०२५

विश्वास-प्रस्तुतिः

पूर्वाचार्यमतं बुद्ध्वा प्रवक्ष्याम्यनुपूर्वशः।
त्रिंशतं वै अलङ्कारांस्तान् मे निगदतः श्रृणु ॥ २५.१ ॥

मूलम्

अलङ्कारास्तु वक्तव्याः स्वैःस्वैर्वर्णैः प्रहेतवः।
संस्थानयोगैश्च तथा पादानां चान्ववेक्षया ॥ २५.२ ॥

वाक्यार्थपदयोगार्थैरलङ्कारस्य पूरणम्।
पदानि गीतकस्याहुः पुरस्तात् पृष्ठतोऽथवा ॥ २५.३ ॥

स्थानानि त्रीणि जानीयादुरःकण्ठशिरस्तथा।
एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः ॥ २५.४ ॥

चत्वारः प्रकृतौ वर्णाः प्रविचारश्चतुर्विधः।
विकल्पमष्टधा चैव देवाः षोडशधा विदुः ॥ २५.५ ॥

स्थायी वर्णः प्रसञ्चारी तृतीयमवरोहणम्।
आरोहणं चतुर्थन्तु वर्णं वर्णविदो विदुः ॥ २५.६ ॥

तत्रैकः सञ्चरस्थायी सचरास्तचरीभवन्।
अथ रोहणवर्णानामवरोहं विनिर्दिशेत् ॥ २५.७ ॥

आरोहणेन चारोहवर्णं वर्णविदो विदुः।
एतेषामेव वर्णानामलङ्कारान्निबोधत ॥ २५.८ ॥

अलङ्कारास्तु चत्वारः स्थापनी क्रमरेजिनः।
प्रमादश्चाप्रमादश्च तेषां वक्ष्यामि लक्षणम् ॥ २५.९ ॥

विस्वरोष्ट्रकलाश्चैव स्थानादेकान्तरं गताः।
आवर्त्तस्याक्रमोत्पत्ती द्वे कार्ये परिमाणतः ॥ २५.१० ॥

कुमारमपरं विद्याद्विस्तरं वमनं गतम्।
एष वै चाप्यपाङ्गस्तु कुतारेकः कलाधिकः ॥ २५.११ ॥

श्येनस्त्वेकान्तरे जातः कलामात्रान्तरे स्थितः।
तस्मिंश्चैव स्वरे वृद्धिस्तिष्ठते तद्विलक्षणा ॥ २५.१२ ॥

श्येनस्तु अपरोहस्तु उत्तरः परिकीर्त्तितः।
कलाकलप्रमाणाच्च स बिन्दुर्नाम चायते ॥ २५.१३ ॥

बिन्दुरेककला कार्या वर्णान्तस्थायिनी भवेत्।
विपर्ययस्वरोऽपि स्याद्यस्य दुर्घटितोऽपि न ॥ २५.१४ ॥

एकान्तरा तु वाद्यन्तु षड्जतः परमः स्वरः।
आक्षेपास्कन्दनं कार्यं काकस्येवोच्चपुष्कलम् ॥ २५.१५ ॥

सन्तारौ तौ तु सञ्चार्यौ कार्यं वा कारणं तथा।
आक्षिप्तमवरोह्यापि प्रोक्षमद्यन्तथैव च ॥ २५.१६ ॥

द्वादशञ्च कलास्थानमेकान्तरगतन्ततः।
प्रेङ्खोलितमलङ्कारमेवं स्वरसमन्वितम् ॥ २५.१७ ॥

स्वरसङ्क्रामकाच्चैव ततः प्रोक्तन्तु पुष्कलम्।
प्रक्षिप्तमेव कलया पादानीतरयोर्भवेत् ॥ २५.१८ ॥

द्विकलं वा यथा भूतं यत्तद् ह्रासितमुच्यते।
उच्चाराद्विस्वरारूढा तथा चाष्टस्वरान्तरम् ॥ २५.१९ ॥

यस्तु स्यादवरोहो वा तारतो मन्द्रतोऽपि वा।
एकान्तरहिता ह्येते तमेव स्वरमन्ततः ॥ २५.२० ॥

मक्षिप्रच्छेदनो नाम चतुष्कलगणः स्मृतः।
अलङ्कारा भवन्त्येते त्रिंशद्ये वै प्रकीर्त्तिताः।
वर्णस्थानप्रयोगेण कलामात्रा प्रमाणतः ॥ २५.२१ ॥

संस्थानञ्च प्रमाणं च विकारो लक्षणन्तथा।
चतुर्विधमिदं ज्ञेयमलङ्कारप्रयोजनम् ॥ २५.२२ ॥

यथात्मनो ह्यलङ्कारो विपर्यस्तोऽतिगर्हितः।
वर्णमेवाप्यलङ्कर्त्तुं विषमं ह्यात्मसम्भवात् ॥ २५.२३ ॥

नानाभरणसंयोगाद्यथा नार्या विभूषणम्।
वर्णस्य चैवालङ्कारो विपर्यस्तोऽतिगर्हितः ॥ २५.२४ ॥

न पादे कुण्डले दृष्टे न कण्ठे रसना यथा।
एवमेव ह्यलङ्कारो विपर्यस्तो विगर्हितः ॥ २५.२५ ॥

क्रियमाणोऽप्यलङ्कारो रागं यश्चैव दर्शयेत्।
यथोद्दिष्टस्य मार्गस्य कर्त्तव्यस्य विधीयते ॥ २५.२६ ॥

लक्षणं पर्यवस्थापि वर्णिकाभिः प्रवर्त्तनम्।
याथातथ्येन वक्ष्यामि मासेद्भवमुखोद्भवे ॥ २५.२७ ॥

त्रयोविंशत्यशीतिस्तु तेषामेतद्विपर्ययः।
षड्जपक्षोऽपि तत्त्वादौ मध्यो हीनस्वरो भवेत् ॥ २५.२८ ॥

षड्जमध्यमयोश्चैव ग्रामयोः पर्यपस्तथा।
मानोयोत्तरमन्द्रस्य षडेवात्राविकस्य च ॥ २५.२९ ॥

स्वरालम्प्रत्ययश्चैव सर्वेषां प्रत्ययः स्मृतः।
अनुगम्य बहिर्गीतं विज्ञातं पञ्चदैवतम् ॥ २५.३० ॥

गोरूपाणां पुरस्तात्तु मध्यमांशस्तु पर्ययः।
तयोर्विभागो गीतानां लावण्यमार्गसंस्थितः ॥ २५.३१ ॥

अनुषङ्गं मयोद्दिष्टं स्वसारञ्च स्वरान्तरम्।
पर्ययः सम्प्रवर्त्तेत सप्तस्वरपदक्रमम् ॥ २५.३२ ॥

गान्धारांशेन गीयन्ते चत्वारि मन्द्रकाणि च।
पञ्चमो मध्यमश्चैव धैवते तु निषादजैः।
षड्जर्षभैश्च जानीमो मन्द्रकेष्वेव नान्तरे ॥ २५.३३ ॥

द्वे चापरान्तिके विद्याद्धयशुल्लाष्टकस्य तु।
प्राकृते वैणवैश्चैव गान्धारांशे प्रयुज्यते ॥ २५.३४ ॥

पदस्य तु त्रयं रूपं सप्तरूपन्तु कौशिकम्।
गान्धारांशेन कार्त्स्न्येन पर्ययस्य विधिः स्मृतः ।
एवञ्चैव क्रमोद्दिष्टो मध्यमांशस्य मध्यमः ॥ २५.३५ ॥

यानि गीतानि प्रोक्तानि रूपेण तु विशेषतः।
तत्तु सप्तस्वरं कार्यं सप्तरूपञ्च कौशिकम् ॥ २५.३६ ॥

अङ्गदर्शनमित्याहुर्माने द्वे समके तथा।
द्वितीयभावाचरणा मात्रा नाभिप्रतिष्ठिता ॥ २५.३७ ॥

उत्तरे च प्रकृत्येवं मात्रा तल्लीयते तथा ।
हन्तारः पिण्डको यत्र मात्रायां नातिवर्त्तते ॥ २५.३८ ॥

पादेनैकेन मात्रायां पादोनामति वीरणा।
सङ्ख्यायाश्चोपहननं तत्र यानमिति स्मृतम् ॥ २५.३९ ॥

द्वितीयं पादभङ्गञ्च ग्रहेणाभिप्रतिष्ठितम्।
पूर्वमष्टतृतीये तु द्वितीयं चापरीतके ॥ २५.४० ॥

अर्द्धेन पादसाम्यस्य पादभागाच्च पञ्चके।
पादभागं सपादं तु प्रकृत्यामपि संस्थितम् ॥ २५.४१ ॥

चतुर्थमुत्तरे चैव मद्रवत्यां च मद्रके।
मद्रके दक्षिणस्यापि यथोक्ता वर्त्तते कला ॥ २५.४२ ॥

पूर्वमेवानुयोगन्तु द्वितीया बुद्धिरिष्यते।
पादौ चाहरणं चास्मत् पारं नात्र विधीयते ॥ २५.४३ ॥

एकत्वमुपयोगस्य द्वयोर्यद्धि द्विजोत्तम।
अनेकसमवायस्तु पताकाहरिणं स्मृतम् ॥ २५.४४ ॥

तिसॄणां चैव वृत्तीनां वृत्तौ वृत्ता च दक्षिणा।
अष्टौ तु समवायास्ते सौवीरा मूर्च्छना तथा।
कुशत्यनुत्तरः सत्यं सप्त सत्त्वस्वरं तु यः ॥ २५.४५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते गीतालङ्कारनिर्द्देशो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ *