०३३

ऋषय ऊचुः॥

विश्वास-प्रस्तुतिः

किमर्थं भुवनं दग्धमपवस्यं महात्मनाम्।
कार्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम् ॥ ३३.१ ॥

मूलम्

रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम्।
कथं स रक्षिता भूत्वानाशयत्तत्तपोवनम् ॥ ३३.२ ॥

सूत उवाच॥

विश्वास-प्रस्तुतिः

आदित्यो विप्ररूपेण कार्तवीर्यमुपस्थितः।
तृप्तिकामः प्रयच्छान्नमादित्योऽहं न संशयः ॥ ३३.३ ॥

राजोवाच॥

विश्वास-प्रस्तुतिः

भगवन् केन ते तुष्टिर्भवेद्ब्रूहि दिवाकर।
कीदृशं भोजनं दझि श्रुत्वा च विदधाम्यहम् ॥ ३३.४ ॥

सूर्य उवाच॥

विश्वास-प्रस्तुतिः

स्थावरं देहि मे सर्वमाहारं ददतां वर।
तेन तृप्तो भवेयं वै न तुष्येऽन्येन पार्थिव ॥ ३३.५ ॥

राजोवाच ॥

विश्वास-प्रस्तुतिः

न शक्यं स्थावरं सर्वं तेजसा मानुषेण तु।
निर्द्दग्धुं तपतां श्रेष्ठ त्वामेव प्रणमाम्यहम् ॥ ३३.६ ॥

आदित्य उवाच॥

विश्वास-प्रस्तुतिः

तुष्टस्तेऽहं शरान् दझि अक्षयान् सर्वतः सुखान्।
प्रक्षिप्ताः प्रज्वलिष्यन्ति मम तेजःसमन्विताः ॥ ३३.७ ॥

आदिष्टं तेजसा मेघसागरं शोषयिष्यति।
शुष्कं भस्म करिष्यामि तेन प्रीतो नराधिप ॥ ३३.८ ॥

ततः शरानथादित्यस्त्वर्जुनाय प्रयच्छति।
ततः सम्प्राप्य सुमहत्स्थावरं सर्वमेव हि ॥ ३३.९ ॥

आश्रमानथ ग्रामांश्च घोषांश्च नगराणि च।
तपोवनानि रम्याणि वनान्युपवनानि च ॥ ३३.१० ॥

एवं प्राचीनमदहत्ततः सूर्यप्रदक्षिणम्।
निर्वृक्षा निस्तृणा भूमिर्दग्धा सूर्येण तेजसा ॥ ३३.११ ॥

एतस्मिन्नेव काले तु अपो निलयमाश्रितः।
दशवर्षसहस्राणि जलवासा महानृषिः ॥ ३३.१२ ॥

पूर्णे व्रते महातेजा उदतिष्ठत्तपोधनः।
सोऽपश्यदाश्रमं दग्धमर्जुनेन महानृषिः।
क्रोधाच्छशाप राजर्षिं कीर्त्तितं वो यथा मया ॥ ३३.१३ ॥

क्रोष्टोः श्रृणुत राजर्षेर्वंशमुत्तमपूरुषम्।
यस्यान्ववाये सम्भूतो वृष्णिर्वृष्णिकुलोद्वहः ॥ ३३.१४ ॥

क्रोष्टोरेकोऽभवत् पुत्रो वृजिनीवान् महायशाः।
वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहोवतां वरम् ॥ ३३.१५ ॥

स्वाहेः पुत्रोऽभवद्राजा रशादुर्ददतां वरः।
घृतम्प्रसूतमिच्छन्ति रशादोरग्र्यमात्मजम् ॥ ३३.१६ ॥

महाक्रतुभिरीजे स विविधैराप्तदक्षिणैः।
चित्रैश्चित्ररथस्तस्य पुत्र कर्मभिरन्वितः ॥ ३३.१७ ॥

एवं चित्ररथो वीरो यज्ञान् विपुलदक्षिणान्।
शशबिन्दुः परं वृत्तो राजर्षीणामनुष्ठितः ॥ ३३.१८ ॥

चक्रवर्त्ती महासत्त्वो महावीर्यो बहुप्रजः।
तत्रानुवंशश्लोकोऽयं यस्मिन् गीतः पुराविदैः ॥ ३३.१९ ॥

शशबिन्दोस्तु पुत्राणां शतानामभवच्छतम्।
धीमतामनुरूपाणां भूरिद्रविणतेजसाम् ॥ ३३.२० ॥

तेषां षट् च प्रधानास्तु पृथुषाट्का महाबलाः।
पृथुश्रवा पृथुयशाः पृथुधर्मा पृथुञ्जयः ॥ ३३.२१ ॥

पृथुकीर्त्तिः पृथुन्दाता राजानः शाशिबिन्दवाः।
शंसन्ति च पुराणानि पार्थश्रवसमन्तरम्।
अन्तरः स पुरा यस्तु यज्ञस्य तनयोऽभवत् ॥ ३३.२२ ॥

उशना सुतधर्मात्मा अवाप्य पृथिवीमिमाम्।
आजहाराश्वमेधानां शतमुत्तमधार्मिकः ॥ ३३.२३ ॥

मरुत्तस्तस्य तनयो राजर्षीणामनुष्ठितः।
वीरः कम्बलबर्हिस्तु मरुत्ततनयः स्मृतः ॥ ३३.२४ ॥

पुत्रस्तु रुक्मकवचो विद्वान् कम्बलवर्हिषः।
निहत्य रुक्मकवचः पुरा कवचिनो रणे ॥ ३३.२५ ॥

धन्विनो निशितैर्बाणैरवाप श्रियमुत्तमाम्।
ब्राह्मणेभ्यो ददौ वित्तमश्वमेधमहायशाः ॥ ३३.२६ ॥

राज्ञस्तु रुक्मकवचादपरावृत्त्य वीरहाः।
जज्ञिरे पञ्च पुत्रास्तु महासत्त्वा महाबलाः ॥ ३३.२७ ॥

रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः।
परिघञ्च हरिञ्चैव विदेहे स्थापयत्पिता ॥ ३३.२८ ॥

ब्रह्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः।
तेभ्यः प्रव्रजितो राज्या ज्ज्यामघोऽभवदाश्रमे ॥ ३३.२९ ॥

प्रशान्तस्तु वने घोरे ब्राह्मणेनावबोधितः।
जगाम धनुरादाय देशमध्यं रथी ध्वजी ॥ ३३.३० ॥

नर्मदानूप एकाकी मेकलावृत्तिका अपि।
ऋक्षवन्तं गिरिं गत्वा शुक्तिमन्यामथाविशत् ॥ ३३.३१ ॥

ज्यामघस्याभवद्भार्या शैभ्या बलवती भृशम्।
अपुत्रोऽपि स वै राजा भार्यामन्यां न विन्दति ॥ ३३.३२ ॥

तस्यासीद्विजयो युद्धे ततः कन्यामवाप सः।
भार्यामुवाच राजा स स्नुषेति तु नरेश्वरः ॥ ३३.३३ ॥

एवमुक्ताब्रवीदेवं काम्ये यन्ते स्नुषेति सा।
यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति ॥ ३३.३४ ॥

तस्य सा तपसोग्रेण शैब्या वैशं प्रसूयत ।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती ॥ ३३.३५ ॥

राजपुत्रौ तु विद्वांसौ स्नुषायां क्रथुकौशिकौ।
पुत्रौ विदर्भोऽजनयच्छूरौ रणविशारदौ ॥ ३३.३६ ॥

लोमपादं तृतीयन्तु पश्चाज्जज्ञे सुधार्मिकः।
लोम पादात्मजोवस्तुराहृतिस्तस्य चात्मजः ॥ ३३.३७ ॥

कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः ।
क्रथोर्विदर्भपुत्रस्तु कुन्तिस्तस्यात्मजोऽभवत् ॥ ३३.३८ ॥

कुन्तेर्धृष्टसुतो जज्ञे पुरोधृष्टः प्रतापवान् ।
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ॥ ३३.३९ ॥

तस्य पुत्रो दशार्हस्तु महाबलपराक्रमः।
दशर्हस्य सुतो व्योमा ततो जीमूत उच्यते ॥ ३३.४० ॥

जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः.
अथ भीमरथस्यासीत् पुत्रो रथवरः किल ॥ ३३.४१ ॥

विश्वास-प्रस्तुतिः

दाता धर्मरतो नित्यं शीलसत्यपरायणः।
तस्य पुत्रो नवरथस्ततो दशरथः स्मृतः ॥ ३३.४२ ॥

तस्य चैकादशरथः शकुनिस्तस्य चात्मजः।
तस्मात् करम्भको धन्वी देवरातोऽभवत्ततः ॥ ३३.४३ ॥

देवक्षत्रोऽभवद्राजा देवरातिर्महायशाः।
देवक्षत्रसुतो जज्ञे देवनः क्षत्रनन्दनः ॥ ३३.४४ ॥

देवनात् स मधुर्जज्ञे यस्य मेधार्थसम्भवः।
मधोश्चापि महातेजा मनुर्मनुवशस्तथा ॥ ३३.४५ ॥

नन्दनश्च महातेजा महापुरुवशस्तथा।
आसीत् पुरुवशात् पुत्रः पुरुद्वान् पुरुषोत्तमः ॥ ३३.४६ ॥

जज्ञे पुरुद्वतः पुत्रो भद्रवत्यां पुरूद्वहः।
ऐक्षाकी त्वभवद्भार्या सत्त्वस्तस्यामजायत।
सत्त्वात् सत्त्वगुणो पेतः सात्त्वतः कीर्तिवर्द्धनः ॥ ३३.४७ ॥

इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ॥ ३३.४८ ॥

इति श्रीमहा पुराणे वायुप्रोक्ते ज्यामघवृत्तान्तकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ *