सूत उवाच॥
विश्वास-प्रस्तुतिः
ककुझिनस्तु तं लोकं रैवतस्य गतस्य ह।
हताः पुण्यजनैः सर्वा राक्षसैः सा कुशस्थली ॥ २६.१ ॥
मूलम्

तद्वै भ्रातृशतं तस्य धार्मिकस्य महात्मनः।
निबध्यमाना रक्षोभिर्दिशः सम्प्राद्रवन् भयात् ॥ २६.२ ॥

तेषान्तु ते भया क्रान्ताः क्षत्रियास्तत्र तत्र हि।
अन्ववायस्तु सुमहान् महांस्तत्र द्विजोत्तमाः ॥ २६.३ ॥

प्रयता इति विख्याता दिक्षु सर्वासु धार्मिकाः।
धृष्टस्य धार्ष्टकं क्षत्रं रणधृष्टं बभूव ह ॥ २६.४ ॥

त्रिसाहस्रन्तु सगणं क्षत्रियाणां महात्मनाम्।
नभगस्य च दायादो नाभागो नाम वीर्यवान् ॥ २६.५ ॥

अम्बरीषस्तु नाभागिर्विरूपस्तस्य चात्मजः।
पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥ २६.६ ॥

एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसः स्मृताः ।
रथीतराणां प्रवराः क्षात्रोपेता द्विजातयः ॥ २६.७ ॥

क्षुवतस्तु मनोः पूर्वमिक्ष्याकुरभिनिःसृतः ।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥ २६.८ ॥

तेषां ज्येष्ठो विकुक्षिश्च नेमिर्दण्डश्च ते त्रयः।
शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशतस्तु ते ॥ २६.९ ॥

उत्तरापथदेशस्य रक्षितारो महीक्षितः।
चत्वारिंशत्तथाष्टौ च दक्षिणस्याञ्च ते दिशि ॥ २६.१० ॥

विंशतिप्रमुखास्ते तु दक्षिणापथरक्षिणः।
इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशेत् ॥ २६.११ ॥

राजोवाच॥
विश्वास-प्रस्तुतिः
मांसमानय श्राद्धेयं मृगान् हत्वा महाबल।
श्राद्धमद्य नु कर्तव्यमष्टकायां न संशयः ॥ २६.१२ ॥

स गतस्तु मृगव्यां वै वचनात्तस्य धीमतः।
मृगान् सहस्रशो हत्वा परिश्रान्तश्च वीर्यवान्।
भक्षयच्छशकन्तत्र विकुक्षिर्मृगयाङ्गतः ॥ २६.१३ ॥

आगते स विकुक्षौ तु समांसे सहसैनिके।
वसिष्ठञ्चोदयामास मांसं प्रोक्षयतामिति ॥ २६.१४ ॥

तथेति चोदितो राज्ञा विधिवत्समुपस्थितः।
स दृष्ट्वोपहतं मांसं क्रुद्धो राजानमब्रवीत् ॥ २६.१५ ॥

शूद्रेणोपहतं मांसं पुत्रेण तव पार्थिव।
शशभक्षादभोज्यं वै तव मांसं महाद्युते ॥ २६.१६ ॥

शशो दुरात्मना पूर्वमरण्ये भक्षितोऽनघ।
तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम ॥ २६.१७ ॥

इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत्।
पितृकर्मणि निर्द्दिष्टो मया त्वं मृगयाङ्कतः।
शशं भक्षयसेऽरण्ये निर्घृणः पूर्वमद्य नु ॥ २६.१८ ॥

तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्मणा।
एवमिक्ष्वाकुना त्यक्तो वसिष्ठवचनात् सुतः ॥ २६.१९ ॥

इक्ष्वाकौ संस्थिते तस्मिञ्छशी स पृथिवीमिमाम् ।
प्राप्तः परमधर्मात्मा स चायोध्याधिपोऽभवत् ॥ २६.२० ॥

तदाकरोत्स राज्यं वै वसिष्ठपरिनोदितः।
ततः स्तेनेन सा पूर्णो राज्यावस्था महीपतेः ॥ २६.२१ ॥

कालेन गतवांस्तत्र स च न्यूनतराङ्गतिम्।
ज्ञात्वैवमेतदाख्यानं ना विधिर्भक्षयेत्तु वै ॥ २६.२२ ॥

मां सभक्षयितामुत्र यस्य मांसमिहाज्यहम्।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ २६.२३ ॥

शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्।
इन्द्रस्य वृषभूतस्य ककुत्स्थो जायते पुरा ॥ २६.२४ ॥

पूर्वमाडीबके युद्धे ककुत्स्थस्तेन स स्मृतः ।
अनेनास्तु ककुत्स्थस्य पृथुरोमा च स स्मृतः ॥ २६.२५ ॥

वृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्यवान् ।
आन्ध्रस्तु यवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥ २६.२६ ॥

जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ २६.२७ ॥

बृहदश्वसुतश्चापि कुबलाश्च इति श्रुतिः।
यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ २६.२८ ॥

ऋषय ऊचुः ॥
विश्वास-प्रस्तुतिः
धुन्धुवधं महाप्राज्ञ श्रोतुमिच्छमि विस्तरात्।
यदर्थं कुबलाश्वः स धुन्धुमारत्वमागतः ॥ २६.२९ ॥

बृहदश्वस्य पुत्राणां सहस्राण्येकविंशतिः ।
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ २६.३० ॥

बभूवुर्द्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः।
कुबलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ॥ २६.३१ ॥

बृहदश्वोऽभ्यषिञ्चत्तं तस्मिन् राष्ट्रे नराधिपः।
पुत्रसङ्क्रामितश्रीस्तु वनं राजा विवेश ह ॥ २६.३२ ॥

बृहदश्वं महाराजं शूरमुत्तमधार्मिकम् ।
प्रयातं तमुत्तङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ॥ २६.३३ ॥

उत्तङ्क उवाच॥
विश्वास-प्रस्तुतिः
भवतो रक्षणं कार्यं तत्तावत् कर्तुमर्हति।
निरुद्विग्नस्तपः कर्तुं न हि शक्नोमि पार्थिव ॥ २६.३४ ॥

ममाश्रमसमीपेषु समेषु मरुधन्वसु।
समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते ॥ २६.३५ ॥

देवतानामवध्यस्तु महाकायो महाबलः।
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ २६.३६ ॥

स मनोस्तनयः क्रूरो धुन्धुर्नाम सुदारुणः।
शतं लोकविनाशाय तप आस्थाय दारुणम् ॥ २६.३७ ॥

संवत्सरस्य पर्यन्ते स निःश्वासं प्रमुञ्चति।
यदा तदा मही तत्र चलिता स्म सकानना ॥ २६.३८ ॥

तस्य निःश्वासवातेन रज उद्धूयते महत्।
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ २६.३९ ॥

सविस्फुलिङ्गं सज्वालं सधूममतिदारुणम् ।
तेन राजन्न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥ २६.४० ॥

तं वारय महाबाहो लोकानां हितकाम्यया।
तेजस्ते सुमहाविष्णुस्तेजसाप्याययिष्यति ॥ २६.४१ ॥

लोकाः स्वस्था भवन्त्वद्य तस्मिन् विनिहतेऽसुरे ।
त्वं हि तस्य वधायाद्य समर्थः पृथिवीपते ॥ २६.४२ ॥

विष्णुना च वरो दत्तो मम पूर्वं ततोऽनघ।
न हि धुन्धुर्महावीर्यस्तेजसाल्पेन शक्यते ॥ २६.४३ ॥

निर्द्दग्धुं पृथिवीपाल अपि वर्ष शतैरिह।
वीर्यं हि सुमहत्तस्य देवैरपि दुरासहम् ॥ २६.४४ ॥

एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना।
कुबलाश्वं सुतं प्रादात्तस्मिन् धुन्धुनिवारणे ॥ २६.४५ ॥

राजा सन्न्यस्तशस्त्रोऽहमयन्तु तनयो मम।
भविष्यति द्विजश्वेष्ठ धुन्धुमारो न संशयः ॥ २६.४६ ॥

स तं व्यादिश्य तनयं धुन्धुमारणमुद्यतम्।
जगाम पर्वतायैव तपसे शंसितव्रतः ॥ २६.४७ ॥

कुबलाश्वस्तु धर्मात्मा पितुर्वचनमास्थितः।
सहस्रैरेकविंशत्या पुत्राणां सह पार्थिवः।
प्रायादुत्तङ्क सहितो धुन्धोस्तस्य निवारणे ॥ २६.४८ ॥

तमाविशत्ततो विष्णुर्भगवान् स्वेन तेजसा।
उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया ॥ २६.४९ ॥

तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत्।
अद्यप्रुभृत्येष नृपो धुन्धुमारो भविष्यति ॥ २६.५० ॥

दिव्यैः पुष्पैश्च तं देवाः सममंसत अद्भुतम्।
सगत्वा पुरुष व्याघ्रस्तनयैः सह वीर्यवान् ॥ २६.५१ ॥

समुद्रं खनयामास वालुकार्णवमव्ययम्।
नारायणेन राजर्षिस्तेजसाप्यायितो हि सः ॥ २६.५२ ॥

बभूवातिबलो भूय उत्तङ्कस्य वशे स्थितः।
तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा ॥ २६.५३ ॥

धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम्।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्त्तयन्निव ॥ २६.५४ ॥

वारि शुश्राव योगेन महोदधिरिवोदये।
सोमस्य सोमपश्रेष्ठ धारोर्मिकलिलो महान् ॥ २६.५५ ॥

तस्य पुत्रास्तु निर्द्दग्धास्त्रिभिरूनास्तु राक्षसाः।
ततः स राजातिबलो धुन्धुबन्धुनिबर्हणः ॥ २६.५६ ॥

तस्य वारिमयं वेगमपिबत् स नराधिपः।
योगी योगेन वह्निं वा शमयामास वारिणा ॥ २६.५७ ॥

निरस्यत्तं महाकायं बलेनोदकराक्षसम्।
उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥ २६.५८ ॥

उत्तङ्कश्च वरं प्रादात्तस्मै राज्ञे महात्मने।
अदात्तस्याक्षयं वित्तं शत्रुभिश्चाप्यधृष्यताम् ॥ २६.५९ ॥

धर्मे रतिञ्च सततं स्वर्गे वासं तथाक्षयम्।
पुत्राणां चाक्षयाल्ँलोकान् स्वर्गे ये राक्षसा हताः ॥ २६.६० ॥

तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते।
भद्राश्वः कपिलाश्वश्च कनीयासौ तु तौ स्मृतौ ॥ २६.६१ ॥

धौन्धुमारिर्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः।
हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा ॥ २६.६२ ॥

संहताश्वो निकुम्भस्य श्रुतो रणविशारदः ।
कृशाश्वश्चाक्षयाश्वश्च संहताश्च सुतावुभौ ॥ २६.६३ ॥

तस्य पत्नी हैमवती सतां मतिदृषद्वती।
विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥ २६.६४ ॥

युवनाश्वः सुतस्तस्य त्रिषु लोकेष्वतिद्युतिः।
अत्यन्तधार्मिको गौरी तस्य पत्नी पतिव्रता ॥ २६.६५ ॥

अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता ।
तस्यास्तु गौरिकः पुत्र श्चक्रवर्त्ती बभूव ह ॥ २६.६६ ॥

मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः।
अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिकी द्विजाः ॥ २६.६७ ॥

यावत्सूर्य उदयति यावच्च प्रतितिष्ठति।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ २६.६८ ॥

अत्राप्युदाहरन्तीमं श्लोकं वंशविदो जनाः ।
यौवनाश्वं महात्मानं यज्वान ममितौजसम्।
मान्धाता तु तनुर्विष्णोः पुराणज्ञाः प्रजक्षते ॥ २६.६९ ॥

तस्य चैत्ररथी भार्या शशबिन्दोः सुताऽभवत्।
साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि ॥ २६.७० ॥

पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा।
तस्यामुत्पादयामास मान्धाता त्रीन् सुतान् प्रभुः ॥ २६.७१ ॥

पुरुकुत्समम्बरीषं मुचुकुन्दञ्च विश्रुतम्।
अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ॥ २६.७२ ॥

हरितो युवनाश्वस्य हारिताः शूरयः स्मृताः ।
एते ह्यङ्गिरसः पुत्राः क्षात्रोपेता द्विजातयः ॥ २६.७३ ॥

पुरुकुत्सस्य दायादस्त्रसद्दस्युर्महायशाः।
नर्मदायां समुत्पन्नः सम्भूतस्तस्य चात्मजः ॥ २६.७४ ॥

सम्भूतस्यात्मजः पुत्रो ह्यनरण्यः प्रतापवान्।
रावणेन हतो येन त्रिलोकीविजये पुरा ॥ २६.७५ ॥

त्रसदश्वोऽनरण्यस्य हर्यश्वस्तस्य चात्मजः ।
हर्यश्वात्तु दृषद्वत्यां जज्ञे वसुमतो नृपः ॥ २६.७६ ॥

तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्मिकः।
आसीत् त्रैधन्वनश्चापि विद्वांस्त्रय्यां रणप्रभुः ॥ २६.७७ ॥

तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः।
तेन भार्या विदर्भस्य हृता हत्वा दिवौकसः ॥ २६.७८ ॥

पाणिग्रहणमन्त्रेषु निष्ठां सम्प्रापितोष्विह।
विष्णुवृद्धः सुतस्तस्य विष्णु वृद्धो यतः स्मृतः ।
एते ह्यङ्गिरसः पुत्राः क्षात्रोपेताः समाश्रिताः ॥ २६.७९ ॥

कामाद्बलाच्च मोहाच्च सङ्कर्षणबलेन च।
भाविनोऽर्थस्य च बलात् तत्कृतं तेन धीमता ॥ २६.८० ॥

तमधर्मेण संयुक्तं पिता त्रयीगुणोऽत्यजत्।
अपध्वंसेति बहुशोऽवदत् क्रोधसमन्वितः ॥ २६.८१ ॥

पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः।
पिता चैनमथोवाच श्वपाकैः सह वर्त्तय ॥ २६.८२ ॥

नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन।
इत्युक्तः स निराक्रामन्नगराद्वचनाद्विभो ॥ २६.८३ ॥

न चैनं धारयामास वसिष्ठो भगवानृषिः।
स तु सत्यव्रतो धीमाञ्छ्वपाकावसथान्तिकम्।
पित्रा मुक्तोऽवसद्वीरः पिता चास्य वनं ययौ ॥ २६.८४ ॥

तस्मिंस्तु विषये तस्य नावर्षत् पाकशासनः।
समा द्वादश सम्पूर्णास्तेनाधर्मेण वै तदा ॥ २६.८५ ॥

दारांस्तु तस्य विषये विश्वामित्रो महातपाः।
सन्न्यस्य सागरानूपे चचार विपुलं तपः ॥ २६.८६ ॥

तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्।
शिखया भरणार्थाय व्यक्रीणाद्घोशतेन वै ॥ २६.८७ ॥

तं तु बद्धं गले दृष्ट्वा विक्रीतं तं नरोत्तमः।
महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रतः ॥ २६.८८ ॥

सत्यव्रतो महाबुद्धिर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ॥ २६.८९ ॥

सोऽभवद्घालवो नाम गले बद्धो महातपाः।
महर्षिः कौशिकस्तातस्तेन वीर्येण मोक्षितः ॥ २६.९० ॥

तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया।
विश्वामित्रकलत्रञ्च बभार विनये स्थितः ॥ २६.९१ ॥

हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान्।
विश्वामित्राश्रमाभ्याशे तन्मांसमपचत्ततः ॥ २६.९२ ॥

उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम्।
पितुर्नियोगातभजन्नृपे तु वनमास्थिते ॥ २६.९३ ॥

अयोध्याञ्चैव राज्यञ्च तथैवान्तःपुरं मुनिः।
याज्योपाध्यायसंयोगाद्वसिष्ठः परिरक्षितः ॥ २६.९४ ॥

सत्यव्रतस्तु बाल्यात्तु भाविनोऽर्थस्य वै बलात्।
वसिष्ठेऽभ्याधिकं मन्युं धारयामास मन्युना ॥ २६.९५ ॥

पित्रा रुदंस्तदा राष्ट्रात् परित्यक्तं स्वमात्मजम्।
न वारयामास मुनिर्वसिष्ठः कारणेन वै ॥ २६.९६ ॥

पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे।
एवं सत्यव्रतस्तान् वै कृतवान् सप्तमे पदे ॥ २६.९७ ॥

जानन् धर्मान् वसिष्ठस्तु न च मन्त्रानिहेच्छति।
इति सत्यव्रते रोषं वसिष्ठो मनसाकरोत् ॥ २६.९८ ॥

गुरुर्बुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तदा।
न तु सत्यव्रतो बुद्ध्या उपांशुव्रतमस्य वै ॥ २६.९९ ॥

तस्मिंश्चोपरते यो यत्पितुरासीन्महामनाः।
तेन द्वादशवर्षाणि नावर्षत् पाकशासनः ॥ २६.१०० ॥

तेन त्विदानीं बहुधा दीक्षां तां दुर्बलां भुवि।
कुलस्य निष्कृतिः स्वस्य कृतेयञ्च भवेदिति ॥ २६.१०१ ॥

ततो वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्।
अभिषेक्ष्याम्यहं राज्ये पश्चादेनमिति प्रभुः ॥ २६.१०२ ॥

स तु द्वादशवर्षाणि दीक्षान्तामुद्वहन् बली।
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ २६.१०३ ॥

सर्वकामदुघां धेनुं सन्ददर्श नृपात्मजः।
तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ २६.१०४ ॥

दस्युधर्मं गतो दृष्ट्वा जघान बलिनां वरः।
स तु मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ २६.१०५ ॥

भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदात्यजत्।
प्रोवाच चैव भगवान् वसिष्ठस्तं नृपात्मजम् ॥ २६.१०६ ॥

पातये क्रूर हे क्रूर तव शङ्कुमयोमयम् ।
यदि ते त्रीणि शङ्कूनि न स्युर्हि पुरुषाधम ॥ २६.१०७ ॥

पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च।
अप्रोषितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ २६. १०८ ॥
विश्वास-प्रस्तुतिः
एवं स त्रीणि शङ्कूनि दृष्ट्वा तस्य महा तपाः।
त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ २६.१०९ ॥

विश्वामित्रस्तु दाराणामागतो भरणे कृते।
ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥ २६.११० ॥

छन्द्यमानो वरेणाथ गुरुं व्रवे नृपात्मजः।
अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ॥ २६.१११ ॥

अभिषिच्य राज्ये पित्र्ये याजयामास तं मुनिः।
मिषतां दैवतानाञ्च वसिष्ठस्य च कौशिकः।
सशरीरं तदा तं वै दिवमारोपयत् प्रभुः ॥ २६.११२ ॥

मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत्।
अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिका जनाः ॥ २६.११३ ॥

विश्वामित्रप्रसादेन त्रिशङ्कुर्दिवि राजते ।
देवै सार्द्धं महातेजानुग्रहात्तस्य धीमतः ॥ २६.११४ ॥

शनैर्यात्यबला रम्या हेमन्ते चन्द्रमण्डिता।
अलङ्कृता त्रिभिर्भावैस्त्रिशङ्कुग्रहभूषिता ॥ २६.११५ ॥

तस्य सत्यरता नाम भार्या केकयवंशजा।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ २६.११६ ॥

स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः ।
आहर्त्ता राजसूयस्य सम्राडिति परिश्रुतः ॥ २६.११७ ॥

हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्यवान्।
हरितो रोहितस्याथ चञ्चुहारीत उच्यते ॥ २६.११८ ॥

विजयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः।
जेता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥ २६.११९ ॥

रुरुकस्तनयस्तत्र राजा धर्मार्थकोविदः।
रुरुकाद्धृतकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान् ॥ २६.१२० ॥

हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः।
शकैर्यवनकाम्बोजैः पारदैः पह्लवैस्तथा ॥ २६.१२१ ॥

नात्यर्थं धार्मिकोऽभूत् स धर्म्ये सत्ययुगे तथा।
सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै।
भृगोराश्रममासाद्य तुर्वेण परिरक्षितः ॥ २६.१२२ ॥

आग्नेयमस्त्रं लब्ध्वा तु भार्गवात् सगरो नृपः।
जघान पृथिवीङ्गत्वा तालजङ्घान् सहैहयान् ॥ २६.१२३ ॥

शकानां पह्लवानाञ्च धर्मान्निरसदच्युतः।
क्षत्रियाणां तथा तेषां पारदानाञ्च धर्मवित् ॥ २६.१२४ ॥

ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः
कथं स सगरो राजा गरेण सह जज्ञिवान्।
किमर्थञ्च शकादीनां क्षत्रियाणां महौजसाम्।
धर्मान् कुलोचितान् क्रुद्धो राजा निरसदच्युतः ॥ २६.१२५ ॥

बाहोर्व्यसनिनस्तस्य हृतं राज्यं पुरा किल।
हैहयैस्तालजंवैश्च शकैः सार्द्धं समागतैः ॥ २६.१२६ ॥

यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा।
हैहयार्थं पराक्रान्ता एते पञ्चगणास्तदा ॥ २६.१२७ ॥

हृतं राज्यं बलीयोभिरेभिः क्षत्रियपुङ्गवैः ।
हृतराज्यस्तदा बाहुः सन्न्यस्य नु तदा नृपः।
वनं प्रविश्य धर्मात्मा सह पत्न्या तपोऽचरत् ॥ २६.१२८ ॥

कस्यचित्त्वथ कालस्य तोयार्थं प्रस्थितो नृपः।
वृद्धत्वाद्दुर्ब्बलत्वाच्च अन्तरा स ममार च ॥ २६.१२९ ॥

पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् ।
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥ २६.१३० ॥

सा तु भर्तुश्चितां कृत्वा वह्नौ तं समरोहयत्।
और्वस्तां भार्गवो दृष्ट्वा कारुण्याद्विन्यवर्त्तयत् ॥ २६.१३१ ॥

तस्याश्रमे तु तङ्गर्भं सागरेण तदा सह।
व्यजायत महाबाहुं सगरं नाम धार्मिकम् ॥ २६.१३२ ॥

और्वस्तु जातकर्मादीन् कृत्वा तस्य महात्मनः।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ २६.१३३ ॥

जामदग्न्यात्तदाग्नेयमसुरैरपि दुःसहम्।
स तेनास्त्रबलेनैव बलेन च समन्वितः ।
जघान हैहयान् क्रुद्धो रुद्रः पशुगणानिव ॥ २६.१३४ ॥

ततः शकान् सयवनान् काम्बोजान् पारदांस्तथा।
पह्लवांश्चैव निःशेषान् कर्तुं व्यवसितो नृपः ॥ २६.१३५ ॥

ते वध्यमाना वीरेण सगरेण महात्मना।
वसिष्ठं शरणं सर्वे प्रपन्नाः शरणैषिणः ॥ २६.१३६ ॥

वसिष्ठस्तान् तथेत्युक्त्वा समयेन महामुनिः ।
सगरं वारयामास तेषान्दत्त्वाऽभयन्तदा ॥ २६.१३७ ॥

सगरः स्वाम्प्रतिज्ञाञ्च गुरोर्वास्यं निशम्य च।
धर्मं जघान तेषां वै वेषान्यत्वं चकार ह ॥ २६.१३८ ॥

अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत्।
यवनानां शिरः सर्वं काम्बोजानान्तथैव च॥ २६.१३९ ॥

पारदा मुक्तकेशाश्च पह्लवाः श्मश्रु धारिणः।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ २६.१४० ॥

शका यवनकाम्बोजाः पह्लवाः पारदैः सह।
केलिस्पर्शा माहिषिका दार्वाश्चोलाः खसास्तथा ॥ २६.१४१ ॥

सर्वे ते क्षत्रियगणा धर्मस्तेषां निराकृतः।
वसिष्ठवचनात्पूर्वं सगरेण महात्मना ॥ २६.१४२ ॥

स धर्मविजयी राजा विजित्येमां वसुन्धराम्।
अश्वं विचारयामास वाजिमेधाय दीक्षितः ॥ २६.१४३ ॥

तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे।
वेलासमीपेऽपहृतो भूमिञ्चैव प्रवेशितः ॥ २६.१४४ ॥

स तन्देशं सुतैः सर्वैः खनयामास पार्थिवः।
आसेदुश्च ततस्तस्मिंस्तदन्तस्ते महार्णवे ॥ २६.१४५ ॥

तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम्।
विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ॥ २६.१४६ ॥

तस्य चक्षुः समासाद्य तेजस्तत् प्रतिपद्यते।
दग्धाः पुत्रास्तदा सर्वे चत्वारस्त्ववशेषिताः ॥ २६.१४७ ॥

बर्हिकेतुः सकेतुश्च तथा धर्मरतस्त्रयः।
शूरः पञ्चवनश्चैव तस्य वंशकराः प्रभो ॥ २६.१४८ ॥

प्रादाच्च तस्य भगवान् हरिर्नारायणो वरान्।
अक्षयत्वं स्ववंशस्य वाजिमेधशतं तथा।
विभुं पुत्रं समुद्रञ्च स्वर्गे वासं तथाक्षयम् ॥ २६.१४९ ॥

स समुद्रोऽश्वमादाय वन्ददे (?) सरिताम्पतिः।
सागरत्वं च लेभे स कर्मणा तेन तस्य वै ॥ २६.१५० ॥

तं चाश्वमेधिकं सोऽश्वं समुद्रात् प्राप्य पार्थिवः।
आजहाराश्वमेधानां शतं चैव पुनः पुनः ॥ २६.१५१ ॥

षष्टिपुत्रसहस्राणि दग्धान्यश्वानुसारिणाम्।
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम्।
पुत्राणान्तु सहस्राणि षष्टिस्तु इति नः श्रुतम् ॥ २६.१५२ ॥

ऋषय ऊचुः।.
विश्वास-प्रस्तुतिः
सगरस्यात्मजा राज्ञः कथं जाता महाबलाः।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद ॥ २६.१५३ ॥

द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे।
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ २६.१५४ ॥

कनीयसी तु या तस्य पत्नी परमधर्मिणी।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ २६.१५५ ॥

और्वस्ताभ्यां वरं प्रादात् तपसाराधितः प्रभुः।
एका जनिष्यते पुत्रं वंशकर्त्तारमीप्सितम्।
षष्टिपुत्रं सहस्राणि द्वितीया जनयिष्यति ॥ २६.१५६ ॥

मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम्।
वंशस्य कारणं श्रेष्ठा जग्राह नृपसंसदि ॥ २६.१५७ ॥

षष्टिपुत्रसहस्राणि सुपर्णभगिनी तथा।
महात्मनस्तु जग्राह सुमतिः पोषणे नृपः ॥ २६.१५८ ॥

अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत।
असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् ॥ २६.१५९ ॥

सुमतिस्त्वपि जज्ञे वै गर्भन्तुम्बं यशस्विनी।
षष्टिपुत्रसहस्राणि तुम्बमध्याद्विनिःसृताः ॥ २६.१६० ॥

घृतपूर्णेषु कुम्भेषु तान् गर्भान् न्यदधत्ततः।
धात्रीश्चैकैकशः प्रादात् तावतीः पोषणे नृपः ॥ २६.१६१ ॥

ततो नवसु मासेषु समुत्तस्थुर्यथासुखम्।
कुमारास्ते महाभागाः सगरप्रीतिवर्द्धनाः ॥ २६.१६२ ॥

कालेन महता चैव चौवनं प्रतिपेदिरे।
षष्टिपुत्रसहस्राणि तेषामश्वानुसारिणाम् ॥ २६.१६३ ॥

स तु ज्येष्ठो नरव्याघ्रः सगरस्यात्मसम्भवः।
असमञ्ज इति ख्यातो बर्हिकेतुर्महाबलः ॥ २६.१६४ ॥

पौराणामहिते युक्तः पित्रा निर्वासितः पुरा।
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥ २६.१६५ ॥

तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः।
दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥ २६.१६६ ॥

येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता ।
ईजाऽनेन समुद्राद्वै दुहितृत्वेन कल्पिता।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥ २६.१६७ ॥

भगीरथस्तु तां गङ्गामानयामास कर्मभिः ।
तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ॥ २६.१६८ ॥

भगीरथसुतश्चापि श्रुतो नाम बभूव ह।
नाभागस्तस्य दायादो नित्यं धर्मपरायणः ॥ २६.१६९ ॥

अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोऽभवत्।
एवं वंशपुराणज्ञा गायन्तीति परिश्रुतम् ॥ २६.१७० ॥

नाभागेरम्बरीषस्य भुजाभ्यां परिपालिता।
बभूव वसुधात्यर्थं तापत्रयविवर्जिता ॥ २६.१७१ ॥

अयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान्।
अयुतायोस्तु दायाद ऋतुपर्णो महायशाः ॥ २६.१७२ ॥

दिव्याक्षहृदज्ञोऽसौ राजा नलसखो बली।
नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ॥ २६.१७३ ॥

वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः।
ऋतुपर्णस्य पुत्रोऽभूत् सर्वकामो जनेश्वरः ॥ २६.१७४ ॥

सुदासस्तस्य तनयो राजा हंसमुखोऽभवत्।
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ २६.१७५ ॥

ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः ।
वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके।
अश्मकं जनयामास इक्ष्वाकुकुलवृद्धये ॥ २६.१७६ ॥

अश्मकस्योरकामस्तु मूलकस्तत्सुतोऽभवत्।
अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥ २६.१७७ ॥

स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत्।
विवस्त्रस्त्राणमिच्छन् वै नारीकवचमीश्वरः ॥ २६.१७८ ॥

मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः।
तस्माच्छतरथाज्जज्ञे राजा चैडिविडो बली ॥ २६.१७९ ॥

आसीत्त्वैडिविडः श्रीमान् कृतशर्मा प्रतापवान्।
पुत्रो विश्वमहत्तस्य पुत्रीकस्य व्यजायत ॥ २६.१८० ॥

दिलीपस्तस्य पुत्रोऽभूत् खट्वाङ्ग इति विश्रुतः।
येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम्।
त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥ २६.१८१ ॥

दीर्गबाहुः सुतस्तस्य रघुस्तस्मादजायत।
अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान्।
राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥ २६.१८२ ॥

रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः।
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥ २६.१८३ ॥

माधवं लवणं हत्वा गत्वा मधुवनञ्च तत्।
शत्रुघ्नेन पुरी तस्य मथुरा सन्निवेशिता ॥ २६.१८४ ॥

सुबाहुः शूरसेनश्च शत्रुघ्नसहितावुभौ।
पालयामासतुः सूनू वैदेह्यौ मथुरां पुरीम् ॥ २६.१८५ ॥

अङ्गदश्चान्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ।
हिमवत्पर्वताभ्याशे स्फीतौ जनपदौ तयोः ॥ २६.१८६ ॥

अह्गदस्याङ्गदीया तु देशे कारपथे पुरी।
चन्द्रकेतोस्तु मल्लस्य चन्द्रवक्ता पुरी शुभा ॥ २६.१८७ ॥

भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च।
गान्धारविषये सिद्धे तयोः पुर्यौ महात्मनोः ॥ २६.१८८ ॥

तक्षस्य दिक्षु विख्याता रम्या तक्षशिला पुरी।
पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥ २६.१८९ ॥

गाथां चैवात्र गायन्ति ये पुराणविदो जताः।
रामे निबद्धास्सत्त्वार्था माहात्म्यात्तस्य धीमतः ॥ २६.१९० ॥

श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ २६.१९१ ॥

दशवर्षसहस्राणि रामो राज्यमकारयत्।
ऋक्सामयजुषां घोषो ज्याघोषश्च महास्वनः ॥ २६.१९२ ॥

अविच्छिन्नोऽभवद्राष्ट्रे दीयतां भुज्यतामिति।
जनस्थाने वसन् कार्यं त्रिदशानाञ्चकारसः ॥ २६.१९३ ॥

तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः।
सीतायाः पदमन्विच्छन् निजघान महायशाः ॥ २६.१९४ ॥

सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्व तेजसा।
अतिसूर्यञ्च वह्निञ्च रामो दाशरथिर्बभौ ॥ २६.१९५ ॥

एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः ।
रावणं सगणं हत्वा दिवमाचक्रमे विभुः ॥ २६.१९६ ॥

श्रीरामस्यात्मजो जज्ञे कुश इत्यभिधीयते।
लवश्चान्यो महावीर्यस्तयोर्देशौ निबोधत ॥ २६.१९७ ॥

कुशस्य कोशला राज्यं पुरी वापि कुशस्थली।
रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ॥ २६.१९८ ॥

उत्तराकोशले राज्यं लवस्य च महात्मनः।
श्रावस्ती लोकविख्याता कुशवंशं निबोधत ॥ २६.१९९ ॥

कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः।
अतिथेरपि विख्यातो निषधो नाम पार्थिवः ॥ २६.२०० ॥

निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु।
नभसः पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ २६.२०१ ॥

क्षेमधन्वसुतो राजा देवानीकः प्रतापवान्।
आसीदहीनगुर्नाम देवानी कात्मजः प्रभुः ॥ २६.२०२ ॥

अहीनगोस्तु दायादः पारियात्रो महायशाः।
दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः ॥ २६.२०३ ॥

औङ्को नाम स धर्मात्मा बलपुत्रो बभूव ह।
वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः ॥ २६.२०४ ॥

शङ्खणस्य सुतो विद्वान् ध्युषिताश्च इति श्रुतः ।
ध्युषिताश्च सुतश्चापि राजा विश्वसहः किल ॥ २६.२०५ ॥

हिरण्यनाभः कौशल्यो वसिष्ठस्तत्सुतोऽभवत्।
पौत्रस्य जैमिनेः शिष्यः स्मृतः सर्वेषु शर्मसु ॥ २६.२०६ ॥

शतानि संहितानान्तु पञ्च योऽधीतवांस्ततः।
तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ॥ २६.२०७ ॥

पुष्यस्तस्य सुतो विद्वान् ध्रुवसन्धिश्च तत्सुतः।
सुदर्शनस्तस्य सुतो अग्निवर्णः सुदर्शनात् ॥ २६.२०८ ॥

अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मनुः स्मृतः।
मनुस्तु योगमास्थाय कलापग्राममास्थितः।
एकोनविंशप्रयुगे क्षत्रप्रावर्त्तकः प्रभुः ॥ २६.२०९ ॥

प्रसुश्रुतो मनोः पुत्रः सुसन्धिस्तस्य चात्मजः।
सुसन्धेश्च तथामर्षः सहस्वान्नाम नामतः ॥ २६.२१० ॥

आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति।
तस्यासीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ॥ २६.२११ ॥

एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः।
वंशे प्रधाना ये तेऽस्मिन् प्राधान्येन तु कीर्त्तिताः ॥ २६.२१२ ॥

पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः।
प्रजावानेति सायुज्यं मनोर्वैवस्वतस्य सः ॥ २६.२१३ ॥

श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च।
विपाप्मा विरजाश्चैव आयुष्मान् भवतेऽच्युतः ॥ २६.२१४ ॥

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनुवंशवर्णनं नाम षड्विंशोध्यायः ॥ २६ ॥ *