०३४

सूत उवाच॥

विश्वास-प्रस्तुतिः

सात्वती रूपसम्पन्नं कौशल्या सुषुवे सुतम्।
भजिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ ३४.१ ॥

मूलम्

अन्धकञ्च सहाभोजं वृष्णिञ्च यदुनन्दनम्।
तेषां हि सर्गाश्चत्वारः श्रृणुध्वं विस्तरेण वै ॥ ३४.२ ॥

भजमानस्य श्रृञ्जय्यां बाह्यश्चोपरि बाह्यकः।
श्रृञ्जयस्य सुते द्वे तु बाह्यकस्ते उदावहत् ॥ ३४.३ ॥

तस्य भार्ये भगिन्यौ ते प्रासूतेति सुतान् बहून्।
निमिश्च पणवश्चैव वृष्णिः परपुरञ्जयः ॥ ३४.४ ॥

ये बाह्यकार्यश्रृञ्जय्यां भजमानाद्विजज्ञिरे।
अयुतायुतसाहस्र शतजिदथ वामकः ॥ ३४.५ ॥

बाह्यकार्याभगिन्यां ये भजमाना द्विजज्ञिरे।
तेषां देवावृधो राजा चचार परमं तपः ॥ ३४.६ ॥

पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह।
संयोज्यात्मानमेवं सवर्णा सा जलमस्पृशत् ॥ ३४.७ ॥

सा चोपस्पर्शनात्तस्य चकार ऋषिमापगा।
कल्याणञ्च नरपतेस्तस्य सा निम्नगोत्तमा ॥ ३४.८ ॥

चिन्तयाभिपरीताङ्गा जगामाथ विनिश्चयम्।
नाधिगच्छामि तां नारीं यस्यामेवंविधः सुतः ॥ ३४.९ ॥

भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि।
तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता।
जज्ञे तस्याः स्वयं हस्तो भावस्तस्य यथेरितः ॥ ३४.१० ॥

अथ भूत्वा कुमारी तु सावित्री परमं वचः।
चिन्तयामास राजानं तामियेष स पर्थिवः ॥ ३४.११ ॥

तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः।
अथ सा नवमे मासि सुषुवे सरितांवरा ॥ ३४.१२ ॥

पुत्रं सर्वगुणोपेतं यथा देवावृधेप्सितः।
तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः ॥ ३४.१३ ॥

गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः।
यथैव श्रृणुते दूरात् सम्पश्यति तथान्तिकात् ॥ ३४.१४ ॥

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः।
पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः।
येऽमृतत्वमनुप्राप्ता बभ्रुर्देवावृधादपि ॥ ३४.१५ ॥

यज्वा दानपतिर्वीरो ब्रह्मण्यः सत्य वाग् बुधः।
कीर्त्तिमांश्च महाभागः सात्त्वतानां महारथः ॥ ३४.१६ ॥

तस्यान्ववाये सुमहाभोजयेमार्तिकावलाः।
गान्धारी चैव माद्री च वृष्णेर्भार्ये बभूवतुः ॥ ३४.१७ ॥

गान्धारी जनयामास सुमित्रं मित्रनन्दनम्।
माद्री युधाजितं पुत्रं सा तु वै देवमीढुषम् ॥ ३४.१८ ॥

अनमित्रं सुतञ्चैव तावुभौ पुरुषोत्तमौ।
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ॥ ३४.१९ ॥

प्रसेनश्च महाभागः शक्रजिच्च सुतावुभौ।
तस्य शक्रजितः पूर्वः सखा प्राणसमोऽभवत् ॥ ३४.२० ॥

स कदाचिन्निशापाये रथेन रथिनांवरः।
तोयकूलादपः स्प्रष्टुमुपस्थातुं ययौ रविम् ॥ ३४.२१ ॥

तस्योपतिष्ठतः सूर्यो विवस्वानग्रतः स्थितः।
अस्पष्टमूर्तिर्भगवां स्तेजोमण्डलवान् विभुः ॥ ३४.२२ ॥

अथ राजा विवस्वन्तमुवाच स्थितमग्रतः।
यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषाम्पते ॥ ३४.२३ ॥

तेजोमण्डलिनञ्चैव तथैवाप्यग्रतः स्थितम्।
को विशेषो विवस्वंस्ते साक्षादुपगतेन वै ॥ ३४.२४ ॥

एतच्छ्रुत्वा स भगवान् मणिरत्नं स्यमन्तकम्।
स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ॥ ३४.२५ ॥

ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा।
प्रतिमामथ तां दृष्ट्वा मुहूर्त्तं कृतवांस्तथा ॥ ३४.२६ ॥

तमतिप्रस्थितं भूयो विवस्वन्तं स शक्रजित्।
प्रोवाचाग्निसवर्णं त्वं येन लोकान् प्रयास्यति।
तदैव मणिरत्नं तन्मां भवान् दातुमर्हति ॥ ३४.२७ ॥

स्यमन्तकं नाम मणिं दत्तवांस्तस्य भास्करः।
स तमाबद्ध्य नगरं प्रविवेश महीपतिः ॥ ३४.२८ ॥

तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह।
सभां विस्माययित्वाथ पुरीमन्तःपुरं तथा ॥ ३४.२९ ॥

तं प्रसेनिजिते दिव्यं मणिरत्नं स्यमन्तकम्।
ददौ भ्रात्रे नरपतिः प्रेम्णा शक्रजिदुत्तमम् ॥ ३४.३० ॥

स्यमन्तको नाम मणिर्यस्य राष्ट्रे स्थितो भेवत् ।
कालवर्षी च पर्जन्यो न च व्याधिभयं तदा ॥ ३४.३१ ॥

लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम्।
गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ॥ ३४.३२ ॥

कदा चिन्मृगयां यातः प्रसेनस्तेन भूषितः।
स्यमन्तककृते सिंहाद्वधं प्राप्तः सुदारुणम् ॥ ३४.३३ ॥

जाम्बवानृक्षराजस्तु तं सिंहं निजघान वै ।
आदाय च मणिं दिव्यं स्वं बिलं प्रविवेश ह ॥ ३४.३४ ॥

तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः।
मणौगृध्नुन्तु मन्वानास्तमेव विशशङ्किरे ॥ ३४.३५ ॥

मिथ्याभिशस्तिं तेभ्यस्तां बलवानरिसूदनः।
अमृष्यमाणो भगवान् वनं स विचचार ह ॥ ३४.३६ ॥

स तु प्रसेनमृगयामचरत्तत्र चाप्यथ।
प्रसेनस्य पदं गृह्य पुरुषै राप्तकारिभिः ॥ ३४.३७ ॥

ऋक्षवन्तं गिरिवरं विन्ध्यञ्च नगमुत्तमम्।
अन्वेषणपरिश्रान्तः स ददर्श महामनाः ॥ ३४.३८ ॥

साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम्।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ ३४.३९ ॥

ऋक्षेण निहतो दृष्टः पादैऋक्षस्य सूचिताम्।
पदैरन्वेषयामास गुहामृक्षस्य यादवः ॥ ३४.४० ॥

महत्यतिबिले वाणीं शुश्राव प्रमदेरिताम्।
धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः।
प्रीतिमत्याथ मणिना मारोदीरित्युदीरिताम् ॥ ३४.४१ ॥

॥धात्र्युवाच॥

विश्वास-प्रस्तुतिः

प्रसेनमवधीत् सिंहः सिंहो जाम्बवता हतः।
सुकुमारक मारोदीस्तव ह्येष स्यमन्तकः ॥ ३४.४२ ॥

व्यक्तीकृतञ्च शब्दं तं तूर्णं सोऽपि ययौ बिलम्।
अपश्यच्च विलाभ्याशे प्रसेनमवदारितम्॥ ३४.४३ ॥

प्रविश्य चापि भगवास्तदृक्षबिलमञ्जसा।
ददर्श ऋक्षराजानं जाम्बवन्तमुदारधीः ॥ ३४.४४ ॥

युयुधे वासुदेवस्तु बिले जाम्बवता सह।
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ॥ ३४.४५ ॥

प्रविष्टे च बिलं कृष्णे वासुदेव पुरःसराः ।
पुनर्द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ ३४.४६ ॥

वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम्।
लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ॥ ३४.४७ ॥

भगवत्तेजसा ग्रस्तो जाम्बवान् प्रसभं मणिम्।
सुतां जाम्बवतीमाशु विष्वक्सेनाय दत्तवान् ॥ ३४.४८ ॥

मणिं स्यमन्तकं चैव जग्राहात्म विशुद्धये।
अनुनीय ऋक्षराजं निर्ययौ च तदा बिलात् ॥ ३४.४९ ॥

एवं स मणिमादाय विशोद्ध्यात्मानमात्मना।
ददौ सत्राजिते तं वै मणिं सात्वतसन्निधौ ॥ ३४.५० ॥

कन्यां पुनर्जाम्बवतीमुवाच मधुसूदनः।
तस्मान्मिथ्याभिशापात् स व्यमुच्यत जनार्दनः ॥ ३४.५१ ॥

इमां मिथ्याभिशस्तिं यः कृष्णस्येह व्यपोहिताम्।
वेद मिथ्याभिशस्तेः स नाभिशस्यति कर्हिचित् ॥ ३४.५२ ॥

दश स्वसृभ्यो भार्याभ्यः शत्रजित्तः शतं सुताः।
ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः।
वीरो व्रतपतिश्चैव ह्यपस्वान्तश्च सुप्रियः ॥ ३४.५३ ॥

अथ द्वारवती नाम भङ्गकारस्य सुप्रजा।
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ॥ ३४.५४ ॥

सत्य भामोत्तमा स्त्रीणां व्रतिनीव दृढव्रता।
तथा तपस्विनी चैव पिता कृष्णस्य तां ददौ ॥ ३४.५५ ॥

यत्तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम्।
प्रादात्तदाहरद्रत्नं भोजेन शतधन्वना ॥ ३४.५६ ॥

तदा हि प्रार्थयामास सत्यभामामनिन्दिताम्।
अक्रूरो रत्नमन्विच्छन् मणिञ्चैव स्यमन्तकम् ॥ ३४.५७ ॥

भद्रकारं ततो हत्वा शतधन्वा महाबलः।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ ३४.५८ ॥

अक्रूरस्तु तदा रत्नमादाय स नरर्षभः।
समयं कारणं चक्रे बोध्यो नान्यैस्त्वयेत्युत ॥ ३४.५९ ॥

वयमभ्युपपत्स्यामः कृष्णेन त्वं प्रधर्षितः।
मम च द्वारकाः सर्वा वशे तिष्टन्त्यसंशयम् ॥ ३४.६० ॥

हते पितरि दुःशार्त्ता सत्यभामा यशस्विनी।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥ ३४.६१ ॥

सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः।
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ ३४.६२ ॥

पाण्डवानान्तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
तुल्यार्थे चैव भ्रातॄणां नियोजयति सात्यकिम् ॥ ३४.६३ ॥

तत स्त्वरितमागम्य द्वारकां मधुसूदनः।
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ ३४.६४ ॥

हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना।
स्यमन्तकमहं मार्गे तस्य प्रहर हे प्रभो ॥ ३४.६५ ॥

तदारोह रथं शीघ्रं भोजं हत्वा महाबलम्।
स्यमन्तको महाबाहो तदास्माकं भविष्यति ॥ ३४.६६ ॥

ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः।
शतधन्वा न चाक्रूरमवैक्षत् सर्वतो दिशि ॥ ३४.६७ ॥

अनष्टाश्वावरोहन्तु कृत्वा भोजजनार्दनौ।
शक्तोऽपि साध्याद्वार्द्धक्यान्नाक्रूरोऽभ्युपपद्यत ॥ ३४.६८ ॥

अपयाने ततो बुद्धिं भूयश्चक्रे भयान्वितः।
योजनानां शतं साग्रं यया च प्रत्यपद्यत ॥ ३४.६९ ॥

विज्ञातहृदया नाम शतयोजनगामिनी।
भोजस्य वढवादित्यो यया कृष्णमयोधयत् ॥ ३४.७० ॥

प्रवृद्धवेगा वडवा त्वध्वनां शतयोजनम्।
दृष्टा रथगतिस्तस्य शतधन्वानमर्द्दयत् ॥ ३४.७१ ॥

ततस्तस्य हयास्ते तु श्रमात् खेदाच्च वै द्विजाः।
खमुत्पेतू रथप्राणाः कृष्णो राममथाब्रवीत् ॥ ३४.७२ ॥

तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयाः।
पद्य्भां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ ३४.७३ ॥

पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः।
मिथिलाधिपतिं तं वै जघान परमास्त्रवित् ॥ ३४.७४ ॥

स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम्।
निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ॥ ३४.७५ ॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः।
धिक्छब्दमसकृत् पूर्वं प्रत्युवाच जनार्द्दनम् ॥ ३४.७६ ॥

भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम्।
कृत्यं न मे द्रारकया न त्वया न च वृष्णिभिः ॥ ३४.७७ ॥

प्रविवेश ततो रामो मिथिलामरिमर्द्दनः।
सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः ॥ ३४.७८ ॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतांवरः।
नानारूपान् क्रतून् सर्वानाजहार निरर्गलान् ॥ ३४.७९ ॥

दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह।
स्यमन्तककृते राजा गाधिपुत्रो महायशाः ॥ ३४.८० ॥

अर्थान् रत्नानि चाग्र्याणि द्रव्याणि विविधानि च ।
षष्टिवर्षगते काले यज्ञेषु विन्ययोजयत् ॥ ३४.८१ ॥

अक्रूरयज्ञ इत्येते ख्यातास्तस्य महात्मनः।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ ३४.८२ ॥

अथ दुर्योधनो राजा गत्वाऽथ मिथिलां प्रभुः।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ ३४.८३।
प्रसाद्य तु ततो विप्रा वृष्ण्यन्धकमहारथैः।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ ३४.८४ ॥

अक्रूरमन्धकैः सार्द्धमुपायात् पुरुषर्षभः।
युद्धे हत्वा तु शत्रुग्नं सह बन्धुमता बली ॥ ३४.८५ ॥

श्वफल्कतनयायान्तु नरायां नरसत्तमौ।
भङ्गकारस्य तनयो विश्रुतौ सुमहाबलौ ॥ ३४.८६ ॥

जज्ञातेऽन्धकमुख्यस्य शत्रुघ्नो बन्धुमांश्च तौ।
वधार्थं भङ्गकारस्य कृष्णो न प्रीतिमान् भवेत् ॥ ३४.८७ ॥

ज्ञाति भेदभयाद्भीतः समुपेक्षितवांस्तथा।
अपयाते तथाक्रूरे नावर्षत्पाकशासनः ॥ ३४.८८ ॥

अनावृष्ट्या हतं राष्ट्रमभवत्तद्वघोद्यतम्।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ ३४.८९ ॥

पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा।
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ॥ ३४.९० ॥

कन्याञ्च वासुदेवाय स्वसारं शीलसम्मताम्।
अक्रूरः प्रददौ श्रीमान् प्रीत्यर्थं यदुपुङ्गवः ॥ ३४.९१ ॥

अत विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम्।
सभामध्ये तदा प्राह तमक्रूरं जनार्दनः ॥ ३४.९२ ॥

यच्च रत्नं मणिवरं तव हस्तगतं प्रभो।
तत्प्रयच्छस्व मानार्ह विमतिञ्चात्र मा कृथाः ॥ ३४.९३ ॥

षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम।
सुसंरूढः सकृत् प्राप्तस्तत्कालाश्रित्य स महान् ॥ ३४.९४ ॥

ततः कृष्णस्य वचनात् सर्वसात्वतसंसदि।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ ३४.९५ ॥

तत आर्ज्जवसम्प्राप्तबभ्रुहस्तादरिन्दमः।
ददौ प्रहृष्टमनसा तं मणिं बभ्रवे पुनः ॥ ३४.९६ ॥

स कृष्णहस्तात् सम्प्राप्य मणिरत्नं स्यमन्तकम्।
आबद्ध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ ३४.९७ ॥

इमां मिथ्याभिशस्तिं यो विशुद्धामपि चोत्तमाम् ।
वेद मिथ्याभि शस्तिं स न व्रजेच्च कथञ्चन ॥ ३४.९८ ॥

अनिमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥ ३४.९९ ॥

विश्वास-प्रस्तुतिः

सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः।
सात्यकिर्युयुधानस्य तस्य भूतिः सुतोऽभवत् ॥ ३४.१०० ॥

भूतेर्युगन्धरः पुत्र इति भौत्याः प्रकीर्त्तिताः।
जज्ञाते तनयौ पृश्रेः श्वफल्कश्चित्रकश्च यः ॥ ३४.१०१ ॥

श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्त्तते।
नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ॥ ३४.१०२ ॥

कदाचित् काशिराजस्य विभोस्तु द्विजसत्तमाः।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥ ३४.१०३ ॥

स तत्र वासयामास श्वफल्कं परमार्चितम्।
श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ॥ ३४.१०४ ॥

श्वफल्कः काशिराजस्य सुतां भार्यामनिन्दिताम्।
गान्दिनीं नाम गां सा हि ददौ विप्राय नित्यशः ॥ ३४.१०५ ॥

सा मातुरुदरस्था वै बहुवर्ष शतान् किल।
वसति स्म न वै जज्ञे सर्भस्थान्तां पिताब्रवीत् ॥ ३४.१०६ ॥

जायस्व शीघ्रं भद्रन्ते किमर्थं चापि तिष्ठसि।
प्रोवाच चैनं गर्भ स्था सा कन्या गौर्दिने दिने ॥ ३४.१०७ ॥

यदि दत्ता तदा स्यां हि यदि स्यामीहतां पितः।
तथेत्युवाच तां तस्याः पिता काममपूपुरत् ॥ ३४.१०८ ॥

दाता यज्वा च शूरश्च श्रुतवानतिथिप्रियः।
तस्याः पुत्रः स्मृतोऽक्रूरः श्वफल्को भूरिदक्षिणः ॥ ३४.१०९ ॥

उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः।
गिरिरक्षस्तता यक्षः शत्रुघ्नो वारिमर्द्दनः ॥ ३४.११० ॥

धर्मभृच्च श्रृष्टचयो वर्गमोचस्तथापरः।
आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ॥ ३४.१११ ॥

अक्रूरादुग्रसेन्यान्तु सुतौ द्वौ कुलनन्दिनौ।
देवश्चानुपदेवश्च जज्ञाते देवसम्मितौ ॥ ३४.११२ ॥

चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च।
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥ ३४.११३ ॥

अरिष्टनेमिरश्वश्च सुवर्मा वर्मचर्मभृत् ।
अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ ३४.११४ ॥

सत्यकात् काशिदुहिता लेभे सा चतुरः सुतान्।
ककुदं भजमानञ्च शमीकबलबर्हिषौ ॥ ३४.११५ ॥

ककुदस्य सुतो वृष्टिर्वृष्टेस्तु तनयोऽभवत्।
कपोतरोमा तस्याथ रेवतोऽभवदात्मजः ॥ ३४.११६ ॥

तस्यासीत्तुम्बुरुसखा विद्वान् पुत्रोऽभवत्किल।
ख्यायते यस्य नाम्ना स चन्दनोदकदुन्दुभिः ॥ ३४.११७ ॥

तस्माच्चाभिजितः पुत्र उत्पन्नस्तु पुनर्वसुः।
अश्वमेधन्तु पुत्रार्थे आजहार नरोत्तमः ॥ ३४.११८ ॥

तस्य मध्येऽतिरात्रस्य सदोमध्यात्समुत्थितम्।
ततस्तु विद्वान् धर्मज्ञो दाता यज्वा पुनर्वसुः ॥ ३४.११९ ॥

तस्यापि पुत्रमिथुनं बाहुबाणाजितः किल।
आहुकश्चाहुकी चैव ख्यातौ मतिमतांवरौ ॥ ३४.१२० ॥

इमांश्चोदाहरन्त्यत्र श्लोकान् प्रति तमाहुकम्।
सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ॥ ३४.१२१ ॥

रथानां मेघघोषाणां सहस्राणि दशैव तु।
नासत्यवादी त्वासीत्तु नायज्वा नासहस्रदः ॥ ३४.१२२ ॥

नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत्।
आहुकस्य धृतिः पुत्र इत्येवमनु शुश्रुमः ॥ ३४.१२३ ॥

श्वेतेन परिचारेण किशोरप्रतिमान् हयान्।
अशीतियुक्तनियुतान्याहुकप्रतिमोऽव्रजत् ॥ ३४.१२४ ॥

पूर्वस्यान्दिशि नागानां भोजस्य प्रतिरेजिरे।
रूप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः ॥ ३४.१२५ ॥

तावन्त्येव सहस्राणि उत्तरस्यान्तथा दिशि।
भूमिपालस्य भोजस्य उत्तिष्ठेत् किङ्किणी किल ॥ ३४.१२६ ॥

आहुकश्चाहुकान्धाय स्वसारं त्वाहुकीन्ददौ।
आहुकान्धस्य दुहिता द्वौ पुत्रौ सम्बभूवतुः ॥ ३४.१२७ ॥

देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ ३४.१२८ ॥

देवानामपि देवश्च सुदेवो देवरञ्जिता।
तेषां स्वसारः सप्तासन् वसुदेवाय सन्ददौ ॥ ३४.१२९ ॥

वृकदेवोपदेवा च तथान्या देवरक्षिता।
श्रीदेवा शान्तिदेवा च महादेवा तथापरा ॥ ३४.१३० ॥

सप्तमी देवकी तासां सुनामा चारुदर्शना।
नवोग्रसेनस्य सुताः कंसस्तेषान्तु पूर्वजः ॥ ३४.१३१ ॥

न्यग्रोधश्च सुनामा च कद्वशङ्कुश्च भूमयः।
सूतनू राष्ट्रपालश्च युद्धतुष्टः सुपुष्टिमान् ॥ ३४.१३२ ॥

तेषां स्वसारः पञ्चैव कर्मधर्मवती तथा।
शताङ्क्रू राष्ट्रापाला च कङ्वा चैव वराङ्गना ॥ ३४.१३३ ॥

उग्रसेनो महापत्यो विख्यातः कुकुरोद्भवः।
कुकुराणामिमं वंशं धारयन्नमितौजसाम्।
आत्मनो विपुलं वंशं प्रजावांश्च भवेन्नरः ॥ ३४.१३४ ॥

भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः।
राज्याधिदेवः शूरश्च विदुरश्च सुतोऽभवत् ॥ ३४.१३५ ॥

तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः ।
वातश्चैव निवातश्च शोणितः श्वेतवाहनः ॥ ३४.१३६ ॥

शमी च गदवर्मा च निदातः शक्रशक्रजित्।
शमिपुत्रः प्रतिक्षिप्तः प्रतिक्षिप्तस्य चात्मजः ॥ ३४.१३७ ॥

स्वयम्भोजः स्वयम्भोजाद्धृदिकः सम्बभूव ह।
हृदिकस्य सुतास्त्वासन् दश भीमपराक्रमाः ॥ ३४.१३८ ॥

कृतवर्मा कृतस्तेषां शतधन्वा तु मध्यमः।
देवार्हश्च वनार्हश्च भिषग् द्वैतरथश्च यः ॥ ३४.१३९ ॥

सुदान्तश्च धियान्तश्च नकवान् कनकोद्भवः।
देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः ॥ ३४.१४० ॥

असमौजाः सुतस्तस्य सुमहौजाश्च विश्रुतः।
अजावपुत्राय ततः प्रददावसमौजसे।
सुदंष्ट्रञ्च सुरूपञ्च कृष्ण इत्यन्धकाः स्मृताः ॥ ३४. १४१ ॥

विश्वास-प्रस्तुतिः

अन्धकानामिमं वंशं कीर्त्तयानस्तु नित्यशः।
आत्मानो विपुलं वंशं लभते नात्र संशयः ॥ ३४.१४२ ॥

अस्मक्यां जनयामास शूरो वै देवमानुषिम्।
माष्यान्तु जनयामास शूरो वै देवमीढुषम् ॥ ३४.१४३ ॥

भाष्यान्तु जज्ञिरे शूराद्भोजायां पुरुषा दश।
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ॥ ३४.१४४ ॥

जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि।
आनकानाञ्च संह्रादः सुमहानभवद्दिवि ॥ ३४.१४५ ॥

पपात पुष्पवर्षञ्च शूरस्य भवने महत्।
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ॥ ३४.१४६ ॥

यस्यासीत् पुरुषाग्र्यस्य कीर्त्तिश्चन्द्रमसो यथा।
देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः ॥ ३४.१४७ ॥

अनादृष्टिकडश्चैव नन्दनश्चैव भृञ्जिनः।
श्यामः शमीको गण्डूषः चतस्रस्तु वराङ्गनाः ॥ ३४.१४८ ॥

पृथा च श्रुतवेदा च श्रुतकीर्त्तिः श्रुतश्रवाः।
राजाधिदेवी च तथा पञ्चैता वीरमातरः ॥ ३४.१४९ ॥

पृथां दुहितरं चक्रे कुन्ति स्तां पाण्डुरावहत्।
अनपत्याय वृद्धाय कुन्तिभोजाय तां ददौ ॥ ३४.१५० ॥

तस्मात् कुन्तीति विख्याता कुन्तीभोजात्मजा पृथा।
कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ॥ ३४.१५१ ॥

पृथा जज्ञे ततः पुत्रान् त्रीनग्निसमतेजसः।
लोकेऽप्रतिरथान् वीरान् शक्रतुल्यपराक्रमान् ॥ ३४.१५२ ॥

धर्माद्युधिष्ठिरं पुत्रं मारुताच्च वृकोदरम्।
ईन्द्राद्धनञ्जयञ्चैव पृथा पुत्रानजीजनत् ॥ ३४.१५३ ॥

माद्रवत्यान्तु जनितावाश्विनाविति विश्रुतम्।
नकुलः सहदेवश्च रूपसत्त्वगुणान्वितौ ॥ ३४.१५४ ॥

जज्ञे च श्रुतदेवायां तनयो वृद्धशर्मणः।
करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ॥ ३४.१५५ ॥

कैकेयां श्रुतकीर्त्यान्तु जज्ञे सन्तर्दनः पुनः।
चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ॥ ३४.१५६ ॥

विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ।
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥ ३४.१५७ ॥

दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः।
यः पुरासीद्दशग्रीवः सम्बभूवारिमर्दनः ॥ ३४.१५८ ॥

यदुश्रवानुजस्तस्य रुजकन्योऽनुजस्तथा।
पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥ ३४.१५९ ॥

पौरवी रोहिणी चैव मदिरा चापरा तथा।
तथैव भद्रा वैशाखी देवकी सप्तमी तथा ॥ ३४.१६० ॥

सुगन्धिर्वनराजी च द्वे चान्ये परिचारिके॥
रोहिणी पौरवी चैव वाल्मीकस्यात्मजाभवत् ॥ ३४.१६१ ॥

विश्वास-प्रस्तुतिः

ज्येष्ठा पत्नी महाभागा दयितानकदुन्दुभेः ।
ज्येष्ठं लेभे सुतं रामं सारणं निशवं तथा ॥ ३४.१६२ ॥

दुर्द्दमं दमनं शुभ्रं पिण्डारककुशीतकौ।
चित्रां नाम कुमारीञ्च रोहिण्यष्टौ व्यजायत ॥ ३४.१६३ ॥

पौत्रौ रामस्य जज्ञाते विज्ञातौ निशितोत्सुकौ।
पार्श्वी च पार्श्वनन्दी च शिशुः सत्यधृतिस्तथा ॥ ३४.१६४ ॥

मन्दबाह्योऽथ रामाणगिरिकौ गिर एव च।
शुक्लगुल्मेति गुल्मश्च दरिद्रान्तक एव च ॥ ३४.१६५ ॥

कुमार्यश्चापि पञ्चाद्या नामतस्ता निबोधत।
अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥ ३४.१६६ ॥

तथा शतबला चैव सारणस्य सुतास्त्विमाः।
भद्राश्वो भद्रगुप्तिश्च भद्रविघ्नस्तथैव च ॥ ३४.१६७ ॥

भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च।
सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वश्च भद्रजः ॥ ३४.१६८ ॥

दुर्मदश्चाभिभूतश्च रोहिण्याः कुलजाः स्मृताः ।
नन्दोपनन्तदौ मित्रश्च कुक्षिमित्रस्तथाचलः ॥ ३४.१६९ ॥

चित्रोप चित्रे कन्ये च स्थितः पुष्टिरथापरः।
मदिरायाः सुता ह्येते सुदेवोऽथ विजज्ञिरे ॥ ३४.१७० ॥

उपबिम्बोऽथ बिम्बश्च सत्त्वदन्तमहौजसौ।
चत्वार एते विख्याता भद्रापुत्रा महाबलाः ॥ ३४.१७१ ॥

वैशाख्यां समदाच्छौरिः पुत्रं कौशिकमुत्तमम्।
देवक्यां जज्ञिरे शौरिः सुषेणः कीर्तिमानपि ॥ ३४.१७२ ॥

तदयो भद्रसेनश्च यजुदायश्च पञ्चमः।
षष्ठो भद्रविदेकश्च कंसः सर्वाञ्जघान तान् ॥ ३४.१७३ ॥

अथ तस्यामवस्थायामायुष्मान् सम्बभूव ह।
लोक नाथः पुनर्विष्णुः पूर्वकृष्णः प्रजापतिः ॥ ३४.१७४ ॥

अनुजाताऽभवत् कृष्णा सुभद्रा भद्रभाषिणी।
कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी ॥ ३४.१७५ ॥

सुभद्रायां रथी पार्थादभिमन्युरजायत।
वसुदेवस्य भार्यासु महाभागासु सप्तसु।
ये पुत्रा जज्ञिरेशूरा नामतस्तान्निबोधत ॥ ३४.१७६ ॥

अतोऽस्य सह देवायां शूरो जज्ञेऽभयासखः।
शार्ङ्गदेवाजनत्तम्बुं शौरी जज्ञे कुलोद्वहम् ॥ ३४.१७७ ॥

उपसङ्गं वसुञ्चापि तनयौ देवरक्षितौ।
एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ॥ ३४.१७८ ॥

विजयं रोजनञ्चैव वर्द्धमानं तथैव च।
एतान् सर्वान् महाभागानुपदेवा व्यजायत ॥ ३४.१७९ ॥

स्वगाहवं महात्मानं वृक देवी त्वजायत ।
आगाही च स्वसा चैव सुरूपा शिशिरायिणी ॥ ३४.१८० ॥

सप्तमं देवकीपुत्रं सुनासा सुषुवे भुवम्।
गवेषणं महाभागं सङ्ग्रामे चित्र योधिनम् ॥ ३४.१८१ ॥

श्राद्धदेवं पुरा येन वने विरचिता द्विजाः।
शैब्यायामददच्छौरिः पुत्रं कौशिकमव्ययम् ॥ ३४.१८२ ॥

सुगन्धी वनराजी च शौरेरास्तां परिग्रहः।
पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ हि तौ।
तयो राजाऽभवत् पुण्ड्रः कपिलस्तु वनं ययो ॥ ३४.१८३ ॥

तस्यां समभवद्वीरो वसुदेवात्मजो बली।
राजा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ॥ ३४.१८४ ॥

विख्यातो देवरातस्य महाभागः सुतोऽभवत्।
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ॥ ३४.१८५ ॥

अस्मक्यां लभते पुत्रमनादृष्टिं यशस्विनम्।
निवर्त्तः शक्रशत्रुघ्नं श्राद्धदेवं महाबलम् ॥ ३४.१८६ ॥

अजायत श्राद्धदेवो निषधादिर्यतः श्रुतः।
एकलव्यो महावीर्यो निषादैः परिवर्द्धितः ॥ ३४.१८७ ॥

गण्डूषायानपत्याय कृष्णस्तुष्टोऽददत् सुतौ।
चारुदेष्णञ्च साम्बञ्च कृतास्त्रौ शस्तलक्षणौ ॥ ३४.१८८ ॥

तन्तिजस्तन्तिमालश्च स्वपुत्रौ कनकस्य तु।
वस्तावनेस्त्वपुत्राय वसुदेवः प्रतापवान्।
सौतिर्ददौ सुतं वीरं शौरिं कौशिकमेव च ॥ ३४.१८९ ॥

तपाश्च कोधनुश्चैव विरजाः श्यामसृञ्जिमौ।
अनपत्योऽभवच्छ्यामः श्यामकस्तु वनं ययौ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्नुयात् ॥ ३४.१९० ॥

य इदं जन्म कृष्णस्य पठते नियतव्रतः।
श्रावयेद्ब्राह्मणञ्चापि सुमहत्सुखमाप्नुयात् ॥ ३४.१९१ ॥

देवदेवो महातेजाः पूर्वं कृष्णः प्रजापतिः ।
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ॥ ३४.१९२ ॥

देवक्यां वसुदेवेन तपसा पुष्करेक्षणः।
चतुर्बाहुः स विज्ञेयो दिव्यरूपः श्रियान्वितः ॥ ३४.१९३ ॥

प्रकाशो भगवान् योगी कृष्णो मानुषमागतः।
अव्यक्तोऽव्यक्तलिङ्गस्थः स एव भगवान् प्रभुः ॥ ३४.१९४ ॥

नारायणो यतश्चक्रे प्रभवं चाव्ययो हि सः।
देवो नारायणो भूत्वा हरिरासीत्सनातनः ॥ ३४.१९५ ॥

योऽसृजच्चादिपुरुषं पुरा चक्रे प्रजापतिम्।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः।
देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् ॥ ३४.१९६ ॥

प्रसादजं यस्य विभोरदित्याः पुत्रकारणम्।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥ ३४.१९७ ॥

ययातिवंशजस्याथ वसुदेवस्य धीमतः।
कुलं पुण्यं यतः कर्म भेजे नारायणः प्रभुः ॥ ३४.१९८ ॥

सागराः समकम्पन्त चेलुश्च धरणीधराः।
जज्वलुश्चाग्निहोत्राणि जायमाने जनार्दने ॥ ३४.१९९ ॥

शिवाश्च प्रववुर्वाताः प्रशान्तिमभवद्रजः।
ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्दने ॥ ३४.२०० ॥

अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी।
मुहूर्त्तो विजयो नाम यत्र जातो जनार्दनः ॥ ३४.२०१ ॥

अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः।
जायते स्मैव भगवान् नयनैर्मोहयन् प्रजाः ॥ ३४.२०२ ॥

आकाशात् पुष्पवृष्टीश्च ववर्ष त्रिदशेश्वरः।
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम्।
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ॥ ३४.२०३ ॥

वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम्।
श्रीवत्सलक्षणं दृष्ट्वा दिवि दिव्यैः सुलक्षणैः।
उवाच वसुदेवः स्वं रूपं संहर वै प्रभो ॥ ३४.२०४ ॥

भीतोऽहं कंसतस्तात एतदेव ब्रवीम्यहम्।
मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ॥ ३४.२०५ ॥

वसुदेववचः श्रुत्वा रूपं स हृतवान् प्रभुः।
अनुज्ञातः पिता त्वेनं नन्दगोपगृहं गतः।
उग्रसेनमते तिष्ठन् यशोदायै तदा ददौ ॥ ३४.२०६ ॥

तुल्यकालन्तु गर्भिण्यौ यशोदा देवकी तथा।
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥ ३४.२०७ ॥

यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलप्रभुः।
तामेव रजनीं कन्यां यशोदापि व्यजायत ॥ ३४.२०८ ॥

तं जातं रक्षमाणस्तु वसुदेवो महायशाः।
प्रादात् पुत्रं यशोदायै कन्यान्तु जगृहे स्वयम् ॥ ३४.२०९ ॥

दत्त्वैनं नन्दगोपस्य रक्षमामिति चाब्रवीत्।
सुतस्ते सर्वकल्याणो यादवानां भविष्यति।
अयं स गर्भो देवक्या अस्मत्क्लेशान् हनिष्यति ॥ ३४.२१० ॥

उग्रसेनात्मजायाञ्च कन्यामानकदुन्दुभेः।
निवेदयामास तदा कन्येति शुभलक्षणा ॥ ३४.२११ ॥

स्वासायां तनयं कंसो जातं नैवावधारयत्।
अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ॥ ३४.२१२ ॥

हता वै या यदा कन्या जपत्येष वृथामतिः।
कन्या सा ववृधे तत्र वृष्णिसद्मनि पूजिता ॥ ३४.२१३ ॥

पुत्रवत्परिपाल्यन्तो देवा देवान् यथा तदा ।
तामेव विधिनोत्पन्नामाहुः कन्यां प्रजापतिम् ॥ ३४.२१४ ॥

एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह।
तां वै सर्वे सुमनसः पूजयिष्यन्ति यादवाः।
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥ ३४.२१५ ॥

ऋषय ऊचुः ॥

विश्वास-प्रस्तुतिः

किमर्थं वसुदेवस्य भोजः कंसो नराधिपः।
जघान पुत्रान् बालान् वै तन्नो व्याख्यातुमर्हसि ॥ ३४.२१६ ॥

श्रृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः।
जाताञ्जाताञ्चिशून् सर्वान् निष्पिपेष वृथामतिः ॥ ३४.२१७ ॥

भयाद्यथा महाबाहुर्जातः कृष्णो विवासितः।
तथा च गोषु गोविन्दः संवृद्ध- पुरुषोत्तमः ॥ ३४.२१८ ॥

उक्तं हि किल देवक्या वसुदेवस्य धीमतः ।
सारथ्यं कृतवान् कंसो युवराजस्तदाऽभवत् ॥ ३४.२१९ ॥

ततोऽन्तरिक्षे वागासीद्दिव्या भूतस्य कस्यचित्।
कंसो यया सदा भीतः पुष्कला लोकसाक्षिणी ॥ ३४.२२० ॥

यामेतां वहसे कंस रथेन परकारणात्।
अस्या यः सप्तमो गर्भः स ते मृत्युर्भविष्यति ॥ ३४.२२१ ॥

तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः।
निष्क्रम्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा ॥ ३४.२२२ ॥

तमुवाच महाबाहुर्वसुदेवः प्रतापवान्।
उग्रसेनात्मजं कंसं सौहृदात्प्रणयेन च ॥ ३४.२२३ ॥

नस्त्रियं क्षत्रियो जातु हन्तुमर्हति कश्चन।
उपायः परिदृष्टोऽत्र मया यादवनन्दन ॥ ३४.२२४ ॥

योऽस्याः सम्भवते गर्भः सप्तमः पृथिवी पते।
तमहन्ते प्रयच्छामि तत्र कुर्या यथाक्रमम् ॥ ३४.२२५ ॥

त्वं त्विदानीं यथेष्टत्वं वर्तेथा भूरिदक्षिण।
सर्वानस्यास्तु वै गर्भान् सत्यं नेष्यामि ते वशम् ॥ ३४.२२६ ॥

एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति।
एवमुक्तोऽनुनीतः स जग्राह तनयांस्तदा ॥ ३४.२२७ ॥

वसुदेवश्च तां भार्यामवाप्य मुदितोऽभवत्।
कंसश्चास्यावधीत् पुत्रान् पापकर्मा वृथामतिः ॥ ३४.२२८ ॥

क एष वसुदेवश्च देवकी च यशस्विनी।
नन्दगोपस्तु कस्त्वेष यशोदा च महायशाः।
यो विष्णुं जनयामास या चैनं चाभ्यवर्द्धयत् ॥ ३४.२२९ ॥

सूत ऊवाच॥

विश्वास-प्रस्तुतिः

पुरुषाः कश्यपस्यासन्नादित्यास्तु स्त्रियास्तथा।
अथ कामान् महाबाहुर्देवक्याः समवर्द्धयत् ॥ ३४.२३० ॥

अचरत् स महीं देवः प्रविष्टो मानुषीं तनुम्।
मोहयन् सर्वभूतानि योगात्मा योगमायया ॥ ३४.२३१ ॥

नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम्।
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ॥ ३४.२३२ ॥

आहृता रुक्मिणी कन्या सत्या नग्नजितस्तदा।
सात्राजिती सत्यभामा जाम्बवत्यपि रोहिणी ॥ ३४.२३३ ॥

शैब्या सुदेवी माद्री च सुशीला नाम चापरा।
कालिन्दी मित्रविन्दा च लक्ष्मणा जालवासिनी ॥ ३४.२३४ ॥

एवमादीनि देवानां सहस्राणि च षोडश।
चतुर्द्दश तु ये प्रोक्ता गणाश्चाप्सरसां दिवि ।
विचिन्त्य देवैः शक्रेण विशिष्टास्त्विह प्रेषिताः ॥ ३४.२३५ ॥

पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु।
एताः पत्न्यो महाभागा विंष्वक्सेनस्य विश्रुताः ॥ ३४.२३६ ॥

प्रद्युम्नश्चारुदेष्णश्च सुदेष्णः शरभस्तथा।
चारुश्च चारुभद्रश्च भद्रचारुस्तथाऽपरः ॥ ३४.२३७ ॥

चारुविन्ध्यश्च रुक्मिण्यां कन्या चारुमती तथा।
सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रयस्तथा ॥ ३४.२३८ ॥

जरान्धकस्ताम्रवक्षा भौमरिश्च जरन्धमः।
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ॥ ३४.२३९ ॥

भानुर्भौमरिका चैव ताम्रपर्णी जरन्धमा।
सत्यभामासुतानेताञ्जाम्बवत्याः प्रजाः श्रृणु ॥ ३४.२४० ॥

भद्रश्च भद्रगुप्तश्च भद्रविन्द्रस्तथैव च।
सप्तबाहुश्च विख्यातः कन्या भद्रावती तथा।
सम्बोधनी च विख्याता ज्ञेया जाम्बवतीसुताः ॥ ३४.२४१ ॥

सङ्ग्रामजिच्च शतजित् त न च सहस्रजित्।
एते पुत्राः सुदेव्याश्च विष्वक्सेनस्य कीर्त्तिताः ॥ ३४.२४२ ॥

वृको वृकाश्वो वृकजिद्वृजिनी च सुराङ्गना।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजास्त्विह ॥ ३४.२४३ ॥

एवमादीनि पुत्राणां सह स्राणि निबोधत।
प्रयुतन्तु समाख्यातं वासुदेवस्य ये सुताः ॥ ३४.२४४ ॥

अयुतानि तथाष्टौ च शूरा रणविशारदाः।
जनार्दनस्य वंशो वः कीर्त्तितोऽयं यथातथम् ॥ ३४.२४५ ॥

बृहती नर्तकोन्नेयी सुनये सङ्गता तथा ।
कन्या सा बृहदुच्छस्य शौनेयस्य महात्मनः ॥ ३४.२४६ ॥

तस्याः पुत्रास्तु विख्याता स्त्रयः समितिशोभनाः ।
अङ्गदः कुमुदः श्वेतः कन्या श्वेता तथैव च ॥ ३४.२४७ ॥

अवगाहश्च चित्रश्च शूरश्चित्रवरश्च यः।
चित्रसेनः सुतश्चास्य कन्या चित्रवती तथा ॥ ३४.२४८ ॥

तुम्बश्च तुम्बबाणश्च जनस्तम्बश्च तावुभौ।
उपाङ्गस्य स्मृतौ द्वौ तु वज्रारः क्षिप्र एव च ॥ ३४.२४९ ॥

भूरीन्द्रसेनो भूरिश्च गवेषस्य सुतावुभौ ।
युधिष्ठिरस्य कन्या तु सुतनुर्नाम विश्रुता ॥ ३४.२५० ॥

तस्यामश्वसुतो जज्ञे वज्रो नाम महायशाः।
वज्रस्य प्रतिबाहुस्तु सुचारुस्तस्य चात्मजः ॥ ३४.२५१ ॥

काश्मा सुपार्श्वं तनयं जज्ञे साम्बा तरस्विनम्।
तिस्रः कोट्यस्तु पुत्राणां यादवानां महात्मनाम् ॥ ३४.२५२ ॥

षष्टिंशतसहस्राणि वीर्यवन्तो महाबलाः।
देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः ॥ ३४.२५३ ॥

दैवासुरे हता ये च असुरा वै महातपाः।
इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् ।
तेषामुत्सादनार्थन्तु उत्पन्ना यादवे कुले ॥ ३४.२५४ ॥

कुलानि दश चैकञ्च यादवानां महात्मनाम्।
सर्वमककुलं यद्वद्वर्त्तते वैष्णवे कुले ॥ ३४.२५५ ॥

विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिभिस्तस्य बद्ध्यन्ते सर्वमानुषाः ॥ ३४.२५६ ॥

इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः।
कीर्त्तिता कीर्त्तनाच्चैव कीर्त्तिसिद्धिमभीप्सिताम् ॥ ३४.२५७ ॥

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुवंशानुकीर्त्तनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ *