सूत उवाच॥
विश्वास-प्रस्तुतिः
निसर्गं मनु पुत्राणां विस्तरेण निबोधत।
पृषध्रो हिसयित्वा तु गुरोर्गावमभक्षयत् ॥ २४.१ ॥
मूलम्

शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः।
करूषस्य तु कारूषः क्षत्रियो युद्धदुर्मदः ॥ २४.२ ॥

सहस्रक्षत्रियगणविक्रान्तः सम्बभूव ह।
नाभागारिष्टपुत्रस्तु विद्वानासीद्भलन्दनः ॥ २४.३ ॥

भलन्दनस्य पुत्रोऽभूत् प्रांशुर्नाम महाबलः।
प्रांशोरेकोऽभवत् पुत्रः प्रजानिरिति विश्रुतः ॥ २४.४ ॥

प्रजानेरभवत् पुत्रः खनित्रो नाम वीर्यवान्।
तस्य पुत्रोऽभवच्छ्रीमान् क्षुपो नाम महायशाः ॥ २४.५ ॥

क्षुपस्य विंशः पुत्रस्तु प्रतिमा न बभूव ह।
विंशपुत्रस्तु कल्याणो विविंशो नाम धार्मिकः ॥ २४.६ ॥

विविंशपुत्रो धर्मात्मा खनिनेत्रः प्रतापवान्।
करन्धमस्तस्य पुत्रस्त्रेतायुगमुखेऽभवत् ॥ २४.७ ॥

करन्धमसुतश्चापि आविक्षिन्नाम वीर्यवान्।
आविक्षितो व्यतिक्रामत् पितरं गुणवत्तया ॥ २४.८ ॥

मरुत्तो नाम धर्मात्मा चक्रवर्त्तिसमो नृपः।
संवर्त्तेन दिवं नीतः ससुहृत् सह बान्धवैः ॥ २४.९ ॥

विवादोऽत्र महानासीत् संवर्त्तस्य बृहस्पतेः।
ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ॥ २४.१० ॥

सम्पर्त्तेन हृते यज्ञे चुकोप सुभृशन्तदा।
लोकानां स हि नाशय दैवतैर्हि प्रसादितः ॥ २४.११ ॥

मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवाप्तवान्।
नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ॥ २४.१२ ॥

तस्य पुत्रस्तु विक्रान्तो राजासीद्राष्ट्रवर्द्धनः ।
सुधृती तस्य पुत्रस्तु नरः सुधृतिनः सुतः ॥ २४.१३ ॥

केवलस्तस्य पुत्रस्तु बन्धुमान् केवलात्मजः।
अथ बन्धुमतः पुत्रो धर्मात्मा वेगवान् नृपः ॥ २४.१४ ॥

बुधो वेगवतः पुत्र स्तृणबिन्दुर्बुधात्मजः।
त्रेतायुगमुखे राजा तृतीये सम्बभूव ह ॥ २४.१५ ॥

कन्या तु तस्य द्रविडा माता विश्रवसो हि सा।
पुत्रश्चास्य विशालोऽभूद् राजा परमधार्मिकः ॥ २४.१६ ॥

विशालस्य समुत्पन्ना विशाला नयनिर्मिता।
विशालस्य सुतो राजा हेमचन्द्रो महाबलः ॥ २४.१७ ॥

सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरम्।
सुचन्द्रतनयो राजा धूम्राश्च इति विश्रुतः ॥ २४.१८ ॥

धूम्राश्वतनयो विद्वान् सृञ्जयः समपद्यत।
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ॥ २४.१९ ॥

कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः।
कृशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ॥ २४.२० ॥

सोमदत्तस्य राजर्षेः सुतोभूज्जनमेजयः।
जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ॥ २४.२१ ॥

तृणबिन्दुप्रसादेन सर्वे वैशालका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ २४.२२ ॥

शर्यातेर्मिथुनं त्वासीदानार्तो नाम विश्रुतः।
पुत्रः सुकन्या कन्या न भार्याया च्यवनस्य तु ॥ २४.२३ ॥

आनार्त्तस्य तु दायादो रेवो नाम्ना तु वीर्यवान्।
आनर्त्तो विषयो यस्य पुरी चापि कुशस्थली ॥ २४.२४ ॥

रेवस्य रैवतः पुत्रः ककुझी नाम धार्मिकः।
ज्येष्ठो भ्रातृशतस्यासीद्राजा प्राप्य कुशस्थलीम् ॥ २४.२५ ॥

कन्यया सह श्रुत्वा च गन्धर्वं ब्रह्मणोऽन्तिके।
मुहूर्त्तं देवदेवस्य मार्त्यं बहुयुगं विभोः ॥ २४.२६ ॥

आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम्।
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ॥ २४.२७ ॥

भोजवृष्ट्यन्धकैर्गुप्तां वसुदेवपुरोगमैः।
ताङ्कथां रैवतः श्रुत्वा यथातत्त्वमरिन्दमः ॥ २४.२८ ॥

कन्या तु बलदेवाय सुव्रतां नाम रेवतीम्।
दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ॥ २४.२९ ॥

रेमे रामश्च धर्मात्मा रेवत्या सहितः किल।
तां कथामृषयः श्रुत्वा पप्रच्छुस्तदनन्तरम् ॥ २४.३० ॥

ऋष्य ऊचुः ॥
विश्वास-प्रस्तुतिः
कथं बहुयुगे काले व्यतीते सूतनन्दन।
न जरां रेवती प्राप्ता पलितञ्च कुतः प्रभो ॥ २४.३१ ॥

मेरुं गतस्य वा तस्य शर्यातेः सन्ततिः कथम्।
स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ॥ २४.३२ ॥

कियन्तो वा सुरगणा गन्धर्वास्तत्र कीदृशाः।
यच्छ्रुत्वा रैवतः कालान् मुहूर्त्तमिव मन्यते ॥ २४.३३ ॥

न जरा क्षुत्पिपासा वा न च मृत्युभयं ततः।
न च रोगः प्रभवति ब्रह्मलोकगतस्य हि ॥ २४.३४ ॥

गान्धर्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः।
ततोऽहं सम्प्रवक्ष्यामि याथातथ्येन सुव्रताः ॥ २४.३५ ॥

सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः।
तालाश्चैकोनपञ्चाशदित्येतत् स्वरमण्डलम् ॥ २४.३६ ॥

षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा।
धैवतश्चापि विज्ञेयस्तथा चापि निषादवान् ॥ २४.३७ ॥

सौवीरी मध्यमग्रामो हरिणास्या तथैव च।
स्यात्कलोपबलोपेता चतुर्थी शुद्धमध्यमा ॥ २४.३८ ॥

शार्ङ्गी च पावनी चैव दृष्टाका च यथाक्रमम्।
न्ध्यमग्रामिकीः ख्याताः षड्जग्रामं निबोधत ॥ २४.३९ ॥

उत्तरमन्द्रा रजनी तथा या चोत्तरायता।
शुद्धषड्जा तथा चैव जानीयात् सप्तमां च ताम् ॥ २४.४० ॥

गान्धारग्रामि कांश्चान्यान् कीर्त्यमानान् निबोधत।
आग्निष्टोमिकमाद्यन्तु द्वितीयं वाजपेयिकम् ॥ २४.४१ ॥

तृतीयं पौण्ड्रकं प्रोक्तं चतुर्थं चाश्वमेधिकम्।
पञ्चमं राजसूयं व षष्ठं चक्रसुवर्णकम् ॥ २४.४२ ॥

सप्तमं गोसवं नाम महावृष्टिकमष्टमम्।
ब्रह्मदानञ्च नवमं प्राजापत्यमनन्तरम् ॥ २४.४३ ॥

नागपक्षाश्रयं विद्याद्गोतरञ्च तथैव च।
हयक्रान्तं मृगक्रान्तं विष्णुक्रान्तं मनोहरम् ॥ २४.४४ ॥

सूर्यक्रान्तं वरेण्यञ्च मत्तकोकिलवादिनम्।
सावित्रमर्द्धसावित्रं सर्वतो मद्रमेव च ॥ २४.४५ ॥

सुवर्णञ्च सुतन्द्रञ्च विष्णुवैष्णुवरावुभौ।
सागरं विजयञ्चैव सर्वभूतमनोहरम् ॥ २४.४६ ॥

हंसं ज्येष्ठं विजानीमस्तुम्बुरुप्रियमेव च।
मनोहरमधात्र्यञ्च गन्धर्वानुगतश्च यः ॥ २४.४७ ॥

अलम्बुषेष्टश्च तथा नारदप्रिय एव च।
कथितो भीमसेनेन नागराणां यथा प्रियः ॥ २४.४८ ॥

करोपनीत विनता श्रीराख्यो भार्गवप्रियः।
विंशतिर्मध्यमग्रामः षड्जग्रामश्चतुर्द्दश ॥ २४.४९ ॥

तथा पञ्चदशेच्छन्ति गान्धारग्रामसंस्थितान् ।
ससौवीरा तु गान्धारी ब्रह्मणा ह्युपगीयते ॥ २४.५० ॥

उत्तरादिस्वरस्यैव ब्रह्मा वै देवताऽत्र च।
हरिदेशसमुत्पन्ना हरिणास्या व्यजायत।
मूर्च्छना हरिणास्यैव अस्या इन्द्रोऽधिदैवतम् ॥ २४.५१ ॥

करोपनीतवितता मरुद्भिः स्वरमण्डले।
सा कलोपनता तस्मान्मारुतश्चात्र दैवतम् ॥ २४.५२ ॥

मनुदेशसमुत्पन्ना मूर्च्छना शुद्धमध्यम्।
मध्यमोऽत्र स्वरः शुद्धो गन्धर्वश्चात्र देवता ॥ २४.५३ ॥

मृगैः सह सञ्चरते सिद्धानां मार्गदर्शने।
यस्मात्तस्मात् स्मृता मार्गी मृगेन्द्रोऽस्याश्च देवता ॥ २४.५४ ॥

सा चाश्रमसमायुक्ता अनेकान् पौरवान् रवान्।
मूर्च्छना योजना ह्येषा रजसा रजनी ततः ॥ २४.५५ ॥

ताल उत्तरमन्द्रांशः षड्जदैवतकां विदुः।
तस्मादुत्तरतालञ्च प्रथमं स्वायतं विदुः।
तस्मादुत्तरमन्द्रोऽयं देवतास्य ध्रुवो ध्रुवम् ॥ २४.५६ ॥

अपानादुत्तरत्वाच्च धैवतस्योत्तरायणः।
स्यादियं मूर्च्छना ह्येवं पितरः श्राद्धदेवताः ॥ २४.५७ ॥

शुद्धषड्जस्वरं कृत्वा यस्मादग्निं महर्षयः।
उपतिष्ठन्ति तस्मात्तं जानीयाच्छुद्धषड्जिकम् ॥ २४.५८ ॥

यः सतां मूर्च्छनां कृत्वा पञ्चमस्वरको भवेत् ।
यक्षीणां मूर्च्छना सा तु याक्षिका मूर्च्छना स्मृता ॥ २४.५९ ॥

नागदृष्टिर्विषा गीता नोपसर्पन्ति मूर्च्छनाम्।
भवन्तीव हृता ह्येते ब्रह्मणा नागदेवताः।
अहीनां मूर्च्छना ह्येषा वरुणश्चात्र देवता ॥ २४.६० ॥

शकुन्तकानां कृत्वा च उपमां यान्ति किन्नराः ।
उत्तमां मूर्च्छना तस्मात् पक्षिराजोऽत्र देवता ॥ २४.६१ ॥

गान्धाररागशब्देन गां च धारयतेऽर्थतः।
तस्माद्विशुद्धगान्धारी गन्धर्वश्चाधिदैवतम् ॥ २४.६२ ॥

गान्धारानन्तरं गत्वा सृष्टेयं मूर्च्छना यतः।
तस्मादुत्तरगान्धारी वसवश्चात्र देवताः ॥ २४.६३ ॥

सेयं खलु महाभूता पितामह मुपस्थिता।
षड्जेयं मूर्च्छना तस्मात् स्मृता ह्यनलदेवता ॥ २४.६४ ॥

दिव्येयं चायता तेन मन्दषष्ठा च मूर्च्छने।
निवृत्तगुणनामानं पञ्चमञ्चात्र धैवतम् ॥ २४.६५ ॥

पूर्णाः सप्तस्वरा ह्येवं मूर्च्छनाः सम्प्रकीर्त्तिताः।
नानासाधारणाश्चैव षडेवानुविदस्तथा ॥ २४.६६ ॥

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वत मनुवंशगान्धर्वमूर्च्छनालक्षणकथनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ *