॥बृहस्पतिरुवाच॥
विश्वास-प्रस्तुतिः
अतः परं प्रवक्ष्यामि दानानि च फलानि च।
श्राद्धकर्माणि मेध्यानि वर्जनीयानि यानि च ॥ १६.१ ॥
मूलम्

हिमप्रपतने कुर्यादाहरेद्वा हिमन्ततः।
अग्निहोत्रमतः पुण्यं परमं हि ततः स्मृतम् ॥ १६.२ ॥

नक्तन्तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात्।
सर्वस्वेनापि कर्त्तव्यं क्षिप्रं वै राहुदर्शने ॥ १६.३ ॥

उपरागे न कुर्याद्यः पङ्के गौरिव सीदति।
कुर्वाणस्तूद्धरेत्पापान्मग्नान्नौरिव सागरे ॥ १६.४ ॥

विश्वदेवञ्च सौम्यञ्च बहुमांसपरं हविः ।
विषाणं वर्जयेत्खाड्गमसूयानाशनाय वै ॥ १६.५ ॥

त्वष्टा वै वार्यमाणस्तु देवेशेन महात्मना।
पिबञ्छचीपतेः सोमं पृथिव्यामपतत्पुरा ॥ १६.६ ॥

श्यामाकास्तु तथोत्पन्नाः पित्रर्थमपि पूजिताः।
विप्रुषस्तस्य नासाभ्यामसक्ताभ्यां तथैव च ॥ १६.७ ॥

श्लेष्माणः शीतला हृद्या मधुराश्च तथेक्षवः।
श्यामाकैरिक्षुभिश्चैव पितॄणां सार्वकामिकम्।
कुर्यादाग्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् ॥ १६.८ ॥

श्यामाका हस्तिनामा च पटोलं बृहतीफलम्।
अगस्त्यस्य शिखा तीव्रा कषायाः सर्व एव च ॥ १६.९ ॥

एवमातीनि चान्यानि स्वादूनि मधुराणि च ।
नागरं चात्र वै देयं दीर्घमूलकमेव च ॥ १६.१० ॥

वंशीकरीराः सुरसाः सर्ज्जकं भूस्तृणानि च।
वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥ १६.११ ॥

लशुनं गृञ्जनञ्चैव पलाण्डुः पिण्डमूलकम्।
करम्भाद्यानि चान्यानि हीनानि रसगन्धतः ॥ १६.१२ ॥

श्राद्धकर्मणि वर्ज्यानि कारणञ्चात्र वक्ष्यते।
पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ॥ १६.१३ ॥

व्रणेभ्यो विस्फुरन्तो वै पतिता रक्तबिन्दवः।
तत एतानि वर्ज्यानि श्राद्धकर्मणि नित्यशः ॥ १६.१४ ॥

अथ वेदोक्तनिर्यासान् लवणान्यूषरणानि च।
श्राद्ध कर्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः ॥ १६.१५ ॥

दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम्।
न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते ॥ १६.१६ ॥

आविकं मार्गमौष्ट्रं च सर्वमेकशफं च यत्।
माहिषञ्चामरञ्चैव पयो वर्ज्यं विजानता ॥ १६.१७ ॥

अतः परं प्रवक्ष्यामि वर्ज्यान् देशान् प्रयत्नतः।
न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः ॥ १६.१८ ॥

वन्यमूलफलाहारैः श्राद्धं कुर्यात्तु श्रद्धया।
राष्ट्रमिष्टमवाप्नोति स्वर्गं मोक्षं यशस्करम् ॥ १६.१९ ॥

अनिष्ट शब्दसङ्कीर्णं जन्तुव्याप्तमथापि वा।
पूतिगन्धां तथा भूमिं श्राद्धकर्मणि वर्जयेत् ॥ १६.२० ॥

नद्यः सागरपर्यन्ता द्वारं दक्षिणपूर्वतः ।
त्रिशङ्कुं वर्जयेद् देशं सर्वं द्वादशयोजनम् ॥ १६.२१ ॥

उत्तरेण महानद्या दक्षिणेन च कैकटात्।
देशस्त्रैशङ्कवो नाम वर्जितः श्राद्धकर्मणि ॥ १६.२२ ॥

कारङ्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च।
प्रनष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः ॥ १६.२३ ॥

नग्नादयो न पश्येयुः श्राद्धमेव व्ययस्थितम्।
गच्छन्ति तैस्तैर्दृष्टानि न पितॄन्न पितामहान् ॥ १६.२४ ॥

॥शंयुरुवाच॥
विश्वास-प्रस्तुतिः
नग्नादीन् भगवन् सम्यङ्ममाद्य परिपृच्छतः।
कथय द्विजमुख्याग्र विस्तरेण यथातथम् ॥ १६.२५ ॥

एवमुक्तो महातेजा बृहस्पतिरुवाच तम्।
सर्वेषामेव भूतानां त्रयीसंवरणं स्मृतम् ॥ १६.२६ ॥

परित्यजति यो मोहात्ते वै नग्ना द्विजोत्तमाः।
प्रलीयते नरो यः स्यान्निरालम्बश्च यो वृषः ॥ १६.२७ ॥

वृषं यश्च परित्यज्य मोक्षमन्यत्र मार्गति ।
वृषो वेदसमस्तस्मिन् यो वै सम्यङ्न पश्यति ॥ १६.२८ ॥

ब्राह्मणाः क्षत्रिया वैश्या वृषलाश्चैव सर्वशः।
पुरा देवासुरे युद्धे निर्जितैरसुरैस्तदा ॥ १६.२९ ॥

पाषण्डवैकृतस्थाने नैषा सृष्टिः स्वयम्भुवा।
द्विश्राद्धकश्च निर्ग्रन्थाः शाक्या पुष्टिकलंशकाः ॥ १६.३० ॥

ये धर्मं नानुवर्त्तन्ते ते वै नग्नादयो जनाः।
वृथाजटी वृथामुद्री वृथानग्नश्च यो द्विजः ॥ १६.३१ ॥

वृथाव्रती वृथा जापी ते वै नग्नादयो जनाः।
कुलन्धमा निषादाश्च तथा पुष्टिविनाशकाः ॥ १६.३२ ॥

कृतकर्माक्षितास्त्वेते कुपथाः परिकीर्त्तिताः।
एभिर्निर्वृत्तं दृष्टं वा श्राद्धं गच्छन्ति मानवाः ॥ १६.३३ ॥

ब्रह्मघ्नश्च कृतघ्नश्च नास्तिका गुरुतल्पगाः।
दस्यवश्च नृशंसाश्च दर्शनेनैव वर्जिताः ॥ १६.३४ ॥

ये चान्ये पाप कर्माणः सर्वांस्तान् परिवर्जयेत्।
देवदेवर्षिनिन्दायां रतांश्चैव विशेषतः ॥ १६.३५ ॥

असुरान् यातुधानांश्च दृष्टमेभिर्व्रजन्त्युत।
ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् ॥ १६.३६ ॥

वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ॥
॥पितर ऊचुः ॥
वेदाः कृतयुगे पूज्यास्त्रेतायां तु सुरास्तथा ॥ १६.३७ ॥
विश्वास-प्रस्तुतिः
युद्धानि द्वापरे नित्यं पाषण्डाश्च कलौ युगे।
अपमानापवित्रश्च कुक्कुटो ग्रामसूकरः ॥ १६.३८ ॥

श्वा चैव दर्शनादेव हन्ति श्राद्धं न संशयः।
शावसूतकसंस्पृष्टो दीर्घरोगिभिरेव च ॥ १६.३९ ॥

मलिनैः पतितैश्चैव न द्रष्टव्यं कथञ्चन।
अन्नं पश्येयुरेते वै नैतत्स्याद्धव्यकव्ययोः ॥ १६.४० ॥

