शंयुरुवाच॥
विश्वास-प्रस्तुतिः
किञ्चिद्दत्तं पितॄणां तु धिनोति वदतां वर ।
किं हि स्विच्चिररात्राय किञ्चानन्त्याय कल्पते ॥ २१.१ ॥
मूलम्

बृहस्पतिरुवाच।
हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः।
तानि मे श्रृणु सर्वाणि फलं चैषां यथाबलम् ॥ २१.२ ॥

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन च।
दत्तेन मासं प्रीयन्ते श्राद्धेन तु पितामहाः ॥ २१.३ ॥

मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु।
शाशन्तु चतुरो मासान् पञ्च प्रीणाति शाकुनम् ॥ २१ .४ ॥
विश्वास-प्रस्तुतिः
वाराहेण तु षण्मासाञ्छागलं साप्तमासिकम्।
अष्टमासिकमित्युक्तं यच्च पार्षतकं भवेत् ॥ २१.५ ॥

रौरवेण तु प्रीयन्ते नवमासान् पितामहाः।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ २१.६ ॥

कूर्मस्य चैव मांसेन मासानेकादशैव तु ।
श्राद्धमेव विजानीयाद्गव्यं संवत्सरं भवेत् ॥ २१.७ ॥

तथा गव्यसमायुक्तं पायसं मधुसर्पिषा।
वध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ २१.८ ॥

आनन्त्याय भवेद्युक्तं खाड्गमांसैः पितृक्षये।
कृष्णच्छागस्तथा गोधा आनन्त्यायैव कल्पते ॥ २१.९ ॥

अत्र गाथाः पितृगीताः कीर्त्तयन्ति पुराविदः।
तास्तेऽहं सम्प्रवक्ष्यामि यथावत्सन्निबोधत ॥ २१.१० ॥

अपि नः स्वकुले जायाद्योऽन्नं दद्यात्र्त्रयोदशीम्।
पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य तु ॥ २१.११ ॥

आजेन सर्वलोहेन वर्षासु च मघासु च।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।
गौरीं वाप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ॥ २१.१२ ॥

गयादीनां फलं तात प्रब्रूहि समपृच्छतः।
पितॄणां चैव यत्पुण्यं निखिलेन ब्रवीहि मे ॥ २१.१३ ॥

बृहस्पतिरुवाच॥
विश्वास-प्रस्तुतिः
गयायामक्षयं श्राद्धं जपहोमतपांसि च।
पितृङयाहे ते पुत्र तस्मात्तत्राक्षयं स्मृतम् ॥ २१.१४ ॥

पुनीयादेकविंशन्तु गौर्यामुत्पादितः सुतः।
मातामहांस्तु षड्भूय इति तस्याः फलं स्मृतम् ॥ २१.१५ ॥

फलं वृषस्य वक्ष्यामि गदतो मे निबोधत।
वृषोत्स्रष्टा पुनात्येव दशातीतान् दशावरान् ॥ २१.१६ ॥

यत्किञ्चित् स्पृश्यते तोयैरुत्तीर्णेन जलान्महीम्।
वृषोत्सर्गे पितॄणां तु ह्यक्षयं स मुदाहृतम् ॥ २१.१७ ॥

यद्यद्धि संस्पृशेत्तोयं लाङ्गूलादिभिरन्ततः।
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ॥ २१.१८ ॥

श्रृङ्गैः खुरैर्वा यद्भूमिमिल्लिखत्य निशं वृषः।
मधुकुल्याः पितॄंस्तस्य अक्षयास्ता भवन्ति वै ॥ २१.१९ ॥

सहस्रनल्वमात्रेण तडागेन यथा श्रुतिः।
तृप्तिस्तृप्तिः पितॄणां वै तद्वृषस्याधिकोच्यते ॥ २१.२० ॥

यो ददाति गुढैर्मिश्रांस्तिलान् वै श्राद्धकर्मणि।
मधुना मधुमिश्रान् वा अक्षयं सर्वमेव तत् ॥ २१.२१ ॥०

न ब्राह्मणान् परीक्षेत सदा देये तु मानवः।
दैवे कर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ॥ २१.२२ ॥

सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः।
ये च भाष्य विदो मुख्या ये च व्याकरणे रताः ॥ २१.२३ ॥

अधीयते पुराणं च धर्मशास्त्रं तथैव च।
त्रिणाचिकेतपञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥ २१.२४ ॥

ब्रह्मदेय सुतश्चैव छन्दोगो ज्येष्ठसामगः।
पुण्येषु येषु तीर्थेषु अभिषेककृतव्रताः ॥ २१.२५ ॥

मुख्येषु येषु सत्रेषु भवन्त्यवभृथश्रुताः।
ये च सद्योव्रता नित्यं स्वकर्मनिरताश्च ये ॥ २१.२६ ॥

अक्रोधनाः शान्तिपरास्तान् वै श्राद्धे निमन्त्रयेत्।
ये चापि नित्यं दशसु सुकृतेषु व्यवस्थिताः ॥ २१.२७ ॥

एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः।
श्रद्धेया ब्राह्मणा ये तु योगधर्ममनुव्रताः ॥ २१.२८ ॥

धर्माश्रमवरिष्ठास्ते हव्यकव्येषु ते वराः।
त्रयोऽपि पूजितास्तेन ब्रह्मविष्णु महेश्वराः ॥ २१.२९ ॥

पितृभिः सह लोकाश्च यो ह्येतान् पूजयेन्नरः।
पवित्राणा पवित्रञ्च मङ्गलानां च मङ्गलम् ॥ २१.३० ॥

प्रथमः सर्वधर्माणां योगधर्मो निगद्यते ।
अपाङ्क्तेयांस्तु वक्ष्यामि गदतो मे निबोधत ॥ २१.३१ ॥

कितवो मद्यपो यक्ष्मी पशुपालो निराकृतिः।
ग्रामप्रेष्यो वार्द्धुषिको गायनो वणिजस्तथा ॥ २१.३२ ॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी।
समुद्रयायी दुश्चर्मा तैलिकः कूटकारकः ॥ २१.३३ ॥

पित्रा विवदमानश्च यस्य चोपपतिर्गृहे।
अभिशस्तस्तथा स्तेनः शिल्पैर्यश्चोपजीवति ॥ २१.३४ ॥

सूजकः पर्वकारी च यस्तु मित्रेषु द्रुह्यति।
गणयाचनकश्चैव नास्तिको वेदवर्जितः ॥ २१.३५ ॥

उन्मत्तः षण्डकशठौ भ्रूणहा गुरुतल्पगः ।
भिषक्जीवः प्रैषणिकः परस्त्रीं यश्च गच्छति ॥ २१.३६ ॥

विक्रीणाति च यो ब्रह्म व्रतानि च तपांसि च।
नष्टं स्यान्नास्तिके दत्तं कृतघ्ने चैव शंसके ॥ २१.३७ ॥

यच्च वाणिजके चैव नेह नामुत्र तद्भवेत्।
निक्षेपहारिणे चैव कितवे वेदनिन्दके ॥ २१.३८ ॥

तथा वाणिजके चैव कारुके धर्मवर्जिते।
निन्दन् क्रीणाति पण्यानि विक्रीणंश्च प्रशंसति ॥ २१.३९ ॥

अनृतस्य समावासो न वणिक् श्राद्धमर्हति।
भस्म नीव हुतं हव्यं दत्तं पौनर्भवे द्विजे ॥ २१.४० ॥

षष्टिं काणः शतं षण्डः श्वित्री यावत् प्रपश्यति।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ २१.४१ ॥

भ्रश्यते सत्फलात्तस्माद्दाता यस्य तु बालिशः।
यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः ॥ २१.४२ ॥

सोपानत्कश्च यो भुङ्क्ते यच्च दद्यात्तिरस्कृतम् ।
सर्वं तदसुरेन्द्राणां ब्रह्मा भागमकल्पयत् ॥ २१.४३ ॥

श्वानश्च यातुधानाश्च नावेक्षेरन् कथञ्चन।
तस्मात्परिवृतिं दद्यात्तिलैश्चान्ववकीरयन् ॥ २१.४४ ॥

राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतिस्तथा।
दर्शनात्सूकरो हन्ति पक्षपातेन कुक्कुटः ॥ २१.४५ ॥

रजस्वलानुस्पर्शेन क्रुद्धो यश्च प्रयच्छति।
यस्य मित्रप्रदे यानि श्राद्धानि च हवींषि च।
न प्रीणाति पितॄन् देवान् स्वर्गं न च स गच्छति ॥ २१.४६ ॥

नदीतीरेषु रम्येषु सरित्सु च सरस्सु च।
विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः ॥ २१.४७ ॥

न चाश्रुं पातयेज्जातु न युक्तो वाचमीरयेत्।
न च कुर्वीत भुञ्जानो ह्यन्योऽन्यं मत्सरस्तदा ॥ २१.४८ ॥

अपसव्ये कृते तेन विधिवद्दर्भपाणिना ।
पित्र्यमानिधनं कार्यमेवं प्रीणाति वै पितॄन् ॥ २१.४९ ॥

अनुमत्यादितो विप्रानग्नौ कुर्याद्यथाविधि।
पितॄणां निर्वपेद्भूमौ शूर्पे वा दर्भसंस्तरे ॥ २१.५० ॥

शुक्लपक्षस्य पूर्वाह्ने श्राद्धं कुर्याद्विचक्षणः।
कृष्णपक्षेऽपराह्ने तु रौहिणं न विलङ्घयेत् ॥ २१.५१ ॥

एवमेते महात्मानो महा योगा महौजसः।
सदा वै पितरः पूज्या द्रष्टारो देशकालयोः ॥ २१.५२ ॥

पितृभक्तिरतो नित्यं योगं प्राप्नोत्यनुत्तमम्।
ध्यानेन मोक्षं गच्छन्ति हित्वा कर्म शुभाशुभम् ॥ २१.५३ ॥

यज्ञहेतोर्यदुद्धृत्य मोहयित्वा जगत्तदा।
गुहायां निहतं योगं कश्यपेन महात्मना ॥ २१.५४ ॥

अमृतं गुह्यमृद्धृत्य योगं योगविदां वर।
प्रोक्तं सनत्कुमारेण महत्तद्धर्मशाश्वतम् ॥ २१.५५ ॥

देवानां परमं गुह्यमृषीणां च परायणम्।
पितृभक्त्या प्रयत्नेन पितृभक्तैश्च नित्यशः ॥ २१.५६ ॥

तञ्च योगं समासेन पितृभक्तस्तु कृत्स्नशः।
प्रयत्नात्प्राप्नुयात्तत्र सर्वमेव न संशयः ॥ २१.५७ ॥

यस्मै श्राद्धानि देयानि यच्च दत्तं महाफलम्।
येषु वाप्यक्षयं श्राद्धं तीर्थषु च नदीषु च ।
येषु च स्वर्गमाप्नोति तत्ते प्रोक्तं ससङ्ग्रहम् ॥ २१.५८ ॥

श्रुत्वैवं श्राद्धकल्पं तु योऽसूयां कुरुते नरः।
स मज्जेन्नरके घोरे नास्तिकस्तमसावृतः ॥ २१.५९ ॥

महारोगावसायस्तु स यः संयतमानसः।
वेदाश्रमान्मुक्तचित्तः कुम्भीका नधिगच्छति।
जिह्वाच्छेदं स्तेनमेत्य प्राप्नुयुस्तेन चैव ह ॥ २१.६० ॥

सीदन्ति ते सागरे लोष्टभूता योगद्विषः स्थास्यन्ते यावदुर्वी ।
तस्माच्छ्राद्धे धर्म उद्दिष्ट एष नित्यं कार्यः श्रद्दधानेन पुंसा ॥ २१.६१ ॥

परिवादो न कर्त्तव्यो योगिनां च विशेषतः।
परिवादात् कृमिर्भूत्वा तत्रैव परिवर्त्तते ॥ २१.६२ ॥

योगं परिवदेद्यस्तु ध्यानिनां मोक्षकारणम्।
स गच्छेन्नरकं घोरं श्रोता यश्च न संशयः ॥ २१.६३ ॥

आवृतं तमसा सर्वं नरकं घोरदर्शनम्।
योगीश्वरपरी वादान्निश्चयं याति मानवः ॥ २१.६४ ॥

योगेश्वराणामाक्रोशं श्रृणुयाद्यो यतात्मनाम्।
स हि कालं चिरं मज्जेत् कुम्भीपाके न संशयः ॥ २१.६५ ॥

मनसा कर्मणा वाचा द्वेषं योगिषु वर्ज्जयेत्।
प्रेत्यान्यं तत्फलं भुङ्क्ते इह चैव न संशयः ॥ २१.६६ ॥

न पारगो विन्दति पारमात्मनस्त्रिलोकमध्ये चरति स्वकर्मभिः।
ऋचो यजुःसामतदङ्गपारगो विकारमेव ह्यनवाप्य सीदति ॥ २१.६७ ॥

विकारपारः प्रकृतेश्च पारगस्त्रयी गुणानां त्रिगुणान्तपारगा।
तत्त्वञ्चतुर्विंशतियो गपारगं स पारगो यस्त्वयनान्तपारगः ॥ २१.६८ ॥

कृत्स्नं यथा तत्त्वविसर्गमात्मनस्तथैव भूयः प्रलयं सदात्मनः।
प्रत्याहरेद्योगबलेन योगवित् स सर्वपारक्रमयानगोचरः ॥ २१.६९ ॥

वेदस्य वेदिता यो वै वेद्यं विन्दति योगवित्।
तं वै वेदविदं प्राहुस्तं प्राहुर्वेदपारगम् ॥ २१.७० ॥

वेद्यं च वेदितव्यं च विदित्वा वै यथाविधि।
एवं वेदविदं प्राहुस्ततोऽन्ये वेदचिन्तकाः ॥ २१.७१ ॥

यज्ञान् वेदांस्तथा कामाञ्ज्ञानानि विविधानि च।
प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो धनानि च ॥ २१.७२ ॥

श्राद्धे यः श्राद्धकल्पं वै पश्चिमं नियतं पठेत्।
सर्वाप्येतान्यवाप्नोति तीर्थे दानफलानि च ॥ २१.७३ ॥

स पङ्क्तिपावनश्चैव द्विजानामग्रभुग् भवेत्।
अध्याप्य वा द्विजान् सर्वान् सर्वान् कामानवाप्नुयात् ॥ २१.७४ ॥

यश्चैव श्रृणुयान्नित्यमानन्त्यं स्वर्गमश्नुते।
अनसूयो जितक्रोधो लोभमोहविवर्जितः ॥ २१.७५ ॥

तीर्थानां च फलं कृत्स्नं दानादीनां तथैव च।
मोक्षोपायो ह्ययं श्रेष्ठः स्वर्गोपायो ह्ययं परः ।
इह चापि परा तुष्टिस्तस्मात्कुर्वीत यत्नतः ॥ २१.७६ ॥

इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसन्धिषु ।
अपत्यभाग्भवति परेण तेजसा दिवौ कसां स व्रजते सलोकताम् ॥ २१.७७ ॥

येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयम्भुवे।
महायोगेश्वरेभ्यश्च सदा च प्रणतो ह्यहम् ॥ २१.७८ ॥

इत्येतेपितर स्तात देवानामपि देवताः।
सप्तस्वेतेषु ते नित्यं स्थानेषु पितरोऽव्यथाः ॥ २१.७९ ॥

प्रजापतिसुता ह्येते सर्वे चैव महात्मनः।
आद्यो गणस्तु योगानां स नित्यो योगवर्द्धनः ॥ २१.८० ॥

द्वितीयो देवतानां तु तृतीयो देवताऽरिणाम्।
शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः ॥ २१.८१ ॥

देवास्त्वेतान् यजन्ते वै सर्वेष्वेतेष्ववस्थिताः।
आश्रमास्तु यजन्त्येतांश्चत्वारस्तु यथाक्रमम् ॥ २१.८२ ॥

वर्णाश्चापि यजन्त्येतांश्चत्वारस्तु यथाविधि।
तथा सङ्करजाताश्च म्लेच्छाश्चैव यजन्ति वै ॥ २१.८३ ॥

पितॄंश्च यो यजेद्भक्त्या पितरः पूजयन्ति तम्।
पितरः पुष्ठिकामस्य प्रजाकामस्य वा पुनः।
पुष्ठिं प्रजाश्च स्वर्गं च प्रयच्छन्ति पितामहाः ॥ २१.८४ ॥

देवकार्यादपि सूनोः पितृकार्यं विशिष्यते।
देवतानां हि पितरः पूर्वमाप्यायनं स्वयम् ॥ २१.८५ ॥

न हि योगगतिः सूक्ष्मा पितॄणां च परा गतिः।
तपसा विप्रकृष्टेन दृश्यते मांसचक्षुषा ॥ २१.८६ ॥

सर्वेषां राजतं पात्रमथवा रजतान्वितम्।
पावनं ह्युत्तमं प्रोक्तं देवानां पितृभिः सह ॥ २१.८७ ॥

येषां दास्यन्ति पिण्डांस्त्रीन् बान्धवा नामगोत्रतः।
भूमौ कुशोत्तरायाञ्च अपसव्यविधानतः ॥ २१.८८ ॥

सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन्।
यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते ॥ २१.८९ ॥

यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् ।
तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठते ॥ २१.९० ॥

मान गोत्रं च मन्त्रश्च दत्तमन्नं नयन्ति तम्।
अपि योनिशतं प्राप्तां स्तृप्तिस्ताननुगच्छति ॥ २१.९१ ॥

एवमेषा स्थिता संस्था ब्रह्मणा परमेष्ठिना ।
पितॄणामादिसर्गस्तु लोकानामक्षयार्थिनाम् ॥ २१.९२ ॥

इत्येते पितरो देवा देवाश्च पितरः पुनः।
दौहित्रा यजमानाश्च प्रोक्ताश्चैव मयाऽनघाः ॥ २१.९३ ॥

लोका दुहितरश्चैव दौहित्राश्च सुतास्तथा।
दानानि सह शौचेन तीर्थानि च फलानि च ॥ २१.९४ ॥

अक्षयत्वं द्विजाश्चैव यायावरविधिस्तथा ।
प्रोक्तं सर्वं यथान्यायं यथा ब्रह्माऽब्रवीत् पुरा ॥ २१.९५ ॥
मूलम्
अक्षयत्वं द्विजाश्चैव यायावरविधिस्तथा ।
प्रोक्तं सर्वं यथान्यायं यथा ब्रह्माऽब्रवीत् पुरा ॥ २१.९५ ॥
बृहस्पतिरुवाच॥
विश्वास-प्रस्तुतिः
इत्येतदङ्गिराः प्राह ऋषीणां श्रृण्वतां तदा।
पृष्टस्तु संशयं सर्वं पितॄणां प्राह संसदि ॥ २१.९६ ॥

सत्रे वै वितते पूर्वं तदा वर्षसहस्रिके ।
यस्मिन् गृहपतिर्ह्यासीद्ब्रह्मा वै देवता प्रभुः ॥ २१.९७ ॥

संवत्सरशतान्यं च तत्रोपेता इति श्रुतिः।
श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ॥ २१.९८ ॥

दीक्षितस्य तदा सत्रे ब्रह्मणः परमात्मनः।
तत्रैव जातमत्युग्रं पितॄणामक्षयार्थिना।
लोकानां च हितार्थाय ब्रह्मणा परमेष्टिना ॥ २१.९९ ॥

सूत उवाच॥
विश्वास-प्रस्तुतिः
एवं बृहस्पतिः पूर्वं पृष्टः पुत्र्त्रेण धीमता।
प्रोवाच पितृवंशन्तु यत्तद्वैसमुदाहृतम् ।
अत ऊर्ध्वं प्रवक्ष्यामि वरुणस्य निबोधत ॥ २१.१०० ॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे भिन्नकालिकतृप्तिसाधनद्रव्यविशेषगया श्राद्धादिफलब्राह्मणपरीक्षादिकथनं नामैकविंशोऽध्यायः ॥ २१ ॥ *