॥ऋषयः ऊचुः॥
विश्वास-प्रस्तुतिः
मरुतेन कथं कन्या राज्ञे दत्ता महात्मना।
किंवीर्याश्च महात्मानो जाता मरुतकन्यकाः ॥ ३१.१ ॥
मूलम्

॥सूत उवाच॥
विश्वास-प्रस्तुतिः
आहवन् तं मरुत्सोममन्नकामः प्रजेश्वरम्।
मासि मासि महातेजाः षष्टिसंवत्सरान्नृपः ॥ ३१.२ ॥

तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः।
अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ॥ ३१.३ ॥

अन्नं तस्य सकृत्पक्वमहोरात्रे न क्षीयते।
कोटिशो दीयमानं च सूर्यस्योदयनादपि ॥ ३१.४ ॥

मित्राज्योतिस्तु कन्यायां मरुतस्य च धीमतः।
तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ॥ ३१.५ ॥

सन्न्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः।
यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ॥ ३१.६ ॥

अनपायस्ततो जातस्तदा धर्मप्रदत्तवान्।
क्षत्रधर्मस्ततो जातः प्रतिपक्षो महातपाः ॥ ३१.७ ॥

प्रतिपक्षसुतश्चापि सञ्जयो नाम विश्रुतः।
सञ्जयस्य जयः पुत्रो विजयस्तस्य जग्मिवान् ॥ ३१.८ ॥

विजयस्य जयः पुत्रस्तस्य हर्यन्द्वतः स्मृतः ।
हर्यन्दुतस्ततो राजा सहदेवः प्रतापवान् ॥ ३१.९ ॥

सहदेवस्य धर्मात्मा अदीन इति विश्रुतः।
अदीनस्य जयत्सेनस्तस्य पुत्रोऽथ सङ्कृतिः ॥ ३१.१० ॥

सङ्कृतेरपि धर्मात्मा कृतधर्मा महायशाः।
इत्येते क्षत्र धर्माणो नहुषस्य निबोधत ॥ ३१.११ ॥

नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः।
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ॥ ३१.१२ ॥

यतिर्ययातिः संयातिरायातिः पञ्च तुद्वयः।
यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः ॥ ३१.१३ ॥

काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा।
संयातिर्मो क्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ॥ ३१.१४ ॥

तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः।
देवयानिमुशनसः सुतां भार्यामवाप ह ॥ ३१.१५ ॥

शर्मिष्ठा मासुरीं चैव तनयां वृषपर्वणः।
यदुं च तुर्वसुं चैव देवयानिर्व्यजायत ॥ ३१.१६ ॥

द्रुह्युञ्चानुञ्च पूरुञ्च शर्मिष्ठा वार्षपर्वणी ।
अजीजनन्महावीर्यान् सुतान्देवसुतोपमान् ॥ ३१.१७ ॥

रथन्तस्मै ददौ रुद्रः प्रीतः परमभास्वरम्।
असङ्गं काञ्चनं दिव्यमक्षयौ च महेषुधी ॥ ३१.१८ ॥

युक्तं मनो जवैरश्वैर्येन कन्यां समुद्वहत्।
स तेन रथमुख्येन जिगाय च ततो महीम् ॥ ३१.१९ ॥

ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः ।
पौरवाणां नृपाणाञ्च सर्वेषां सोऽभवद्रथः ॥ ३१.२० ॥

योवत्सुदेशप्रभवः कौरवो जनमेजयः।
कुरोः पुत्रस्य राज्ञस्तु राज्ञः पारिक्षितस्य ह।
जगाम स रथो नाशं शापाद्गार्ग्यस्य धीमतः ॥ ३१.२१ ॥

गार्ग्यस्य हि सुतं बालः स राजा जनमेजयः।
दुर्बुद्धिर्हिंसयामास लोहगन्धं नराधिपम् ॥ ३१.२२ ॥

स लोहगन्धो राजर्षिः परिधावन्नितस्ततः।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ ३१.२३ ॥

ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित्।
शशाप हेतुकमृषिं शरण्यं व्यथितस्तदा ॥ ३१.२४ ॥

ईन्द्रोतो नाम विख्यातो योऽसौ मुनिरुदारधीः।
योजयामास चेन्द्रोतः शौनको जनमेजयम्।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ॥ ३१.२५ ॥

स लोहगन्धो व्यनशत्तस्यावसथमेत्य ह।
स च दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा ॥ ३१.२६ ॥

ततः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः।
ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम्।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ ३१.२७ ॥

स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः।
पुत्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्वचः ॥३१.२८ ॥

जरावली च मां तात पलितानि च पर्यगुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ ३१.२९ ॥

त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह।
जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ॥ ३१.३० ॥

अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
सा च व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ॥ ३१.३१ ॥

जराया बहवो दोषा पानभोजनकारिणः।
तस्माज्जरान्न ते राजन् ग्रहीतुमहमुत्सहे ॥ ३१.३२ ॥

सितश्मश्रुधरो दीनो जरया शिथिलीकृतः।
बली सन्नतगात्रश्च दुर्द्दशो दुर्बलाकृतिः ॥ ३१.३३ ॥

अशक्तः कार्यकरणे परिभूतस्तु यौवने।
महोपभीतिभिश्चैव तां जरान्नाभिकामये ॥ ३१.३४ ॥

सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप।
प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ ३१.३५ ॥

स एवमुक्तो यदुना तीव्रकोपसमन्वितः।
उवाच वदतां श्रेष्छो ज्येष्ठं तं गर्हयन् सुतम् ॥ ३१.३६ ॥

आश्रमः कश्च वान्योऽस्ति को वा धर्मविधिस्तव।
मामनादृत्य दुर्बुद्धे यदात्थ नवदेशिक ॥ ३१.३७ ॥

एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् ।
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ ३१.३८ ॥

तस्मान्न राज्यभाग् मूढ प्रजा ते वै भविष्यति।
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥ ३१.३९ ॥

तुर्वसुरुवाच॥
विश्वास-प्रस्तुतिः
न कामये जरां तात सामभोगप्रणाशिनीम्।
जराया बहवो दोषाः पानभोजनकारिणः।
तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥ ३१.४० ॥

ययातिरुवाच॥
विश्वास-प्रस्तुतिः
यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि।
तस्मात् प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥ ३१.४१ ॥

असङ्कीर्णा च धर्मेण प्रतिलोमवरेषु च।
पिशितादिषु चान्येषु मूढ राजा भविष्यसि ॥ ३१.४२ ॥

गुरु दारप्रसक्तेषु तिर्यग्योनिगतेषु वा।
पशुधर्मेषु म्लेच्छेषु भविष्यति न संशयः ॥ ३१.४३ ॥

सूत उवाच।
एवन्तु तुर्वसुं शप्त्वा ययातिः सुतमात्मनः।
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥ ३१.४४ ॥

द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्।
जरां वर्षसहस्रं वै यौवनं स्वन्ददस्व मे ॥ ३१.४५ ॥

पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम्।
स्वञ्चादास्यामि बूयोऽहं पाप्मानं जरया सह ॥ ३१.४६ ॥

द्रुह्युरुवाच॥
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ॥
न सङ्गश्चास्य भवति न जरां तेन कामये ॥ ३१.४७ ॥
ययातिरुवाच॥
विश्वास-प्रस्तुतिः
यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि।
तस्माद् द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥ ३१.४८ ॥

नौप्लवोत्तरसञ्चारस्तत्र नित्यं भविष्यति।
अराजभ्राजवंशस्त्वं तत्र नित्यं भविष्यसि ॥ ३१.४९ ॥

अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह।
एवं वर्षसहस्रन्तु चरेयं यौवनेन ते ॥ ३१.५० ॥

अनुरुवाच॥
जीर्णः शिशुवरं दत्ते जरया ह्यशुचिः सदा॥
न जुहोति स कालेऽग्नि तां जरान्नाबिकामये ॥ ३१.५१ ॥
ययातिरुवाच॥
विश्वास-प्रस्तुतिः
यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि।
जरादोषस्त्वयोक्तोऽयं तस्मात्ते प्रतिपत्स्यते ॥ ३१.५२ ॥

प्रजा च यौवनं प्राप्ता विनशिष्यत्यतस्तव।
अग्निप्रस्कन्दनपरस्त्वं चाप्येव भविष्यसि ॥ ३१.५३ ॥

पूरो त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह।
जरावली च मान्तात पलितानि च पर्यगुः ॥ ३१.५४ ॥

काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने।
कञ्चित्कालञ्जरेयं वै विषयान् वयसा तव ॥ ३१.५५ ॥

पूर्णें वर्षसहस्रे ते प्रतिदास्यामि यौवनम्।
स्वञ्चैव प्रतिपत्स्यामि पाप्मानञ्जरया सह ॥ ३१.५६ ॥

सूत उवाच॥
विश्वास-प्रस्तुतिः
एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा।
यथानुमन्यसे तात करिष्यामि तथैव च ॥ ३१.५७ ॥

प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह।
गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान् ॥ ३१.५८ ॥

जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव।
यौवनं भवते दत्त्वा चरिष्यामि यथार्तवत् ॥ ३१.५९ ॥

पूरो प्रीतोऽस्मि भद्रन्ते प्रीतश्चेदं ददामि ते।
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥ ३१.६० ॥

पूरोरनुमतो राजा ययातिः स्वां जरान्ततः।
सङ्क्रामयामास तदा प्रसादाद्भार्गवस्य तु ॥ ३१.६१ ॥

यौवनेनाथ वयसा ययातिरनहुषात्मजः ।
प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान् स्वकान् ॥ ३१.६२ ॥

यथाकामं यथोत्साहं यथाकालं यथासुखम्।
धर्माविरोधाद्राजेन्द्रो यथार्हति स एव हि ॥ ३१.६३ ॥

देवानतर्पयद्यज्ञैः पितॄञ्छ्राद्धैस्तथैव च।
दीनांश्चानुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ ३१.६४ ॥

अतिथीनन्नपानैश्च वैश्यांश्च परिपालनैः।
आनृशंस्येन शूद्रांश्च दस्यून् सन्निग्रहेण च ॥ ३१.६५ ॥

धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्।
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ ३१.६६ ॥

स राजा सिंहविक्रान्तो युवा विषयगोचरः।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ ३१.६७ ॥

स मार्गमाणः कामानामन्तर्दोषनिदर्शनात्।
विश्वासहेतो रेमे वै वैब्राजे नन्दने वने ॥ ३१.६८ ॥

अपश्यत्स यदा तां वै वर्द्धमानां नृपस्तदा।
गत्वा पूरोः सकाशं वै स्वां जरा प्रत्यपद्यत ॥ ३१.६९ ॥

स सम्प्राप्य तु तान् कामांस्तृप्तः खिन्नश्च पार्थिवः।
कालं वर्षसहस्रं वै सस्मार मनुजाधिपः। ॥ ३१.७० ॥

परिसङ्ख्याय कालञ्च कलाकाष्ठास्तथैव च।
पूर्णं मत्त्वा ततः कालं पूरुं पुत्रमुवाच ह ॥ ३१.७१ ॥

यथासुखं यथोत्साहं यथाकालमरिन्दम।
सेविता विषयाः पुत्र यौवनेन मया तव ॥ ३१.७२ ॥

पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम्।
राष्ट्रञ्च नृपं पूरुं पुत्रं कनीयसम्।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ ३१.७३ ॥

प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः।
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ॥ ३१.७४ ॥

अभिषेक्तुकामञ्च नृपं पूरुं पुत्रं कनीयसम्।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ ३१.७५ ॥

कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो।
श्रेष्ठं यदुमतिक्रम्य पूरो राज्यं प्रदास्यसि ॥ ३१.७६ ॥

यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः।
शर्मिष्ठायाः सुतो द्रुह्युस्तनोऽनुः पूरुरेव च ॥ ३१.७७ ॥

कथं ज्येष्ठानतिक्रम्य कनीयान् राज्यमर्हति ।
अतः सम्बोधयामि त्वां धर्मं समनुपालय ॥ ३१.७८ ॥

ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः।
ज्येष्टं प्रति यथा रार्ष्ट्रं न देयं मे कथञ्चन ॥ ३१.७९ ॥

माता पित्रोर्वचनकृत्स हि पुत्रः प्रशस्यते ।
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ॥ ३१.८० ॥

प्रतिकूलं पितुर्यश्च न स पुत्रः सतां मतः।
स पुत्रः पुत्रवद् यश्च वर्त्तते पितृमातृषु ॥ ३१.८१ ॥

यदुनाहमवज्ञातस्तथा तुर्वसुनापि च।
द्रुह्युणा चानुना चैवमप्यवज्ञा कृता भृशम् ॥ ३१.८२ ॥

पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः।
कनीयान् मम दायादो जरा येन धृता मम।
सर्वकामः सर्वकृतः पूरुणा पुत्रकारिणा ॥ ३१.८३ ॥

शुक्रेण च वरो दत्तः काव्ये नोशनसा स्वयम्।
पुत्रो यस्त्वानुवर्त्तेत स राजा ते महामते ॥ ३१.८४ ॥

भवतोऽनुमतोप्येवं पूरु राष्ट्रेऽभिषिच्यताम् ।
यःपुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा।
सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ॥ ३१.८५ ॥

अर्हः पूरुरिदं राष्ट्रं यः प्रियः प्रियकृत्तव।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥ ३१.८६ ॥

पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा।
अभिषिच्य ततः पूरुं स्वराष्ट्रे सुतमात्मनः ॥ ३१.८७ ॥

दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत्।
दक्षिणापरतो राजा यदुं श्रेष्ठं न्यवेशयत् ॥ ३१.८८ ॥

प्रतीच्यामुत्तरस्याञ्च द्रुह्युञ्चानुञ्च तावुभौ।
सप्तद्वीपां ययातिस्तु जित्त्वा पृथ्वीं ससागराम्।
व्यभजत् पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा ॥ ३१.८९ ॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना।
यथाप्रदेशं धर्मज्ञैर्धर्मेण प्रतिपाल्यते ॥ ३१.९० ॥

एवं विसृज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा।
पुत्रसङ्क्रामितश्रीस्तु प्रीतिमानभवन्नृपः ॥ ३१.९१ ॥

धनुर्न्यस्य पृषत्कांश्च राज्यञ्चैव सुतेषु तु।
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ॥ ३१.९२ ॥

अत्र गाथा महाराज्ञा पुरा गीता ययातिना।
योऽभिप्रेत्याहरन् कामान् कूर्मोङ्गानीव सर्वशः ॥ ३१.९३ ॥

न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ ३१.९४ ॥

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ ३१.९५ ॥

यदा तु कुरुते भावं सर्वभूतेषु पावकम्।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ ३१.९६ ॥

यदा परान्न बिभेति यदा त्वस्मान्न बिभ्यति।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ ३१.९७ ॥

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
दोषाप्राणान्तिको रागस्तां तृष्णान्त्यजतः सुखम् ॥ ३१.९८ ॥

जीर्यन्ति जीर्यतः कोशा दन्ता जीर्यन्ति जर्यितः।
जीविताशा धनाशा च जीर्यतोपि न जीर्यति ॥ ३१.९९ ॥

यच्चाकामसुखं लोके यच्च दिव्यं महत् सुखम्।
तृष्णास्य च सुखस्यैव कलां नार्हति षोडशीम् ॥ ३१.१०० ॥

एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम्।
भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः।
पालयित्वा व्रतशतं तत्रैव स्वर्गमाप्नुयात् ॥ ३१.१०१ ॥

तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः।
यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः ॥ ३१.१०२ ॥

धन्यः प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः।
ययातेश्चरितं सर्वं पठञ्छृण्वन् द्विजोत्तमः ॥ ३१.१०३ ॥

इति श्रीमहापुराणे वायुप्रोक्ते चन्द्र वंशकीर्त्तनं नामैकत्रिंशोऽद्यायः ॥ ३१ ॥*