तत्संस्पृष्टं प्रधानार्थं संस्कारश्वापदो भवेत्।
हविषां संहतानां तु पूर्वमेव विवर्जितम्।
मृत्संयुक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ॥ १६.४१ ॥

सिद्धार्थकैः कृष्णतिलैः कार्यं वाप्यवकीरणम्।
गुरुसूर्याग्निवस्तूनां दर्शनं वापि यत्नतः ॥ १६.४२ ॥

आसनारूढमानेषु पादोपहतमेव च।
अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ॥ १६.४३ ॥

असितं परिदुष्टं च तथैवाग्रावलेहितम्।
शर्कराकेशपाषाणैः कीटैर्यच्चाप्युपद्रुतम् ॥ १६.४४ ॥

पिण्याकमथितं चैव तथा तिलयवादिषु।
सिद्धाक्षताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥ १६.४५ ॥

वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि।
सन्ति वेदविरोधेन केचिद्विज्ञानमानिनः ॥ १६.४६ ॥

अजज्ञपतयो नाम ते श्राद्धस्य यथा रजः।
दधि शाकं तथाऽभक्ष्याः शुक्तं चैव विवर्जितम् ॥ १६.४७ ॥

वार्ताकुं वर्जयेद्दद्यात्सर्वानभिषवानपि।
सैन्धवं लवणं यच्च तथा मानससम्भवम् ॥ १६.४८ ॥

पवित्रं परमं ह्येतत् प्रत्यक्षमपि वर्त्तते।
अग्नौ निक्षिप्य बध्नीयाद्धस्तौ प्रक्षिप्य यत्नतः ॥ १६.४९ ॥

गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम्।
द्रव्याणां प्रोक्षणं कार्यं तथैवावपनं पुनः ॥ १६.५० ॥

निधाय चाद्भिः सिञ्चेत तथैवाप्सु निवेशनम्।
अरिष्टतुमुले बिल्वं त्विङ्गुदश्वदनान्यपि ॥ १६.५१ ॥

विदलानाञ्च सर्वेषां धर्मवच्छौचमिष्यते।
तथा दन्तास्थिदारूणां श्रृङ्गाणाञ्चावलेखनम् ॥ १६.५२ ॥

सर्वेषां मृन्मयानान्तु पुनर्दाह उदाहृतः।
मणिवज्रप्रवालानां मुक्ताशङ्खमणेस्तथा ॥ १६.५३ ॥

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
स्याच्छौचं सर्ववालानामाविकानाञ्च सर्वशः ॥ १६.५४ ॥

आवि कानाञ्च सर्वेषां मृद्भिरद्भिर्विधीयते।
आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं पुनः ॥ १६.५५ ॥

तथा कार्प्पासिकानाञ्च भस्मना समुदाहृतम्।
फलपुष्प शलाकानां प्लावनञ्चाद्भिरिष्यते ॥ १६.५६ ॥

सम्मार्जनं प्रोक्षणञ्च भूमेश्चैवोपलेपनम्।
निष्क्रम्य बाह्यतो ग्रामाद्वायुपूता वसुन्धरा ॥ १६.५७ ॥

धनुष्मत्पक्षिणाञ्चैव मृद्भिः शौचं विधीयते।
एवमेष समुद्दिष्टः शौचानां विधिरुत्तमः।
अतः परं प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥ १६.५८ ॥

प्रातर्गृहात्पश्चिमदक्षिणेन इषुक्षेपञ्चाक्षमात्रं पदञ्च।
कुर्यात्पुरीषं शिरोवगुण्ठ्य न च स्पृशेत्तत्र शिरः करेण ॥ १६.५९ ॥

शुष्कैस्तृणैर्वा काष्ठैर्वा पत्रैर्वेणुदलेन वा।
मृण्मयैर्भाजनैर्वापि तिरोधाय वसुन्धराम् ॥ १६.६० ॥

उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः।
दिवा उदङ्मुखः कुर्याद्रात्रौ वै दक्षिणामुखः ॥ १६.६१ ॥

दक्षिणेन च हस्तेन गृह्णीयाद्वै कमण्डलुम्।
शौचञ्च वामहस्तेन गुदे तिस्रस्तु मृत्तिकाः ॥ १६.६२ ॥

दश चापि पुनर्दद्याद्वामहस्तक्रमेण तु ।
द्वाभ्यां वापि पुनर्दद्याद्धस्तानां पञ्च मृत्तिकाः ॥ १६.६३ ॥

मृदा प्रक्षाल्य पादौ च आचम्य च यथाविधि।
आपस्त्याज्यास्त्रयश्चैव सूर्याग्निपवनाम्भसाम् ॥ १६.६४ ॥

कुर्यात् सन्निहितं नित्यं प्राज्ञस्तीर्थे कमण्डलुम्।
असत्कार्यं कार्यमेतैर्यथावत्पादधावनम् ॥ १६.६५ ॥

आचमनं द्वितीयेन देवकार्यं ततः परम्।
उपवास स्त्रिरात्रन्तु दुष्टहस्ते ह्युदाहृतः ॥ १६.६६ ॥

विप्रकृष्टेन कृच्छ्रेण प्रायश्चित्तमुदाहृतम्।
स्पृष्ट्वा श्वानं श्वपाकं वा तप्तकृच्छ्रं समाचरेत् ॥ १६.६७ ॥

मानुषास्थीनि संस्पृश्य उपोष्यं शुद्धिकारणम् ।
त्रिरात्रमुक्तं सस्नेहमेकरात्रमतोऽन्यथा ॥ १६.६८ ॥

कारस्कराः पुलिन्दाश्च तथान्धशबरादय।
पीत्वा चापोभूतिलये गत्वा चैव युगन्धराम् ॥ १६.६९ ॥

सिन्धोरुत्तरपर्यन्तं तथा दिव्यन्तरे शतम्।
पापदेशाश्च ये केचित्पापरध्युषिता जनैः ॥ १६.७० ॥

शिष्टैश्च वर्जिता ये च ब्राह्मणैर्वेदपारगैः।
गत्वा देशानपुण्यांस्तु कृत्स्नं पापं समश्नुते ॥ १६.७१ ॥

मनोव्यक्तिरथाग्निश्च काले चैवोपलेपनम्।
विख्यापनञ्च शौचानां नित्यमज्ञानमेव च ॥ १६.७२ ॥

अतोन्यथा तु यः कुर्यान्मोहाच्छौचस्य सङ्करम्।
पिशाचान् यातुधानांश्च फलं गच्छत्यसंशयम् ॥ १६.७३ ॥

शौचमश्रद्दधानश्च म्लेच्छजातिषु जायते।
अयज्ञाश्चैव पापो वा तिर्यग्योनिगतोऽपि वा ॥ १६.७४ ॥

शौचेन मोक्षं कुर्वाणः स्वर्गवासी भवेन्नरः।
शुचिकामा हि देवा वै देवैरेतदुदाहृतम् ॥ १६.७५ ॥

बीभत्समशुचिञ्चैव वर्जयन्ति सुराः सदा।
त्रीणि शौचानि कुर्वन्ति न्यायतः शुभकर्मणः ॥ १६.७६ ॥

ब्रह्मण्यायातिथेयाय शौचयुक्ताय धीमते।
पितृभक्ताय दान्ताय सानुक्रोशाय च द्विजाः ॥ १६.७७ ॥

तैस्तैः प्रीताः प्रयच्छन्ति पितरो योगवर्द्धनाः।
मनसा काङ्क्षितान् कामांस्त्रैलोक्यप्रभवानिति ॥ १६.७८ ॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम षोडशोऽध्यायः ॥ १६ ॥ *