०१७

॥ऋषय ऊचुः॥

विश्वास-प्रस्तुतिः

अहो धीमंस्त्वया सूत श्राद्धकल्पस्तु कीर्तितः।
श्रुतो नः श्राद्धकल्पो वै ऋषिभिः परिकीर्तितः ॥ १७.१ ॥

मूलम्

अतीव विस्तरो यस्य विशेषेण प्रकीर्तितः।
वद शेषं महाप्राज्ञ ऋषेस्तस्य यथामतम् ॥ १७.२ ॥

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

कीर्तयिष्यामि ते विप्रा ऋषेस्तस्य मतन्तु तत्।
श्राद्धं प्रति महाभागास्तन्मे श्रृणुत विस्तरात् ॥ १७.३ ॥

उक्तं श्राद्धं मया पूर्वं विधिश्च श्राद्धकर्मणि।
परिशिष्टं प्रवक्ष्यामि ब्राह्मणानां यथाक्रमम् ॥ १७.४ ॥

न मीमांस्याः सदा विप्राः पवित्रं ह्येतदुत्तमम्।
दैवे पित्र्ये च सततं श्रूयते वै परीक्षणम् ॥ १७.५ ॥

यस्मिन् दोषाः प्रदृश्येरन् सद्भिर्वा वर्जितस्तु यः।
जानीयाद्वापि संवासाद्वर्ज्जयेत्तं प्रयत्नतः ॥ १७.६ ॥

अविज्ञातं द्विजं श्राद्धे परीक्षेत सदा बुधः ।
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ॥ १७.७ ॥

तस्मादतिथिमायान्तमभिगच्छेत् कृताञ्जलिः।
पूजयेच्चापि पाद्येन पादाभ्यञ्जनभोजनैः ॥ १७.८ ॥

उर्वीं सागरपर्यन्तां देवा योगेश्वरास्तथा।
नाना रूपैश्चरन्त्येते प्रजा धर्मेण पालयन् ॥ १७.९ ॥

अर्चयित्वा ततो दद्याद्विप्रायातिथये नरः।
व्यञ्जनानि च भक्ष्याणि फलं तेषां तथैव च ॥ १७.१० ॥

आग्निष्टोमं तु पयसा प्राप्नुयाद्वै तथाश्रुतम्।
सर्पिषा तु शुभं चक्षुः षोडशाहफलं लभेत्।
मधुना त्वतिरात्रस्य फलं च समवाप्नुयात् ॥ १७.११ ॥

तत्प्राप्नुयाच्छ्रद्दधानो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान्।
सर्वार्थदः सर्वविप्रातिथौ यः फलं भुङ्क्ते सर्वमेधस्य नित्यम् ॥ १७.१२ ॥

यस्तु श्राद्धेऽतिथिं प्राप्य दैवे वाप्यवमन्यते।
तं वै देवा विश्वयन्ति होता यद्वत् परां वसुम् ॥ १७.१३ ॥

देवाश्च पितरश्चैव वह्निश्चैव हि तान् द्विजान् ।
आविश्य भुञ्जते तद्वै लोकानुग्रहकारणात् ॥ १७.१४ ॥

अपूजिता दहन्त्येते दद्युः कामांश्च पूजिताः।
सर्वस्वेनापि तस्माद्वै पूजयेदतिथीन् सदा ॥ १७.१५ ॥

वानप्रस्थो गृहस्थश्च गृहमभ्यागतोऽथवा।
बालाः खिन्ना यतिश्चैव जानीयादतिथीन् सदा ॥ १७.१६ ॥

अभ्यागतो याचकः स्यादतिथिः स्यादयाचकः।
अतिथेरतिथिः श्रेष्ठः सोऽतिथिर्योग उच्यते ॥ १७.१७ ॥

न घोरो नापि सङ्कीर्णो नाविद्यो न विशेषवित्।
न च सन्तो न समृद्धो न सेवी नाचरोऽतिथिः ॥ १७.१८ ॥

पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते।
तस्मै सत्कृत्य दातव्यं यज्ञस्य फलमिच्छता ॥ १७.१९ ॥

आरुह्य भृगुतुङ्गोषु गत्वा पुण्यां सरस्वतीम्।
आपगां तु नदी पुण्यां गङ्गा देवी महानदी ॥ १७.२० ॥

हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूजिताः ।
सरस्तीर्थाभिसंवेद्या नदी नववहास्तथा ॥ १७.२१ ॥

गत्वैतान् मुच्यते पापैः स्वर्गे नित्यं महीयते।
दशरात्रमशौचन्तु प्रोक्तं वै मृतसूतके ॥ १७.२२ ॥

ब्राह्मणस्य विशेषेण क्षत्रिये द्वादश स्मृतम्।
अर्द्धं मासन्तु वैश्यस्य मासाच्छूद्रस्तु शुध्यति ॥ १७.२३ ॥

उदक्या सर्ववर्णानां त्रिरात्रेण तु शुद्धयति।
उदक्यां सूतिकाञ्चैव श्वानमन्त्यावसायिनम् ॥ १७.२४ ॥

नग्नादीन् मृतहारांश्च स्पृष्ट्वाऽशौचं विधीयते।
स्नात्वा सचैलो मृद्भिस्तु द्वादशभिस्तु शुध्यति ॥ १७.२५ ॥

एतदेव भवेच्छौचं मैथुने नवभिस्तथा।
मृदा प्रक्षाल्य हस्तौ तु कुर्याच्छौचविधिन्नरः ॥ १७.२६ ॥

प्रक्षाल्य चाद्भिर्हस्तौ च स्नात्वा चैव मृदा पुनः।
मृदं गुह्ये ततो द्विस्तु पुनरेव मृदं बुधः ॥ १७.२७ ॥

एवं शौच विधिर्दृष्टः सर्ववर्णेषु नित्यदा।
परिदद्यान्मृदस्तिस्रो हस्तपादावसेचनम् ॥ १७.२८ ॥

आरण्यं शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम्।
मृदस्तिस्रः पादयोस्तु हस्तयोस्तिस्र एव च ॥ १७.२९ ॥

मृदः पञ्चदशामेध्ये हस्तादीनां विभागशः।
अनिर्णिक्ते मृदं दद्यान्मृदन्ते त्वद्भिरेव तु ॥ १७.३० ॥

कण्ठं शिरो वा प्रावृत्य रथ्या पादगतस्तु वा।
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ॥ १७.३१ ॥

प्रक्षाल्य पात्रं निःक्षिप्य आचम्याभ्युक्षणं पुनः।
द्रव्यस्यान्यस्य तु तथा कुर्यादभ्युक्षणं पुनः ॥ १७.३२ ॥

पुष्पादीनां तृणानाञ्च प्रोक्षणं हविषान्तथा।
पराहृतानां द्रव्याणां निधायाभ्युक्षणं तथा ॥ १७.३३ ॥

प्रोक्षितन्तु हरेत् किञ्चि च्छ्राद्धे दैव तथा पुनः।
उत्तरेण हरेद्वेद्यां दक्षिणेन विसर्जयेत् ॥ १७.३४ ॥

विच्छिन्नं स्याद्विपर्यासे दैवे पित्र्ये तथैव च।
दक्षिणेन तु हस्तेन दक्षिणां वेदिमालिखेत् ॥ १७.३५ ॥

कराभ्यामेव देवानां पितॄणां विकरं शुभम्।
क्षुभितस्वप्नयोश्चैव तथा मूत्रपुरीषयोः ॥ १७.३६ ॥

निष्ठीविते यथा व्यक्ते भुक्त्वा विपरिधाय च।
उच्छिष्टस्य च संस्पर्शे तथा पादावसेचने ॥ १७.३७ ॥

उत्सृष्टस्य सुमम्भाषे ह्यशुचिं प्रयतस्य च।
सन्देहेषु च सर्वेषु शिखां मुक्त्वा तथैव च ॥ १७.३८ ॥

विना यज्ञोपवीतेन मोहात्तु यद्युपस्पृषेत्।
औष्ठस्य दन्तसंस्पर्शे दर्शने चान्त्यवासिनाम् ॥ १७.३९ ॥

जिङ्वया चैव संस्पृश्य दन्तासक्तं तथैव च।
सशब्दमङ्गुलीभिश्च प्रणतश्चावलो कयन् ॥ १७.४० ॥

यश्चाधर्मे स्थितो मोहादायान्तोऽप्यशुचिर्भवेत्।
उपविश्य शुचौ देशे प्रणतः प्रागुदङ्मुखः ॥ १७.४१ ॥

पादौ प्रक्षाल्य हस्तौ तु अन्तर्जानुरुप स्पृशेत्।
प्रसन्नास्त्रिः पिबेच्चापः प्रयतः सुसमाहितः ॥ १७.४२ ॥

द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः।
खानि मूर्द्धानमात्मानं हस्तौ पादौ तथैव च ॥ १७.४३ ॥

अभ्युक्षणं तथा तस्य यद्यमीमांसितं भवेत्।
एवमाचमनं तस्य वेदा यज्ञास्तपांसि च ॥ १७.४४ ॥

दानानि ब्रह्मचर्यञ्च भवन्ति सफलास्तथा।
क्रियां यः कुरुते मोहादनाचम्यैव नास्तिकः ॥ १७.४५ ॥

भवन्ति च वृथा तस्य क्रिया ह्येता न संशयः।
वाग्भावशुद्धनिर्णिक्तमदुष्टं वाप्यनिन्दितम् ॥ १७.४६ ॥

मेध्यान्येतानि ज्ञेयानि दुष्टमेभ्यो विपर्ययः।
न वक्तव्यः सदा विप्रः क्षुधितो नास्ति किञ्चन ॥ १७.४७ ॥

तस्मै सत्कृत्य यो दद्यादयूपो यज्ञ उच्यते।
अप्लुष्टान्नं श्रृतान्नन्तु कृशवृत्तिमयाचकम् ॥ १७.४८ ॥

एकान्तशीलं ह्रीमन्तं सदा श्राद्धेषु भोजयेत् ।
यो ददात्यान्तिमभ्येश्च स ब्रह्मघ्नो दुरात्मवान् ॥ १७.४९ ॥

अपि जातिशतं गत्वा न स मुच्येत किल्बिषात्।
विषमं भोजयेद्विप्रानेकपङ्क्त्या च यो नरः ॥ १७.५० ॥

नियुक्तो वाऽनियुक्तो वा पङ्क्त्‌या हरति दुष्कृतम्।
पापेन गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति ॥ १७.५१ ॥

यतिस्तु सर्वविप्राणां सर्वेषामग्र्य उत्सवे।
इतिहासपञ्चमान् वेदान् यः पठेत्तु द्विजोत्तमः ॥ १७.५२ ॥

अनन्तरं यथायोग्यं नियोक्तव्यो विजानता।
त्रिवेदोऽनन्तरस्तस्य द्विवेदस्तदनन्तरः ॥ १७.५३ ॥

एकवेदस्तथा पश्चान्न्यायाध्यायी ततः परम्।
पावनायैव पङ्क्त्या वै तान् प्रवक्ष्ये निबोधत ॥ १७.५४ ॥

य एते पूर्वनिर्द्दिष्टाः सर्वे ते ह्यनुपूर्वशः।
षडङ्गी विनयी योगी सर्वतन्त्रस्तथैव च ॥ १७.५५ ॥

यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः ।
अष्टादशानां विद्यानामेकस्मिन् पारगोऽपि यः ॥ १७.५६ ॥

यथावद्वर्त्तमानश्च सर्वे ते पङ्क्तिपावनाः।
त्रिणाचिकेतास्त्रैविद्यो यश्च धर्मान् पठेद्द्विजः ॥ १७.५७ ॥

बार्हस्पत्ये तथा शास्त्रे पारं यश्च द्विजो गतः।
सर्व ते पावना विप्राः पङ्क्तीनां समुदाहृताः ॥ १७.५८ ॥

आमन्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः।
पितरस्तस्य तं मासं तस्य रेतसि शेरते ॥ १७.५९ ॥

श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो निषेवते।
पितरस्तस्य तं मासं रेतःस्था नात्र संशयः ॥ १७.६० ॥

तस्मादतिथये देयं भोजयेद्ब्रह्मचारिणम्।
ध्याननिष्ठाय दातव्यं सानुक्रोशाय धार्मिकम् ॥ १७.६१ ॥

यतिं वा वालखिल्यान् वा भोजयेच्छ्राद्धकर्मणि।
वानप्रस्थोपकुर्वाणः पूजामात्रेण तोषितः ॥ १७.६२ ॥

गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः।
वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः ॥ १७.६३ ॥

यतीनां पूजने चापि साक्षाद्ब्रह्मा तु पूजितः।
आश्रमाः पावनाः पञ्च उपधाभिरनाश्रमाः ॥ १७.६४ ॥

चत्वार आश्रमाः पूज्याः श्राद्धे दैवे तथैव च।
चतुराश्रमबाह्येभ्यः श्राद्धं नैव प्रदापयेत् ॥ १७.६५ ॥

स तिष्ठेद्वा बुभुक्षुस्तु चतुराश्रमबाह्यतः।
अयति र्मोक्षवादी च उभौ तौ पङ्क्तिदूषकौ ॥ १७.६६ ॥

वृथामुण्डाश्च जटिलाः सर्वे कार्प्पटिकास्तथा।
निर्घृणान् भिन्नवृत्तांश्च सर्वभक्षान् विवर्जयेत् ॥ १७.६७ ॥

कारुकादीननाचारान् सर्ववेदबहिष्कृतान्।
गायनान् देववृत्तांश्च हव्यकव्येषु वर्जयेत् ॥ १७.६८ ॥

द्विजेष्वपि कृतं नित्यं श्राद्धकर्मणि वर्जयेत् ॥ १७.६९ ॥

विश्वास-प्रस्तुतिः

एतेषु वर्त्तते यश्च कृत्स्ववर्णं स गच्छति।
योऽश्नाति सह शूद्रेण सर्वे ते पङ्क्तिदूषकाः ॥ १७.७० ॥

व्यापादनं शक्तिनिबर्हणं कृषिर्वाणिज्यकार्यं पशुपालनं च।
शुश्रूषणं वाप्यगुरो रहो वा कार्यं नैतद्विद्यते ब्राह्मणस्य ॥ १७.७१ ॥

ये तु विप्राः स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा।
मिथ्यासङ्कल्पिनः सर्वे दुर्वृत्ता वा द्विजातयः ॥ १७.७२ ॥

मिथ्यातत्त्वविदो वर्ज्ज्यास्तथा दम्भविषूचकाः।
उपपातकसंयुक्ताः पातकैश्च विशेषतः ॥ १७.७३ ॥

वेदे नियोगदातारो लोभमोहफलार्थिनः।
ब्रह्मविक्रयिणश्चैव श्राद्धकर्मणि वर्जिताः ॥ १७.७४ ॥

न नियोगोऽस्ति वेदानां यो नियुङ्क्ते स पापकृत्।
भोक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा ॥ १७.७५ ॥

भृतोऽध्यापयते यस्तु भृतकाध्यापितस्तु यः ।
नार्हतस्तावपि श्राद्धं ब्रह्मणः क्रियविक्रयी ॥ १७.७६ ॥

क्रयविक्रयिणौ चैव जीवितार्थं विगर्हितौ।
वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् ॥ १७.७७ ॥

प्राहुर्वेदान् वेदविदो वेदान् यश्चोपजीवति॥
उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च ॥ १७.७८ ॥

विश्वास-प्रस्तुतिः

वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरे।
नार्हतस्तावपि श्राद्धं द्विजो यश्चैव नास्तिकः ॥ १७.७९ ॥

आत्मार्थं यः पचेदन्नं न देवातिथिकारकः।
नार्हतस्तावपि श्राद्धं पतितौ ब्रह्मराक्षसौ ॥ १७.८० ॥

स्त्रियो नक्तम्परा येषां परदाररताश्च ये।
अर्थकाम रताश्चैव न तान् श्राद्धेषु भोजयेत् ॥ १७.८१ ॥

वर्णाश्रमाणां धर्मेषु विरुद्धाः श्राद्धकर्मणि।
स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः ॥ १७.८२ ॥

यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः।
न तदश्नन्ति पितरो यश्च वामं समश्नुते ॥ १७.८३ ॥

स्त्रीशूद्रायानुपेताय श्राद्धोच्छिष्टं न दापयेत्।
यो दद्या द्रागमोहात्तु न तद्गच्छेत्पितॄन्सदा ॥ १७.८४ ॥

तस्मान्न देयमुच्छिष्टमन्नाद्यं श्राद्धकर्मणि।
अन्यत्र दधिसर्पिर्भ्यां शिष्ये पुत्राय नान्यथा ॥ १७.८५ ॥

अनुच्छिष्टन्तु दातव्यमन्नाद्यं वै विशेषतः।
पुष्पमूलफलैर्वापि तुष्टिं गच्छन्ति चान्नतः ॥ १७.८६ ॥

यावन्त्यन्नानि पूतानि यावदुष्णं न मुञ्चति।
तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः ॥ १७.८७ ॥

दानं प्रतिग्रहो होमो भोजनं बलिरेव च।
साङ्गुष्ठेन तथा कार्यं नासुरेभ्यो यथा भवेत् ॥ १७.८८ ॥

एतान्येव च सर्वाणि दानादीनि विशेषतः।
अन्तर्जान्वविशेषेण तद्वदाचमनं भवेत् ॥ १७.८९ ॥

मुण्डाञ्जटिलकाषायान् श्राद्धकालेऽपि वर्ज्जयेत्।
शिखिभ्यो वा त्रिदणिडभ्यः श्राद्धं यत्नात् प्रदापयेत् ॥ १७.९० ॥

ये तु व्रते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा।
देवभक्ता महात्मानः पुनीयुर्दर्शनादपि ॥ १७.९१ ॥

सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं वै निरन्तरम् ।
तस्मात् पश्यन्ति ते सर्वे यत्किञ्चिज्जगतीगतम् ॥ १७.९२ ॥

व्यक्ताव्यक्तं वशीकृत्य सर्वस्यापि च यत्परम्।
सदसच्चेति यैर्दृष्टं सदसच्च महात्मनाम् ॥ १७.९३ ॥

सर्वज्ञानानि दृष्टानि मोक्षादीनि महात्मनाम्।
तस्मात्तेषु सदासक्तः प्राप्नोत्यनुत्तमं शुभम् ॥ १७.९४ ॥

ऋचो हि यो वेद स वेद वेदान् यजूंषि यो वेद स वेद यज्ञम्।
सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम् ॥ १७.९५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे ब्राह्मणपरीक्षा नाम सप्तदशोऽध्यायः ॥ १७ ॥ *