०३५

विश्वास-प्रस्तुतिः

मनुष्यप्रकृतीन् देवान् कीर्त्यमानान्निबोधत ।
सङ्कर्षणो वासुदेवः प्रद्युम्नः साम्ब एव च ॥ ३५.१ ॥

मूलम्

अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्त्तिताः।
सप्तर्षयः कुबेरश्च यक्षो मणिवरस्तथा ॥ ३५.२ ॥

शालकी बदरश्चैव विद्वान् धन्वन्तरिस्तथा।
नन्दिनश्च महादेवः शालङ्कायन उच्यते।
आदिदेवस्तदा जिष्णुरेभिश्च सह दैवतैः ॥ ३५.३ ॥

॥ऋषय ऊचुः ॥
विश्वास-प्रस्तुतिः

विष्णुः किमर्थं सम्भूतः स्मृताः सम्भूतयः कति।
भविष्याः कति वान्ये तु प्रादुर्भावा महात्मनः ॥ ३५.४ ॥

ब्रह्मक्षेत्रे युगान्तेषु किमर्थमिह जायते ।
पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥ ३५.५ ॥

विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः।
श्रोतुमिच्छामहे सम्यग् देहैः कृष्णस्य धीमतः ॥ ३५.६ ॥

कर्मणामानुपूर्व्यञ्च प्रादुर्भावाश्च ये प्रभो ।
या चास्य प्रकृतिः सूत ताश्चास्मान् वक्तुमर्हसि ॥ ३५.७ ॥

कथं स भगवान् विष्णुः सुरेष्वरिनिषूदनः।
वसुदेवकुले धीमान् वासुदेवत्वमागतः ॥ ३५.८ ॥

अमरैः सूत किं पुण्यं पुण्यकृद्भिरलङ्कृतम्।
देवलोकं समुत्सृज्य मर्त्यलोकमिहागतः ॥ ३५.९ ॥

देवमानुषयोर्नेता भूर्भुवःप्रसवो हरिः।
किमर्थं दिव्यमात्मानं मानुषे समवेशयत् ॥ ३५.१० ॥

यश्चक्रं वर्तयत्येको मनुष्याणां मनोमयम्।
मनुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ॥ ३५.११ ॥

गोपायनं यः कुरुते जगतां सार्वलौकिकम्।
स कथं गां गतो विष्णुर्गोपमन्वकरोत्प्रभुः ॥ ३५.१२ ॥

महाभूतानि भूतात्मा यो ददार चकार ह।
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ॥ ३५.१३ ॥

येन लोकान् क्रमैर्जित्त्वा त्रिभिस्त्रींस्त्रिदशेप्सया।
स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ॥ ३५.१४ ॥

योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः।
लोकमेकार्णवं चक्रे दृश्यादृश्येन वर्त्मना ॥ ३५.१५ ॥

यः पुराणे पुराणात्मा वाराहं वपुरास्थितः।
ददौ जित्त्वा वसुमतीं सुराणां सुरसत्तमः ॥ ३५.१६ ॥

येन सैंहं वपुः कृत्वा द्विधाकृत्वा च यत्पुनः।
पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः ॥ ३५.१७ ॥

यः पुरा ह्यनलो भूत्वा और्वः संवर्त्तको विभुः।
पातालस्थोऽर्णवगतः पपौ तोयमयं हविः ॥ ३५.१८ ॥

सहस्रचरणं देवं सहस्रांशुं सहस्रशः।
सहस्रशिरसं देवं यमाहुर्वै युगे युगे ॥ ३५.१९ ॥

नाभ्यारण्याः समुद्भूतं यस्य पैतामहं गृहम्।
एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ॥ ३५.२० ॥

येन ते निहता दैत्याः सङ्ग्रामे तारकामये।
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः ॥ ३५.२१ ॥

गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः।
उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः।
यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ ३५.२२ ॥

पुराणी गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरा यम्।
शक्रञ्च यो दैत्यगणावरुद्धं गर्भावमानेन भृशं चकार ॥ ३५.२३ ॥

यदानिलो लोकपदानि हृत्वा चकार दैत्यान् सलिलेशयांस्तान् ।
कृत्वादिदेवस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव ॥ ३५.२४ ॥

गार्हपत्येन विधिना अन्वाहार्येण कर्मणा।
अग्निमाहवनीयञ्च वेदिञ्चैव कुशस्रवम् ॥ ३५.२५ ॥

प्रोक्षणीयं स्रुवञ्चैव अवभृथं तथैव च।
अथ त्रीनिह यश्चक्रे हव्यभाग प्रदान्मखे ॥ ३५.२६ ॥

हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि।
भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि ॥ ३५.२७ ॥

यूपान् समित्स्रुवं सोमं पवित्रं परिधीनपि।
यज्ञियानि च द्रव्याणि यज्ञीयांश्च तथानलान् ॥ ३५.२८ ॥

सदस्यान् यजमानांश्च अश्वमेधान् क्रतूत्तमान्।
विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्मणा ॥ ३५.२९ ॥

युगानुरूपं यः कृत्वा त्रील्लोँकान् हि यथाक्रमम्।
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकालमेव च ॥ ३५.३० ॥

मुहूर्त्तास्तिथयो मासा दिनसंवत्सरास्तथा।
ऋतवः कालयोगाश्च प्रमाणं त्रिविधन्तथा ॥ ३५.३१ ॥

आयुः क्षेत्राण्युपचयं लक्षणं रूपसौष्ठवम्।
मेधा वित्तं च शौर्यञ्च शास्त्रस्यैव च पारणम् ॥ ३५.३२ ॥

त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः।
त्रैकाल्यं त्रीणि कर्माणि तिस्रो मायास्त्रयो गुणाः ॥ ३५.३३ ॥

सृष्टा लोकाः सुराश्चैव येनात्यन्तेन कर्मणा।
सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना ॥ ३५.३४ ॥

नृणामिन्द्रियपूर्वेण योगेन रमते च यः ।
गतागतानां यो नेता सर्वत्र विविधेश्वरः ॥ ३५.३५ ॥

यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम्।
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ ३५.३६ ॥

चातुर्विद्यस्य यो वेत्ता चतुराश्रमसंश्रयः।
दिगन्तरं नभो भूमिरापो वायुर्विभावसुः ॥ ३५.३७ ॥

चन्द्रसूर्यद्वयं ज्योतिर्युगेशः क्षणदाचरः।
यः परः श्रूयते देवो यः परं श्रूयते तपः ॥ ३५.३८ ॥

यः परन्तपसः प्राहुर्यः परम्परमात्मवान्।
आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः ॥ ३५.३९ ॥

युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः।
सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ ३५.४० ॥

वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम्।
सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् ॥ ३५.४१ ॥

मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम् ।
विनयो नयतृप्तानां तेजस्तेजस्विनामपि ॥ ३५.४२ ॥

विग्रहो विग्रहाणां यो गतिर्गतिमतामपि।
आकाश प्रभवो वायुर्वायुप्राणा हुताशनः ॥ ३५.४३ ॥

दिवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः।
रसोऽभवच्छोणितं वै शोणितान्मांसमुच्यते ॥ ३५.४४ ॥

मांसात्तु मेदसो जन्म मेदसोऽस्थि निरूप्यते।
अस्थ्ना मज्जा समभवन्मज्जातः शुक्रसम्भवः ॥ ३५.४५ ॥

शुक्राद्घर्भः समभवद्रसमूलेन कर्मणा।
तत्रापि प्रथमञ्चापस्ताः सौम्यराशिरुच्यते ॥ ३५.४६ ॥

गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिरुच्यते।
शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम् ॥ ३५.४७ ॥

भावौ रसानुगावेतौ वीर्ये च शशिपावकौ।
कफवर्गेऽभवच्छुक्रं पित्तवर्गे च शोणितम् ॥ ३५.४८ ॥

कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम्।
देहस्य मध्ये हृदयं स्थानन्तु मनसः स्मृतम् ॥ ३५.४९ ॥

नाबिकोष्ठान्तरं यत्तु तत्र देवो हुताशनः।
मनः प्रजापतिर्ज्ञेयं कफः सोमो विभाव्यते ॥ ३५.५० ॥

पित्तमग्निः स्मृतावेतावग्निसोमात्मकं जगत्।
एवं प्रवर्त्तितो गर्भो वर्त्ततेऽम्बुदसन्निभः ॥ ३५.५१ ॥

वायुः प्रवेशनं चक्रे सङ्गतः परमात्मना।
स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत् पुनः ॥ ३५.५२ ॥

प्राणापानौ समानश्च उदानो व्यान एव च।
प्राणोऽस्य परमात्मानं वर्द्धयन् परिवर्त्तते ॥ ३५.५३ ॥

अपानः पश्चिमं कायमुदानोर्ध्वशरीरगः।
व्यानो व्यानस्यते येन समानः सर्वसन्धिषु ॥ ३५.५४ ॥

भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ३५.५५ ॥

सर्वेन्द्रिया निविष्टास्तं स्वं स्वं योगं प्रचक्रिरे।
पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ॥ ३५.५६ ॥

छिद्राण्याकाशयोनीनि जलास्रावं प्रवर्त्तते ।
तेजश्चक्षुःष्विता ज्योत्स्ना तेषां यन्नामतः स्मृतम्।
सङ्ग्रामा विषयाश्चैव यस्य वीर्यात्प्रवर्त्तिताः ॥ ३५.५७ ॥

इत्येतान् पुरुषः सर्वान् सृजल्ँलोकान् सनातनः।
नैधनेऽस्मिन् कथं लोके नरत्वं विष्णुरागतः ॥ ३५.५८ ॥

एष नः संशयो धीमन्नेष वै विस्मयो महान् ।
कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् ॥ ३५.५९ ॥

श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम्।
आश्चर्याणि परं विष्णुर्वेददेवैश्च कथ्यते ॥ ३५.६० ॥

विष्णोरुत्पत्तिमाश्चर्यं कथयस्व महामते।
एतदाश्चर्यमाख्यानं कथ्यतां वै सुखावहम् ॥ ३५.६१ ॥

प्रख्यातबलवीर्यस्य प्रादुर्भावा महात्मनः।
कर्मणाश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ॥ ३५.६२ ॥

॥सूत उवाच॥
विश्वास-प्रस्तुतिः

अहञ्च कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः।
यथा स भगवाञ्जातो मानुषेषु महातपाः ॥ ३५.६३ ॥

सप्तसप्ततपः प्रोक्ता भृगुशापेन मानुषे।
जायते च युगान्तेषु देवकार्यर्थसिद्धये ॥ ३५.६४ ॥

तस्य दिव्यतनुं विष्णोर्गदतो मे निबोधत।
युगधर्मे परावृत्ते काले च शिथिले प्रभुः ॥ ३५.६५ ॥

कर्तुं धर्मव्यवस्थानं जायते मानुषेष्विह।
भृगोः शापनिमित्तेन देवासुरकृतेन च ॥ ३५.६६ ॥

॥ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः

कथं देवासुरकृते अध्याहारमवाप्नुयात्।
एतद्वेदितुमिच्छामो वृत्तं दैवासुरं कथम् ॥ ३५.६७ ॥

दैवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत।
हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक् प्रशासति ॥ ३५.६८ ॥

बलिनाधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात्।
सख्यमासीत्परं तेषां देवानामसुरैः सह ॥ ३५.६९ ॥

युगं वै दशसङ्कीर्णमासीदव्याहतं जगत्।
निदेशस्थायिनश्चैव तयोर्देवासुराभवन् ॥ ३५.७० ॥

बलवान् वै विवादोऽयं सम्प्रवृत्तः सुदारुणः।
देवासुराणां च तदा घोरक्षयकरो महान् ॥ ३५.७१ ॥

तेषां दायनिमित्तं वै सङ्ग्राणा बहवोऽभवन्।
वाराहेऽस्मिन् दश द्वौ च षण्डामार्कोत्तराः स्मृता ॥ ३५.७२ ॥

नामतस्तु समासेन श्रृणुध्वं तान् विवक्षतः।
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥ ३५.७३ ॥

तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्धनः।
सङ्ग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ॥ ३५.७४ ॥

षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः।
अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ॥ ३५.७५ ॥

वार्त्तश्च दशमो ज्ञेयस्ततो हाला हलः स्मृतः।
स्मृतो द्वादशमस्तेषां घोरकोलाहलोऽपरः ॥ ३५.७६ ॥

हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः।
वामनेन बलिर्वद्धस्त्रैलोक्याक्रमणे कृते ॥ ३५.७७ ॥

हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे तु दैवतैः।
महाबलो महासत्त्वः सङ्ग्रामेष्वपराजितः ॥ ३५.७८ ॥

दंष्ट्रायान्तु वराहेण समुद्राद्भूर्यदा कृता ।
प्राह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ॥ ३५.७९ ॥

विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः।
इन्द्रेणैव स विक्रम्य निहतस्तारकामये ॥ ३५.८० ॥

भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः।
सञ्जभो निहतः षष्ठे शक्राविष्टेन विष्णुना ॥ ३५.८१ ॥

अशक्नुवन्तो देवेषु पुरं गोप्तुं त्रिदैवतम् ।
निहता दानवाः सर्वे त्रिपुरस्त्र्यम्बकेण तु ॥ ३५.८२ ॥

अष्टमे त्वसुराश्चैवं राक्षसाश्चान्धकारकाः।
जितदेवमनुष्यैस्तु पितृभिश्चैव सङ्गतान् ॥ ३५.८३ ॥

संवृतान् दानवांश्चैव सङ्गतान् कृत्स्नशश्च तान् ।
तथा विष्णुसहायेन महेन्द्रेण निबर्हिताः ॥ ३५.८४ ॥

हतो ध्वजो महेन्द्रेण मायाच्छन्नश्च योधयन्।
ध्वजे लक्ष्यं समाविश्य विप्रवर्त्तिर्महाभुजः ॥ ३५.८५ ॥

दैत्यांश्च दानवांश्चैव संहतान् कृत्स्नशश्च तान्।
रजिः कोलाहले सर्वान् देवैः परिवृतोऽजयत्।
यज्ञामृतेन विजितौ षण्डामार्कौ तु दैवतैः ॥ ३५.८६ ॥

एते दैवासुरा वृत्ताः सङ्ग्रामा द्वादशैव तु।
देवासुरक्षयकराः प्रजानामशिवाय च ॥ ३५.८७ ॥

हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ।
तथा शतसहस्राणि ह्यदिकानि द्विसप्ततिः ।
अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत् ॥ ३५.८८ ॥

पर्याये तस्य राजाऽनु बलिर्वर्षार्बुदं पुनः ।
षष्टिं चैव सहस्राणि त्रिंशतं नियुतानि च ॥ ३५.८९ ॥

बले राज्याधिकारस्तु यावत्कालं बभूव ह।
प्रह्लादेन गृहीतोऽभूत्तावत्कालं तदासुरैः ॥ ३५.९० ॥

इन्द्रास्त्रयस्ते विख्याता असुराणां महौजसः ।
दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल ॥ ३५.९१ ॥

असपत्नं ततः सर्वं राष्ट्रं दशयुगं पुरा।
त्रैलोक्यमव्ययमिदं महेन्द्रेण तु पाल्यते ॥ ३५.९२ ॥

प्रह्लादस्य ततश्चादस्त्रैलोक्यं कालपर्ययात् ।
पर्यायेण च सम्प्राप्ते त्रैलोक्ये पाकशासनः ॥ ३५.९३ ॥

ततोऽसुरान् परित्यज्य यज्ञे देवा उपागमन् ।
यज्ञे देवानथ गते काव्यं ते ह्यसुराब्रुवन् ॥ ३५.९४ ॥

कृतं नो मिषतां राष्ट्रं त्यक्त्वा यज्ञं पुनर्गताः।
स्थातुं न शक्नुमो ह्यद्य प्रविशामो रसातलम् ॥ ३५.९५ ॥

एवमुक्तोऽब्रवीदेतान् विषण्णः सान्त्वयन् गिरा।
माभैष्ट धारयिष्यामि तेजसा स्वेन चासुराः ॥ ३५.९६ ॥

वृष्टिरोषधयश्चैव रसा वसु च यद्वयम्।
कृत्स्ना मयि च तिष्ठन्ति पादस्तेषां सुरेषु वै।
युष्मदर्थं प्रदास्यामि तत्सर्वं धार्यते मया ॥ ३५.९७ ॥

ततो देवासुरान् दृष्ट्वा धृतान् काव्येन धीमता।
अमन्त्रयंस्तदा ते वै संविग्ना विजिगीषया ॥ ३५.९८ ॥

एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात् ।
साधु गच्छामहे तूर्णं क्षीणान्नाप्याययस्व तान् ।
प्रसह्य हत्वा शिष्टान् वै पातालं प्रापयामहे ॥ ३५.९९ ॥

ततो देवाः सुसंरब्धा दानवानभिसृत्य वै।
जध्नुस्तै र्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः ॥ ३५.१०० ॥

ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान्।
समरेऽक्त्रक्षतार्त्तांस्तान् देवेभ्यस्तान् दितेः सुतान् ॥ ३५.१०१ ॥

काव्यो दृष्ट्वा स्थितान् देवान् तत्र देवोऽभ्यचिन्तयत्।
तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ॥ ३५.१०२ ॥

त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिः क्रमैः ।
बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥ ३५.१०३ ॥

महार्हेषु द्वादशसु सङ्ग्रामेषु सुरैर्हताः।
तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ॥ ३५.१०४ ॥

किञ्चिच्छिष्टास्तु वै यूयं युद्धेष्वन्त्येषु वै स्वयम्।
नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम् ॥ ३५.१०५ ॥

यास्याम्यहं महादेवं मन्त्रार्थे विजयाय वः।
अग्निमाप्याययेद्धोता मन्त्रैरेव बृहस्पतिः ॥ ३५.१०६ ॥

ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम्।
युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः ॥ ३५.१०७ ॥

यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने।
न वै देवा वधिष्यन्ति यावदागमनं मम ॥ ३५.१०८ ॥

अप्रतीपांस्ततो मन्त्रान् देवात् प्राप्य महेश्वरात्।
योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ॥ ३५.१०९ ॥

ततस्ते कृतसंवादा देवानूचुस्ततोऽसुराः।
न्यस्तवादा वयं सर्वे लोकान् यूयं क्रमन्तु वै ॥ ३५.११० ॥

वयं तपश्चरिष्यामः संवृता वल्कलैर्वने।
प्रह्लादस्य वचः श्रुत्वा सत्यव्याहरणं तु तत् ॥ ३५.१११ ॥

ततो देवा निवृत्ता वै विज्वरा मुदिताश्च ह।
न्यस्तशस्त्रेषु दैत्येषु स्वान् वै जग्मुर्यथागतान् ॥ ३५.११२ ॥

ततस्तानब्रवीत्काव्यः कञ्चित्कालमुपास्यताम्।
निरुत्सुकैस्तपोयुक्तैः कालं कार्यार्थसाधकैः।
पितुर्ममाश्रमस्था वै सर्वे देवाः सवासवाः ॥ ३५.११३ ॥

स सन्दिश्यासुरान् काव्यो महादेवं प्रपद्य च।
प्रणम्येनसुवाचाथ जगत्प्रभवमीश्वरम् ॥ ३५.११४ ॥

मन्त्रानिच्छाम्यहं देव मे नसन्ति बृहस्पतौ।
पराभवाय देवानामसुरेष्वभयावहान् ॥ ३५.११५ ॥

एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज।
व्रतं चर मयो द्दिष्टं ब्रह्मचारी समाहितः ॥ ३५.११६ ॥

पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्शिराः।
यद्युपास्यसि भद्रन्ते मत्तो मन्त्रमवाप्स्यसि ॥ ३५.११७ ॥

तथोक्तो देव देवेन स शुक्रस्तु महातपाः।
पादौ संस्पृश्य देवस्य बाढमित्यभ्यभाषत ॥ ३५.११८ ॥

व्रतं चराम्यहं शेषं यथोद्दिष्टोऽस्मि वै प्रभो।
ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत् ॥ ३५.११९ ॥

असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा।
मन्त्रार्थं तत्र वसति ब्रह्मचर्ये महेश्वरः ॥ ३५.१२० ॥

तद्बुद्ध्वा नातिपूर्वन्तु राज्यं न्यस्तं तदासुरैः।
तस्मिञ्छिद्रे तदामर्षा देवास्तान् समभिद्रवन्।
निशितात्तायुधाः सर्वे बृहस्पतिपुरोगमाः ॥ ३५.१२१ ॥

दृष्ट्वासुरगणा देवान् प्रगृहीतायुधान् पुनः।
उत्पेतुः सहसा सर्वे सन्त्रस्तास्ते ततोऽभवन् ॥ ३५.१२२ ॥

न्यस्तशस्त्रे जये दत्ते आचार्यव्रतमास्थिते।
सन्त्यज्य. समयं देवास्ते सपत्नजिघांसवः ॥ ३५.१२३ ॥

अनाचार्यास्तु भद्रं वो विश्वस्तास्तपसि स्थिताः।
चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः ॥ ३५.१२४ ॥

रणे विजेतुं देवान् वै नशक्ष्यामः कथञ्चन।
अशुद्धेन प्रपद्यामः शरणं काव्यमातरम् ॥ ३५.१२५ ॥

ज्ञापयामस्ततमिदं यावदागमनं गुरोः।
विनिवृत्ते ततः काव्ये योत्स्यामो युधि तान् सुरान् ॥ ३५.१२६ ॥

एवमुक्त्वा सुरान् योग्यं शरणं काव्यमातरम्।
प्रापद्यन्त ततो भीतास्तदा चैव तदाऽभयम् ॥ ३५.१२७ ॥

दत्तन्तेषान्तु भीतानां दैत्या नामभयार्थिनाम्।
न भेतव्यं न भेतव्य भयन्त्यजत दानवाः ॥ ३५.१२८ ॥

मत्सन्निधौ वर्ततां वो न भीर्भवितुमर्हति।
भयाच्चाप्यभिपन्नांस्तान् दृष्ट्वा देवासुरांस्तदा ॥ ३५.१२९ ॥

अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम्।
तांस्त्रस्तान् वध्यमानांश्च देवैर्दृष्ट्वासुरांस्तदा ॥ ३५.१३० ॥

देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम्।
संस्तभ्य शीघ्रं संरम्भादिन्द्रं साऽभ्यचरत्ततः ॥ ३५.१३१ ॥

ततः संस्तम्भितं दृष्ट्वा शक्रन्देवास्तु यूपवत्।
व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ॥ ३५.१३२ ॥

गतेषु सुरसङ्घेषु विष्णुरिन्द्रमभाषत।
मान्त्वं प्रविश भद्रन्ते नेष्यामि त्वां सुरेश्वर ॥ ३५.१३३ ॥

एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः।
विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् ॥ ३५.१३४ ॥

एषा त्वां विष्णुना सार्द्धं दहामि मघवानिव।
मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥ ३५.१३५ ॥

तयाभिभूतौ तौ देवाविन्द्रविष्णू जजल्पतुः।
कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत ॥ ३५.१३६ ॥

इन्द्रोऽब्रवीज्जहि ह्येनां यावन्नौ न दहेद्विभो।
विशेषेणाभिभूतोऽहमतस्त्वञ्च हि मा चिरम् ॥ ३५.१३७ ॥

ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः।
अभिध्याय ततश्चक्रमापन्नः सत्वरं प्रभुः ॥ ३५.१३८ ॥

तस्याः सत्वरमाणायाः शीघ्रकारी सुरारिहा।
स्त्रिया विष्णुस्ततो देव्या क्रूरं बुद्ध्वा चिकीर्षितम्।
क्रुद्धस्तदस्त्रमाविद्ध्य शिरश्चिच्छेद माधवः ॥ ३५.१३९ ॥

तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः।
ततोऽभिशस्तो भृगुणा विष्णुर्भार्यावधे तदा ॥ ३५.१४० ॥

यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता।
तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रपत्स्यसि ॥ ३५.१४१ ॥

ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः।
लोके सर्वहितार्थाय जायते मानुषेष्विह ॥ ३५.१४२ ॥

अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम्।
समानीय ततः काये अपो गृह्येदमब्रवीत् ॥ ३५.१४३ ॥

एष त्वां विष्णुना सत्ये हतां सञ्जीवयाम्यहम् ।
यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा।
तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ॥ ३५.१४४ ॥

सत्याभिव्याहृता तस्या देवी सञ्जीविता तदा।
तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ॥ ३५.१४५ ॥

ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव।
साधु साध्वित्यदृश्यानां वाचस्ताः सस्वरुर्दिशः ॥ ३५.१४६ ॥

दृष्ट्वा सञ्जीवितामेवं देवीं तां भृगुणा तदा।
मिषतां सर्वभूतानां तदद्भुतमिवाभवत् ॥ ३५.१४७ ॥

असम्भ्रान्तेन भृगुणा पत्नीं सञ्जीवितां ततः।
दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ॥ ३५.१४८ ॥

प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम्।
प्रोवाच मतिमान् वाक्यं स्वां कन्यां पाकशासनः ॥ ३५.१४९ ॥

एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः।
तेनाहं व्याकुलः पुत्रि कृतो धृतिमता दृढम् ॥ ३५.१५० ॥

गच्छ सम्भावयस्वैनं श्रमापनयनैः शुभैः।
तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ॥ ३५.१५१ ॥

देवी सा हीन्द्रतुहिता जयन्ती शुभचारिणी।
युक्तध्यानञ्च शाम्यं तं दुर्बलं धृतिमास्थितम् ॥ ३५.१५२ ॥

पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा।
गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी ॥ ३५.१५३ ॥

गात्रसंवाहनैः काले सेवमाना सुखावहैः ।
शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ॥ ३५.१५४ ॥

पूर्णे धूमव्रते चापि घोरे वर्षसहस्रिके ।
वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ॥ ३५.१५५ ॥

एवं ब्रुवंस्त्वयैकेन चीर्णं नान्येन केनचित्।
तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ॥ ३५.१५६ ॥

तेजसा चापि विबुधान् सर्वानभिभविष्यसि।
यच्च किञ्चिन्मम ब्रह्मन् विद्यते भृगुनन्दन ॥ ३५.१५७ ॥

साङ्गञ्च सरहस्यञ्च यज्ञोपनिषदान्तथा।
प्रतिभास्यति ते सर्वं तच्चाद्यन्तं न कस्यचित् ॥ ३५.१५८ ॥

सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि।
एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ॥ ३५.१५९ ॥

अजेयत्वं धनेशत्वमवध्यत्वं च वै ददौ।
एतान् लब्ध्वा वरान् काव्यः सम्प्रहृष्टतनूरुहः ॥ ३५.१६० ॥

हर्षात् प्रादुर्बभौ तस्य देवस्तोत्रं महेश्वरम्।
तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ॥ ३५.१६१ ॥

नमोऽस्तु शितिकण्ठाय सुरापाय सुवर्चसे।
रिरिहाणाय लोपाय वत्सराय जगत्पते ॥ ३५.१६२ ॥

कपर्दिने ह्यूर्ध्वरोम्णे हयाय करणाय च।
संस्कृताय सुतीर्थाय देवदेवाय रंहसे ॥ ३५.१६३ ॥

उष्णीषिणे सुवक्राय सहस्राक्षाय मीढुषे।
वसुरेताय रुद्राय तपसे चीरवाससे ॥ ३५.१६४ ॥

ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च ॥ ३५.१६५ ॥
विश्वास-प्रस्तुतिः

कवये राजवृद्धाय तक्षकक्रीडनाय च।
गिरिशायार्कनेत्राय यतिने जाम्बवाय च।
सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ॥ ३५.१६६ ॥

सहस्रबाहवे चैव सहस्रामलचक्षुषे।
सहस्रकुक्षये चैव सहस्रचरणाय च ॥ ३५.१६७ ॥

सहस्रशिरसे चैव बहुरूपाय वेधसे।
भवाय विश्वरूपाय श्वेताय पुरुषाय च ॥ ३५.१६८ ॥

निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च।
ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ ३५.१६९ ॥

बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च।
महादेवाय शर्वाय विश्वरूपशिवाय च ॥ ३५.१७० ॥

हिरण्याय च शिष्टाय श्रेष्ठाय मध्यमाय च ।
पिनाकिने चेषुमते चित्राय रोहिताय च ॥ ३५.१७१ ॥

दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा।
मृगव्याधाय सर्पाय स्थाणवे भीषणाय च ॥ ३५.१७२ ॥

बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च।
कपिलायैकवीराय मृत्यवे त्र्यम्बकाय च ॥ ३५.१७३ ॥

वास्तोष्पते विनाकाय शङ्कराय शिवाय च।
आरण्याय गुहस्थाय यतिने ब्रह्मचारिणे ॥ ३५.१७४ ॥

साङ्ख्याय चैव योगाय ध्यानिने दीक्षिताय च।
अन्तर्हिताय शर्वाय मान्याय मालिने तथा ॥ ३५.१७५ ॥

बुद्धाय चैव पुण्याय धार्मिकाय शुभाय च।
रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये ॥ ३५.१७६ ॥

चतुष्पादाय मेध्याय धर्मिणे शीघ्रगाय च।
शिखण्डिने कपालाय दंष्ट्रिणे विश्वमेधसे ॥ ३५.१७७ ॥

अप्रतीघाताय दीप्ताय भास्कराय सुमेधसे।
क्रूराय विकृतायैव बीभत्साय शिवाय च ॥ ३५.१७८ ॥

सौम्याय चैव पुण्याय धार्मिकाय शुभाय च।
अवध्याय मृताङ्गाय नित्याय शाश्वताय च ॥ ३५.१७९ ॥

साद्याय शरभायैव शूलिने च त्रिचक्षुषे।
सोमपायाज्यपायैव धूमपायोष्मपाय च ॥ ३५.१८० ॥

शुचये रेरिहाणाय सद्योजाताय मृत्यवे।
पिशिताशाय खर्वाय मेधाय वैद्युताय च ॥ ३५.१८१ ॥

व्याश्रिताय श्रविष्टाय भारतायान्तरिक्षये।
क्षमाय सह मानाय सत्याय तपनाय च ॥ ३५.१८२ ॥

त्रिपुरघ्नाय दीप्ताय चक्राय रोमशाय च।
तिग्मायुधाय मेध्याय सिद्धाय च पुलस्तये ॥ ३५.१८३ ॥

रोचमानाय खण्डाय स्फीताय ऋषभाय च।
भोगिने पुञ्जमानाय शान्तायैवोर्ध्वरेतसे ॥ ३५.१८४ ॥

अघघ्नाय मख्घ्नाय मृत्यवे यज्ञियाय च।
कृशानवे प्रचेताय वह्नये किशलाय च ॥ ३५.१८५ ॥

सिकत्याय प्रसन्नाय वरेण्यायैव चक्षुषे।
क्षिप्रेगवे सुधन्वाय प्रमेध्याय प्रियाय च ॥ ३५.१८६ ॥

रक्षोघ्नाय पशुघ्नाय विघ्नाय शयनाय च।
विभ्रान्ताय महन्ताय अन्तये दुर्गमाय च ॥ ३५.१८७ ॥

दक्षाय च जघन्याय लोकानामीश्वराय च।
अनामयाय चोर्ध्वाय संहत्याधिष्ठिताय च ॥ ३५.१८८ ॥

हिरण्यबाहवे चैव सत्याय शमनाय च।
असिकल्याय माघाय रीरिण्यायैकचक्षुषे ॥ ३५.१८९ ॥

श्रेष्ठाय वामदेवाय ईशानाय च धीमते।
महाकल्पाय दीप्ताय रादेनाय हसाय च ॥ ३५.१९० ॥

वृतधन्वने कविचिने रथिने च वरूथिने।
भृगुनाथाय शुक्राय वह्निरिष्टाय धीमते ॥ ३५.१९१ ॥

अघाय अघशंसाय विप्रियाय प्रियाय च ।
दिग्वासःकृत्तिवासाय भगघ्नाय नमोऽस्तु ते ॥ ३५.१९२ ॥

पशूनां पतये चैव भूतानां पतये नमः।
प्रणने ऋग्यजुःसाम्ने स्वधायै च सुधाय च ॥ ३५.१९३ ॥

वषट्कारतमायैव तुभ्यमन्तात्मने नमः ।
स्रष्ट्रे धात्रे तथा होत्रे हर्त्रे च क्षपणाय च ॥ ३५.१९४ ॥

भूतभव्यभवायैव तुभ्यं कालात्मने नमः।
वसवे चैव साध्याय रुद्रादित्याश्विनाय च ॥ ३५.१९५ ॥

विश्वाय मरुते चैव तुभ्यन्देवात्मने नमः।
अग्निसोमर्त्विगिज्याय पशुमन्त्रौषधाय च ॥ ३५.१९६ ॥

दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः ।
तपसे चैव सत्याय त्यागाय च शमाय च ॥ ३५.१९७ ॥

अहिंसायाप्यलोभाय सुवेशायातिशाय च।
सर्वभूतात्मभूताय तुभ्यं योगात्मने नमः ॥ ३५.१९८ ॥

पृथिव्यै चान्तरिक्षाय दिवाय च महाय च।
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ ३५.१९९ ॥

अव्यक्तायाथ महते भूतायैवोन्द्रियाय च ।
तन्मात्राय महान्ताय तुभ्यं तत्त्वात्मने नमः ॥ ३५.२०० ॥

नित्याय चार्थलिङ्गाय सूक्ष्माय चेतनाय च।
शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः ॥ ३५.२०१ ॥

नमस्ते त्रिषु लोकेषु स्वरान्तेषु भवादिषु।
सत्यान्तेषु महान्तेषु चतुर्षु च नमोऽस्तु ते ॥ ३५.२०२ ॥

नमःस्तोत्रे मया ह्यस्मिन् सदसद्व्याहृतं विभो।
मद्भक्त इति ब्रह्मण्य सर्वन्तत् क्षन्तुमर्हसि ॥ ३५.२०३ ॥

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्ये शम्भुस्तवकीर्त्तनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥ *