॥सूर्य उवाच॥
विश्वास-प्रस्तुतिः
यदोर्वंशं प्रवक्ष्यामि श्रेष्ठस्योत्तमतेझसः।
विस्तरेणानुपूर्व्येण गदतो मे निबोधत ॥ ३२.१ ॥
मूलम्

यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः।
सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलो जितो लघुः ॥ ३२.२ ॥

सहस्रजित्सुतः श्रीमाञ्छतजिन्नाम पार्थिवः।
सतजित्सुता विख्या तास्त्रयः परमधार्मिकाः ॥ ३२.३ ॥

हैहयश्च हयश्चैव राजा वेणुहयश्च यः।
हैहयस्य तु दायादो धर्मतत्त्व इति श्रुतिः ॥ ३२.४ ॥

धर्मतन्त्रस्तु कीर्त्तिस्तु सञ्ज्ञेयस्तस्य चात्मजः।
सञ्ज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ॥ ३२.५ ॥

आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्।
वाराणस्यधिपो राजा कथितः पूर्व एव हि ॥ ३२.६ ॥

भद्रश्रेण्यस्य दायादो दुर्मदो नाम पार्थिवः।
दुर्मदस्य ततो धीमान् कन्को नाम विश्रुतः ॥ ३२.७ ॥

कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः।
कृत वीर्यः कार्तवीर्यः कृतवर्मा तथैव च ॥ ३२.८ ॥

कृतो जातश्चतुर्थोऽभूत्कृतविर्यात्ततोऽर्जुनः।
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ॥ ३२.९ ॥

स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम्।
दत्तमाराधयामास कार्त्तवीर्योऽत्रिसम्भवम् ॥ ३२.१० ॥

तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः।
पूर्वं बाहुसहस्रन्तु स वव्रे प्रथमं वरम् ॥ ३२.११ ॥

अधर्मे दीयमानस्य सद्भिस्तस्मान्निवारणम्।
धर्मेण पृथिवीञ्जित्वा धर्मेणैवानुपालनम् ॥ ३२.१२ ॥

सङ्ग्रामांस्तु बहून् जित्त्वा हत्वा चारीन् सहस्रशः।
सङ्ग्रामे युद्धयमानस्य वधः स्यादधिकाद्रणे ॥ ३२.१३ ॥

तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना ।
सप्तोदधिपरिक्षिप्ता क्षात्रेण विधिना जनाः ॥ ३२.१४ ॥

तस्य बाहुसहस्रन्तु युद्ध्यतः किल धीमतः।
यौद्धो ध्वजो रथश्चैव प्रादुर्भवति मायया ॥ ३२.१५ ॥

दशयज्ञसहस्राणि तेषु द्वीपेषु सप्तसु।
निरर्गलाः स्म निर्वृत्ताः श्रूयन्ते तस्य धीमतः ॥ ३२.१६ ॥

सर्वे यज्ञा महाबाहोस्तस्यासन् भूरितेजसः।
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥ ३२.१७ ॥

सर्वे देवैर्माहाभागैर्विमानस्थैरलङ्कृताः।
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ ३२.१८ ॥

तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तथा।
चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ॥ ३२.१९ ॥

न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ ३२.२० ॥

द्वीपेषु सप्तसु स वै खड्गी वरशरासनी।
रथी राजाप्यनुचरोऽन्योऽगाच्चैवानुदृश्यते ॥ ३२.२१ ॥

अनष्टद्रव्यश्चैवासीन्न शोको न च विभ्रमः।
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ ३२.२२ ॥

पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः।
सप्त सप्त वारान् सम्राट् चक्रवर्त्ती बभूव ह ॥ ३२.२३ ॥

स एव पशुपालोऽभूत् क्षेत्रपालस्तथैव च।
स एव वृष्ट्या पर्जन्यो योगित्वादर्ज्जुनोऽभवत् ॥ ३२.२४ ॥

स वै बाहुसहस्रेण ज्याघातकठिनेन च ।
भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥ ३२.२५ ॥

स हि नागसहस्रेण माहिष्मत्यां नराधिपः।
कर्कोटकसभाञ्जित्वा पुरीं तत्र न्यवेशयत् ॥ ३२.२६ ॥

स वै वेगे समुद्रस्य प्रावृट्कालाम्बुजेक्षणः ।
क्रीडन्निव सुखोद्विग्नः प्रावृट्कालञ्चकार ह ॥ ३२.२७ ॥

लुलिता क्रीडता तेन हेमस्रग्दाममालिनी।
ऊर्मिभ्रूकुटिसन्नादा शङ्किताभ्येति नर्मदा ॥ ३२.२८ ॥

पुरा स तामनुसरन्नवगाढो महार्णवम्।
चकारोद्धृत्त्य वेलान्तं स कालः प्रावृणोद्वनम् ॥ ३२.२९ ॥

तस्य बाहु सहस्रेण क्षोभ्यमाणे महादधौ।
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥ ३२.३० ॥

चूर्णीकृतमहावीचिलीनमीनमहाविषाः।
पतिता विद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ॥ ३२.३१ ॥

चकार क्षोभयन्राजा दोःसहस्रेण सागरम्।
देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ॥ ३२.३२ ॥

मन्दरक्षोभणकृता ह्यमृतोदकशङ्कि ताः।
सहसोत्पादिता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥ ३२.३३ ॥

नतनिश्चलमूर्द्धानो बभूवुश्च महोरगाः।
सायाह्ने कदलीषण्डा निर्वातस्तिमिता इव ॥ ३२.३४ ॥

स वै बद्ध्वा धनुर्यान उत्सिक्तः पञ्चभिः शतैः।
लङ्कायां मोहयित्वा तु सबलं रावणं बलात्।
निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध तम् ॥ ३२.३५ ॥

ततो गत्वा पुलस्त्यस्तु अर्जुनं च प्रसादयत्।
मुमोच राजा पौलस्त्यं पुलस्त्येनानुपालितम् ॥ ३२.३६ ॥

तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः।
युगान्तेऽम्बुदवृक्षस्य स्फुटितस्याशनेरिव ॥ ३२.३७ ॥

अहो मृधे महावीर्यं भार्गवो यस्य सोऽच्छिनत्।
मृधे सहस्रं बाहूनां हेमतालवनं यथा ॥ ३२.३८ ॥

तृषितेन कदाचित्स भिक्षितश्चित्रभानुना।
सप्त द्वीपांश्चित्रभानोः प्रादाद्भिक्षां विशाम्पतिः ॥ ३२.३९ ॥

पुराणि घोषान् ग्रामांश्च पत्तनानि च सर्वशः॥
जज्वाल तस्य बाणेषु चित्रभानुर्दिधक्षया ॥ ३२.४० ॥
विश्वास-प्रस्तुतिः
स तस्य पुरुषेन्द्रस्य प्रभावेण महायशाः।
ददाह कार्तवीर्यस्य शैलांश्चापि वनानि च ॥ ३२.४१ ॥

स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै।
ददोह सवनद्वीपांश्चित्रभानुः सहैहयः ॥ ३२.४२ ॥

संलेभे वरुणः पुत्रं पुरा भास्विनमुत्तमम्।
वसिष्ठनामा स मुनिः ख्यातश्चापः श्रितः श्रुतः ॥ ३२.४३ ॥

तत्रापदस्तदा क्रोधादर्जुनं शप्तवान्विभुः।
यस्मान्न वर्जितमिदं वनं ते मम हैहय ॥ ३२.४४ ॥

तस्मात् ते दुष्करं कर्म कृतमन्यो हनिष्यति।
अर्जुनो नाम कौन्तेयो न च राजा भविष्यति ॥ ३२.४५ ॥

अर्जुन त्वां महावीर्यो रामः प्रहरतां वरः।
छित्त्वा बाहुसहस्रं वै प्रमथ्य तरसा बलीं ॥ ३२.४६ ॥

तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः।
तस्य रामस्तदा ह्यासीन्मृत्युशापेन धीमतः ॥ ३२.४७ ॥

राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा।
तस्य पुत्रशतं ह्यासीत् पञ्च तत्र महारथाः ॥ ३२.४८ ॥

कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्वनः ।
शूरश्च शूरसेनश्च वृष्ट्याद्यं वृष एव च ॥ ३२.४९ ॥

जयध्वजश्च वै पुत्रा अवन्तिषु विशाम्पतेः।
जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ॥ ३२.५० ॥

तस्य पुत्रशतं ह्येव तालजङ्घा इति श्रुतम्।
तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ॥ ३२.५१ ॥

वीरहोत्रा ह्यसङ्ख्याता भोजाश्चावर्तयस्तथा।
तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ॥ ३२.५२ ॥

वीरहोत्रसुतश्चापि अनन्तो नाम पार्थिवः।
दुर्जयस्तस्य पुत्रस्तु बभूवामित्रदर्शनः ॥ ३२.५३ ॥

अनष्टद्रव्यता चैव तस्य राज्ञो बभूव ह।
प्रभावेण महाराजः प्रजास्ताः पर्यपालयत् ॥ ३२.५४ ॥

न तस्य वित्तनाशश्च नष्टं प्रतिलभेत सः।
कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः ॥ ३२.५५ ॥

वित्तवान् भवत्यत्रैव धर्मश्चास्य विवर्द्धते।
यथा त्वष्टा यथा दाता तथा स्वर्गे महीयते ॥ ३२.५६ ॥

इति श्रीमहापुराणे वायुप्रोक्ते कार्त्तवीर्यार्जुनोत्पत्तिविवरणं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