सूत उवाच॥
विश्वास-प्रस्तुतिः
एवमाराध्य देवेशमीशानं नीललोहितम्।
ब्रह्मेति प्रणतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ॥ ३६.१ ॥
मूलम्

काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान् भवः।
निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥ ३६.२ ॥

ततः सोऽन्तर्हिते तस्मिन् देवेशानुचरे तदा।
तिष्ठन्तीं प्राञ्जलिर्भूत्वा जयन्तीमिदमब्रवीत् ॥ ३६.३ ॥

कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता।
महता तपसा युक्तं किमर्थं माञ्जुगोपसि ॥ ३६.४ ॥

अनया सततं भक्त्या प्रश्रयेण दमेन च।
स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥ ३६.५ ॥

किमिच्छसि वरारेहे कस्ते कामः समृध्यताम्।
तं ते सम्पूरयाम्यद्य यद्यपि स्यात् सुदुर्लभम् ॥ ३६.६ ॥

एवमुक्ताऽऽब्रवीदनं तपसा ज्ञातुमर्हसि।
चिकीर्षितं मे ब्रह्निष्ठत्वं हि वेत्थ यथातथम् ॥ ३६.७ ॥

एवमुक्तेऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा।
माहेन्द्री त्वं वरारोहे मद्धितार्थमिहागता ॥ ३६.८ ॥

मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि।
अदृश्यं सर्वभूतैस्तु सम्प्रयोगमिहेच्छसि ॥ ३६.९ ॥

देवेन्द्रानलवर्णाभे वरारोहे सुलोचने।
इमं वृणीष्व कामं ते मत्तो वै वल्गुभाषिणि ॥ ३६.१० ॥

एवं भवतु गच्छामो गृहान् वै मत्तकाशिनि ।
ततः स्वगृहमागम्य जयन्त्या सहितः प्रभुः ॥ ३६.११ ॥

स तया सं व सद्देव्या दश वर्षाणि भागशः।
अदृश्यः सर्वभूतानां मायया संवृतस्तदा ॥ ३६.१२ ॥

कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः ।
अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ॥ ३६.१३ ॥

गता यदा न पश्यन्तो जयन्त्या संवृतं गुरुम्।
दाक्षिण्यं तस्य तद्बुध्वा प्रतिजग्मुर्यथागतम् ॥ ३६.१४ ॥

बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं चकार ह।
पित्रर्थे दश वर्षाणि जयन्त्या हितकाम्यया ॥ ३६.१५ ॥

बुद्ध्वा तदन्तरं सोऽथ दैत्यानामिव चोदितः।
काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ॥ ३६.१६ ॥

ततः समागतान् दृष्ट्वा बृहस्पतिरुवाच तान्।
स्वागतं मम याज्यानां सम्प्राप्तोऽस्मि हिताय च ॥ ३६.१७ ॥

अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि सा।
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ ३६.१८ ॥

पूर्णकामस्तदा तस्मिन् समये दशवार्षिके।
ययौ च समकालं स सद्योत्पन्नमतिस्तदा ॥ ३६.१९ ॥

समयान्ते देवयानी सद्यो जाता सुता तदा।
बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ॥ ३६.२० ॥

॥शुक्र उवाच॥
विश्वास-प्रस्तुतिः
देवि गच्छामहे द्रष्टुं तव याज्यान् शुचिस्मिते।
विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ॥ ३६.२१ ॥

एवमुक्ताऽब्रवीद्देवी भज भक्तान् महाव्रत।
एष ब्रह्मन् सतां धर्मो न धर्मं लोपयामि ते ॥ ३६.२२ ॥

॥सूत उवाच॥
विश्वास-प्रस्तुतिः
ततो गत्वासुरान् दृष्ट्वा देवाचार्येण धीमता।
वाञ्चितान् काव्यरूपेण वेधसाऽसुरमब्रवीत् ॥ ३६.२३ ॥

काव्यं मां तात जानीध्वं एष ह्याङ्गिरसो भुवि।
वञ्चिता बत यूयं वै मयि शक्ते तु दानवाः ॥ ३६.२४ ॥

श्रुत्वा तथा ब्रुवाणन्तं सम्भ्रान्ता दितिजास्ततः।
प्रेक्षन्ते स्म ह्युभौ तत्र सितासितशुचिस्मितौ ॥ ३६.२५ ॥

सम्प्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन।
ततस्तेषु प्रमूढेषु काव्यस्तान् पुनरब्रवीत् ॥ ३६.२६ ॥

आचार्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः।
अनुगच्छत मां सर्वे त्यजतैनं बृहस्पतिम् ॥ ३६.२७ ॥

एवमुक्तासुराः सर्वे तावृभौ समवैक्षत।
तदाऽसुरा विशेषन्तु न व्यजानंस्तयोर्द्वयोः ॥ ३६.२८ ॥

बृहस्पतिरुवाचैतानसम्भ्रान्तोऽयमङ्गिराः।
काव्योऽहं यो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ॥ ३६.२९ ॥

स मोहयति रूपेण मामकेनैष वोऽसुराः।
श्रुत्वा तस्य ततस्ते वै सम्मन्त्र्यार्थवचोऽब्रुवन् ॥ ३६.३० ॥

अयन्नो दश वर्षाणि सततं शास्ति वै प्रभुः।
एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ॥ ३६.३१ ॥

ततस्ते दानवाः सर्वे प्रणिपत्याभिवाद्य च।
वचनं जगृहुस्तस्य चिराभ्यासेन मोहिताः ॥ ३६.३२ ॥

ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः.
अयङ्गुरुर्हितेऽस्माकं गच्छ त्वं नासि नो गुरुः ॥ ३६.३३ ॥
विश्वास-प्रस्तुतिः
भार्गवोऽङ्गिरसो वायं भवत्वेवैष नोगुरुः।
स्थिता वयं निदेशेऽस्य गच्छत्वं साधु मा चिरम् ॥ ३६.३४ ॥

एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम्।
यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ॥ ३६.३५ ॥

चुकोप भार्गवस्तेषामवलेपेन वै तदा।
बोधिता हि मया यस्मान्न मां भजत दानवाः ॥ ३६.३६ ॥

तस्मात् प्रनष्ट सञ्ज्ञां वै पराभवङ्गमिष्यथ।
इदि व्याहृत्य तान् काव्यो जगामाथ यथागतम् ॥ ३६.३७ ॥

ज्ञात्वाऽभिशस्तानसुरान् काव्येन तु बृहस्पतिः।
कृतार्थः स तदा हृष्टः स्वं रूपं प्रत्यपद्यत।
बुद्ध्वाऽसुरांस्तदा भ्रष्टान् कृतार्थोऽन्तरधीयत ॥ ३६.३८ ॥

ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा।
अहो धिग् वञ्चिताः स्मेह परस्परमथाब्रुवन् ॥ ३६.३९ ॥

पृष्ठतो विमुखाश्चैव ताडिता वेधसा वयम्।
दग्धाश्चैवोपयोगाच्च स्वेस्वे चार्थेषु मायया ॥ ३६.४० ॥

ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः।
प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ॥ ३६.४१ ॥

ततः काव्यं समासाद्य अभितस्थु रवाङ्मुखाः।
तानागतान् पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ ३६.४२ ॥

मयापि बोधिताः काले यतो मां नाभिनन्दथ।
ततस्तेनावलेपेन गता यूथं पराभवम् ॥ ३६.४३ ॥

प्रह्लादस्तमथोवाच मानं त्वं त्यज भार्गव।
स्वान् याज्यान् भजमानांश्च भक्तांश्चैव विशेषतः ॥ ३६.४४ ॥

त्वया पृष्टा वयं तेन देवाचार्येण मोहिताः।
भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ॥ ३६.४५ ॥

यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन।
अपध्याता स्त्वया ह्यद्य प्रवेक्ष्यामो रसातलम् ॥ ३६.४६ ॥

ज्ञात्वा काव्यो यथातत्त्वं कारुण्येनानुकम्पया ।
एवमुक्तोऽनुनीतः स स्तुतः कोपं न्ययच्छत ॥ ३६.४७ ॥

उवाचेदन्न भेतव्यं न गन्तन्यं रसातलम्।
अवश्यम्भावी ह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ॥ ३६.४८ ॥

न शक्यमन्यथा कर्तुं दृष्टं हि बलवत्तरम् ।
सञ्ज्ञा प्रनष्टा या वोऽद्य कामं तां प्रतिलप्स्यथ ॥ ३६.४९ ॥

प्राप्तः पर्यायकालो व इति ब्रह्माऽभ्यभाषत।
मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्ज्जितम् ॥ ३६.५० ॥

युगाख्यो दश सम्पूर्णो देवानाक्रम्य मूर्द्धनि।
तावन्तमेव कालं वै ब्रह्मा राज्यमभाषत ॥ ३६.५१ ॥

सावर्णिके पुनस्तुभ्यं राज्यं किल भविष्यति।
लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ॥ ३६.५२ ॥

एवं किलमहं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम्।
तथाहृतेषु लोकेषु तपोऽस्य न किलाभवत् ॥ ३६.५३ ॥

यस्मात् प्रवृत्तयश्चास्य न कामानभिसन्धिताः।
तस्मादजेन प्रीतेन दत्तं सावर्णिकेऽन्तरे ॥ ३६.५४ ॥

देवराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत्।
तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ॥ ३६.५५ ॥

प्रीतेन चामरत्वं वै दत्तं तुब्यं स्वयम्भुवा।
तस्मान्निरुत्सु कस्त्वं वै पर्यायं सह माकुलः ॥ ३६.५६ ॥

न च शक्यं मया तुभ्यं पुरस्ताद्वै विसर्पितुम् ।
ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ॥ ३६.५७ ॥

इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः ।
दैवतैः सह संरब्धान् सर्वान् वो धारयिष्यतः ॥ ३६.५८ ॥

एवमुक्तस्तु दैतेयाः काव्येनाक्लिष्टकर्मणा।
ततस्ताभ्यां ययुः सार्द्धं प्रह्लादप्रमुखास्तदा ॥ ३६.५९ ॥

अवश्यम्भावमर्थत्वं श्रुत्वा शुक्राच्च दानवाः।
सकृदाशंसमानास्ते जयं काव्येन भाषितम् ॥ ३६.६० ॥

दंशिताः सायुधाः सर्वे ततो देवान् समाह्वयन्।
अथ देवासुरान् दृष्ट्वा सङ्ग्रामे समुपस्थितान् ॥ ३६.६१ ॥

ततः संवृत्तसन्नाहा देवास्तान् समयोधयन्।
दैवासुरे ततस्तस्मिन् वर्त्तमाने शतं समाः।
अजयन्नसुरा देवान् भग्ना देवा अमन्त्रयन् ॥ ३६.६२ ॥

॥देवा ऊचुः ॥
विश्वास-प्रस्तुतिः
षण्डामार्कप्रभावं न जानीमस्त्व सुरैर्वयम्।
तस्माद्यज्ञं समुद्दिश्य कार्यं चात्महितञ्च यत् ॥ ३६.६३ ॥

तज्ज्ञानापहृतावेतौ कृत्वा जेष्यामहेऽसुरान् ।
अथोपामन्त्रयन् देवाः षण्डामार्कौ तु तावुभौ ॥ ३६.६४ ॥

यज्ञे समाह्वयिष्यामस्त्यजतमसुरान् द्विजौ ।
ग्रहं तं वा ग्रहीष्यामो ह्यनुजित्य तु दानवान् ॥ ३६.६५ ॥

एवं तत्यजतुस्तौ तु षण्डामार्कौ तदासुरान् ।
ततो देवा जयं प्राप्ता दानवाश्च पराभवम् ॥ ३६.६६ ॥

देवासुरान् पराभाव्य षण्डामार्कावुपागमन्।
काव्यशापाभिभूताश्च ह्यनाधाराश्च ते पुनः ॥ ३६.६७ ॥

वध्यमानास्तदा देवैर्विविशुस्ते रसातलम्।
एवं निरुद्यमास्ते वै कृताः शक्रेण दानवाः।
ततः प्रभृति शापेन भृगुनैमित्तिकेन च ॥ ३६.६८ ॥

जज्ञे पुनः पुनर्विष्णुर्यज्ञे च शिथिले प्रभुः।
कर्त्तुं धर्मव्यवस्थानमधर्मस्य च नाशनम् ॥ ३६.६९ ॥

प्रह्लादस्य निदेशे तु येऽसुरा न व्यवस्थिताः।
मनुष्यवध्यांस्तान् सर्वान् ब्रह्मा व्याहारयत् प्रभुः ॥ ३६.७० ॥

धर्मान्नारायणस्तस्मान् सम्भूतश्चाक्षुषेऽन्तरे।
यज्ञं प्रवर्तयामास चैत्ये वैवस्वतेऽन्तरे ॥ ३६.७१ ॥

प्रादुर्भावे तदान्यस्य ब्रह्मैवासीत् पुरोहितः।
चतुर्थ्यान्तु युगाख्यायामापन्नेष्वसुरेष्वथ ॥ ३६.७२ ॥

सम्भूतः स समुद्रान्तर्हिरण्यकशिपोर्वधे।
द्वितीयो नरसिङ्ङोऽभूद्रुद्रः सुरपुरस्सरः ॥ ३६.७३ ॥

बलिसंस्थेषु लोकेषु त्रेतायां सप्तमे युगे।
दैत्यैस्त्रैलोक्य आक्रान्ते तृतीयो वामनोऽभवत् ॥ ३६.७४ ॥

सङ्क्षिप्यात्मानमङ्गेषु बृहस्पतिपुरस्सरम्।
यजमानन्तु दैत्येन्द्रमदित्याः कुलनन्दनः।
द्विजो भूत्वा शुभे काले बलिं वैरोचनम्पुरा ॥ ३६.७५ ॥

त्रैलोक्यस्य भवान् राजा त्वयि सर्वं प्रतिष्ठितम्।
दातुमर्हसि मे राजन् विक्रमांस्त्रीनिति प्रभुः ॥ ३६.७६ ॥

ददामीत्येव तं राजा बलिर्वैरोचनोऽब्रवीत्।
वामनन्तं च विज्ञाय ततोऽनुमुदितः स्वयम् ॥ ३६.७७ ॥

स वामनो दिवं खं च पृथिवीं च द्विजोत्तमाः।
त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ॥ ३६.७८ ॥

अत्यरिच्यत भूतात्मा भास्करं स्वेन तेजसा।
प्रकाशयन् दिशः सर्वाः प्रदिशश्च महायशाः ॥ ३६.७९ ॥

शुशुभे स महाबाहुः सर्वलोकान् प्रकाशयन्।
आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्दनः।
सपुत्रपौत्रानसुरान् पातालतलमानयत् ॥ ३६.८० ॥

नमुचिः शम्बरश्चैव प्रह्लादश्चैव विष्णुना।
क्रूरा हता विनिर्द्धूता दिशः सम्प्रतिपेदिरे ॥ ३६.८१ ॥

महाभूतानि भूतात्मा सविशेषाणि माधवः।
कालञ्च सकलं विप्रांस्तत्राद्भुतमदर्शयत् ॥ ३६.८२ ॥

तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति ।
न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना ॥ ३६.८३ ॥

तद्वै रूपमुपेन्द्रस्य देवदानवमानवाः।
दृष्ट्वा सम्मुमुहुः सर्वे विष्णुतेजोविमोहिताः ॥ ३६.८४ ॥

बलिः सिलो महापाशैः सबन्धुः ससुहृद्गणः।
विरोचन कुलं सर्वं पाताले सन्निवेशितम् ॥ ३६.८५ ॥

ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने।
मानुषेषु महाबाहुः प्रादुरासीज्जनार्दनः ॥ ३६.८६ ॥

एतास्तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयः शुभाः।
मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत ॥ ३६.८७ ॥

त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह।
नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ॥ ३६.८८ ॥

पञ्चमः पञ्चदश्यां तु त्रेतायां सम्बभूव ह।
मान्धातुश्चक्रवर्त्तित्वे तस्थौ तथ्यपुरःसरः ॥ ३६.८९ ॥

एको नविंशे त्रेतायां सर्वक्षत्रान्तकोऽभवत्।
जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥ ३६.९० ॥

चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा।
सप्तमो राव णस्यार्थे जज्ञे दशरथात्मजः ॥ ३६.९१ ॥

अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् ।
वेदव्यासस्ततो जज्ञे जातूकर्णपुरःसरः ॥ ३६.९२ ॥

तथैव नवमो विष्णुरदित्याः कश्यपात्मजः।
देवक्यां वसुदेवात्तु ब्रह्नगार्ग्यपुरःसरः ॥ ३६.९३ ॥

अप्रमेयो नियोज्यश्च यत्र कामचरो वशी।
क्रीजते भगवाँ ल्लोके बालः क्रीजनकैरिव ॥ ३६.९४ ॥

न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः।
परं परममेतस्माद्विश्वरूपान्न विद्यते ॥ ३६.९५ ॥

अष्टाविंश तिमे तद्वद्द्वापरस्यांशसङ्क्षये।
नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ॥ ३६.९६ ॥

कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्।
मोहयन् सर्वभूतानि योगात्मा योगमायया ॥ ३६.९७ ॥

प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम्।
विहारार्थं मनुष्येषु सान्दीपनिपुरःसरम् ॥ ३६.९८ ॥

यत्र कंसञ्च शाल्वञ्च द्विविदञ्च महासुरम्।
अरिष्टं वृषभञ्चैव पूतनां केशिनं हयम् ॥ ३६.९९ ॥

नागं कुवलयापीडं मल्लराजगृहाधिपम्।
दैत्यान् मानुषदेहस्थान् सूदयामास वीर्यवान् ॥ ३६.१०० ॥

छिन्नं बाहुसहस्रञ्च बाणस्याद्भुतकर्मणः ।
नरकश्च हतः सङ्खये यवनश्च महाबलः ॥ ३६.१०१ ॥

हृतानि च महीपानां सर्वरत्नानि तेजसा।
दुराचारा श्च निहताः पार्थिवा ये रसातले ॥ ३६.१०२ ॥

एते लोकहितार्थाय प्रादुर्भावा महात्मनः।
अस्मिन्नेव युगे क्षीणे सन्ध्या श्लिष्टे भविष्यति ॥ ३६.१०३ ॥

कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान्।
दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः ॥ ३६.१०४ ॥

अनुकर्षन् सर्वसेनां हस्त्यश्वरथसङ्कुलाम्।
प्रगृहीतायुधौर्विप्रैर्वृतः शतसहस्रशः ॥ ३६.१०५ ॥

नात्यर्थं धार्मिका ये च ये च धर्मद्विषः व्कचित्।
ईदीच्यान्मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् ॥ ३६.१०६ ॥

तथैव दाक्षिणात्यांश्च द्रविजान् सिंहलैः सह।
गान्धारान् पारदांश्चैव पह्लवान् यवनाञ्छकान् ॥ ३६.१०७ ॥

तुषारान् बर्बरांश्चैव पुलिन्दान् दरदान् खसान् ।
लम्पाकानन्धकान् रुद्रान् किरातांश्चैव स प्रभुः ॥ ३६.१०८ ॥

प्रवृत्तचक्रोबलवान् म्लेच्छानामन्तकृद्बली।
अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ॥ ३६.१०९ ॥

मानवः स तु सञ्जज्ञे देवस्यांशेन धीमतः ।
पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ॥ ३६.११० ॥

गात्रेण वै चन्द्रसमः पूर्णे कलियुगेऽभवत्।
इत्येतास्तस्य देवस्य दश सम्भूतयः स्मृताः ॥ ३६.१११ ॥

तं तं कालञ्च कार्यञ्च तत्तदुद्दिश्य कारणम्।
अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ॥ ३६.११२ ॥

पञ्चविंशोत्थिते कल्पे पञ्चविंशति वै समाः।
विनिघ्नन् सर्वभूतानि मानुषानेव सर्वशः ॥ ३६.११३ ॥

कृत्वा बीजावशेषान्तु महीं क्रूरेण कर्मणा।
संशातयित्वा वृषलान् प्रायशस्तानधार्मिकान् ॥ ३६.११४ ॥

ततः स वै तदा कल्किश्चरितार्थः ससैनिकः।
कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ॥ ३६.११५ ॥

अकस्मात् कुपितान्योन्यं भविष्यन्ति च मोहिताः ।
क्षपयित्वा तु तान् सर्वान् बाविनार्थेन चोदितान् ॥ ३६.११६ ॥

गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः।
ततो व्यतीते कल्कौ तु सामान्यैः सह सैनिकैः ॥ ३६.११७ ॥

नृपेष्वथ विनष्टेषु तदा त्वप्रग्रहाः प्रजाः।
रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ॥ ३६.११८ ॥

परस्परहृताश्वासा निराक्रन्दाः सुदुःखिताः।
पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ॥ ३६.११९ ॥

प्रनष्टश्रुतिधर्माश्च नष्टधर्माश्रमास्तथा।
ह्रस्वा अल्पायुषश्चैव वनौकस इमे स्मृताः ॥ ३६.१२० ॥

सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः।
चीर पत्राजिनधराः सङ्करं घोरमास्थिताः ॥ ३६.१२१ ॥

अल्पायुषो नष्टवार्त्ता बह्वाबाधाः सुदुःखिताः।
एवं कष्टमनुप्राप्ताः कलिसन्ध्यंशके तदा ॥ ३६.१२२ ॥

प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु ।
क्षीणे कलियुगे तस्मिन् प्रवृत्ते च कृते पुनः ॥ ३६.१२३ ॥

प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यता।
इत्येतत् कीर्तितं सर्वं देवासुरविचेष्टितम् ॥ ३६.१२४ ॥

यदुवंशप्रसङ्गेन महद्वो वैष्णवं यशः ।
तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योरनोस्तथा ॥ ३६.१२५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्यकथनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥*