बृहस्पतिरुवाच॥
विश्वास-प्रस्तुतिः
अतः परं प्रवक्ष्यामि दानानि च फलानि च।
तारणं सर्वभूतानां स्वर्गमार्गं सुखावहम् ॥ १८.१ ॥
मूलम्

लोके श्रेष्ठतमं स्वर्ग्यमात्मन् श्चापि यत् प्रियम्।
सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ॥ १८.२ ॥

जाम्बूनदमयं दिव्यं विमानं सूर्यसन्निभम्।
दिव्याप्सरोभिः सङ्कीर्णमन्नदो लभते फलम् ॥ १८.३ ॥

आच्छादनन्तु यो दद्यादाहतं श्राद्धकर्मणि।
आयुः प्रकाममैश्वर्यं रूपञ्च लभते सुतम् ॥ १८.४ ॥

उपवीतन्तु यो दद्याच्छ्राद्धकालेषु धर्मवित् ।
पानञ्च सर्वविप्राणां ब्रह्मदानस्य यत् फलम् ॥ १८.५ ॥

कृतं विप्रेषु यो दद्याछ्राद्धकाले कमण्डलुम्।
मधुक्षीरस्रवा धेनुर्दातारमुपतिष्ठति ॥ १८.६ ॥

चक्राविद्धं तु यो दद्याच्छ्राद्धकाले कमण्डलुम्।
धेनुं स लभते दिव्यां पयोदां काम्यदोहिनीम् ॥ १८.७ ॥

पूर्णसय्यां तु यो दद्यात् पुष्पमालाविभूषिताम्।
प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ॥ १८.८ ॥

भवनं रत्नसम्पूर्णं सशय्यासनभोजनम्।
श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे स मोदते ॥ १८.९ ॥

मुक्ता वैढूर्यवासांसि रत्नानि विविधानि च।
वाहनानि च दिव्यानि अयुतान्यर्ब्बुदानि च ॥ १८.१० ॥

सुमहज्ज्वलनप्रख्यं रत्नकामसमन्वितम् ।
सूर्यचन्द्र प्रभं दिव्यं विमानं लभतेऽक्षयम् ॥ १८.११ ॥

अप्सरोभिः परिवृतं कामगं तु मनोजवम्।
वसते स विमानाग्रे स्तूयमानः समन्ततः ॥ १८.१२ ॥

दिव्यैर्गन्धैः प्रसिञ्चन्ति पुष्पवृष्टिभिरेव च।
गन्धर्वाप्सरसस्तत्र गायन्ते वादयन्ति च ॥ १८.१३ ॥

कन्या युवतयो मुख्याः सहिताश्चाप्सरोगणैः।
सुस्वरैस्तं विबुध्यन्ते सततं हि मनोरमैः ॥ १८.१४ ॥

अश्वदानसहस्रेण रथदानशतेन च।
दन्तिनां च सहस्रेण योगिन्या वसते नरः ॥ १८.१५ ॥

दद्यात् पितृभ्यो योगिभ्यो यस्तूज्ज्वलनमम्भसि।
अथ निष्कसहस्राणां फलं प्राप्नोति मानवः ॥ १८.१६ ॥

जीवितस्य प्रदानाद्धि नान्यद्दानं विशिष्यते।
तस्मात् सर्वप्रयत्नेन देयं प्राणाभिरक्षणम् ॥ १८.१७ ॥

अहिंसा सर्वदेवेभ्यः पवित्रा सर्वदायिनी।
दानं हि जीवितस्याहुः प्राणिनां परमं बुधाः ॥ १८.१८ ॥

लक्षणानि सुवर्णानि श्राद्धे पात्राणि दापयेत्।
रसास्तमुपतिष्ठन्ति गवां पुष्टिस्तथैव च ॥ १८.१९ ॥

पात्रं वै तैजसं दद्यान्मनोज्ञं श्राद्धभोजने।
पात्रं भवति कामानां रूपस्य च धनस्य च ॥ १८.२० ॥

राजतं काञ्चनं वापि दद्याच्छ्राद्धे तु कर्मणि।
दत्त्वा तु लभते दाता प्रकामं धर्ममेव च ॥ १८.२१ ॥

धेनुं श्राद्धे तु यो दद्यात् वृष्टि कुम्भोपदोहनाम्।
गावस्तमुपतिष्ठन्ति गवां पुष्टिस्तथैव च ॥ १८.२२ ॥

शिशिरेषु तथा त्वग्निं बहुकाष्ठं तथैव च।
इन्धनानि तु यो दद्याद्द्विजेभ्यः शिशि रागमे ॥ १८.२३ ॥

नित्यं जयति सङ्ग्रामे श्रिया युक्तश्चदीप्यते।
सुरभीणि च माल्यानि गन्धवन्ति तथैव च ॥ १८.२४ ॥

पूजयित्वा तु पात्राणि श्राद्धे सत्कृत्य दापयेत्।
गन्धवाहा महानद्यः सुखानि विविधानि च ॥ १८.२५ ॥

दातारमुपतिष्ठन्ति युवत्यश्च मनोरमाः।
शयनासनानि रम्याणि भूमयो वाहनानि च ॥ १८.२६ ॥

श्राद्धेऽप्येतानि यो दद्यादश्वमेधफलं लभेत्।
श्राद्धकालेनिवेद्यं च दर्शश्राद्ध उपस्थिते ॥ १८.२७ ॥

विप्राणां गुणयुक्तानां स्मृतिं मेधां च विन्दति।
सर्पिष्पूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥ १८.२८ ॥

कुम्भदोहनधेनूनां बह्वीनां च फलं लभेत्।
अस्मिस्तु मोदते लोके स्यन्दनैश्च सुवाहनैः ॥ १८.२९ ॥

श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकस्य यत्फलम्।
रम्यमावसथं दत्त्वा राजसूयफलं लभेत् ॥ १८.३० ॥

वनं पुष्पफलोपेतं दत्त्वा सौरभमश्नुते।
कूपारामतडागानि क्षेत्रघोषगृहाणि च ॥ १८.३१ ॥

दत्त्वैतान् मोदते स्वर्गे नित्यमाचन्द्रतारकम्।
आस्तीर्णशयनं दत्त्वा श्राद्धे रत्नविभूषितम् ॥ १८.३२ ॥

पितरस्तस्य तुष्यन्ति स्वर्गं चानन्त्यमश्नुते।
राजभिः पूज्यते चापि धनधान्यैश्च वर्द्धते ॥ १८.३३ ॥

ऊर्णाकौशेयवस्त्राणि तथा प्रवरकम्बलौ।
अजिनं काञ्चनं पट्टं प्रवेणी मृगलोमकम् ॥ १८.३४ ॥

दानान्यतानि विप्रेभ्यो भोजयित्वा यथाविधि।
प्राप्नोति श्रद्दधानस्तु वाजपेयशतं फलम् ॥ १८.३५ ॥

बह्वयो नार्यः सुरूपास्तु पुत्रा भृत्याश्च किङ्कराः।
वशे तिष्ठन्ति भूतानि अस्मिल्ँलोके त्वनामयम् ॥ १८.३६ ॥

कौशेयं क्षौमकार्पासं दुकूलसहितं तथा।
श्राद्धेष्वेतानि यो दद्यात् कामानाप्नोति पुष्कलान् ॥ १८.३७ ॥

अलक्ष्मीं विनुदत्याशु तमः सूर्योदये यथा।
भ्राजते स विमानाग्रे नक्षत्रेष्विव चन्द्रमाः ॥ १८.३८ ॥

वासो हि सर्वदैवत्यं सर्वदेवैस्त्वभिष्टुतम्।
वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च ॥ १८.३९ ॥

तस्माद्वस्त्राणि देयानि श्राद्धकाले विशेषतः।
तानि सर्वाण्यवाप्नाप्नोति यज्ञवेदतपांसि च ॥ १८.४० ॥

नित्यं श्राद्धेषु यो दद्यात् प्रयतस्तत्परायणः ।
सर्वान् कामानवाप्नोति सर्वं राज्यं तथैव च ॥ १८.४१ ॥

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते।
भक्ष्यान् धानाः करम्भांश्च पिष्टकान् घृतशर्कराः ॥ १८.४२ ॥

कृशरान्मधु कर्कञ्च पयः पायसमेव च।
स्निग्धांश्च पूपान् यो दद्यादग्निष्टोमस्य यत् फलम् ॥ १८.४३ ॥

दधि गव्यमसंसृष्टं भक्ष्या नानाविधास्तथा।
तदन्नं शोचति श्राद्धे वर्षासु च मघासु च ॥ १८.४४ ॥

घृतेन भोजयेद्विप्रान् घृतं भूमौ समुत्सृजेत्।
गयायां हस्तिनश्चैव दत्त्वा श्राद्धे न शोचति ॥ १८.४५ ॥

ओदनं पायसं सर्पिर्मधुमूलफलानि च।
भक्ष्यांश्च विविधान्दत्त्वा प्रेत्य चेह च मोदते ॥ १८.४६ ॥

शर्कराक्षीरसंयुक्तं पृथुकं नित्यमक्षयम्।
यश्च संवत्सरं प्रीत्या कृसरैर्मसुरेण च ॥ १८.४७ ॥

सक्तुलाजास्तथा पूपाः कुल्माषव्यञ्जनैस्तथा।
सार्पेःस्निग्धानि हृद्यानि दध्ना सक्तूंस्तु भोजयेत्।
श्राद्धेष्वेतानि यो दद्यात् पझानि लभते निधिम् ॥ १८.४८ ॥

नवसस्यानि यो दद्याच्छ्राद्धे सत्कृत्य यत्नतः।
सर्वभोगानवाप्नोति पूज्यते च दिवं गतः ॥ १८.४९ ॥

भक्ष्यभोज्यानि चोष्याणि पेयलेह्यवराणि च।
सर्वश्रेष्ठानि यो दद्यात् सर्वश्रेष्ठो भवेन्नरः ॥ १८.५० ॥

वैश्वदेवं च सौम्यं च खाड्गमांसं परं हविः।
विषाणं वर्ज्जयेत् खाड्गमसूयां नाशयामहे ॥ १८.५१ ॥

भोजनेऽग्रासनं दद्यादतिथिभ्यः कृताञ्जलिः ।
सर्वयज्ञक्रियाणां स फलं प्राप्नोत्यनुत्तमम् ॥ १८.५२ ॥

क्षिप्रमत्युष्ण मक्लिष्टं दद्याच्चान्नं बुभुक्षते।
वयञ्जनं च तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः ॥ १८.५३ ॥

तरुणादित्यसङ्काशं विमानं हंसवाहनम्।
अन्नदो लभते तिस्रः कल्पकोटीस्तथैव च ॥ १८.५४ ॥

अन्नदानात्परं दानं विद्यते नेह किञ्चन।
अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ॥ १८.५५ ॥

जीवदानात् परं दानं न किञ्चिदिह विद्यते।
अन्नैर्जीवति त्रैलोक्यमन्नस्यैव हि तत्फलम् ॥ १८.५६ ॥

अन्ने लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् ।
अन्नं प्रजापतिः साक्षात्तेन सर्वमिदं ततम्।
तस्मादन्नसमं दानं न भूतं न भविष्यति ॥ १८.५७ ॥

यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा।
क्षिप्रं प्राप्नोति तत् सर्वं पितृभक्तो हि मानवः ॥ १८.५८ ॥

प्रतिश्रयं सदा दद्यादतिथिभ्यः कृताञ्जलिः।
देवास्ते सम्प्रतीक्षन्ते दिव्यातिथ्यैः सहस्रशः ॥ १८.५९ ॥

सर्वाण्येतानि यो दद्यात् पृथिव्यामेकराड् भवेत्।
त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भवेत् ॥ १८.६० ॥

दानानि परमो धर्मः सद्भिः सत्कृत्य पूजितः।
त्रैलोक्यस्याधिपत्यं हि दानादेव व्यवस्थितम् ॥ १८.६१ ॥

राजा तु लभते राज्यमधनश्चोत्तमं धनम्।
क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः।
यान् कामान् मनसाऽर्थेत तांस्तस्य पितरो विदुः ॥ १८.६२ ॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे दानफलं नामाष्टादशोऽध्यायः ॥ १८ ॥ *