०२९

सूत उवाच ॥

विश्वास-प्रस्तुतिः

सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ २९.१ ॥

मूलम्

ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः।
आहर्त्ता चाग्निहोत्रस्य यज्वनाञ्च ददौ महीम् ॥ २९.२ ॥

सत्यवाक् कर्मबुद्धिश्च कान्तः संवृतमैथुनः।
अतीव पुत्रो लोकेषु रूपेणाप्रतिमोऽभवत् ॥ २९.३ ॥

तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम्।
उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ २९.४ ॥

तया सहावसद्राजा दशवर्षाणि चाष्ट च।
सप्त षट् सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ॥ २९.५ ॥

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे।
अलकायां विशालायां नन्दने च वनोत्तमे ॥ २९.६ ॥

गन्धमादनपादेषु मेरुश्रृङ्गे नगोत्तमे।
उत्तरांश्च कुरून् प्राप्य कलापग्राममेव च ॥ २९.७ ॥

एतेषु वनसुख्येषु सुरैराचरितेषु च।
उर्वश्या सहितो राजा रेमे परमया मुदा ॥ २९.८ ॥

ऋषय ऊचुः॥

विश्वास-प्रस्तुतिः

गन्धर्वा चोर्वशी देवी राजानं मानुषं कथम्।
देवानुत्सृज्य सम्प्राप्ता तन्नो ब्रूहि बहुश्रुत ॥ २९.९ ॥

सूत उवाच॥

विश्वास-प्रस्तुतिः

ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता।
ऐलं तु तं वरारोहा समयेन व्यवस्थिता ॥ २९.१० ॥

आत्मनः शापमोक्षार्थं नियमं सा चकार तु ।
अनग्नदर्शनञ्चैव अकामात सह मैथुनम् ॥ २९.११ ॥

द्वौ मेषौ शयनाभ्याशे स तावद् व्यवतिष्ठते।
घृतमात्रं तथाहारः कालमेकन्तु पार्थिव ॥ २९.१२ ॥

यद्येष समयो राजन् यावत्कालञ्च ते दृढम्।
तावत्कालन्तु वत्स्यामि एष नः समयः कृतः ॥ २९.१३ ॥

तस्यास्तं समयं सर्वं स राजा पर्यपालयत्।
एवं सा चावसत् तस्मिन् पुरूरवसि भामिनी ॥ २९.१४ ॥

वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता।
उर्वशी मानुषं प्राप्ता गन्धर्वा श्चिन्तयान्विताः ॥ २९.१५ ॥

गन्धर्वा ऊचुः।
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना।
आगच्छेत्तु पुनर्द्देवानुर्वशी स्वर्गभूषणा ॥ २९.१६ ॥

ततो विश्वावसुर्नाम तत्राह वदतां वरः।
तया तु समयस्तत्र क्रियमाणो मतोऽनघः ॥ २९.१७ ॥

समयन्युत्क्रमात् सा वै राजानं त्यक्ष्यते यथा।
तदहं वच्मि वः सर्वं यथा त्यक्ष्यति सा नृपम् ॥ २९.१८ ॥

सहसा योगमेष्यामि युष्माकं कार्यसिद्धये।
एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥ २९.१९ ॥

स निशायामथागम्य मेषमेकं जहार वै।
मातृवद्वर्त्तते सा तु मेषयोश्चारुहासिनी ॥ २९.२० ॥

गन्धर्वागमनं ज्ञात्वा शयनस्था यशस्विनी।
राजानमब्रवीत्सा तु पुत्रो मे ह्रियतेति वै ॥ २९.२१ ॥

एवमुक्तो विनिश्चित्य नग्नस्तिष्ठति वै नृपः ।
नग्नं द्रक्ष्यति मां देवी समयो वितथो भवेत् ॥ २९.२२ ॥

ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः।
द्वितीयेऽपहृते मेषे ऐलं देवी तमब्रवीत् ॥ २९.२३ ॥

पुत्रौ मम हृतौ राजन्ननाथाया इव प्रभो।
एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः ॥ २९.२४ ॥

मेषाबभ्यां पदवीं राजन् गन्धर्वैर्व्युत्थितामथ।
उत्पादिता तु महती माया तद्भवनं महत् ॥ २९.२५ ॥

प्रकाशितन्तु सहसा ततो नग्नमवेक्ष्य सा।
नग्नं दृष्ट्वा तिरोऽभूत्सा अप्सरा कामरूपिणी ॥ २९.२६ ॥

तिरोभूतान्तु तां ज्ञात्वा गन्धर्वास्तत्र तावुभौ।
मेषौ त्यक्त्वा च ते सर्वे तत्रैवान्तर्हिताभवन् ॥ २९.२७ ॥

उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतः प्रभुः।
अपश्यंस्तां तु वै राजा विललाप सुदुःखितः ॥ २९.२८ ॥

चचार पृथिवीं चैव मार्गमाणस्ततस्ततः।
अथापश्यच्च तां राजा कुरुक्षेत्रे महाबलः ॥ २९.२९ ॥

प्लक्षतीर्थे पुष्करिण्यां विगाढेनाम्बुनाप्लुताम्।
क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ॥ २९.३० ॥

अपश्यत्सा ततः सुभ्रू राजानमविदूरतः।
उर्वशी ताः सखीः प्राह अयं स पुरुषोत्तमः ॥ २९.३१ ॥

यस्मिन्नहमवात्सं हि दर्शयामास तं नृपम् ।
तत आविर्बभूवुस्ताः पञ्चचूडाप्सरास्तु ताः ॥ २९.३२ ॥

दृष्ट्वा तु राजा तां प्रीतः प्रलापान् कुरुते बहून्।
आयाहि तिष्ठ मनसा घोरे वचसि तिष्ठ हे ॥ २९.३३ ॥

एवमादीनि सूक्ष्माणि परस्परमभाषत।
उर्वशी त्वब्रवीच्चैलं सगर्भाहं त्वया प्रभो ॥ २९.३४ ॥

संवत्सरात् कुमारस्ते भविता नव संशयः।
निशामेकान्तु वै राजा ह्यवसत्तु तया सह ॥ २९.३५ ॥

सम्प्रहृष्टो जगामाथ स्वपुरन्तु महायशाः।
गते संवत्सरे राजा उर्वशीं पुनरागमत् ॥ २९.३६ ॥

उषित्वा तु तया सार्द्धमेकरात्रं महामनाः।
कामार्त्तश्चा ब्रवीद्दीनो भव नित्यं ममेति वै ॥ २९.३७ ॥

उर्वश्यथाब्रवीच्चैलं गन्धर्वास्ते वरं ददुः।
तं वृणीष्व महाराज ब्रूहि चैतांस्त्वमेव हि ॥ २९.३८ ॥

वृणे नित्यं हि सालोक्यं गन्धर्वाणां महात्मनाम्।
तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति ॥ २९.३९ ॥

स्थालीमग्नेः पूरयित्वा गन्धर्वाश्च तमब्रुवन्।
अनेन इष्ट्वा लोकन्तं प्राप्स्यसि त्वं नराधिप ॥ २९.४० ॥

तमादाय कुमारन्तु नगरायोपचक्रमे।
निःक्षिप्य तमरण्याञ्च स पुत्रन्तु गृहं ययौ ॥ २९.४१ ॥

पुनरादाय दृश्याग्निमश्वत्थं तत्र दृष्टवान्।
समीपतस्तु तं दृष्ट्वा ह्यश्वत्थं तत्र विस्मितः ॥ २९.४२ ॥

गन्धर्वेभ्यस्तथाख्यातुमग्निना गां गतस्तु सः ।
श्रुत्वा तमर्थमशिलमरणिं तु समादिशत् ॥ २९.४३ ॥

अश्वत्थादरणिं कृत्वा मथित्वाग्निं यथाविधि।
तेनेष्ट्वा तु सलोकं नः प्राप्स्यसि त्वं नराधिप।
मथित्वाग्निं त्रिधा कृत्वा ह्ययजत्स नराधिपः ॥ २९.४४ ॥

इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम्।
वासाय च स गन्धर्वस्त्रेतायां स महारथः।
एकोऽग्निः पूर्वमासीद्वै ऐलस्त्रींस्तानकल्पयत् ॥ २९.४५ ॥

एवम्प्रभावो राजासीदैलस्तु द्विजसत्तमाः।
देशे पुण्यतमे चैव महर्षिभिरलङ्कृते ॥ २९.४६ ॥

राज्यं स कारयामास प्रयागे पृथिवी पतिः।
उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ॥ २९.४७ ॥

तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः।
गन्धर्वलोके विदिता आयुर्द्धीमानमावसुः ॥ २९.४८ ॥

विश्वायुश्च शतायुश्च गतायुश्चोर्वशीसुताः।
अमावसोस्तु वै जातो भीमो राजाथ विश्वजित् ॥ २९.४९ ॥

श्रीमान् भीमस्य दायादो राजासीत्काञ्चनप्रभः।
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ॥ २९.५० ॥

सुहोत्रस्याभज्जह्नुः केशिकागर्भसम्भवः।
प्रतिगत्य ततो गङ्गा विततो यज्ञकर्मणि ॥ २९.५१ ॥

प्लावयामास तं देशं भाविनोऽर्थस्य दर्शनात्।
गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ २९.५२ ॥

सौहोत्रिर्वरदः क्रुद्धो गङ्गां संरक्तलोचनः।
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ २९.५३ ॥

एतत्ते विफलं सर्वं पीतमम्भः करोम्यहम्।
राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा सुरर्षयः ॥ २९.५४ ॥

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम्।
यौवनाश्वस्य पौत्रीन्तु कावेरीञ्जह्नुरावहत् ॥ २९.५५ ॥

युवनाश्वस्य शापेन गङ्गा येन विनिर्ममे ।
कावेरीं सरितां श्रेष्ठां जह्नुभार्यामनिन्दिताम् ॥ २९.५६ ॥

जह्नुश्च दयितं पुत्रं सुहोत्रं नाम धार्मिकम्।
कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ २९.५७ ॥

अजकस्य तु दायादो बलाकाश्वो महायशाः।
बभूवुश्च गयः शीलः कुशस्तस्यात्मजः स्मृतः ॥ २९.५८ ॥

कुशपुत्रा बभूवुश्च चत्वारो वेदवर्चसः।
कुशाश्वः कुशनाभश्च अमूर्त्तारयशोवसुः ॥ २९.५९ ॥

कुशस्तम्बस्तपस्तेपे पुत्रार्थी राजसत्तमः।
पूर्णे वर्षसहस्रे वै शतक्रतुमपश्यत ॥ २९.६० ॥

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ २९.६१ ॥

पुत्रत्वं कल्पयामास स्वयमेव पुरन्दरः।
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥ २९.६२ ॥

पौरुकुत्साभवद्भार्या गाधिस्तस्यामजायत।
पूर्वं कन्यां महाभागां नाम्ना सत्यवतीं शुभाम्।
तां गाधिपुत्रः काव्याय ऋचीकाय ददौ प्रभुः ॥ २९.६३ ॥

तस्यां पुत्रस्तु वै भर्त्ता भार्गवो भृगुनन्दनः।
पुत्रार्थे साधयामास चरुं गाधेस्तथैव च ॥ २९.६४ ॥

तथा चाहूय सुधृतिऋचीको भार्गवस्तदा।
उपयोज्यश्चरुरयं त्वया मात्रा च तेशुभे ॥ २९.६५ ॥

तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः।
अजेयः क्षत्रियैर्युद्धे क्षत्रियर्षभसूदनः ॥ २९.६६ ॥

तवापि पुत्रं कल्याणि धृतिन्तं तपोधनम्।
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ २९.६७ ॥

एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः।
तपस्याभिरतो नित्यमरण्यं प्रविवेश ह ॥ २९.६८ ॥

गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्।
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ॥ २९.६९ ॥

चरुद्वयं गृहीत्वा तु ऋषेः सत्यवती सदा।
भर्त्तुर्वचनमव्यग्रा हृष्टा मात्रे न्यवेदयत् ॥ २९.७० ॥

माता तु तस्यै दैवेन दुहित्रे स्वं चरुं ददौ ।
तस्याश्चरुमथाज्ञानादात्मनः सा चकार ह ॥ २९.७१ ॥

अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम्।
धारयामास दीप्तेन वपुषा घोरदर्शना ॥ २९.७२ ॥

तमृचीकस्ततो दृष्ट्वा योगेनाप्यनुमृश्य च।
तदाब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ॥ २९.७३ ॥

मातुः सिद्ध्यति ते भद्रे चरुव्यत्यासहेतुना।
जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ॥ २९.७४ ॥

माता जनिष्यते वापि तथाभूतं तपोधनम् ।
विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ॥ २९.७५ ॥

एवमुक्ता महाभागा भर्त्रा सत्यवती तदा।
प्रसादयामास पतिं सुतो मे नेदृशो भवेत्।
ब्राह्मणापसदस्त्वन्य इत्युक्तो मुनिरब्रवीत् ॥ २९.७६ ॥

नैष सङ्कल्पितः कामो मया भद्रे तथा त्वया ।
उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ॥ २९.७७ ॥

पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम्।
इच्छल्ँलोकानपि मुने सृजेथाः किं पुनः सुतम् ॥ २९.७८ ॥

शमात्मकमृजुं भर्त्तः पुत्रं मे दातुमर्हसि।
काममेवंविधः पुत्रो मम स्यात्तु वद प्रभो ॥ २९.७९ ॥

मय्यन्यथा न शक्यं वै कर्तुमेव द्विजोत्तम।
ततः प्रसादमकरोत् स तस्यास्तपसो बलात् ॥ २९.८० ॥

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ २९.८१ ॥

तस्मात् सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतन्दान्तं जमदग्निः शमात्मकम् ॥ २९.८२ ॥

भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा।
यमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ॥ २९.८३ ॥

विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः।
प्राप्य ब्रह्मर्षिसहितो (सविता) जगाम ब्रह्मणावृतः ॥ २९.८४ ॥

सा हि सत्यवती पुण्या सत्यव्रतपरायणा।
कौशिकीति समाख्याता प्रवृत्तेयं महानदी ॥ २९.८५ ॥

परिस्रुता महाभागा कौशिकी सरितां वरा।
इक्ष्वाकुवंशे त्वभवत्सुवेणुर्नाम पार्थिवः ॥ २९.८६ ॥

तस्य कन्या महाभागा कामली नाम रेणुका।
रेणु कायान्तु कामल्यां तपोधृतिसमन्वितः।
आर्चीको जनयामास जमदग्निः सुदारुणम् ॥ २९.८७ ॥

सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्।
रामं क्षत्रिय हन्तारं प्रदीप्तमिव पावकम् ॥ २९.८८ ॥

और्वस्यैवमृचीकस्य सत्यवत्यां महामनाः।
जमदग्निस्ततो वीर्याज्जज्ञे ब्रह्मविदां वरः।
मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥ २९.८९ ॥

विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।
जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्द्धनः ॥ २९.९० ॥

विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवन्मुनिः।
हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियुतः सवै।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥ २९.९१ ॥

विश्वामित्रस्य पुत्राणां शुनः शेफोऽग्रजः स्मृतः।
मधुच्छन्दो नयश्चैव कृतदेवौ ध्रुवाष्टकौ ॥ २९.९२ ॥

कच्छपः पूरणश्चैव विश्वामित्रसुतास्तु वै।
तेषां गोत्राणि बहुधा कौशिकानां महात्मनाम् ॥ २९.९३ ॥

पार्थिवा देवराताश्च याज्ञवल्क्या समर्षणाः ।
उदुम्बरा उदुम्लानास्तारका यममुञ्चताः ॥ २९.९४ ॥

लोहिण्यो रेणवश्चैव तथा कारीषवः स्मृताः।
बभ्रवः पाणिनश्चैव ध्यावजप्यास्तथैव च ॥ २९.९५ ॥

शालावत्या हिरण्याक्षाः स्यङ्कृता गालवाः स्मृताः ।
देवला यामदूताश्च शालङ्कायनबाष्कलाः ॥ २९.९६ ॥

ददाति बादराश्चान्ये विश्वामित्रस्य धीमतः।
ऋष्यन्तरविवाङ्यास्ते बहवः शौशिकाः स्मृताः ॥ २९.९७ ॥

कौशिकासोश्रुमाश्चैव तथान्ये सैधवायनाः।
पौरोरवस्य पुण्यस्य ब्रह्मर्षेः कौशिकस्य तु ॥ २९.९८ ॥

दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः।
अष्टकस्य सुतो यो हि प्रोक्तो जह्नुगणोमया ॥ २९.९९ ॥

ऋषय ऊचुः ॥

विश्वास-प्रस्तुतिः

किं लक्षणेन धर्मेण तपसेह श्रुतेन वा।
ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः ॥ २९.१०० ॥

येन योनाभिधा नेन ब्राह्मण्यं क्षत्रिया गताः ।
विशेषं ज्ञातुमिच्छामि तपसा दानतस्तथा ॥ २९.१०१ ॥

एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत्।
अन्यायोपगतैर्द्रव्यैराहृत्य यजने धिया।
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ २९.१०२ ॥

धर्मं चैतं समाख्याय पापात्मा पुरुषाधमः।
ददाति दानं विप्रेभ्यो लोकानां दम्भकारणात् ॥ २९.१०३ ॥

जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः।
रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ॥ २९.१०४ ॥

तेन दत्तानि दानानि अफलानि भवन्त्युत।
तस्य धर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ॥ २९.१०५ ॥

एवं लब्ध्वा धनं मोहाद्ददतो यजतश्च ह।
सक्लिष्टकर्मणो दानं न तिष्ठति दुरात्मनः ॥ २९.१०६ ॥

न्यायागतानां द्रव्याणां तीर्थे सम्प्रतिपादनम्।
कामाननभिसन्धाय यजते च ददाति च ॥ २९.१०७ ॥

स दानफलमाप्नोति तच्च दानं सुखोदयम्।
दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ॥ २९.१०८ ॥

तपसा तु सुतप्तेन लोकान् विष्टभ्य तिष्ठति ।
विष्टभ्य स तु तेजस्वी लोकेष्वानन्त्यमश्नुते ॥ २९.१०९ ॥

दानाच्छ्रेयांस्तथा यज्ञो यज्ञाच्छ्रेयस्तथा तपः।
सन्न्यासस्तपसः श्रेयांस्तस्माज्ज्ञानं गुरुः स्मृतम् ॥ २९.११० ॥

श्रृयन्ते हि तपःसिद्धाः क्षात्रोपेता द्विजातयः।
विश्वामित्रो नरपतिर्मान्धाता सङ्कृतिः कपिः ॥ २९.१११ ॥

कपेश्च पुरुकुत्सश्च सत्यश्चानृहवानृथुः
आर्ष्टिषेणोऽमीढश्च भागान्योन्यस्तथैव च ॥ २९.११२ ॥

विश्वास-प्रस्तुतिः

कक्षीवश्चैव शिजयस्तथान्ये च महारथाः।
रथीतरश्च रुन्दश्च विष्णुवृद्धादयो नृपाः ॥ २९.११३ ॥

क्षात्रोपेताः स्मृता ह्येते तपसा ऋषिताङ्गताः ।
एते राजर्षयः सर्वे सिद्धिं सुमहतीङ्गताः।
अत ऊर्ध्वं प्रवक्ष्यामि अयोर्वंशं महात्मनः ॥ २९.११४ ॥

इति श्रीमहापुराणे वायुप्रोक्ते चन्द्रवंशकीर्तनं नामोनत्रिशोऽध्यायः ॥ २९ ॥ *