्रामे चाप्यजेयत्वं धर्मे चैव प्रभावना ॥ ३७.३० ॥

त्रैलोक्यदर्शनञ्चैव प्राधान्यं प्रसवे तथा।
बले चाप्रति मत्वं वै धर्मतत्त्वार्थदर्शनम् ॥ ३७.३१ ॥

चतुरो नियतान् वर्णान् त्वं वै स्थापयितेति च।
इत्युक्तो विभुना राजा बलिः शान्तिम्परां ययौ ॥ ३७.३२ ॥

कालेन महता विद्वान् स्वं वै स्थानमुपागतः।
तेषां जनपदाः स्फीता वङ्गाङ्गसुह्लकास्तथा ॥ ३७.३३ ॥

पुण्ड्राः कलिङ्गाश्च तथा तेषां वंशं निबेधत।
तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसम्भवाः।
सम्भूता दीर्घतमसः सुदेण्णायां महौजसः ॥ ३७.३४ ॥

ऋषय ऊचुः।
कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो।
ऋषिणा दीर्घतमसा एतन्नो ब्रूहि पृच्छताम् ॥ ३७.३५ ॥

सूत उवाच॥
विश्वास-प्रस्तुतिः

अशिजो नाम विख्यात आसीद्धीमा नृषिः पुरा।
भार्या वै समता नाम बभूवास्य महात्मनः ॥ ३७.३६ ॥

अशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम्।
बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥ ३७.३७ ॥

उवाच ममता तन्तु बृहस्पतिमनिच्छती।
अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्याष्टमिता इति ॥ ३७.३८ ॥

अयं हि मे महागर्भो रोदतेऽति बृहस्पते।
अशिजं ब्रह्मचाभ्यस्य षडङ्गं वेदमुद्गिरन् ॥ ३७.३९ ॥

अमोघरेतास्त्वञ्चापि न मां भजितमर्हसि।
अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो ॥ ३७.४० ॥

एवमुक्तस्तया सम्यग् बृहत्तेजा बृहस्पतिः।
कामात्मानं महात्मा च नात्मानं सोऽभ्यधारयत् ॥ ३७.४१ ॥

सम्बभूवैव धर्मात्मा तया सार्द्धं बृहस्पतिः।
उत्सृजन्तं तदा रेतो गर्भस्थः सोऽभ्यभाषत ॥ ३७.४२ ॥

नो स्नातको न्यसेद्ध्यस्मिन् द्वयोर्नेहास्ति सम्भवः।
अमोघरेतास्त्वञ्चापि पूर्वञ्चाहमिहागतः ॥ ३७.४३ ॥

शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः।
आशिजन्तं सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥ ३७.४४ ॥

यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति।
मामेवमुक्तवान् मोहात्तमो दीर्घं प्रवेक्ष्यसि ॥ ३७.४५ ॥

ततो दीर्घतमा नाम शापादृषिरजायत।
अथाशिजो बृहत्कीर्त्तिर्बृहस्पतिरिवौजसा ॥ ३७.४६ ॥

ऊर्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे।
गोधर्मं सौरभेयात्तु वृषभाच्छ्रुतवान् प्रभो ॥ ३७.४७ ॥

तस्य भ्राता पितृव्यस्तु चकार भवनं तदा।
तस्मिन् हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥ ३७.४८ ॥

दर्शार्थमाहृतान् दर्भांश्चचार सुरभीवृतः।
जग्राह तं दीर्घतमा विस्फुरन्तञ्च श्रृङ्गयोः ॥ ३७.४९ ॥

स तेन निगृहीतस्तु न चचाल पदात्पदम्।
ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ॥ ३७.५० ॥

न मयासादितस्तात बलवंस्त्वद्विधः क्वचित्।
त्र्यम्बकं वहता देवं यतो जातोऽस्मि भूतले ॥ ३७.५१ ॥

मुञ्च मां बलिनां श्रष्ठ प्रीतस्तेऽहं वरं वृणु।
एवमुक्तोऽब्रवीदेनं जीवस्त्वं मे क्व यास्यसि ॥ ३७.५२ ॥

तेन त्वाहं न मोक्ष्यामि परस्वाहं चतुष्पदम्।
ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥ ३७.५३ ॥

नास्माकं विद्यते तात पातकं स्तेयमेव वा।
भक्ष्याभक्ष्यं न जानीमः पेयापेयञ्च सर्वशः ॥ ३७.५४ ॥

कार्याकार्यं न वै विझो गम्यागम्यं तथैव च।
न पाप्मानो वयं विप्र धर्मो ह्येषां गवां स्मृतः ॥ ३७.५५ ॥

गवां नाम स वै श्रुत्वा सम्भ्रान्तस्त्वनुमुच्य तम्।
भक्त्या चानुश्रविकया गोषु तं वै प्रसाद यत् ॥ ३७.५६ ॥

प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु तम्।
मनसैव तदादत्ते तन्निष्ठस्तत्परायणः ॥ ३७.५७ ॥

ततो यवीयसः पत्नीमौतथ्यस्याभ्यमन्यत।
विचेष्टमानां रुदतीं दैवात् स मूढचेतनः ॥ ३७.५८ ॥

अवलेपन्तु तं मत्वा शरद्वांस्तस्य नाक्षमत्।
गोधर्मंवै बलं कृत्वा स्नुषां स सममन्यत ॥ ३७.५९ ॥

विपर्ययन्तु तं दृष्ट्वा शरद्वान् प्रत्यचिन्तयत्।
भविष्यमर्थं ज्ञात्वा च महात्मा च न मृत्युताम् ॥ ३७.६० ॥

प्रोवाच दीर्घतमसं क्रोधात् संरक्त लोचनः।
गम्यागम्यं न जीनीषे गोधर्मात् प्रार्थयत् स्नुषाम् ॥ ३७.६१ ॥

दुर्वृत्तस्त्वं त्यजाम्येव गच्छ त्वं स्वेन कर्मणा।
यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः।
तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतिः ॥ ३७.६२ ॥

कर्मण्यस्मिस्ततः क्रूरे तस्य बुद्धिरजायत।
निर्भत्स्य चैव बहुशो बाहुभ्यां परिगृह्य च।
कोष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् ॥ ३७.६३ ॥

उह्यमानः समुद्रस्तु सप्ताहं स्रोतसा तदा।
तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित्।
अपश्यन्मज्जमानन्तु स्रोतसाभ्याशमागतम् ॥ ३७.६४ ॥

तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा।
अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् ॥ ३७.६५ ॥

प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम्।
स च तस्माद्वरं वव्रे पुत्रार्थं दानवर्षभः ॥ ३७.६६ ॥

॥बलिरुवाच॥
विश्वास-प्रस्तुतिः

सन्तानार्थं महाभाग भार्यया मम मानद।
पुत्रान् धर्मार्थसंयुक्तानुत्पादयितुमर्हसि ॥ ३७.६७ ॥

एवमुक्तस्तु तेनर्षिस्तथास्त्वित्युक्तवान् हि तम् ।
सुदेष्णां नाम बार्यां वै राजास्मै प्राहिणोत्तदा ॥ ३७.६८ ॥

अन्धं वृद्धञ्च तं दृष्ट्वा न सा देवी जगाम ह ।
स्वाञ्च धात्रेयकीं तस्मै भूषयित्वा व्यसर्जयत् ॥ ३७.६९ ॥

कक्षीवचक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी।
जनयामास धर्मात्मा पुत्रावेतौ महोजसौ ॥ ३७.७० ॥

कक्षिवचक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा।
प्राधीतौ विधिवत्सम्यगीश्वरौ ब्रह्मवादिनौ ॥ ३७.७१ ॥

सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि।
ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् ॥ ३७.७२ ॥

नेत्युवाच ततस्तन्तु ममैताविति चाब्रवीत्।
उत्पन्नौ शूद्रयोनौ तु भवच्छद्मा सुरोत्तमौ ॥ ३७.७३ ॥

अनधं बृद्धं च मां मत्वा सुदेष्णा महिषी तव।
प्राहिणोदवमानाय शूद्रां धात्रेयकीं मम ॥ ३७.७४ ॥

ततः प्रसादयामास पुनस्तमृषिसत्तमम्।
बलिर्भार्यां सुदेष्णां च भर्त्सयामास वै प्रभुः ॥ ३७.७५ ॥

पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत्।
तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे ॥ ३७.७६ ॥

दध्ना लवणमिश्रेण स्वब्य(व्य)क्तं नग्नकं तथा।
लिहिष्यस्यजुगुप्सन्ती ह्यापादतलमस्तकम् ॥ ३७.७७ ॥

ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान्।
तस्य सा तद्वचो देवी सर्वं कृतवती तथा ॥ ३७.७८ ॥

अपानञ्च समासाद्य जुगुप्सन्ती न्यवर्जयत्।
तामुवाच ततः सर्षिर्यत्ते परिहृतं शुभे।
विनापानं कुमारं त्वं जनयिष्यसि पूर्वजम् ॥ ३७.७९ ॥

ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह।
नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥ ३७.८० ॥

॥ऋषिरुवाच॥
विश्वास-प्रस्तुतिः

तवापराधो देव्येष नान्यथा भवितानु वै ।
देवी दानीञ्च ते पुत्रमहं दास्यामि सुव्रते ॥ ३७.८१ ॥

तस्यापानं विना चैव योग्याभावो भविष्यति।
तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वेदमब्रववीत् ॥ ३७.८२ ॥

प्राशितं दधि यत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते ।
तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ॥ ३७.८३ ॥

भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः।
तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ॥ ३७.८४ ॥

ततोङ्गस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत।
वङ्गस्तस्मात्कलिङ्गस्तु पुण्ड्रो ब्रह्मस्तथैव च ॥ ३७.८५ ॥

वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा।
इत्येते दीर्घतमसा बलेर्दत्ताः सुताः पुरा ॥ ३७.८६ ॥

प्रजास्त्वपहतास्तस्य ब्रह्मणा कारणं प्रति।
अपत्या मात्यदारेषु स्वेषु मा भून्महात्मनः ॥ ३७.८७ ॥

ततो मनुष्ययोन्यां वै जनयामास स प्रजाः।
सुरभिर्दीर्घतमसमथ प्रीतो वचोऽब्रवीत् ॥ ३७.८८ ॥

विचार्य यस्माद्गोधर्मं त्वमेवं कृतवानसि ।
तेन न्यायेन मुमुचे ह्यहं प्रीतोस्मि तेन ते ॥ ३७.८९ ॥

तस्मात्तव तमो दीर्घं निस्तुदाम्यद्य पश्य वै।
बार्हस्पत्यञ्च यत्तेऽन्यत्पापं सन्तिष्ठते तनौ ॥ ३७.९० ॥

जरामृत्युभयञ्चैव आघ्राय प्रणुदामि ते।
ह्याघ्रातमात्रः सोऽपश्यत सद्यस्तमसि नाशिते ॥ ३७.९१ ॥

आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत्।
गवा दीर्घतमाः सोऽथ गौतमः समपद्यत ॥ ३७.९२ ॥

कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिप्रजाम्।
यथोद्दिष्टं हि पित्रर्थे चचार विपुलं तपः ॥ ३७.९३ ॥

ततः कालेन महता तमसा भावितः सवै।
विधूय मनुजो दोषान् ब्रह्मण्यं प्राप्तवान् प्रभुः ॥ ३७.९४।
ततोऽब्रवीत् पिता चैनं पुत्रवानस्म्यहं प्रभो।
सत्पुत्रेण त्वया तात कृतार्थोऽस्मि यशस्विना ॥ ३७.९५ ॥

युक्तात्मा हि ततः सोऽथ प्राप्तवान् ब्रह्मणा क्षयम्।
ब्रह्मण्यं प्राप्य कक्षीवान् सहस्रमसृजत् सुतान् ॥ ३७.९६ ॥

कृष्णाङ्गा गौतमास्ते वै स्मृताः कक्षीवतः सुताः।
इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ॥ ३७.९७ ॥

समागमः समाख्यातः सन्तानञ्चोभयोस्तयोः।
बलिस्तानबिषिच्येह पञ्च पुत्रानकल्मषान् ॥ ३७.९८ ॥

कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः।
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चरत्युत ॥ ३७.९९ ॥

तत्राङ्गस्य तु राजर्षे राजासीद्दधिवाहनः।
सापराधसुदेष्णाया अनपानोऽभवनृपः ॥ ३७.१०० ॥

अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः।
पुत्रो दिविरथस्यासीद्विद्वान् धर्मरथो नृपः ॥ ३७.१०१ ॥

स वै धर्मरथः श्रीमान् येन विष्णुपदे गिरौ।
सोमः शक्रेण सह वै यज्ञे पीतो महात्मना ॥ ३७.१०२ ॥

श्रृणु धर्मरथस्यापि राजा चित्ररथोऽभवत्।
लोमपाद इति ख्यातो यस्य शान्ता सुताऽभवत् ॥ ३७.१०३ ॥

जज्ञे वै चण्डिकस्तस्य वारणः शक्रवारणः।
आनयामास स महीं मन्धोर्वाहनमुत्तमम् ॥ ३७.१०४ ॥*(पाठभेदः)

हर्यङ्गस्य तु दायादो राजा भद्ररथः किल।
अथ भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः ॥ ३७.१०५ ॥

बृहद्रथः सुतस्तस्य तस्माज्जज्ञे बृहन्मनाः।
बृहन्मनास्तु राजेन्द्रं जनयामास वै सुतम् ॥ ३७.१०६ ॥

नाम्ना जयद्रथं नाम तस्मादॄढरथो नृपः।
आसीदॄढरथस्यापि विश्वजिज्जनमेजयः ॥ ३७.१०७ ॥

दायादस्तस्य चाङ्गेभ्यो यस्मात् कर्णोऽभवन्नृपः।
कर्णस्य शूरसेनस्तु द्विज स्तस्यात्मजः स्मृतः ॥ ३७.१०८ ॥

॥ऋषय ऊचुः ॥
विश्वास-प्रस्तुतिः

सूतात्मजः कथं कर्णः कथं चाङ्गस्य वंशजः।
एतदिच्छामहे श्रोतुमत्यर्थं कुशलो ह्यसि ॥ ३७.१०९ ॥

बृहद्भानोः सुतो जज्ञे नाम्ना राजा बृहन्मनाः।
तस्य पत्नीद्वयं चासीच्चैद्यस्योभे च ते सुते ॥ ३७.११० ॥

यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते।
जयद्रथस्तु राजेन्द्रो यशोदेव्यां व्यजायत ॥ ३७.१११ ॥

ब्रह्मक्षत्रान्तरः सत्याविजयो नाम विश्रुतः।
विजयस्य धृतिः पुत्र स्तस्य पुत्रो धृतव्रतः ॥ ३७.११२ ॥

धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः।
सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ॥ ३७.११३ ॥

स कर्णं परिजग्राह तेन कर्णस्तु सूतजः।
एतद्वः कथितं सर्वं कर्णे यद्वै प्रचोदितम् ॥ ३७.११४ ॥

एतेऽङ्गवंशजाः सर्वे राजानः कीर्त्तिता मया।
विस्तरेणानुपूर्व्या च पूरोस्तु श्रृणुत प्रजाः ॥ ३७.११५ ॥

पूरोः पुत्रो महाबाहू राजासीज्जनमेजयः।
अविद्धस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ॥ ३७.११६ ॥

अविद्धतः प्रवीरस्तु मनस्युरभवत्सुतः।
राजाथो जयदो नाम मनस्योरभवत्सुतः ॥ ३७.११७ ॥

दायादस्तस्य चाप्यासीद्धुन्धुर्नाम महीपतिः।
धुन्धोर्बहु गवी पुत्रः सञ्जातिस्तस्य चात्मजः ॥ ३७.११८ ॥

सञ्जातेरथ रौद्राश्वस्तस्य पुत्रान्निबोधत।
रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ ३७.११९ ॥

रजेयुश्च कृते युश्च वक्षेयुः स्थण्डिलेयु च।
घृतेयुश्च जलेयुश्च स्थलेयुश्चैव सप्तमः ॥ ३७.१२० ॥

धर्मेयुः सन्नतेयुश्च वनेयुर्द्दशमस्तु सः।
रुद्रा शूद्रा च मद्रा च शुभा जामलजा तथा ॥ ३७.१२१ ॥

तला खला च सप्तैता या च गोपजला स्मृता।
तथा ताम्ररसा चैव रत्नकूटी च तादृशी ॥ ३७.१२२ ॥

आत्रेयो वंशतस्तासां भर्त्ता नाम्ना प्रभाकरः।
अनादृष्टस्तु राजर्षी रिवेयुस्तस्य चात्मजः ॥ ३७.१२३ ॥

रिवेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा।
यस्यां देव्यां स राजर्षी रन्तिं नाम त्वजीजनत् ॥ ३७.१२४ ॥

रन्तिर्नारः सरस्वत्यां पुत्रानजनयच्छुभान्।
त्रसुं तथा प्रतिरथं ध्रुवञ्चैवातिधार्मिकम् ॥ ३७.१२५ ॥

गौरी कन्या च विख्याता मान्धातुर्जननी शुभा।
धुर्यः प्रतिरथस्यापि कण्ठस्तस्याभवत् सुतः ॥ ३७.१२६ ॥

मेधातिथिः सुरस्तस्य यस्मात् काण्ठायना द्विजाः।
इतिनानुयमस्यासीत् कन्या साजनयत्सुतान् ॥ ३७.१२७ ॥

त्रसुः सुदयितम्पुत्रं मलिनं ब्रह्मवादिनम्।
उपदातं ततो लेभे चतुरस्त्विति सात्मजान् ॥ ३७.१२८ ॥

सुष्मन्तमथ दुष्यन्तं प्रवीरमनघन्तथा।
चक्रवर्त्ती ततो जज्ञे दौष्यन्तिर्नृपसत्तमः ॥ ३७.१२९ ॥

शकुन्तलायां भरतो यस्य नाम्ना तु भारतम्।
दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी ॥ ३७.१३० ॥

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।
भरस्व पुत्रं दुष्यन्तं सत्यमाह शकुन्तला ॥ ३७.१३१ ॥

रेतोधाः पुत्रं नयति नरदेव यमक्षयात्।
त्वञ्चास्य धाता गर्भस्य मावमंस्थाः शकुन्तलाम् ॥ ३७.१३२ ॥

भरतस्त्रिसृषु स्त्रीषु नव पुत्रानजीजनत्।
नाभ्यनन्दच्च तान् राजा नानुरूपान्ममेत्युत ॥ ३७.१३३ ॥

ततस्ता मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम्।
ततस्तस्य नरेन्द्रस्य विततं पुत्रजन्म तत् ॥ ३७.१३४ ॥

ततो मरुद्भिरानीय पुत्रस्तु स बृहस्पतेः।
सङ्क्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ॥ ३७.१३५ ॥

तत्रैवोदारहन्तीदं भरद्वाजस्य धीमतः।
जन्मसङ्क्रमणञ्चैव मरुद्भिर्भरताय वै ॥ ३७.१३६ ॥

पत्न्यामासन्नगर्भायामशिजः संस्थितः किलः।
भ्रातुर्भार्यां स दृष्ट्वाथ बृहस्पतिरुवाच ह।
अलङ्कृत्य तनुं स्वान्तु मैथुनं देहि मे शुभे ॥ ३७.१३७ ॥

एवमुक्ताऽब्रवीदेन मन्तर्वत्नी ह्यहं विभो।
गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा ॥ ३७.१३८ ॥

अमोघरेतास्त्वञ्चापि धर्मश्चैव विगर्हितः।
एवमुक्तोऽब्रवीदेनां स्मयमानो बृहस्पतिः ॥ ३७.१३९ ॥

विनयो नोपदेष्टव्यस्त्वया मम कथञ्चन।
हर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे ॥ ३७.१४० ॥

ततो बृहस्पतिं गर्भो हर्षमाणमुवाच ह।
सन्निविष्टो ह्यहं पूर्वमिह तात बृहस्पते ॥ ३७.१४१ ॥

अमोघरेताश्च भवान्नावकाशोऽस्ति च द्वयोः।
एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह ॥ ३७.१४२ ॥

यस्मान्मामीदृशे काले सर्वभूतेप्सिते सति।
प्रतिषेधसितत्तस्मात् तमो दीर्घं प्रवेक्ष्यसि ॥ ३७.१४३ ॥

पादाभ्यान्तेन तच्छन्नं मातुर्द्वारं बृहस्पतेः।
तद्रेतस्तु तयोर्मध्ये निवार्यः शिशुकोऽभवत् ॥ ३७.१४४ ॥

सद्यो जातं कुमारन्तं दृष्ट्वाऽथ ममताऽब्रवीत्।
गमिष्यामि गृहं स्वं वै भरद्वाजं बृहस्पते ॥ ३७.१४५ ॥

एवमुक्त्वा गतायां स पुत्रन्त्यजति तत्क्षणात्।
भरस्व बाढमित्युक्तो भरद्वाजस्ततोऽभवत् ॥ ३७.१४६ ॥

मातापितृभ्यां सन्त्यक्तं दृष्ट्वाथ मरुतः शिशुम्।
गृहीत्वैनं भरद्वाजं जग्मुस्ते कृपया ततः ॥ ३७.१४७ ॥

तस्मिन् काले तु भरतो मरुद्भिः क्रतुभिः क्रमात्।
काम्यनैमित्तिकैर्यज्ञैर्यजते पुत्रलिप्सया ॥ ३७.१४८ ॥

यदा स यजमानो वै पुत्रान्नासादयत् प्रभुः ।
यज्ञं ततो मरुत्सोमं पुत्रार्थे पुनराहरत् ॥ ३७.१४९ ॥

तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः।
भरद्वाजं ततः पुत्रं बार्हस्पत्यं मनीषिणम् ॥ ३७.१५० ॥

भरतस्तु भरद्वाजं पुत्रं प्राप्य तदाब्रवीत्।
प्रजायां संहृतायां वै कृतार्थोऽहं त्वया विभो ॥ ३७.१५१ ॥

पूर्वन्तु वितथं तस्य कृतं वै पुत्रजन्म हि।
ततः स वितथो नाम भरद्वाजस्तथाऽभवत् ॥ ३७.१५२ ॥

तस्माद्दिव्यो भरद्वाजो ब्राह्मण्यात् क्षत्रियोऽभवत्।
द्विमुख्यायननामा स स्मृतो द्विपितृकस्तु वै ॥ ३७.१५३ ॥

ततोऽथ वितथे जाते भरतः स दिवं ययौ।
वितथस्य तु दायादो भुवमन्युर्बभूव ह ॥ ३७.१५४ ॥

महाभूतोपमाश्चासंश्चत्वारो भुवमन्युजाः।
बृहत्क्षत्रो महावीर्यो नरो गाग्रश्च वीर्यवान् ॥ ३७.१५५ ॥

नरस्य साङ्कृतिः पुत्रस्तस्य पुत्रौ महौजसौ।
गुरुवीर्यस्त्रिदेवश्च साङ्कृत्याववरौ स्मृतौ ॥ ३७.१५६ ॥

दायादाश्चापि गाग्रस्य शिनिबद्धात् बभूव ह।
स्मृताश्चैते ततो गाग्र्याः क्षात्रोपेता द्विजातयः ॥ ३७.१५७ ॥

महावीर्यसुतश्चापि भीमस्तस्मादुभक्षयः।
तस्य भार्या विशाला तु सुषुवे वै सुतांस्त्रयः ॥ ३७.१५८ ॥

त्रय्यारुणिं पुष्करिणं तृतीयं सुषुवे कपिम्।
कपेः क्षत्रवरा ह्येते तयोः प्रोक्ता महर्षयः ॥ ३७.१५९ ॥

गाग्राः साङ्कृतयो वीर्याः क्षात्रोपेता द्विजातयः।
संश्रिताङ्गिरसं पक्षं बृहत्क्षत्रस्य वक्ष्यति ॥ ३७.१६० ॥

बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः।
सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह।
तेनेदं निर्मितं पूर्वं नाम्ना वै हास्तिनं पुरम् ॥ ३७.१६१ ॥

हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः।
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ॥ ३७.१६२ ॥

अजमीढस्य पुत्रास्तु शभाः शुभकुलोद्वहाः।
तपसोऽन्ते सुमहतो राज्ञो वृद्धस्य धार्मिकाः ॥ ३७.१६३ ॥

भरद्वाजप्रसादेन श्रृणुध्वं तस्य विस्तरम्।
अज मीढस्य केशिन्यां कण्ठः समभवत्किल ॥ ३७.१६४ ॥

मेधातिथिः सुतस्तस्य तस्मात् कण्ठायना द्विजाः।
अजमीढस्य धूमिन्यां जज्ञे बृहद्वसुर्नृपः ॥ ३७.१६५ ॥

बृहद्वसोर्बृहद्विष्णुः पुत्रस्तस्य महाबलः।
बृहत्कर्मा सुतस्तस्य पुत्रस्तस्य बृहद्रथः ॥ ३७.१६६ ॥

विश्वजित्तनयस्तस्य सेनजित्तस्य चात्मजः।
अथ सेनजितः पुत्राश्चत्वारो लोकविश्रुताः ॥ ३७.१६७ ॥

रुचिराश्वश्च काव्यश्च रामो दृढधनुस्तथा।
वत्सश्चावन्तको राजा यस्य ते परिवत्सराः ॥ ३७.१६८ ॥

रुचिराश्वस्य दायादः पृथुषेणो महायशाः।
पृथुषेणस्य पारस्तु पारान्नीपोऽथ जज्ञिवान् ॥ ३७.१६९ ॥

यस्य चैकशतञ्चासीत् पुत्राणामिति नः श्रुतम्।
नीपा इति समाख्याता राजानः सर्व एव ते ॥ ३७.१७० ॥

तेषां वंशकरः श्रीमान् राजासीत्कीर्त्तिवर्द्धनः।
काम्पिल्ये समरो नाम स चेष्टसमरोऽभवत् ॥ ३७.१७१ ॥

समरस्य परः पारः सत्वदश्च इति त्रयः।
पुत्राः सर्वगुणोपेताः पारपुत्रो वृषुर्बभौ ॥ ३७.१७२ ॥

वृषोस्तु सुकृतिर्नाम सुकृतेनेह कर्मणा।
जज्ञे सर्वगुणोपेतो विब्राजस्तस्य चात्मजः ॥ ३७.१७३ ॥

विभ्राजस्य तु दायादस्त्वणुहो नाम पार्थिवः।
बभूव शुकजामाता ऋचीभर्त्ता महायशाः ॥ ३७.१७४ ॥

अणुहस्य तु दायादो ब्रह्मदत्तो महातपाः।
योगसूनुः सुतस्तस्य विष्वक्सेनोऽभवनृपः ॥ ३७.१७५ ॥

विब्राजपुत्रा राजानः कुकृतेनेह कर्मणा।
विष्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह ॥ ३७.१७६ ॥

भल्लाटस्तस्य दायादो येन राजा पुराहतः।
भल्लाटस्य तु दायादो राजासीज्जनमेजयः।
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ॥ ३७.१७७ ॥

उग्रायुधः कस्य सुतः कस्मिन् वंशे च कीर्त्यते।
किमर्थञ्चैव नीपास्ते तेन सर्वे प्रणाशिताः ॥ ३७.१७८ ॥

द्विमीढस्य तु दायादो विद्वान् जज्ञे यवीनरः।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ॥ ३७.१७९ ॥

अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् ।
दृढनेमिसुतश्चापि सुवर्मा नाम पार्थिवः ॥ ३७.१८० ॥

आसीत्सुवर्मणः पुत्रः सार्वभौमः प्रतापवान्।
सार्वभौम इति ख्यातः पृथिव्यामेकराड्बभौ ॥ ३७.१८१ ॥

तस्यान्वये च महति महत्पौरवनन्दनः।
महत्पौरवपुत्रस्तु राजा रुक्मरथः स्मृतः ॥ ३७.१८२ ॥

अथ रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः।
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ॥ ३७.१८३ ॥

सुमतेरपि धर्मात्मा राजा सन्नतिमान् प्रभुः।
तस्यासीत्सनतिर्नाम कृतस्तस्य सुतोऽभवत् ॥ ३७.१८४ ॥

शिष्यो हिरण्यनाभेस्तु कौथुमस्य महात्मनः।
चतुर्विंशतिधा तेन प्रोक्तास्ताः सामसंहिताः ॥ ३७.१८५ ॥

स्मृतास्ते प्राच्यनामानः कार्त्ताः साम्नान्तु सामगः ।
कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ॥ ३७.१८६ ॥

बभूव येन विक्रम्य पृषतस्य पितामहः।
नीलो नाम महाबाहुः पञ्चालाधिपतिर्हतः ॥ ३७.१८७ ॥

उग्रायुधस्य दायादः क्षेमो नाम महायशाः।
क्षेमात्सु वीरः सञ्जज्ञे सुवीरस्य नृपञ्जयः।
नृपञ्जयाद्वीररथो इत्येते पौरवाः स्मृताः ॥ ३७.१८८ ॥

अजमीढस्य नीलिन्यां नीलः समभवन्नृपः।
नीलस्य तपसोग्रेण सुशान्तिरभ्यजायत ॥ ३७.१८९ ॥

पुरुजानुः सुशान्तेस्तु रिक्षस्तु पुरुजानुजः।
ततस्तु रिक्षदायादा भेदाश्च तनयास्त्विमे ॥ ३७.१९० ॥

मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तथा ।
यवीयांश्चापि विक्रान्तः कम्पिल्यश्चैव पञ्चमः ॥ ३७.१९१ ॥

पञ्चानां रक्षणार्थाय पितैतानभ्यभाषत।
पञ्चानां विद्धि पञ्चैतान् स्फीता जनपदा युताः ॥ ३७.१९२ ॥

अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः।
मुद्गलस्यापि मौद्गल्याः क्षात्रोपेतद्विजातयः ॥ ३७.१९३ ॥

एते ह्यङ्गिरसः पक्षे संश्रिताः कण्ठमुद्घलाः ।
मुद्घलस्य सुतो ज्येष्ठो ब्रह्मिष्ठः सुमहायशाः ॥ ३७.१९४ ॥

इन्द्रसेना यतो गर्भं बध्यश्वं प्रत्यपद्यत।
बध्यश्वान्मिथुनं जज्ञे मेनका इति नः श्रुतिः ॥ ३७.१९५ ॥

दिवोदासश्च राजर्षिरहल्या च यशस्विनी।
शारद्वतस्तु दायादमहल्या समसूयत ॥ ३७.१९६ ॥

शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः।
पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ॥ ३७.१९७ ॥

अथ सत्यधृतेः शुक्रं दृष्ट्वाप्सरसमग्रतः।
प्रचस्कन्दे शरस्तम्बे मैथुनं समपद्यत ॥ ३७.१९८ ॥

कृपया तच्च जग्राह शन्तनुर्मृगयां गतः।
कृपः स्मृतः स वै तस्माद्गौतमी च कृपी तथा ॥ ३७.१९९ ॥

एते शारद्वताः प्रोक्ताः ऋतथ्यो गौतमान्वयः।
अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य सन्ततिम् ॥ ३७.२०० ॥

दिवोदासस्य दायादो ब्रह्मिष्ठो मित्रयुर्नृपः।
मैत्रेयस्तु ततो जज्ञे स्मृता एतेऽपि संश्रिताः ॥ ३७.२०१ ॥

एतेऽपि संश्रिताः पक्षं क्षात्रोपेतास्तु भार्गवाः।
राजापि च्यवनो विद्वांस्ततः प्रतिरथोऽभवत् ॥ ३७.२०२ ॥

अथ वै च्यवनाद्धीमान् सुदासः समपद्यत।
सौदासः सहदेवश्च सोमकस्तस्य चात्मजः ॥ ३७.२०३ ॥

अजमीढः पुनर्जातः क्षीणे वंशे स सोमकः।
सोमकस्य सुतो जन्तुर्हते तस्मिञ्छतं विभो ॥ ३७.२०४ ॥

पुषाणामजमीढस्य सोमकत्वे महात्मनः।
तेषां यवीयान् पृषतो द्रुपदस्य पितामहः ॥ ३७.२०५ ॥

धृष्टद्युम्नः सुतस्तस्य धृष्टकेतुश्च तत्सुतः।
महिषी चाजमीढस्य धूमिनी पुत्रगर्धिनी ॥ ३७.२०६ ॥

पुनर्भवे तपस्तेपे शतं वर्षाणि दुश्चरम्।
हुताग्न्यनिद्रा ह्यभवत् पवित्रमितभोजना ॥ ३७.२०७ ॥

अहोरात्रं कुशेष्वेव सुष्वाप सुमहाव्रता।
तस्यां वै धूम्रवर्णायामजमीढश्च वीर्यवान् ॥ ३७.२०८ ॥

ऋक्षं सञ्जनयामास धूम्रवर्ण सिताग्रजम्।
ऋक्षात् संवरणो जज्ञे कुरुः संवरणादभूत् ॥ ३७.२०९ ॥

यः प्रयागं पदाक्रम्य कुरुक्षेत्रञ्चकार ह।
कृष्ट्वैनं सुमहातेजा वर्षाणि सुबहून्यथ ॥ ३७.२१० ॥

कृष्यमाणे तदा शक्रस्तत्रास्य वरदो बभौ।
पुण्यञ्च रमणीयञ्च पुण्यकृद्भिर्निषेवितम् ॥ ३७.२११ ॥

तस्यान्ववायजाः ख्याताः कुरवो नृपसत्तमाः।
कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च ॥ ३७.२१२ ॥

परिक्षितो महाराजः पुत्रकश्चारिमर्दनः।
सुधन्वनस्तु दायादः सुहोत्रो मतिमान् स्मृतः ॥ ३७.२१३ ॥

च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः।
च्यवनस्य कृतः पुत्र इष्ट्वा यज्ञैर्महातपाः ॥ ३७.२१४ ॥

विश्रुतं जनयामास पुत्रमिन्द्रसखं नृपः।
विद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ॥ ३७.२१५ ॥

विद्योपरिचराज्जज्ञे गिरिका सप्त सूनवः।
महारथो भगधरो विश्रुतो यो बृहद्रथः ॥ ३७.२१६ ॥

प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम्।
माथैल्यश्च ललित्थश्च मत्स्यकालश्च सप्तमः ॥ ३७.२१७ ॥

बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः।
कुशाग्रस्यात्मजश्चैव ऋषभो नाम वीर्यवान् ॥ ३७.२१८ ॥

ऋषभस्यापि दायादः पुष्पवान्नाम धार्मिकः।
विक्रान्तस्तस्य दायादो राजा सत्यहितः स्मृतः ॥ ३७.२१९ ॥

तस्य पुत्रः सुधन्वा च तस्मादूर्ज्जः प्रतापवान्।
ऊर्ज्जस्य नभसः पुत्रस्तस्माज्जज्ञे स वीर्यवान् ॥ ३७.२२० ॥

शकले द्वे स वै जातो जरया सन्धितस्तु सः।
जरासन्धो महाबाहुर्जरया सन्धितस्तु सः ॥ ३७.२२१ ॥

सर्वक्षत्रस्य जेताऽसौ जरासन्धो महाबलः।
जरासन्धस्य पुत्रस्तु सहदेवः प्रतापवान् ॥ ३७.२२२ ॥

सहतेवात्मजः श्रीमान् सोमाधिः सुमहातपाः।
श्रुतश्रुवस्तु सोमाधेर्मागधः परिकीर्तितः ॥ ३७.२२३ ॥

परिक्षितस्य दायादो बभूव जनमेजयः।
श्रुतसेनस्य दायादो भीमसेनोऽपि नामतः ॥ ३७.२२४ ॥

जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम्।
सुरथस्य तु दायादो वीरो राजा विदूरथः ॥ ३७.२२५ ॥

विदूरथसुतश्चापि सार्वभौम इति श्रुतिः।
सार्वभौमा ज्जयत्सेन आराधिस्तस्य चात्मजः ॥ ३७.२२६ ॥

आराधितो महासत्त्व अयुतायुस्ततः स्मृतः ।
अक्रोधनोऽयुतायोऽस्तु तस्माद्देवातिथिः स्मृतः ॥ ३७.२२७ ॥

देवातिथेस्तु दायाद ऋक्ष एव बभूव ह।
भीमसेनस्तथा ऋक्षाद्दिलीपस्तस्य चात्मजः ॥ ३७.२२८ ॥

दिलीपसूनुः प्रतिपस्तस्य पुत्रास्त्रयः स्मृताः।
देवापिः शन्तनुश्चैव बाह्लीकश्चैव ते त्रयः ॥ ३७.२२९ ॥

बाह्लीकस्य तु विज्ञेयः सप्तबाह्लीश्वरो नृपः।
बाह्लीकस्य सुतश्चैव सोमदत्तो महायशाः ॥ ३७.२३० ॥

जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः ।
देवापिस्तु प्रवव्राज वनं धर्मपरीप्सया ॥ ३७.२३१ ॥

उपाध्यायस्तु देवानां देवापिरभवन्मुनिः।
च्यवनोऽस्य हि पुत्रस्तु इष्टकश्च महात्मनः ॥ ३७.२३२ ॥

शन्तनुस्त्वभवद्राजा विद्वान् वै स महाभिषः ।
इमं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषम् ॥ ३७.२३३ ॥

यं यं राजा स्पृशति वै जीर्णं समयतो नरम्।
पुनर्युवा स भवति तस्मात्ते शन्तनुं विदुः ॥ ३७.२३४ ॥

ततोऽस्य शन्तनुत्वं वै प्रजास्विह परिश्रुतम्।
स उपयेमे धर्मात्मा शन्तनु र्जाह्नवीं नृपः ॥ ३७.२३५ ॥

तस्यां देवव्रतं भीष्मं पुत्रं सोऽजनयत्प्रभुः ।
स च भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ ३७.२३६ ॥

काले विचित्रवीर्यन्तु शन्तनु र्जनयत्सुतम्।
शन्तनोर्दयितं पुत्रं प्रजाहितकरम्प्रभुम्।
कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ॥ ३७.२३७ ॥

धृतराष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत्।
धृतराष्ट्रात्तु गान्धारी पुत्राणां सुषुवे शतम् ॥ ३७.२३८ ॥

तेषां दुर्योधनो ज्येष्ठः सर्वक्षत्रस्य स प्रभुः।
माद्री राज्ञी पृथा चैव पाण्डोर्भार्ये बभूवतुः ॥ ३७.२३९ ॥

देवदत्ताः सुतास्ताभ्यां पाण्डोरर्थे विजज्ञिरे।
धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः ॥ ३७.२४० ॥

इन्द्राद्धनञ्जयो जज्ञे शक्रतुल्यपराक्रमः।
अश्विभ्यां सह देवश्च नकुलश्चापि माद्रिजौ ॥ ३७.२४१ ॥

पञ्चैव पाण्डवेभ्यश्च द्रौपद्यां जज्ञिरे सुताः।
द्रौपद्यजनयज्ज्येष्ठं श्रुतिविद्धं युधिष्ठिरात् ॥ ३७.२४२ ॥

हिडम्बा भीमसेनात्तु जज्ञे पुत्रं घटोत्कचम्।
काश्याः पुनर्भीमसेनाज्जज्ञे सर्ववृकं सुतम् ॥ ३७.२४३ ॥

सुहोत्रं विजया माद्री सहदेवादजायत।
करेमत्यान्तु वैद्यायां निरमित्रस्तु लाङ्गलिः ॥ ३७.२४४ ॥

सुभद्रायां रथी पार्थादभिमन्युरजायत।
उत्तरायान्तु वैराट्यां परिक्षिदभिमन्युजः ॥ ३७.२४५ ॥

परिक्षितस्तु दायादो राजासीज्जनमेजयः।
ब्राह्मणान् स्थापयामास स वै वाजसनेयिकान् ॥ ३७.२४६ ॥

असपत्नं तदामर्षाद्वैशम्पायन एव तु।
न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि ॥ ३७.२४७ ॥

यावत्स्था स्याम्यहं लोके तावन्नैतत्प्रशस्यते।
अभितः संस्थितश्चापि ततः स जनमेजयः ॥ ३७.२४८ ॥

पौर्णमास्येन हविषा देवमिष्ट्वा प्रजापतिम्।
विज्ञाय संस्थितोऽपश्यत्तद्वधीष्टां विभोर्मखे ॥ ३७.२४९ ॥

परिक्षित्तनयश्वापि पौरवो जनमेजयः ।
द्विरश्वमेधमाहृत्य ततो वाजसनेयकम् ।
प्रवर्त्तयित्वा तद्ब्रह्म त्रिखर्वी जनमेजयः ॥ ३७.२५० ॥

खर्वमश्वकमुख्यानां खर्वमङ्गनिवासिनाम्।
सर्वञ्च मध्यदेशानां त्रिखर्वी जनमेजयः ।
विषादाद्ब्राह्मणैः सार्द्धमभिशस्तः क्षयं ययौ ॥ ३७.२५१ ॥

तस्य पुत्रः शतनीको बलवान् सत्यविक्रमः ।
ततः सुतं शतानीकं विप्रास्तमभ्यषेचयत् ॥ ३७.२५२ ॥

पुत्रोऽश्वमेध दत्तोऽभूच्छतानीकस्य वीर्यवान्।
पुत्रोऽश्वमेधदत्ताद्वै जातः परपुरञ्जयः ॥ ३७.२५३ ॥

अधिसामकृष्णो धर्मात्मा साम्प्रतोऽयं महायशाः।
यस्मिन् प्रशासति महीं युष्माभिरिदमाहृतम् ॥ ३७.२५४ ॥

दुरापं दीर्घसत्रं वै त्रीणि वर्षाणि दुश्चरम्।
वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ॥ ३७.२५५ ॥

ऋषय ऊचुः ॥
विश्वास-प्रस्तुतिः

श्रोतुं भविष्यमिच्छामः प्रजानां वै महामते ।
सूत सार्द्धं नृपैर्भाव्यं व्यतीतं कीर्त्तितं त्वया ॥ ३७.२५६ ॥

यत्तु संस्थास्यते कृत्यमुत्पत्स्यन्ति चे ये नृपाः।
वर्षाग्रतोऽपि प्रब्रूहि नामतश्चैव तान्नृपान् ॥ ३७.२५७ ॥

कालं युगप्रमाणञ्च गुणदोषान् भविष्यतः।
सुखदुःखे प्रजानाञ्च धर्मतः कामतोऽर्थतः ॥ ३७.२५८ ॥

एतत्सर्वं प्रसङ्ख्याय पृच्छतां ब्रूहि तत्वतः।
स एवमुक्तो मुनिभिः सूतो बुद्धिमतां वरः।
आचचक्षे यथावृत्तं यथादृष्टं यथाश्रुतम् ॥ ३७.२५९ ॥

यथा मे कीर्त्तितं सर्वं व्यासेनाद्भुतकर्मणा।
भाव्यं कलियुगञ्चैव तथा मन्वन्तराणि तु ॥ ३७.२६० ॥

अनागतानि सर्वाणि ब्रुवतो मे निबोधत।
अत ऊर्ध्वं प्रवक्ष्यामि भविष्यन्ति वृपास्तु ये ॥ ३७.२६१ ॥

ऐलांश्चैव तथेक्ष्वाकून् सौद्युम्नांश्चैव पार्थिवान्।
येषु संस्थाप्यते क्षेत्रणैक्ष्वाकवमिदं शुभम् ॥ ३७.२६२ ॥

तान् सर्वान् कीर्त्तयिष्यामि भविष्ये पठितान्नृपान्।
तेभ्यः परे च ये चान्ये उत्पत्स्यन्ते महीक्षितः ॥ ३७.२६३ ॥

क्षत्राः पारशवाः शूद्रास्तथा ये च द्विजातयः।
अन्धाः शकाः पुलिन्दाश्च तूलिका यवनैः सह ॥ ३७.२६४ ॥

कैवर्त्ताभीरशबरा ये चान्ये म्लेच्छजातयः।
वर्षाग्रतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ॥ ३७.२६५ ॥

अधिसामकृष्णः सोऽयं साम्प्रतं पौरवान्नृपः।
तस्यान्ववाये वक्ष्यामि भविष्ये तावतो नृपान् ॥ ३७.२६६ ॥

अधिसामकृष्णपुत्रो निर्वक्रे भविता किल।
गङ्गयापहृते तस्मिन्नगरे नागसाह्वये।
त्यक्त्वा च तं सुवासञ्च कौशाम्ब्यां स निवत्स्यति ॥ ३७.२६७ ॥

भविष्यदुष्णस्तत्पुत्र उष्णाच्चित्ररथः स्मृतः।
शुचिद्रथश्चित्ररथाद्‌वृतिमांश्च शुचिद्रथात् ॥ ३७.२६८ ॥

सुषेणो वै महावीर्यो भविष्यति महायशाः।
तस्मात्सुषेणाद्भविता सुतीर्थो नाम पार्थिवः ॥ ३७.२६९ ॥

रुचः सुतीर्थाद्भविता त्रिचक्षो भविता ततः।
त्रिचक्षस्य तु दायादो भविता वै सुखीबलः ॥ ३७.२७० ॥

सुखीबलसुतश्चापि भाव्यो राजा परिप्लुतः।
परिप्लुतसुतश्चापि भविता सुनयो नृपः ॥ ३७.२७१ ॥

मेधावी सुनयस्याथ भविष्यति नराधिपः।
मेधाविनः सुतश्चापि दण्डपाणिर्भविष्यति ॥ ३७.२७२ ॥

दण्डपाणेर्निरामित्रे निरामित्राच्च क्षेमकः।
पञ्चविंशनृपा ह्येते भविष्याः पूर्ववंशजाः ॥ ३७.२७३ ॥

अत्रानुवंशश्लोकोऽयं गीतो विप्रैः पुराविदैः।
ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः ॥ ३७.२७४ ॥

क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ।
इत्येष पौरवो वंशो यथावदनुकीर्त्तितः ॥ ३७.२७५ ॥

धीमतः पाण्डुपुत्रस्य ह्यर्जुनस्य महात्मनः।
अत ऊर्ध्वं प्रवक्ष्यामि इक्ष्वाकूणां महात्मनाम् ॥ ३७.२७६ ॥

बृहद्रथस्य दायादो वीरो राजा बृहत्क्षयः ।
ततः क्षयः सुतस्तस्य वत्सव्यूहस्ततः क्षयात् ॥ ३७.२७७ ॥

वत्सव्यूहात्प्रतिव्यूहस्तस्य पुत्रो दिवाकरः।
यश्च साम्प्रतमध्यास्त अयोध्यां नगरीं नृपः ॥ ३७.२७८ ॥

दिवाकरस्य भविता सहदेवो महायशाः।
सहदेवस्य दायादो बृहदश्वो भविष्यति ॥ ३७.२७९ ॥

तस्य भानुरथो भाव्यः प्रतीताश्वश्च तत्सुतः।
प्रतीताश्वसुतश्चापि सुप्रतीतो भविष्यति ॥ ३७.२८० ॥

सहदेवः सुतस्तस्य सुनक्षत्रश्च तत्सुतः ॥ ३७.२८१ ॥
विश्वास-प्रस्तुतिः

किन्नरस्तु सुनक्षत्राद्भविष्यति परन्तपः।
भविता चान्तरिक्षस्तु किन्नरस्य सुतो महान् ॥ ३७.२८२ ॥

अन्तरिक्षात्सुपर्णस्तु सुपर्णाच्चाप्यमित्रजित्।
पुत्रस्तस्य भरद्वाजो धर्मी तस्य सुतः स्मृतः।
पुत्रः कृतञ्जयो नाम धर्मिणः स भविष्यति।
कृतञ्जयसुतो व्रातो तस्य पुत्रो रणञ्जयः ॥ ३७.२८३ ॥

भविता सञ्जयश्चापि वीरो राजा रणञ्जयात्।
सञ्जयस्य सुतः शाक्यः शाक्याच्छुद्धोदनोऽभवत् ॥ ३७.२८४ ॥

शुद्धोदनस्य भविता शाक्यार्थे राहुलः स्मृतः।
प्रसेनजित्ततो भाव्यः क्षुद्रको भविता ततः ॥ ३७.२८५ ॥

क्षुद्रकात्क्षुलिको भाव्यः क्षुलिकात्सुरथः स्मृतः।
सुमित्रः सुरथस्यापि अन्त्यश्च भविता नृपः ॥ ३७.२८६ ॥

एते ऐक्ष्वाकवाः प्रोक्ता भवितारः कलौ युगे।
बृहद्बलान्वये जाता भवितारः कलौ युगे।
शूराश्च कृतविद्याश्च सत्यसन्धा जितेन्द्रियाः ॥ ३७.२८७ ॥

अत्रानुवंशश्लोकोऽयं भविष्यज्ञैरुदाहृतः।
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति।
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ।
इत्येतन्मानवं क्षेत्रमैलञ्च समुदाहृतम् ॥ ३७.२८८ ॥

अत ऊर्ध्वं प्रवक्ष्यामि मागधेयान्बृहद्रथान्।
जरासन्धस्य ये वंशे सहदेवान्वये नृपाः ॥ ३७.२८९ ॥

अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः।
प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ॥ ३७.२९० ॥

सङ्ग्रामे भारते तस्मिन् सहदेवो निपातितः।
सोमाधिस्तस्य तनयो राजर्षिः सगिरिव्रजे ॥ ३७.२९१ ॥

पञ्चाशतं तथाष्टौ च समा राज्यमकारयत्।
श्रुतश्रवाः चतुःषष्टिसमास्तस्य सुतोऽभवत्।
अयुतायुस्तु षड्विंशं राज्यं वर्षाण्यकारयत्।
समाः शतं निरामित्रो महीं भुक्त्वा दिवङ्गतः ॥ ३७.२९२ ॥

पञ्चाशतं समाः षट् च सुकृत्तः प्राप्तवान्महीम्।
त्रयोविंशं बृहत्कर्मा राज्यं वर्षाण्यकारयत् ॥ ३७.२९३ ॥

सेनाजित्साम्प्रतं चापि एतां वै भुज्यते समाः।
श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद्भविष्यति ॥ ३७.२९४ ॥

महाबाहुर्महाबुद्धिर्महाभीमपराक्रमः।
पञ्चत्रिंशत्तु वर्षाणि महीं पालयिता नृपः ॥ ३७.२९५ ॥

अष्टपञ्चा शतं चाब्दान् राज्ये स्थास्यति वै शुचिः।
अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ॥ ३७.२९६ ॥

भुवतस्तु चतुःषष्टीराज्यं प्राप्स्यति वीर्यवान्।
पञ्चवर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ॥ ३७.२९७ ॥

भोक्ष्यते नृपतिश्चैव ह्यष्टपञ्चाशतं समाः।
अष्टात्रिंशत्समा राज्यं सुव्रतस्य भविष्यति ॥ ३७.२९८ ॥

चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति।
त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ॥ ३७.२९९ ॥

द्वाविंशतिसमा राज्यं सुचलो भोक्ष्यते ततः।
चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ॥ ३७.३०० ॥

सत्यजित्पृथिवीराज्यं त्र्यशीतिं भोक्ष्यते समाः।
प्राप्येमां वीरजिच्चापि पञ्चत्रिंशद्भविष्यति ॥ ३७.३०१ ॥

अरीञ्जयस्तु वर्षाणि पञ्चाशत्प्राप्स्यते महीम्।
द्वात्रिंशच्च नृपा ह्येते भवितारो बृहद्रथाः ॥ ३७.३०२ ॥

पूर्णं वर्षसहस्रं वै तेषां राज्यं भविष्यति।
बृहद्रथेष्वतीतेषु वीतहोत्रेषु वर्तिषु ॥ ३७.३०३ ॥

मुनिकः स्वामिनं हत्वा पुत्रं समभिषेक्ष्यति।
मिषतां क्षत्रियाणां हि प्रद्योतो मुनिको बलात् ॥ ३७.३०४ ॥

स वै प्रणतसामन्तो भविष्ये नयवर्ज्जितः ।
त्रयोविंशत्समा राजा भविता स नरोत्तमः ॥ ३७.३०५ ॥

चतुर्विंशत्समा राजा पालको भविता ततः।
विशाखयूपो भविता नृपः पञ्चाशतीं समाः ॥ ३७.३०६ ॥

एकत्रिंशत्समा राज्यमजकस्य भविष्यति।
भविष्यति समा विंशत्तत्सुतो वर्त्तिवर्द्धनः ॥ ३७.३०७ ॥

अष्टात्रिंशच्छतं भाव्याः प्राद्योताः पञ्च ते सुताः।
हत्वा तेषां यशः कृत्स्नं शिशुनाको भविष्यति ॥ ३७.३०८ ॥

वाराणस्यां सुतस्तस्य सम्प्राप्स्यति गिरिव्रजम्।
शिशुनाकस्य वर्षाणि चत्वारिंशद्भविष्यति ॥ ३७.३०९ ॥

शकवर्णः सुतस्तस्य षट्‌त्रिंशच्च भविष्यति।
ततस्तु विंशतिं राजा क्षेमवर्मा भविष्यति ॥ ३७.३१० ॥

अजातशत्रूर्भविता पञ्चविंशत्समा नृपः।
चत्वारिंशत्समा राज्यं क्षत्रौजाः प्राप्स्यते ततः ॥ ३७.३११ ॥

अष्टाविंशत्समा राजा विविसारो भविष्यति।
पञ्चविंशत्समा राजा दर्शकस्तु भविष्यति ॥ ३७.३१२ ॥

उदायी भविता तस्मात्त्रयस्त्रिंशत्समा नृपः।
स वै पुरवरं राजा पृथिव्यां कुसुमाह्वयम्।
गङ्गाया दक्षिणे कूले चतुर्थेऽब्दे करिष्यति ॥ ३७.३१३ ॥

द्वाचत्वारिंशत्समा भाव्यो राजा वै नन्दिवर्द्धनः।
चत्वारिंशत्त्रयञ्चैव महा नन्दी भविष्यति ॥ ३७.३१४ ॥

इत्येते भवितारौ वै शैशुनाका नृपा दश।
अतानि त्रीणि वर्षाणि द्विषष्ट्यभ्यधिकानि तु ॥ ३७.३१५ ॥

शैशुनाका भविष्यन्ति तावत्कालं नृपाः परे।
एतैः सार्द्धं भविष्यन्ति राजानः क्षत्रबान्धवाः ॥ ३७.३१६ ॥

ऐक्ष्वाकवाश्चतुर्विंशत्पाञ्चालाः पञ्चविंशतिः।
कालकास्तु चतुर्विंशच्चतुर्विंशत्तु हैहयाः ॥ ३७.३१७ ॥

द्वात्रिंशद्वै कलिङ्गास्तु पञ्चविंशत्तथा शकाः।
कुरवश्चापि षड्विंशदष्टाविंशति मैथिलाः ॥ ३७.३१८ ॥

शूरसे नास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः।
तुल्यकालं भविष्यन्ति सर्व एव महीक्षितः ॥ ३७.३१९ ॥

महानन्दिसुतश्चापि शूद्रायां कालसंवृतः।
उत्पत्स्यते महापद्मः सर्वक्षत्रान्तरे नृपः ॥ ३७.३२० ॥

ततःप्रभृति राजानो भविष्याः शूद्रयोनयः।
एकराट् स महापद्म एकच्छत्रो भविष्यति ॥ ३७.३२१ ॥

अष्टा विंशतिवर्षाणि पृथिवीं पालयिष्यति।
सर्वक्षत्रहृतोद्धृत्य भाविनोऽर्थस्य वै बलात् ॥ ३७.३२२ ॥

सहस्रास्तत्सुता ह्यष्टौ समा द्वादश ते नृपाः॥ महापद्मस्य पर्याये भविष्यन्ति नृपाः क्रमात् ॥ ३७.३२३ ॥
विश्वास-प्रस्तुतिः

उद्धरिष्यति तान् सर्वान् कौटिल्यो वै द्विरष्टभिः।
भुक्त्वा महीं वर्षशतं नन्देन्दुः स भविष्यति ॥ ३७.३२४ ॥

चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति।
चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ॥ ३७.३२५ ॥

भविता भद्र सारस्तु पञ्चविंशत्समा नृपः।
षड्विंशत्तु समा राजा ह्यशोको भविता नृषु ॥ ३७.३२६ ॥

तस्य पुत्रः कुनालस्तु वर्षाण्यष्टौ भविष्यति।
कुनाल सूनुरष्टौ च भोक्ता वै बन्धुपालितः ॥ ३७.३२७ ॥

बन्धुपालितदायादो दशमानीन्द्रपालितः।
भविता सप्तवर्षाणि देववर्मा नराधिपः ॥ ३७.३२८ ॥

राजा शतधरश्चाष्टौ तस्य पुत्रो भविष्यति।
बृहदश्वश्च वर्षाणि सप्त वै भविता नृपः ॥ ३७.३२९ ॥

इत्येते नव भूपा ये भोक्ष्यन्ति च वसुन्धराम्।
सप्तत्रिंशच्छतं पूर्णं तेभ्यस्तु गौर्भविष्यति ॥ ३७.३३० ॥

पुष्पमित्रस्तु सेनानीरुद्धृत्य वै बृहद्रथम्।
कारयिष्यति वै राज्यं समाः षष्टिं सदैव तु ॥ ३७.३३१ ॥

पुष्पमित्रसुताश्चाष्टौ भविष्यन्ति समा नृपाः।
भविता चापि तज्ज्येष्ठः सप्तवर्षाणि वै ततः ॥ ३७.३३२ ॥

वसुमित्रः सुतो भाव्यो दशवर्षाणि पार्थिवः।
ततो ध्रुकः समा द्वे तु भविष्यति सुतश्च वै ॥ ३७.३३३ ॥

भविष्यन्ति समास्तस्मात्तिस्र एव पुलिन्दकाः।
राजा घोषसुतश्चापि वर्षाणि भविता त्रयः ॥ ३७.३३४ ॥

ततो वै विक्रमित्रस्तु समा राजा ततः पुनः।
द्वात्रिंशद्भविता चापि समा भागवतो नृपः ॥ ३७.३३५ ॥

भविष्यति सुतस्तस्य क्षेमभूमिः समा दश।
दशैते तुङ्गराजानो भोक्ष्यन्तीमां वसुन्धरम् ॥ ३७.३३६ ॥

शतं पूर्णं दश द्वे च तेभ्यः किं वा गमिष्यति।
अपार्थिवसुदेवन्तु बाल्याद्व्यसनिनं नृपम् ॥ ३७.३३७ ॥

देवभूमिस्ततोऽन्यश्च श्रृङ्गेषु भविता नृपः।
भविष्यति समा राजा नव कण्ठायनस्तु सः ॥ ३७.३३८ ॥

भूतिमित्रः सुतस्तस्य चतुर्विंशद्भविष्यति।
भविता द्वादश समास्तस्मान्नारायणो नृपः ॥ ३७.३३९ ॥

सुशर्मा तत्सुतश्चापि भविष्यति समा दश।
चतुरस्तुङ्गकृत्यास्ते नृपाः कण्ठायना द्विजाः ॥ ३७.३४० ॥

भाव्याः प्रणतसामन्ताश्चत्वारिंशच्च पञ्च च।
तेषां पर्यायकाले तु तरन्धा तु भविष्यति ॥ ३७.३४१ ॥

कण्ठायनमथोद्धृत्य सुशर्माणं प्रसह्य तम्।
श्रृङ्गाणां चापि यच्छिष्टं क्षययित्वा बलं तदा।
सिन्धुको ह्यन्ध्रजातीयः प्राप्स्यतीमां वसुन्धराम् ॥ ३७.३४२ ॥

त्रयोविंशत्समा राजा सिन्धुको भविता त्वथ।
अष्टौ भातश्च वर्षाणि तस्माद्दश भविष्यति ॥ ३७.३४३ ॥

श्रीसातकर्णिर्भविता तस्य पुत्रस्तु वै महान्।
पञ्चाशतं समाः षट् च सातकर्णिर्भविष्यति ॥ ३७.३४४ ॥

आपादबद्धो दश वै तस्य पुत्रो भविष्यति।
चतुर्विंशत्तु वर्षाणि षट् समा वै भविष्यति ॥ ३७.३४५ ॥

भविता नेमिकृष्णस्तु वर्षाणां पञ्चविंशतिम्।
ततः संवत्सरं पूर्णं हालो राजा भविष्यति ॥ ३७.३४६ ॥

पञ्च सप्तक राजानो भविष्यन्ति महाबलाः।
भाव्यः पुत्रिकषेणस्तु समाः सोऽप्येकविंशतिम् ॥ ३७.३४७ ॥

सातकर्णिर्वर्षमेकं भविष्यति नराधिपः।
अष्टाविंशत्तु वर्षाणि शिवस्वामी भविष्यति ॥ ३७.३४८ ॥

राजा च गौतमीपुत्र एकविंशत्समा नृषु।
एकोनविंशतिं राजा यज्ञश्रीः सातकर्ण्यथ ॥ ३७.३४९ ॥

षडेव भविता तस्माद्विजयस्तु समा नृपः।
दण्डश्रीः सातकर्णी च तस्य पुत्रः समास्त्रयः ॥ ३७.३५० ॥

पुलोवापि समाः सप्त अन्येषाञ्च भविष्यति ।
इत्येते वै नृपास्त्रिंशदन्ध्रा भोक्ष्यन्ति ये महीम् ॥ ३७.३५१ ॥

समाः शतानि चत्वारि पञ्च षड्वै तथैव च।
अन्ध्राणां संस्थिताः पञ्च तेषां वंशाः समाः पुनः ॥ ३७.३५२ ॥

सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः।
सप्त गर्दभिनश्चापि ततोऽथ दश वै शकाः ॥ ३७.३५३ ॥

यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश।
त्रयोदश मरुण्डाश्च मौना ह्यष्टादशैव तु ॥ ३७.३५४ ॥

अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतं च वै।
शतानि त्रीण्यशीतिञ्च भोक्ष्यन्ति वसुधां शकाः ॥ ३७.३५५ ॥

अशीतिञ्चैव वर्षाणि भोक्तारो यवना महीम्।
पञ्चवर्षशतानीह तुषाराणां मही स्मृता ॥ ३७.३५६ ॥

शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश।
मरुण्डा वृषलैः सार्द्धं भाव्यान्या म्लेच्छजातयः ॥ ३७.३५७ ॥

शतानि त्रीणि भोक्ष्यन्ति म्लेच्छा एकादशैव तु।
तच्छन्नेन च कालेन ततः कोलिकिला वृषाः ॥ ३७.३५८ ॥

ततः कोलिकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति।
समाः षण्णवतिं त्रात्वा पृथिवीं च समेष्यति ॥ ३७.३५९ ॥

वृषान् वै दिशकांश्चापि भविष्याश्च निबोधत।
शेषस्य नागराजस्य पुत्रः स्वरपुरञ्जयः ॥ ३७.३६० ॥

भोगी भविष्यते राजा नृपो नागकुलोद्वहः।
सदाचन्द्रस्तु चन्द्रांशो द्वितीयो नखवांस्तथा ॥ ३७.३६१ ॥

धनधर्मा ततश्चापि चतुर्थो विंशजः स्मृतः।
भूतिनन्दस्ततश्चापि वैदेशे तु भविष्यति ॥ ३७.३६२ ॥

अङ्गानां नन्दनस्यान्ते मधुनन्दिर्भविष्यति।
तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल ॥ ३७.३६३ ॥

तस्यान्वये भविष्यन्ति राजानस्ते त्रयस्तु वै।
दोहित्रः शिशुको नाम पुरिकायां नृपोऽभवत् ॥ ३७.३६४ ॥

विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान् ।
भोक्ष्यन्ति च समाः षष्टिं पुरीं काञ्चनकाञ्च वै ॥ ३७.३६५ ॥

यक्ष्यन्ति वाजपेयैश्च समाप्तवरदक्षिणैः।
तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ॥ ३७.३६६ ॥

विन्ध्यकानां कुलेऽतीते नृपा वै बाह्लिका स्त्रयः।
सुप्रतीको नभीरस्तु समा भोक्ष्यति त्रिंशतिम् ॥ ३७.३६७ ॥

शक्यमा नाम वै राजा माहिषीनां महीपतिः।
पुष्पमित्रा भविष्यन्ति पट्टमित्रास्त्रयोदश ॥ ३७.३६८ ॥

मेकलायां नृपाः सप्त भविष्यन्ति च सत्तमाः।
कोमलायान्तु राजानो भविष्यन्ति महाबलाः ॥ ३७.३६९ ॥

मेघा इति समाख्याता बुद्धिमन्तो नवैव तु।
नैषधाः पार्थिवाः सर्वे भविष्यन्त्यामनुक्षयात् ॥ ३७.३७० ॥

नलवंशप्रसूतास्ते वीर्यवन्तो महाबलाः।
मागधानां महावीर्यो विश्वस्फानिर्भविष्यति ॥ ३७.३७१ ॥

उत्साद्य पार्थिवान् सर्वान्सोऽन्यान् वर्णान् करिष्यति।
कैवर्त्तान् पञ्चकांश्चैव पुलिन्दान् ब्राह्मणांस्तथा ॥ ३७.३७२ ॥

स्थापयिष्यन्ति राजानो नानादेशेषु तेजसा।
विश्वस्फानिर्महासत्त्वो युद्धे विष्णुसमो बली ॥ ३७.३७३ ॥

विश्वस्फानिर्नरपतिः क्लीबा कृतिरिवोच्यते।
उत्सादयित्वा क्षत्रन्तु क्षत्रमन्यत् करिष्यति ॥ ३७.३७४ ॥

देवान् पितॄंश्च विप्रांश्च तर्पयित्वा सकृत्पुनः।
जाह्नवीतीरमासाद्य शरीरं यस्यते बली ॥ ३७.३७५ ॥

सन्न्यस्य स्वशरीरन्तु शक्रलोकं गमिष्यति।
नवनाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ॥ ३७.३७६ ॥

मथुराञ्च पुरीं रम्यां नागा भोक्ष्यन्ति सप्त वै।
अनुगङ्गं प्रयागञ्च साकेतं मगधांस्तथा।
एताञ्जनपदान् सर्वान् भोक्ष्यन्ते गुप्तवंशजाः ॥ ३७.३७७ ॥

निषधान् यदुकांश्चैव शैशी तान् कालतोपकान्।
एताञ्जनपदान् सर्वान् भोक्ष्यन्ति मणिधान्यजाः ॥ ३७.३७८ ॥

कोशलांश्चान्ध्रपौण्ड्रांश्च ताम्रलिप्तान् ससागरान्।
चम्पां चैव पुरीं रम्यां भोक्ष्यन्ति देवरक्षिताम् ॥ ३७.३७९ ॥

कालिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये।
एताञ्जनपदान् सर्वान् पालयिष्यति वै गुहः ॥ ३७.३८० ॥

स्त्रीराष्ट्रं भक्ष्यकांश्चैव भोक्ष्यते कनकाह्वयः।
तुल्यकालं भविष्यन्ति सर्वे ह्येते महीक्षितः ॥ ३७.३८१ ॥

अल्पप्रसादा ह्यनृता महाक्रोधाः ह्यधार्मिकाः।
भविष्यन्तीह यवना धर्मतः कामतोऽर्थतः ॥ ३७.३८२ ॥

नैव मूर्द्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः।
युगदोषदुराचारा भविष्यन्ति नृपास्तु ते ॥ ३७.३८३ ॥

स्त्रीणां बलवधेनैव हत्वा चैव परस्परम्।
भोक्ष्यन्ति कलिशेषे तु वसुधां पार्थिवास्तथा ॥ ३७.३८४ ॥

उदितोदितवंशास्ते उदितास्तमितास्तथा ।
भविष्यन्तीह पर्याये कालेन पृथिवीक्षितः ॥ ३७.३८५ ॥

विहीनास्तु भविष्यन्ति धर्मतः कामतोऽर्थतः।
तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः ॥ ३७.३८६ ॥

विपर्ययेन वर्त्तन्ते नाशयिष्यन्ति वै प्रजाः।
लुब्धानृतरताश्चैव भवितारस्तदा नृपाः ॥ ३७.३८७ ॥

तेषां व्यतीते पर्याये बहुस्त्रीके युगे तदा।
लवाल्लवं भ्रश्यमाना आयूरूपबलश्रुतैः ॥ ३७.३८८ ॥

तथा गतास्तु वै काष्ठां प्रजासु जगतीश्वराः ।
राजानः सम्प्रणश्यन्ति कालेनोपहतास्तदा ॥ ३७.३८९ ॥

कल्किनोपहताः सर्वे म्लेच्छा यास्यन्ति सर्वशः।
अधार्मिकाश्च तेऽत्यर्थं पाषण्डाश्चैव सर्वशः ॥ ३७.३९० ॥

प्रनष्टे नृपशब्दे च सन्ध्याश्लिष्टे कलौ युगे।
किञ्ञ्चिच्छिष्टाः प्रजास्ता वै धर्मे नष्टेऽपरिग्रहाः ॥ ३७.३९१ ॥

असाधना हताश्वासा व्याधिशोकेन पीडिताः।
अनावृष्टिहताश्चैव परस्परवधेन च ॥ ३७.३९२ ॥

अनाथा हि परित्रस्ता वार्त्तामुत्सृज्य दुःखिताः।
त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ॥ ३७.३९३ ॥

एवं नृपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु।
नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनाः ॥ ३७.३९४ ॥

वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः।
सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ॥ ३७.३९५ ॥

सरितः सागरानूपान् सेवन्ते पर्वतानि च।
अङ्गान् कलिङ्गान् वङ्गांश्च काश्मीरान् काशिकोशलान् ॥ ३७.३९६ ॥

ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः।
कृत्स्नं हिमवतः पृष्ठं कूलं च लवणाम्भसः ॥ ३७.३९७ ॥

अरण्यान्यभिपत्स्यन्ति ह्यार्या म्लेच्छजनैः सह।
मृगैर्मीनैर्विहङ्गैश्च श्वापदैस्तक्षुभिस्तथा।
मधुशाकफलैर्मूलैर्वर्त्तयिष्यन्ति मानवाः ॥ ३७.३९८ ॥

चीरं पर्णञ्च विविधं वल्कलान्यजिनानि च।
स्वयं कृत्वा विवत्स्यन्ति यथा मुनिजनास्तथा ॥ ३७.३९९ ॥

बीजान्नानि तथा निम्नेस्वीहन्तः काष्ठशङ्कुभिः।
अजैडकं खरोष्ट्रञ्च पालयिष्यन्ति यत्नतः ॥ ३७.४०० ॥

नदीर्वत्स्यन्ति तोयार्थे कूलमाश्रित्य मानवाः।
पार्थिवान् व्यवहारेण विबाधन्तः परस्परम् ॥ ३७.४०१ ॥

बहुमन्याः प्रजाहीनाः शौचाचारविवर्जिताः।
एवं भविष्यन्ति नरास्तदाधर्मे व्यवस्थिताः ॥ ३७.४०२ ॥

हीनाद्धीनांस्तथा धर्मान् प्रजाः समनुवर्त्तते।
आयुस्तदा त्रयोविंशं न कश्चिदतिवर्त्तते ॥ ३७.४०३ ॥

दुर्बला विषयग्लाना जरया सम्परिप्लुताः।
पत्रमूलफलाहाराश्चीरकृष्णाजिनाम्बराः ॥ ३७.४०४ ॥

वृत्त्यर्थमभिलिप्सन्तश्चरिष्यन्ति वसुन्धराम्।
एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके ॥ ३७.४०५ ॥

क्षीणे कलियुगे तस्मिन् दिव्ये वर्षसहस्रके।
निःशेषास्तु भविष्यन्ति सार्द्धं कलियुगेन तु।
ससन्ध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ॥ ३७.४०६ ॥

यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती।
एकरात्रे भरिष्यन्ति तदा कृतयुगं भवेत् ॥ ३७.४०७ ॥

एष वंशक्रमः कृत्स्नं कीर्तितो वो यथाक्रमम्।
अतीता वर्त्तमानाश्च तथैवानागताश्च ये ॥ ३७.४०८ ॥

महादेवाभिषेकात्तु जन्म यावत्परिक्षितः।
एतद्वर्षसहस्रन्तु ज्ञेयं पञ्चादशदुत्तरम् ॥ ३७.४०९ ॥

प्रमाणं वै तथा चोक्तं महापद्मान्तरं च यत्।
अन्तरं तच्छतान्यष्टौ षट्‌त्रिंशच्च समाः स्मृताः ॥ ३७.४१० ॥

एतत्कालान्तरं भाव्या अन्ध्रान्ता ये प्रकीर्त्तिताः।
भविष्यैस्तत्र सङ्ख्याताः पुराणज्ञैः श्रुतर्षिभिः ॥ ३७.४११ ॥

सप्तर्षयस्तदा प्राहुः प्रतीपे राज्ञि वै शतम्।
सप्तविंशैः शतैर्भाव्या अन्ध्राणां ते त्वया पुनः ॥ ३७.४१२ ॥

सप्तविंशतिपर्यन्ते कृत्स्ने नक्षत्रमण्डले।
सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतं शतम्।
सप्तर्षीणां युगं ह्येतद्दिव्यया सङ्ख्यया स्मृतम् ॥ ३७.४१३ ॥

सा सा दिव्या स्मृता षष्टिर्दिव्याह्नाश्चैव सप्तभिः ।
तेभ्यः प्रवर्त्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ॥ ३७.४१४ ॥

सप्तर्षीणान्तु ये पूर्वा दृश्यन्ते उत्तरादिशि।
ततो मध्येन च क्षेत्रं दृश्यते यत्समं दिवि ॥ ३७.४१५ ॥

तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः।
नक्षत्राणामृषीणाञ्च योगस्यैतन्निदर्शनम् ॥ ३७.४१६ ॥

सप्तर्षयो मघायुक्ताः काले पारिक्षिते शतम्।
अन्ध्रांशे स चतुर्विशे भविष्यन्ति मते मम ॥ ३७.४१७ ॥

इमास्तदा तु प्रकृतिर्व्यापत्स्यन्ति प्रजा भृशम्।
अनृतोपहताः सर्वा धर्मतः कामतोऽर्थतः ॥ ३७.४१८ ॥

श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा।
शङ्करं दुर्बलात्मानः प्रतिपत्स्यन्ति मोहिताः ॥ ३७.४१९ ॥

संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः।
ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ॥ ३७.४२० ॥

उपस्थास्यन्ति तान् विप्रास्तदा वै वृत्तिलिप्सवः ।
लवं लवं भ्रस्यमानाः प्रजाः सर्वाः क्रमेण तु ॥ ३७.४२१ ॥

क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये।
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा दिने ॥ ३७.४२२ ॥

प्रतिपन्नः कलियुगस्तस्य सङ्ख्यां निबोधत।
सहस्राणां शतानीह त्रीणि मानुषसङ्ख्यया।
षष्टिं चैव सहस्राणि वर्षाणामुच्यते कलिः ॥ ३७.४२३ ॥

दिव्ये वर्षसहस्रन्तु तत्सन्ध्यांशं प्रकीर्त्तितम्।
निःशेषे च तदा तस्मिन् कृतं वै प्रतिपत्स्यते ॥ ३७.४२४ ॥

ऐल इक्ष्वाकुवंशश्च सह भेदैः प्रकीर्त्तितौ।
इक्ष्वाकोस्तु स्मृतः क्षत्रः सुमित्रान्तं विवस्वतः ॥ ३७.४२५ ॥

ऐलं क्षत्रं क्षेमकान्तं सोमवंशविदो विदुः।
एते विवस्वतः पुत्राः कीर्त्तिताः कीर्त्तिवर्द्धनाः ॥ ३७.४२६ ॥

अतीता वर्त्तमानाश्च तथैवानागताश्च ये।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्वये स्मृताः ॥ ३७.४२७ ॥

युगे युगे महात्मानः समतीताः सहस्रशः।
बहुत्वान्नामधेयानां परिसङ्ख्या कुले कुले ॥ ३७.४२८ ॥

पुनरुक्ता बहुत्वाच्च न मया परिकीर्त्तिता।
वैवस्वतेऽन्तरे ह्यस्मिन् निमिवंशः समाप्यते ॥ ३७.४२९ ॥

एवायान्तु युगाख्यायां यतः क्षत्रं प्रपत्स्यते ।
तथा हि कथयिष्यामि गदतो मे निबोधत ॥ ३७.४३० ॥

देवापिः पौरवो राजा इक्ष्वाकोश्चैव यो मतः।
महायोगबलोपेतः कलापग्राममास्थितः ॥ ३७.४३१ ॥

सुवर्च्चाः सोमपुत्रस्तु इक्ष्वाकोस्तु भविष्यति।
एतौ क्षत्रप्रणेतारौ चतुर्विंशे चतुर्युगे ॥ ३७.४३२ ॥

न च विंशे युगे सोमवंशस्यादिर्भविष्यति।
देवापिरसपत्नस्तु ऐलादिर्भविता नृपः ॥ ३७.४३३ ॥

क्षत्रप्रापर्त्तकौ ह्येतौ भविष्येते चतुर्युगे।
एवं सर्वत्र विज्ञेयं सन्तानार्थे तु लक्षणम् ॥ ३७.४३४ ॥

क्षीणे कलियुगे तस्मिन् भविष्ये तु कृते युगे।
सप्तर्षिभिस्तु तैः सार्द्धमाद्ये त्रेतायुगे पुनः ॥ ३७.४३५ ॥

गोत्राणां क्षत्रियाणाञ्च भविष्येते प्रवर्त्तकौ।
द्वापरांशे न तिष्ठन्ति क्षत्रिया ऋषिभिः सह ॥ ३७.४३६ ॥

काले कृतयुगे चैव क्षीणे त्रेतायुगे पुनः।
बीजार्थन्ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ॥ ३७.४३७ ॥

एवमेव तु सर्वेषु तिष्ठन्तीहान्तरेषु वै ।
सप्तर्षयो नृपैः सार्द्धं सन्तानार्थं युगे युगे ॥ ३७.४३८ ॥

क्षत्रस्यैव समुच्छेदः सम्बन्धो वै द्विजैः स्मृतः।
मन्वन्तराणां सप्तानां सन्तानाश्च श्रुताश्च ते ॥ ३७.४३९ ॥

परम्परा युगानाञ्च ब्रह्मक्षत्रस्य चोद्भवः।
यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ॥ ३७.४४० ॥

सप्तर्षयो विदुस्तेषां दीर्घायुष्ट्वाक्षयन्तु ते।
एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः ॥ ३७.४४१ ॥

उत्पद्यमानास्त्रेतायां क्षीयमाणे कलौ पुनः।
अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः ॥ ३७.४४२ ॥

जामदग्न्येन रामेण क्षत्रे निरवशेषिते।
कृते वंशकुलाः सर्वाः क्षत्रियैर्वसुधाधिपैः।
द्विवंशकरणाश्चैव कीर्त्तयिष्ये निबोधत ॥ ३७.४४३ ॥

ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते।
राजानः श्रेणिबद्धास्तु तथान्ये क्षत्रिया नृपाः ॥ ३७.४४४ ॥

ऐलवंशस्य ये ख्यातास्तथैवैक्ष्वाकवा नृपाः ।
तेषामेकशतं पूर्णं कुलानामभिषेकिनाम् ॥ ३७.४४५ ॥

तावदेव तु भोजानां विस्तारो द्विगुणः स्मृतः ।
भजते त्रिंशकं क्षत्रं चतुर्धा तद्यथादिशम् ॥ ३७.४४६ ॥

तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत।
शतं वै प्रतिविन्ध्यानां शतं नागाः शतं हयाः ॥ ३७.४४७ ॥

धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः।
शतञ्च ब्रह्मदत्तानां शीरिणां वीरिणां शतम् ॥ ३७.४४८ ॥

ततः शतं पुरोमानां श्वेतकाशकुशादयः ।
ततोऽपरे सहस्रं वै येऽतीताः शतबिन्दवः ॥ ३७.४४९ ॥

ईजिरे चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः ।
एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः ॥ ३७.४५० ॥

मनोर्वैवस्वतस्यास्मिन् वर्त्तमानेऽन्तरे तु ये ।
तेषां निबोधतोत्पन्ना लोके सन्ततयः स्मृताः ॥ ३७.४५१ ॥

नु शक्यं विस्तरं तेषां सन्तानानां परम्परा।
तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ॥ ३७.४५२ ॥

अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेऽन्तरे।
एता राजर्षिभिः सार्द्धं शिष्टा यास्ता निबोधत ॥ ३७.४५३ ॥

चत्वारिंशच्च ये चैव भविष्याः सह राजभिः।
युगाख्यानां विशिष्टास्तु ततो वैवस्वतक्षये ॥ ३७.४५४ ॥

एतद्वः कथितं सर्वं समासव्यासयोगतः।
पुनरुक्तं बहुत्वाच्च न शक्यन्तु युगैः सह ॥ ३७.४५५ ॥

एते ययातिपुत्राणां पञ्चविंशा विशां हिताः।
कीर्त्तिताश्चामिता ये मे लोकान् वै धारयन्त्युत ॥ ३७.४५६ ॥

लभते च वरेण्यञ्च दुर्लभानिह लौकिकान्।
आयुः कीर्त्तिं धनं पुत्रान् स्वर्गं चानन्त्यमश्नुते ॥ ३७.४५७ ॥

धारणाच्छ्रवणाच्चैव ते लोकान् धारयन्त्युत।
इत्येष वो मयो पादस्तृतीयः कथितो द्विजाः।
विस्तरेणानुपूर्वी च किम्भूयो वर्त्तयाम्यहम् ॥ ३७.४५८ ॥

इति श्रीमहापुराणे वायुप्रोक्ते अनुषङ्गपादो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ इत्यनुषङ्गपादः ॥*