सूत उवाच॥
विश्वास-प्रस्तुतिः
एते पुत्रा महात्मानः पञ्चैवासन् महाबलाः।
स्वर्भानुतनया विप्राः प्रभायां जज्ञिरे नृपाः ॥ ३०.१ ॥
मूलम्

नहुषः प्रथमस्तेषां पुत्रधर्मा ततः स्मृतः।
धर्मवृद्धात्मजश्चैव सुतहोत्रो महायशाः ॥ ३०.२ ॥

सुतहोत्रस्य दायादास्त्रयः परमधार्मिकाः।
काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ॥ ३०.३ ॥

पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः।
ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ॥ ३०.४ ॥

एतस्य वंशे सम्भूता विचित्रैः कर्मभिर्द्विजाः।
शलात्मजो ह्यार्ष्टिषेणश्चरन्तस्तस्य चात्मजः ॥ ३०.५ ॥

शौनकाश्चार्ष्टिषेणाश्च क्षात्रोपेता द्विजातयः।
काशस्य काशयो राष्टः पुत्रो दीर्घतपास्तथा ॥ ३०.६ ॥

धर्मश्च दीर्घतपसो विद्वान् धन्वन्तरिस्ततः।
तपसा सुमहातेजा जातो वृद्धस्य धीमतः।
अथैनमृषयः प्रोचुः सूतं वाक्यमिमं पुनः ॥ ३०.७ ॥

ऋषय ऊचुः ॥
विश्वास-प्रस्तुतिः
कथं धन्वन्तरिर्द्देवो मानुषेष्विह जज्ञिवान्।
एतद्वेदितुमिच्छामस्ततो ब्रूहि प्रियं तथा ॥ ३०.८ ॥

धन्वन्तरेः सम्भवोऽयं श्रूयतामिह वै द्विजाः।
स सम्भूतः समुद्रान्ते मथ्यमानेऽमृते पुरा ॥ ३०.९ ॥

उत्पन्नः सकलात् पूर्वं सर्वतश्च श्रियावृतः।
सर्वसंसिद्धकायं तं दृष्ट्वा विष्टम्भितः स्थितः।
अजस्त्वमिति होवाच तस्मादजस्तु सः स्मृतः ॥ ३०.१० ॥

अजः प्रोवाच विष्णुं तं तनयोऽस्मि तव प्रभो।
विधत्स्व भागं स्थानञ्च मम लोके सुरोत्तम ॥ ३०.११ ॥

एवमुक्तः सुदृष्ट्वा तु तथा प्रोवाच स प्रभुः ।
कृतो यज्ञविभागस्तु यज्ञियौर्हे सुरैस्तथा ॥ ३०.१२ ॥

वेदेषु विधियुक्तञ्च विधिहोत्रं महर्षिभिः।
न शक्यमिह होमो वै तुल्यं कर्त्तुं कदाचन ॥ ३०.१३ ॥

अर्वाक्सुतोऽसि हे देव नाममन्त्रोऽसि वै प्रभो।
द्वितीयायान्तु सम्भूत्यां लोके ख्यातिङ्गमिष्यसि ॥ ३०.१४ ॥

अणिमादियुता सिद्धिर्गर्भस्थस्य भविष्यति।
तेनैव च शरीरेण देवत्वं प्राप्स्यसि प्रभो।
चारुमन्त्रैर्घृतैर्गन्धैर्यक्ष्यन्ति त्वां द्विजातयः ॥ ३०.१५ ॥

अथ च त्वं पुनश्चैव आयुर्वेदं विधास्यसि।
अवश्यम्भावी ह्यर्थोऽयं प्राग्दिष्टस्त्वब्जयोनिना ॥ ३०.१६ ॥

द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः।
तस्मात् तस्मै वरं दत्त्वा विष्णुरन्तर्दघे ततः ॥ ३०.१७ ॥

द्वितीये द्वापरे प्राप्ते सौनहोत्रः स काशिराट्।
पुत्रकाम स्तपस्तेपे नृपो दीर्घतपास्तथा ॥ ३०.१८ ॥

अजं देवन्तु पुत्रार्थे ह्यारिराधयिषुर्नृपः।
वरेण च्छन्दयामास प्रीतो धन्वन्तरिर्नृपम् ॥ ३०.१९ ॥

नृप उवाच॥
विश्वास-प्रस्तुतिः
भगवन् यदि तुष्टस्त्वं पुत्रो मे धृतिमान् भव।
तथेति समनुज्ञाय तत्रैवान्तरधीयत ॥ ३०.२० ॥

तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा।
काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ ३०.२१ ॥

आयुर्वेदं भरद्वाजश्चकार सभिषक्क्रियम्।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ ३०.२२ ॥

धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः।
अथ केतुमतः पुत्रो विभो भीमरथो नृपः।
दिवोदास इति ख्यातो वाराणस्यधिपोऽभवत् ॥ ३०.२३ ॥

एतस्मिन्नेव काले तु पुरीं वाराणसीं पुरा।
शून्यां विवेशयामास क्षेणको नाम राक्षसः ॥ ३०.२४ ॥

शप्ता हि सा पुरी पूर्वं निकुम्भेन महात्मना।
शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः ॥ ३०.२५ ॥

तस्यान्तु शप्तमात्रायां दिवोदासः प्रजेश्वरः।
विषयान्ते पुरीं रम्यां गोमत्यां सन्न्यवेशयत् ॥ ३०.२६ ॥

ऋष ऊचुः॥
विश्वास-प्रस्तुतिः
वाराणसीं किमर्थन्तां निकुम्भः शप्तवान् पुरा।
निकुम्भश्चापि धर्मात्मा सिद्धक्षेत्रं शशाप यः ॥ ३०.२७ ॥

दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः।
वसते स महातेजाः स्फीतायां वै नराधिपः ॥ ३०.२८ ॥

एतस्मिन्नेव काले तु कृतदारो महेश्वरः।
देव्याः स प्रियकामस्तु वसानश्च सुरान्तिके ॥ ३०.२९ ॥

देवाज्ञया पारिषदा विश्वरूपास्तपोधनाः।
पूर्वोक्तै रूपविशेषस्तोषयन्ति महेश्वरीम् ॥ ३०.३० ॥

हृष्यति तैर्महादेवो मेना नैव तु हृष्यति।
जुगुप्सते सा नित्यञ्च देवं देवीं तथैव च ॥ ३०.३१ ॥

मम पार्श्वे त्वनाचारस्तव भर्त्ता महेश्वरः।
दरिद्रः सर्व एवेह अक्लिष्टं लडतेऽनघे ॥ ३०.३२ ॥

मात्रा तथोक्ता वचसा स्त्रीस्वबावान्नचाक्षमत्।
स्मितं कृत्वा तु वरदा हरपार्श्वमथागमत् ॥ ३०.३३ ॥

विषण्णवदना देवी महादेवमभाषत।
नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम् ॥ ३०.३४ ॥

तथोक्तस्तु महादेवः सर्वांल्लोकानवेक्ष्य ह।
वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः।
वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः ॥ ३०.३५ ॥

दिवो दासेन तां ज्ञात्वा निविष्टान्नगरीं भवः।
पार्श्वास्थं स समाहूय गणेशं क्षेमकं ब्रवीत् ॥ ३०.३६ ॥

गणेश्वर पुरीङ्गत्वा सून्यां वाराणसीं कुरु।
मृदुना चाब्युपायेन अतिवीर्यः स पार्थिवः ॥ ३०.३७ ॥

ततो गत्वा निकुम्भस्तु पुरीं वाराणसीं पुरा ।
स्वप्ने सन्दर्शयामास मङ्कनं नाम नापितम् ॥ ३०.३८ ॥

श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ।
मद्रूपां प्रतिमां कृत्वा नगर्यन्ते निवेशय ॥ ३०.३९ ॥

तथा स्वप्ने यथा दृष्टं सर्वं कारितवान् द्विजाः।
नगरीद्वार्यनुज्ञाप्य राजानन्तु यथाविधि ॥ ३०.४० ॥

पूजा तु महती चैव नित्यमेव प्रयुज्यते।
गन्धैर्धूपैश्च माल्यैश्च प्रेक्षणीयैस्तथैव च ॥ ३०.४१ ॥

अन्नप्रदानयुक्तैश्च अत्यद्भुतमिवाभवत्।
एवं सम्पूज्यते तत्र नित्यमेव गणेश्वरः ॥ ३०.४२ ॥

ततो वरसहस्राणि नगराणां प्रयच्छति ।
पुत्रान् हिरण्यमायूंषि सर्वकामांस्तथैव च ॥ ३०.४३ ॥

राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता।
पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता ॥ ३०.४४ ॥

पूजान्तु विपुलां कृत्वा देवी पुत्रानयाचत।
पुनः पुनरथागम्य बहुशः पुत्रकारणात् ॥ ३०.४५ ॥

न प्रयच्छति पुत्रांस्तु निकुम्भः कारणेन तु।
राजा यदि तत् क्रुध्येत ततः किञ्चित् प्रवर्त्तते ॥ ३०.४६ ॥

अथ दीर्घेण कालेन क्रोधो राजानमाविशत्।
भूतं त्विदं महाद्वारि नगराणां प्रयच्छति ॥ ३०.४७ ॥

प्रीत्या वरांश्च शतशो न किञ्चित्तु प्रवर्त्तते।
मामकैः पूज्यते नित्यं नगर्यां मम चैव तु ॥ ३०.४८ ॥

तत्रार्च्चितश्च बहुशो देव्या मे तत्र कारणात् ।
न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः ॥ ३०.४९ ॥

अतो नार्हति पूजान्तु मत्सकाशात् कथञ्चन।
तस्मात्तु नाशयिष्यामि तस्य स्थानं दुरात्मनः ॥ ३०.५० ॥

एवं तु सविनिश्चित्य दुरात्मा राज किल्बिषी।
स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ॥ ३०.५१ ॥

भग्नमायतनं दृष्ट्वा राजानमगमत् प्रभुः।
यस्मादृतेऽपराधं मे त्वया स्थानं विना शितम् ॥ ३०.५२ ॥

अकस्मात् तु पुरी शून्या भवित्री ते नराधिप।
ततस्तेन तु शापेन शून्या वाराणसी तथा ॥ ३०.५३ ॥

शप्तां पुरीं निकुम्भस्तु महादेवमथानयत्।
शून्यां पुरीं महादेवो निर्ममे परमात्मना ॥ ३०.५४ ॥

तुल्यां देवविभूत्यास्तु देव्याश्चैव महात्मनः।
रमते तत्र वै देवी रममाणे महेश्वरः ॥ ३०.५५ ॥

न रतिं तत्र वै देवी लभते गृहविस्मयात्।
देव्याः क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ॥ ३०.५६ ॥

नाहं वेश्म विमोक्ष्यामि अविमुक्तं हि मे गृहम्।
प्रहस्यैनामथोवाच अविमुक्तं हि मे गृहम् ॥ ३०.५७ ॥

नाहं देवि गमिष्यामि गच्छस्वेह रमाम्यहम्।
तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥ ३०.५८ ॥

एवं वाराणसी शप्ता अविमुक्तं च कीर्त्तितम्।
यस्मिन् वसति वै देवः सर्वदेवनमस्कृतः।
युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ॥ ३०.५९ ॥

अन्तर्द्धानं कलौ याति तत्पुरन्तु महात्मनः।
अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः ॥ ३०.६० ॥

एवं वाराणसी शप्ता निवेशं पुनरागता।
भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ ३०.६१ ॥

हत्वा निवेशयामास दिवोदासो नराधिपः।
भद्रश्रेण्यस्य राज्यन्तु हृतन्तेन बलीयसा ॥ ३०.६२ ॥

भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम नामतः।
दिवोदासेन बालेति घृणया स विवर्जितः ॥ ३०.६३ ॥

दिवोदासादॄषद्वत्यां वीरो जज्ञे प्रतर्द्दनः।
तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ॥ ३०.६४ ॥

वैरस्यान्तं महाराज्ञा तदा तेन विधत्सता।
प्रतर्द्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतः ॥ ३०.६५ ॥

वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ।
अलर्कं प्रति राजर्षिर्गीतश्लोकौ पुरातनौ ॥ ३०.६६ ॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च।
युवा रूपेण सम्पन्नो ह्यलर्कः काशिसत्तमः ॥ ३०.६७ ॥

लोपामुद्रा प्रसादेन परमायुरवाप्तवान् ॥ ३०.६८ ॥
विश्वास-प्रस्तुतिः
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम्।
रम्यामावासयामास पुरीं वाराणसीं नृपः ॥ ३०.६९ ॥

सन्नतेरपि दायादः सुनीथो नाम धार्मिकः।
सुनीथस्य तु दायादः सुकेतुर्नाम धार्मिकः ॥ ३०.७० ॥

सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतिः।
धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ॥ ३०.७१ ॥

सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः।
सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः ॥ ३०.७२ ॥

सुकुमारस्य पुत्रस्तु धृष्टकेतुः स धार्मिकः।
धुष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ॥ ३०.७३ ॥

वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः।
गार्ग्यस्य गर्गभूमिस्तु वात्स्यो वत्सस्य धीमतः ॥ ३०.७४ ॥

ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्मिकाः।
विक्रान्ता बलवन्तश्च सिंहतुल्यपराक्रमाः ॥ ३०.७५ ॥

इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत।
रजेः पुत्रशतान्यासन् पञ्च वीर्यवतो भुवि।
राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ३०.७६ ॥

तदा दैवासुरे युद्धे समुत्पन्ने सुदारुणे।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ३०.७७ ॥

आवयोर्भगवान् युद्धे विजेता को भविष्यति।
ब्रूहि नः सर्वलोकेश श्रोतुमिच्छामहे वयम् ॥ ३०.७८ ॥

ब्रह्मोवाच॥
विश्वास-प्रस्तुतिः
येषामर्थाय सङ्ग्रामे रजिरात्तायुधः प्रभुः।
योत्स्यते ते विजेष्यन्ति त्रील्लोँकान्नात्र संशयः ॥ ३०.७९ ॥

रजिर्यतस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः।
यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः ॥ ३०.८० ॥

तद्देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम्।
अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम् ॥ ३०.८१ ॥

ते हृष्टमनसः शर्वे राजानं देवदानवाः।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ ३०.८२ ॥

रजिरुवाच॥
विश्वास-प्रस्तुतिः
अहञ्जेष्यामि नो युद्धे देवान् शक्रपुरोगमान्।
इन्द्रो भवामि धर्मात्मा ततो योत्स्यामि संयुगे ॥ ३०.८३ ॥

दानवा ऊचुः॥
विश्वास-प्रस्तुतिः
अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे।
अस्मिस्तु समये राजंस्तिष्ठेथादेव नोऽदितेः ॥ ३०.८४ ॥

स तथेति ब्रुवन्नेव देवैरप्यभिचोदितः।
भविष्यसीन्द्रो जित्वेति देवैरपि निमन्त्रितः ॥ ३०.८५ ॥

जघान दानवान् सर्वान् समक्षं वज्रपाणिनः।
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ ३०.८६ ॥

निहत्य दानवान् सर्वान् व्याजहार रजिः प्रभुः।
तं तथा तु रझिं तत्र देवैस्सह शतक्रतुः ॥ ३०.८७ ॥

रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः।
ईन्द्रोऽसि राजन् देवानां सर्वेषान्नात्र संशयः।
यस्याहमिन्द्रपुत्रस्ते ख्यातिं यास्यामि शत्रुहन् ॥ ३०.८८ ॥

स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया।
तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् ॥ ३०.८९ ॥

तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ।
दायाद्यमिन्द्रादाजह्रुराचारं तनया रजेः ॥ ३०.९० ॥

तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः।
समक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥ ३०.९१ ॥

ततः काले बहुतिथे सतीते महाबलः।
हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ॥ ३०.९२ ॥

बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे।
ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितस्ततः ॥ ३०.९३ ॥

ब्रह्मन् कृशोऽयं विमना हृतराज्यो हृताशनः।
हतौजा दुर्बलो मूढो रजिपुत्रैः प्रसीद मे ॥ ३०.९४ ॥

बृहस्पतिरुवाच॥
विश्वास-प्रस्तुतिः
यद्येवं चोदितः शक्र त्वया स्यां पूर्वमेव हि।
नाभविष्यत् त्वत्प्रियार्थं नाकर्त्तव्यं ममानघ ॥ ३०.९५ ॥

प्रयतिष्यामि देवेन्द्र तद्धितार्थं महाद्युते।
यथा भागञ्च राज्यञ्च अचिरात् प्रतिपत्स्यसे ॥ ३०.९६ ॥

तथा शक्र गमिष्यामि माभूत्ते विक्लवं मनः।
ततः कर्म चकारास्य तेजःसंवर्द्धनं महत् ॥ ३०.९७ ॥

तेषाञ्च बुद्धिसम्मोहमकरोद्बुद्धिसत्तमः।
ते यदा ससुता मूढा रागोत्पन्न विधर्मिणः ॥ ३०.९८ ॥

ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः।
ततो लेभे सुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् ॥ ३०.९९ ॥

हत्वा रजिसुतान् सर्वान्कामक्रोधपरायणान्।
य इदं पावनं स्थानं प्रतिष्ठानं शतक्रतोः।
श्रृणुयाद्वा रजेर्वापि न स दौरात्म्यमाप्नुयात् ॥ ३०.१०० ॥

इति श्रीमहापुराणे वायुप्रोक्ते रजियुद्धं नाम त्रिंशोऽध्यायः ॥ ३० ॥ *