०१९

बृहस्पतिरुवाच॥

विश्वास-प्रस्तुतिः

अत ऊर्ध्वं प्रवक्ष्यामि श्राद्धकर्मणि पूजितम्।
काम्यनैमित्तिकाजस्रं श्राद्धकर्मणि नित्यशः ॥ १९.१ ॥

मूलम्

पुत्र दारधनमूला अष्टकास्तिस्र एव च।
पूर्वपक्षो वरिष्ठो हि पूर्वा चित्री उदाहृता ॥ १९.२ ॥

प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेविकी।
आद्या पूपैःसदा कार्या मासैरन्या भवेत्सदा ॥ १९.३ ॥

शाकैरन्या तृतीया स्यादेवं द्रव्यगतो विधिः ।
अन्वष्टका पितॄणां वै नित्यमेव विधीयते ॥ १९.४ ॥

यद्यन्या च चतुर्थी स्यात्ताञ्च कुर्याद्विशेषतः।
तासु श्राद्धं बुधः कुर्यात् सर्वस्वेनापि नित्यशः ॥ १९.५ ॥

परत्रेह च सर्वेषु नित्यमेव सुखी भवेत् ।
पूजकानां सदोत्कर्षो नास्तिका नामधो गतिः ॥ १९.६ ॥

पितरः सर्वकालेषु तिथिकालेषु देवताः।
सर्वे पुरुषमायान्ति निपानमिव धेनवः ॥ १९.७ ॥

मा स्म ते प्रतिगच्छेयुरष्टकाः सुरपूजिताः ।
मोघस्तस्य भवेल्लोको लब्धं चास्य विनश्यति ॥ १९.८ ॥

देवांस्तु दायिनो यान्ति तिर्यग्गच्छन्त्यदायिनः।
प्रजां पुष्टिं स्मृतिं मेधां पुत्रानैश्वर्यमेव च ॥ १९.९ ॥

कुर्वाणः पौर्णमास्यां च पूर्वं पूर्णं समश्नुते।
प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ॥ १९.१० ॥

द्वितीयायां तु यः कुर्याद्द्विपदाधिपतिर्भवेत्।
वरार्थिना तृतीया तु शत्रुघ्नी पापनाशिनी ॥ १९.११ ॥

चतुर्थ्यां कुरुते श्राद्धं शत्रोश्छिद्राणि पश्यति।
पञ्चम्यां वै प्रकुर्वाणः प्राप्नोति महतीं श्रियम् ॥ १९.१२ ॥

षष्ठ्यां श्राद्धानि कुर्वाणं द्विजास्तं पूजयन्त्युत।
कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ॥ १९.१३ ॥

महासत्रमवाप्नोति गणानामधिपो भवेत्।
सम्पूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ॥ १९.१४ ॥

श्राद्धं नवम्यां कुर्वाण ऐश्वर्यं काङ्क्षितां स्त्रियम्।
कुर्वन् दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ॥ १९.१५ ॥

वेदांश्चैवाप्नुयात् सर्वान् प्रणाशमेनसस्तथा।
एकादश्यां परं दानमैश्वर्यं सततं तथा ॥ १९.१६ ॥

द्वादश्यां राष्ट्रलाभं तु जयमाहुर्वसूनि च ।
प्रजां बुद्धिं पशून् मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ।
दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ॥ १९.१७ ॥

युवानश्च मृता यस्य गृहे तेषां प्रदापयेत्।
शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्दशीम् ॥ १९.१८ ॥

तथा विषमजातानां यमलानां तु सर्वशः ।
अमावास्यां प्रयत्नेन श्राद्धं कुर्याच्छुचिः सदा ॥ १९.१९ ॥

सर्वान् कामानवाप्नोति स्वर्गमानन्त्यमश्नुते ।
ऋतं दद्यादमावास्यां सोममाप्यायनं महत् ॥ १९.२० ॥

एवमाप्यायितः सोमस्त्रील्ँलोकान् धारयिष्यति।
सिद्धचारणगन्धर्वैः स्तूयमानस्तु नित्यशः ॥ १९.२१ ॥

स्तवैः पुष्पैर्मनोज्ञैश्च सर्वकामपरिच्छदैः।
नृत्य वादित्रगीतैश्च ह्यप्सरोभिः सहस्रशः ॥ १९.२२ ॥

उपक्रीडैर्विमानैस्तु पितृभक्तं दृढव्रतम्।
स्तुवन्ति देवगन्धर्वाः सिद्धसङ्घाश्च तं सदा ॥ १९.२३ ॥

पितृभक्तस्त्वमावस्यां सर्वान् कामानवाप्नुयात्।
प्रत्यक्षमर्चितास्तेन भवन्ति पितरः सदा ॥ १९.२४ ॥

पितॄदेवा मघा यस्मात् तस्मात्तास्वक्षयं स्मृतम्।
पित्र्यं कुर्वन्ति तस्यां तु विशेषेण विचक्षणः ॥ १९.२५ ॥

तस्मान्मघां वै वाञ्छन्ति पितरो नित्यमेव हि ।
पितॄदैवतभक्ता ये तेऽपि यान्ति परां गतिम् ॥ १९.२६ ॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे तिथिविशेषे श्राद्धफलवर्णनं नामोनविंशोऽध्यायः ॥ १९ ॥ *