०२०

बृहस्पतिरुवाच॥

विश्वास-प्रस्तुतिः

यमस्तु यानि श्राद्धानि प्रोवाच शश(शिव)बिन्दवे।
तानि मे श्रृणु कार्त्स्न्येन नक्षत्रेषु पृथक् पृथक् ॥ २०.१ ॥

मूलम्

श्राद्धं यः कृत्तिकायोगे करोति सततं नरः।
अग्नीनाधाय सापत्यो जायते स गतज्वरः ॥ २०.२ ॥

अपत्यकामो रोहिण्यां सौम्येनौजस्विता भवेत् ।
प्रायशः क्रूरकर्मा तु चार्द्रायां श्राद्धमाचरेत् ॥ २०.३ ॥

क्षेत्रभागी भवेत् पुत्री श्राद्धं कुर्वन् पुनर्वसौ।
धनधान्यसमाकीर्णः पुत्रपौत्रसमाकुलः ॥ २०.४ ॥

तुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः।
आश्लेषासु पितॄनार्च्य वीरान् पुत्रानवाप्नुयात् ॥ २०.५ ॥

श्रेष्ठो भवति ज्ञातीनां मघासु श्राद्धमाचरन्।
फल्गुनीषु पितॄनार्च्य सौभाग्यं लभते नरः ॥ २०.६ ॥

प्रधानशीलः सापत्य उत्तरासु करोति यः।
स सत्सु मुख्यो भवति हस्ते यस्तर्पयेत्पितॄन् ॥ २०.७ ॥

चित्रायां चैव यः कुर्यात् पश्येद्रूपवतः सुतान्।
स्वातिना चैव यः कुर्याद्विद्वाल्ँलाभमवाप्नुयात् ॥ २०.८ ॥

पुत्रार्थन्तु विशाखासु श्राद्धमीहेत मानवः।
अनुराधासु कुर्वाणो नरश्चक्रं प्रवर्त्तयेत् ॥ २०.९ ॥

आधिपत्यं लभेच्छ्रैष्ठ्यं ज्येष्ठायां सततं तु यः।
मूलेनारोग्यमिच्छन्ति आषाढासु महद्यशः ॥ २०.१० ॥

आषाढाभिश्चोत्तराभिर्वीतशोको भवेन्नरः।
श्रवणायां सुलोकेषु प्राप्रुयात् परमां गतिम् ॥ २०.११ ॥

राज्यभाग्वै धनिष्ठासु प्राप्नुयाद्विपुलं धनम्।
श्राद्धं त्वभिजिता कुर्वन् विन्दतेऽजाविकं फलम् ॥ २०.१२ ॥

नक्षत्रे वारुणे कुर्वन् भिषक्सिद्धिमवाप्नुयात्।
पूर्वे प्रोष्ठपदे कुर्वन् विन्दतेऽजाविकं फलम् ॥ २०.१३ ॥

उत्तरास्वनतिक्रम्य विन्देद्घा वै सहस्रशः।
बहुरूपकृतं द्रव्यं विन्देत् कुर्वंस्तु रेवतीम्।
अश्वांश्चैवाश्विनीयुक्तो भरण्यामायुरुत्तमम् ॥ २०.१४ ॥

इमं श्राद्धविधिं कुर्वञ्छशबिन्दुर्महीमिमाम्।
कृत्स्नां तु लेभे स कृत्स्नां लब्धा च प्रशशंस तम् ॥ २०.१५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते नक्षत्रविशेषे श्राद्धफलवर्णनं नाम विंशोऽध्यायः ॥ २० ॥ *