उत्तरार्द्धम् - २८
॥सूत उवाच ॥
विश्वास-प्रस्तुतिः
पिता सोमस्य वैविप्रा जज्ञेऽत्रिर्भगवानृषिः।
सोऽति तस्थौ सर्वलोकान्भगवान्त्स्वेन तेजसा ॥ २८.१ ॥
मूलम्

कर्मणा मनसा वाचा शुभान्येव समाचरन्।
काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः ॥ २८.२ ॥

सुदुश्चरं नाम तपो येन तप्तं महत्पुरा।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ २८.३ ॥

तस्योर्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहम्।
सोमत्वन्तनुरापेदे महाबुद्धिः स वै द्विजः ॥ २८.४ ॥

ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः।
सोमः सुस्राव नेत्राभ्यां दश वा द्योतयन् दिशः ॥ २८.५ ॥

तं गर्भं विधिनादिष्टा दश देव्यो दधुस्तदा।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ २८.६ ॥

स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः।
यथावभासयंल्लोकाञ्झीतांशुः सर्वभावनः ॥ २८.७ ॥

यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः।
ततः स ताभिः शीतांशुर्निपपात वसुन्धराम् ॥ २८.८ ॥

पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः।
रथमारोपयामास लोकानां हितकाम्यया ॥ २८.९ ॥

स हि देवमयो विप्रा धर्मार्थी सत्यसङ्गरः।
युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ॥ २८.१० ॥

तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि।
तुष्टुवुर्ब्रह्मणः पुत्राः मानसाः सप्त विश्रुताः ॥ २८.११ ॥

तत्रैवाङ्गिरसस्तस्य भृगोश्चैवात्मजस्तथा।
ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि ॥ २८.१२ ॥

ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः।
आप्यायमानं लोकांस्त्रीन् भावयामास सर्वशः ॥ २८.१३ ॥

समेन रथमुख्येन सागरान्तां वसुन्धराम्।
त्रिःसप्तकृत्वो विपुल श्चकाराभिप्रदक्षिणम् ॥ २८.१४ ॥

तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत।
ओषध्यस्ताः समुद्भूतास्तेजसा सञ्ज्वलन्त्युत ॥ २८.१५ ॥

ताभिर्धार्यत्ययं लोकान् प्रजाश्चापि चतुर्विधाः।
पोष्टा हि भगवान् सोमो जगतो हि द्विजोत्तमाः ॥ २८.१६ ॥

स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्मभिः।
तपस्तेपे महाभागः पझानां दशतीर्दश ॥ २८.१७ ॥

हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्।
विभुस्तासाम्भवेत्सोमः प्रख्यातः स्वेन कर्मणा ॥ २८.१८ ॥

ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः।
बीजौषधिषु विप्राणामपाञ्च द्विजसत्तमाः ॥ २८.१९ ॥

सोऽभिषिक्तो महातेजा महाराज्येन राजराट् ।
लोकानां भावयामास स्वभावात्तपतां वरः ॥ २८.२० ॥

सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥ २८.२१ ॥

स तत्प्राप्य महद्राजयं सोमः सोमवतां प्रभुः।
समाजज्ञे राजसूयं सहस्रशतदक्षिणम् ॥ २८.२२ ॥

हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान्।
सदस्यस्तत्र भगवान् हरिर्नारायणः प्रभुः ।
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ २८.२३ ॥

दक्षिणामददत्सोमस्त्रील्लोँकानिति नः श्रुतम्।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ॥ २८.२४ ॥

तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभावसुः।
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ २८.२५ ॥

प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः।
अतिराजातिराजेन्द्रो दशधातापयद्दिशः ॥ २८.२६ ॥

तदा तत् प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम्।
स विभ्रममतिर्विप्रा विनये विनयो हतः ॥ २८.२७ ॥

बृहस्पतेः स वै भार्यान्तारां नाम यशस्विनीम्।
जहार सहसा सर्वानवमत्याङ्गिरःसुतान् ॥ २८.२८ ॥

स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह।
नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ॥ २८.२९ ॥

उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो द्विजाः।
स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ॥ २८.३० ॥

तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः।
पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवन्धनुः ॥ २८.३१ ॥

तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं महात्मना।
उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ॥ २८.३२ ॥

तत्र तद्युद्धमभवत् प्रत्यक्षन्तारकामयम्।
देवानां दानवानाञ्च लोकक्षयकरं महत् ॥ २८.३३ ॥

तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः।
ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ॥ २८.३४ ॥

ततो निवार्योशनसं रुद्रं ज्येष्ठञ्च शङ्करम्।
ददावाङ्गिरसे तारां स्वयमेव पितामहः ॥ २८.३५ ॥

अन्तर्वत्नीं च तां दृष्ट्वा तारान्ताराधिपाननाम्।
गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ॥ २८.३६ ॥

मदीयायां तनौ योनौ गर्भो धार्यः कथञ्चन।
अथो नावसृजत्तन्तु कुमारं दस्युहन्तमम् ॥ २८.३७ ॥

ईषिकास्तम्बमासाद्य ज्वलन्तमिव पावकम्।
जातमात्रोऽथ भगवान् देवानामाक्षिपद्वपुः ॥ २८.३८ ॥

ततः संशयमापन्नास्तारामकथयन् सुराः।
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ २८.३९ ॥

ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा ।
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ २८.४० ॥

सन्निवार्य तदा ब्रह्मा तारां चन्द्रस्य संशयः।
यदत्र तथ्यन्तद्ब्रूहि तारे कस्य सुतस्त्वयम् ॥ २८.४१ ॥

सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम्।
सोमस्येति महात्मानं कुमारन्दस्युहन्तमम् ॥ २८.४२ ॥

ततः स तमुपाघाय सोमो दाता प्रजापतिः।
बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ॥ २८.४३ ॥

प्रतिपूर्वञ्च गमने समभ्युत्तिष्ठते बुधैः।
उत्पादयामास तदा पुत्रं वै राजपुत्रिका ॥ २८.४४ ॥

तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः ।
उर्वश्यां जज्ञिरे तस्य पुत्राः षट् सुमहौजसः ॥ २८.४५ ॥

प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा ।
ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ।
जगाम शरणायाथ पितरं सोऽत्रिमेव तु ॥ २८.४६ ॥

तस्य तत्पापशमनं चकारात्रिर्महायशाः।
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वशः ॥ २८.४७ ॥

एतत्सोमस्य वै जन्म कीर्त्तितं द्विजसत्तमाः।
वंशन्तस्य द्विजश्रेष्ठाः कीर्त्यमानं निबोधत ॥ २८.४८ ॥

धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम्।
सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ॥ २८.४९ ॥

इति श्रीमहापुराणे वायुप्रोक्ते शोमोत्पत्तिर्नामाष्टाविंशोऽध्यायः ॥ २८ ॥ *