सूत उवाच॥
विश्वास-प्रस्तुतिः
ततो मन्वन्तरेऽतीते चाक्षुषे दैवतैः सह।
वैवस्वताय महते पृथिवीराज्यमादिशत् ॥ २३.१ ॥
मूलम्

तस्य वैवस्वतो वक्ष्ये साम्प्रतस्य महात्मनः।
आनुपूर्व्येण वै विप्राः कीर्त्त्यमानं निबोधत ॥ २३.२ ॥

मनोर्वैवस्वतस्येह सर्गमादाय साम्प्रतम् ।
मनोः प्रथमजस्यासन् नवपुत्रास्तु तत्समाः ॥ २३.३ ॥

इक्ष्वाकुर्नहुषश्चैव धृष्टः शर्यातिरेव च।
नरिष्यन्तस्तथा प्रांशु र्नाभागोऽरिष्ट एव च।
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ २३.४ ॥

ब्रह्मणा तु मनुः पूर्वं चोदितस्तु निबोधत।
स्रष्टुं प्रचक्रमे कामं निष्फलं समवर्त्तत ॥ २३.५ ॥

अथाकरोत्पुत्रकामः परामिष्टिं प्रजापतिः।
मित्रावरुणयोरंशे मनुराहुतिमावपत् ॥ २३.६ ॥

तत्र दिव्याम्बरधरा दिव्याभरणभूषिता।
दिव्यसन्नहना चैव इडा जज्ञे इति श्रुतिः ॥ २३.७ ॥

तामिलेत्यथ होवाच मनुर्द्दण्डधरः स्मृतः।
अनुगच्छामि भद्रन्ते तमिला प्रत्युवाच ह ॥ २३.८ ॥

धर्मयुक्तमिदं वाच्यं पुत्रकामं प्रजापतिम्।
मित्रावरुणयोरंशे जातास्मि वदतां वर ॥ २३.९ ॥

तयोः सकशं यास्यामि मा नो धर्मो हतोऽवधीत्।
सैवमुक्त्वा पुनर्द्देवी तयोरन्तिकमागमत् ॥ २३.१० ॥

गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ।
अंशेऽस्मिन्युवयोर्जाता देवौ किं करवाणि च ॥ २३.११ ॥

मनुनैवाहमुक्तास्मि अनुगच्छस्व मामिति।
तथा तु वदतीं साध्वीमिडामाश्रित्य तावुभौ ॥ २३.१२ ॥

देवौ च मित्रावरुणाविदं वचनमूचतुः ।
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ॥ २३.१३ ॥

सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि।
आवयोस्त्वं महाभागे ख्यातिं कन्या प्रयास्यसि ॥ २३.१४ ॥

सुद्युम्न इति विख्यातस्त्रिषु लोकेषु पूजितः।
जगत्प्रियो धर्मशीलो मनोर्वंश विवर्द्धनः ॥ २३.१५ ॥

मानवः स तु सुद्युम्नः स्त्रीभावमगमत् प्रभुः।
सा तु देवी वरं लब्ध्वा निवृत्ता पितरं प्रति ॥ २३.१६ ॥

बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता।
सोमपुत्राद्बुधाच्चास्या ऐलो जज्ञे पुरूरवाः ॥ २३.१७ ॥

बुधात् सा जनयित्वा तु सुद्युम्नं पुनरागता।
सुद्युम्नस्य च दायादास्त्रयः परमधार्मिकाः ॥ २३.१८ ॥

उत्कलश्च गयश्चैव विनताश्वस्तथैव च।
उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम् ।
दिक्षु वातस्य राजर्षेर्गयस्य तु गया पुरी ॥ २३.१९ ॥

प्रविसृष्टे मनौ तस्मिन् प्रजाः सृष्ट्वा दिवाकरः।
दशधा तद्दधत् क्षेत्रमकरोत् पृथिवीमिमाम् ॥ २३.२० ॥

इक्ष्वाकुरेव दायादानन्यान् दश समाप्नुयात्।
कन्याभावात्तु सुद्युम्नो नैनं भागमवाप्नुयात् ॥ २३.२१ ॥

वसिष्ठवचनाच्चासीत् प्रतिष्ठानो महाद्युतिः।
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः ॥ २३.२२ ॥

तत् पुरूरवसे प्रादाद्राष्ठ्रं प्राप्य महायशाः।
मानवेभ्यो महाभागा स्त्रीपुंसोर्लक्षणं प्रति।
मानवः स तु सुद्युम्नः स्त्रीभावमगमत् पुनः ॥ २३.२३ ॥

एतच्छ्रुत्वा तु ऋषयः पप्रच्छुस्तदनन्तरम् ।
मानवः स तु सुद्युम्नः स्त्रीभावमगमत् कथम् ॥ २३.२४ ॥

प्रोवाच वचनं देवी प्रियहेतोः प्रियं प्रिया ।
स मे ममाश्रमे देव यः पुमान् सम्प्रवेक्ष्यति।
भविष्यति ध्रुवं नारी सा तुल्याप्सरसां शुभा ॥ २३.२५ ॥

तत्र सर्वाणि भूतानि पिशाचाः पशवश्च ये।
स्त्रीभूताः सह रुद्रेण क्रीडन्त्यप्सरसो तथा ॥ २३.२६ ॥

उमावनं प्रविष्टस्तु स राजा मृगयां गतः।
सह पिशाचैर्भूतैस्तु रुद्रैः स्त्रीभावमास्थितः ॥ २३.२७ ॥

तस्मात् स राजा सुद्युम्नः स्त्रीभावं लब्धवान् पुनः ।
महादेवप्रसादाच्च गाणपत्य मवाप्नुयात् ॥ २३.२८ ॥

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनोः सृष्टिकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ *