०१५

॥बृहस्पतिरुवाच॥

विश्वास-प्रस्तुतिः

सकृदभ्यर्चिताः प्रीता भवन्ति पितरोऽन्ययाः।
योगात्मानो महात्मानो विपाप्मानो महौजसः ॥ १५.१ ॥

मूलम्

प्रेत्य च स्वर्गलाभाय कामैश्वर्यं सुविस्तरम् ।
येषां चाप्यनुगृह्णन्ति मोक्षप्राप्तिक्रमेण तु ॥ १५.२ ॥

तानि वक्ष्याम्यहं सौम्याः सरांसि सरितस्तथा।
तीर्थानि चैव पुण्यानि देशाञ्जैलांस्तथाश्रमान् ॥ १५.३ ॥

पुण्यो यस्त्रिषु लोकेष्वमरकण्टकपर्वतः।
पर्वतः प्रवरः पुण्यः सिद्धचारणसेवितः ॥ १५.४ ॥

यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च।
तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा ॥ १५.५ ॥

यत्र मृत्योर्गतिर्नास्ति तथैवासुररक्षसाम्।
न भयं चैव वाऽलक्ष्मीर्यावद्भूमिर्धरिष्यति ॥ १५.६ ॥

तेजसा यशसा चैव भ्राजते स नगोत्तमः।
श्रृङ्गमाल्यवतो नित्यं वह्निः संवर्तको यथा ॥ १५.७ ॥

मृदवश्च सुगन्धाश्च हेमाभाः प्रियदर्शनाः ।
शान्ताः कुशा इति ख्याताः पिबन्दक्षिणनर्मदाम् ॥ १५.८ ॥

दृष्टवान् स्वर्गसोपानं भगवानङ्गिराः पुरा।
अग्निहोत्रे महातेजाः प्रस्तरार्थकुशोत्तमान् ॥ १५.९ ॥

तेषु दर्भेषु यः पिण्डानमरकण्टकपर्वते।
दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम् ॥ १५.१० ॥

तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्द्धनम् ।
अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा ॥ १५.११ ॥

तत्र ज्वालारसः पुण्यो दृश्यतेऽद्यापि सर्वशः।
सशल्यानां च सत्त्वानां विशल्यकरणी नदी ॥ १५.१२ ॥

प्राग्दक्षिणा तु सावर्त्ता वापी सा पर्वतोत्तमे।
कलिङ्गदेशपार्श्वार्द्धे पितॄणां प्रीतिवर्द्धनम् ॥ १५.१३ ॥

सिद्धक्षेत्रमृषिश्रेष्टा यदुक्तं परमं भुवि।
सम्मतो देवदैत्यानां श्लोकमप्युशना जगौ ॥ १५.१४ ॥

धन्यास्ते पुरुषा लोके ये प्राप्यामरकण्टकम्।
पितॄन्सन्तर्पयिष्यन्ति श्राद्धे पितृपरायणाः ॥ १५.१५ ॥

अल्पेन तपसा सिद्धिं गमिष्यन्ति न संशयः।
सकृदेवार्चितास्तत्र स्वर्गममरकण्टके ॥ १५.१६ ॥

महेन्द्रपर्वते रम्ये पुण्यं शक्रनिषेवितम्।
तत्रारुह्य भवेत् प्रीतिः श्राद्धं चैव महत्फलम् ॥ १५.१७ ॥

बिल्वाधःशिखरे युक्ता दिव्यं चक्षुः प्रवर्त्तते।
अदृश्यं चैव भूतानां देववच्चरते महीम् ॥ १५.१८ ॥

सप्तगोदावरे चैव गोकर्णे च तपोवने।
अश्वमेधफलं तत्र स्नात्वा च लभतेनरः ॥ १५.१९ ॥

धूतपापस्थलं प्राप्य पूतः स्नात्वा भवेन्नरः।
रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः ॥ १५.२० ॥

गोकर्णे वर्णितं विप्रैर्नस्तिकानां निदर्शनम्।
अब्राह्मणस्य सावित्री पठतः सम्प्रणश्यति ॥ १५.२१ ॥

देवर्षिभवने श्रृङ्गे सिद्धचारणसेविते।
आरुह्य तं तु नियमात्ततो यान्ति त्रिविष्टपम् ॥ १५.२२ ॥

दिव्यैश्वन्दनवृक्षैश्च पादपैरुपशोभितम्।
आपः स्वादनसम्पृक्ता वहन्ति सततंयतः ॥ १५.२३ ॥

नदी प्रवर्त्तते ताभ्यस्ताम्रपर्णीति नामतः।
योषेव समहाखेदा दक्षिणं याति सागरम् ॥ १५.२४ ॥

नद्यास्तस्यास्तु या आपो मूर्च्छमाना महोदधौ।
शङ्खा भवन्ति मुक्ताश्च जायन्ते शङ्खमुक्तिकाः ॥ १५.२५ ॥

उदकानयनं कृत्वा शङ्खमौक्तिकसंयुतम्।
आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम् ॥ १५.२६ ॥

चन्दनेभ्यः प्रयुक्तानां शङ्खानां मौक्तिकस्य च।
पाप कर्तॄनपि पितॄंश्तारयन्ति यथा श्रुतिः ॥ १५.२७ ॥

चन्द्रतीर्थे कुमार्यान्तु कावेर्यां प्रभवेऽक्षये।
श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ ॥ १५.२८ ॥

एकस्था यत्र दृश्यन्ते वृक्षा ह्योशिरपर्वते।
पालाशाः खादिरा बिल्वा प्लक्षाश्वत्थविकङ्कताः ॥ १५.२९ ॥

एतद्धि मण्डलं सिद्धं यज्ञीयं द्विजसत्तमाः।
अस्मिन् मुक्त्वा जनोऽङ्गानि क्षिप्रं यात्यमरावतीम् ॥ १५.३० ॥

कर्माणि स्वप्रयुक्तानि सिध्यन्ति प्रभवात्यये ।
दुष्प्रसक्तानि पितृषु प्रयुक्तानि भवन्त्युत ॥ १५.३१ ॥

पितॄणां दुहिता पुण्या नर्मदा सरितां वरा।
तत्र श्राद्धानि दत्तानि अक्षयाणि भवन्त्युत ॥ १५.३२ ॥

माठरस्य वने पुण्ये सिद्धचारणसेविते।
अन्तर्द्धानं न गच्छन्ति सत्तास्तस्मिन्महागिरौ ॥ १५.३३ ॥

विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनम्।
पापधारां न पश्यन्ति धारां पश्यन्ति साधवः ॥ १५.३४ ॥

तस्यां न दृश्यते पापं केषाञ्चित् पापकर्मणाम्।
स्पष्टा भवति सा धारा प्रायशः शुभकर्मणाम् ॥ १५.३५ ॥

कौशलायां मतङ्गस्य वापी पापनिषूदनी।
स्नातास्तस्यां दिवं यान्ति कामचारविहङ्गमाः ॥ १५.३६ ॥

कुमारकोशलातीर्थे पर्वते पालपञ्जरे।
पाण्डु कूले समुद्रान्ते पण्डारकवने तथा ॥ १५.३७ ॥

विमले च विपापे च सत्कृत्य प्रभवेऽभये।
भीवृक्षे गृध्रकूटे च जम्बूमार्गे च नित्यशः ॥ १५.३८ ॥

असितस्य गुरोः पुण्ये योगाचार्यस्य धीमतः।
तत्रापि श्राद्धमानन्त्यमसितायाञ्च नित्यशः ॥ १५.३९ ॥

पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलम्।
महोदधौ प्रभासे च तस्मादेवं विनिर्द्दिशेत् ॥ १५.४० ॥

देविकायां वृषो नाम कूपः सिद्धनिषेवितः।
समुत्पतन्ति तस्यापो गवां शब्देन नित्यशः ॥ १५.४१ ॥

योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतैः।
दद्याच्छ्राद्धन्तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥ १५.४२ ॥

अक्षयं सार्वकामीयं श्राद्धं प्रीणाति वै पितॄन्।
जातवेदः शिला तत्र साक्षादग्नेः सनातनी ॥ १५.४३ ॥

यस्त्वाग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते।
अग्निः शान्तः पुनर्जातस्तस्मिन्दत्तं तदक्षयम् ॥ १५.४४ ॥

दशाश्वमदिके तीर्थे तीर्थे पञ्चाश्वमेधिके।
यथोद्दिष्टं फलं तेषां क्रतूनां नात्र संशयः ॥ १५.४५ ॥

ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम्।
श्राद्धं तत्र तदाक्षय्यं दत्त्वा स्वर्गे च मोदते ॥ १५.४६ ॥

श्राद्धं कुम्भे विमुच्यन्ति ज्ञेयं पापनिषूदनम्।
श्राद्धं तत्राक्षयं प्रोक्तं जप्यहोमतपांसि च ॥ १५.४७ ॥

अझतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन्।
दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम्।
पृथिव्यामक्षयं दत्तं निरुजा यत्र पाण्डवाः ॥ १५.४८ ॥

योगेश्वरैः सदा जुष्टं सर्वपापबहिष्कृतैः।
दद्याच्छ्राद्धन्तु यस्तस्मिस्तस्य वक्ष्यामि यत्फलम् ॥ १५.४९ ॥

अर्चितास्तेन वै साक्षाद्भवन्ति पितरः सदा।
अस्मिल्ँलोके वशी यः स्यात्प्रेत्य स्वर्गे स मोदते ॥ १५.५० ॥

प्रायशः प्रवरः पुण्यः शिवो नाम ह्रदस्तथा।
तत्र व्याससरः पुण्यं दिव्यं ब्रह्मसरस्तथा ॥ १५.५१ ॥

उज्जन्तः पर्वतः पुण्यो वसिष्ठस्य महात्मनः।
ऋग्यजुःसामशिरसः कापोतः पुष्पसाह्वयः।
आख्यातः पञ्चमो वेदः सृष्ट्वा ह्येतेषु ब्रह्मणा ॥ १५.५२ ॥

गत्वैतान् मुच्यते पापाद्द्विजो वह्निः सनातनः ॥

श्राद्धञ्चानन्त्यमेतेषु जप्य होमतपांसि च ॥ १५.५३ ॥

विश्वास-प्रस्तुतिः

पुण्डरीके महातीर्थे पुण्डरीकसमं फलम्।
ब्रह्मतीर्थे महातीर्थे अश्वमेधफलं लभेत् ॥ १५.५४ ॥

सिन्धुसागरसम्भेदे तदा पञ्चनदेऽक्षयम् ।
कीरकात्मा ततः पुण्यो मण्डवायां च पर्वते ॥ १५.५५ ॥

देयं सप्तह्रदे श्राद्धं मानसे च विशेषतः।
महाकूटे च वन्दे च गिरौ त्रिरौ त्रिककुदे तथा ॥ १५.५६ ॥

सन्ध्यायां च महावेद्यां दृश्यते महदद्भुतम्।
अश्रद्दधानान्नाभ्येति साभ्येति च धृतव्रतान् ॥ १५.५७ ॥

जातवेदः शिला तत्र साक्षादग्नेः सनातनी।
श्राद्धानि चाग्निकार्यं च तत्र कुर्यात् सदाक्षयम् ॥ १५.५८ ॥

संश्रयित्वैकमेकेन सायाह्नं प्रति नित्यशः।
तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिना ॥ १५.५९ ॥

कृतात्मा वाऽकृतात्मा वा यत्र विज्ञायते नरः।
स्वर्ग्यमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम्।
वैराण्युत्सृज्य तस्मिस्तु दिवं सप्तर्षयो गताः ॥ १५.६० ॥

अद्यापि तानि दृश्यन्ते वैराण्येव गतानि तु।
स्नात्वा स्वर्गमवाप्नोति तस्मिस्तीर्थोत्तमे नरः ॥ १५.६१ ॥

ख्यातमायतनं तत्र नन्दिसिद्ध निषेवितम्।
नन्दीश्वरस्य या मूर्त्तिर्दुराजारैर्न दृश्यते ॥ १५.६२ ॥

दृश्यन्ते काञ्चना यूपाः सञ्चिष्ये भास्करोदये।
कृत्वा प्रदक्षिणं ते तु गच्छन्त्यन्तर्हिता दिवम् ॥ १५.६३ ॥

सर्वतश्च कुरुक्षेत्रं सुतीर्थञ्च विशेषतः।
पुण्यं सनत्कुमारस्य योगेशस्य महात्मनः।
कीर्त्त्यते च तिलान्दत्त्वा पितॄणां वै सदाऽक्षयम् ॥ १५.६४ ॥

ओजसे चाक्षयं श्राद्धं धर्मराजनिवेशने।
श्राद्धं दत्तममावस्यां विधिना च यथाक्रमम् ॥ १५.६५ ॥

पुनः सन्निहितानां वै कुरुक्षेत्रे विशेषतः।
अर्चयेद्वा पितॄंस्तत्र सत्पुत्रस्त्वनृणो भवेत् ॥ १५.६६ ॥

विनशने सरस्वत्यां प्लक्षप्रश्रवणे तथा।
व्यासतीर्थे सरस्वत्यां ब्रह्मक्षेत्रे विशेषतः ॥ १५.६७ ॥

देयमोङ्कारपठनैः श्राद्धमक्षयमिच्छता।
सर्वतश्चैव गङ्ग्यां मैनाके च नगोत्तमे ॥ १५.६८ ॥

यमुनाप्रभवे चैव सर्वपापैः प्रमुच्यते ।
अत्युष्णाश्चातिशीताश्च आपस्तत्र निदर्शनम् ॥ १५.६९ ॥

यमस्य भगिनी पुण्या मार्त्तण्डदुहिता तथा।
तत्राक्षयं तदा श्राद्धं पितृभिः पूर्वकीर्त्तितम् ॥ १५.७० ॥

ब्रह्मानुगह्रदे स्नात्वा सद्यो भवति ब्राह्मणः।
तस्मिन् हि श्राद्धमानन्त्यं जपहोमतपांसि च ॥ १५.७१ ॥

स्थाणुभूतश्चरंस्तत्र वसिष्ठो वै महातपाः।
अद्यापि यत्र दृश्यन्ते पादपा मणिचर्च्चिताः ॥ १५.७२ ॥

तुला तु दृश्यते यत्र धर्माधर्मप्रदर्शिनी।
यया वै तुलितं विप्रैस्तीर्थानां फलमुत्तमम् ॥ १५.७३ ॥

पितॄणां दुहिता योगा गन्धकालीति विश्रुता।
चतुर्थो ब्रह्मणश्चांशः पराशरकुलोद्वहः ॥ १५.७४ ॥

व्यस्य त्वेकं चतुर्द्धा तु वेदं धीमान् महामुनिः।
महायोगं महात्मानं यो व्यासं जनयिष्यति ॥ १५.७५ ॥

अच्छोदकं नाम सरो यत्राच्छोदा समुच्छ्रिता ।
मत्स्ययोनौ पुनर्जाता नियोगाद्वारणेन तु ॥ १५.७६ ॥

तस्या यत्राश्रमः पुण्यः पुण्यकृद्भिर्निषेवितः।
सकृद्दत्तं तु वै श्राद्धमक्षयं समुदाहृतम्।
तस्यां योग समाधाने दत्तं युगपदुद्भवेत् ॥ १५.७७ ॥

कुबेरतुङ्गे व्यामोच्चे व्यासतीर्थे तथैव च।
पुण्यः स ब्राह्मणो दद्याछ्राद्धमानन्त्यमक्षयम् ॥ १५.७८ ॥

सिद्धैस्तु सेविता नित्यं दृश्यते नाकृतात्मभिः।
अनिवर्त्तनं तु नन्दायां वेद्यां प्रागुत्तरे दिशि ॥ १५.७९ ॥

सिद्धक्षेत्रं तु वै जुष्टं यत्प्राप्य न निवर्त्तते।
महालये पदं न्यस्तं महादेवेन धीमता ॥ १५.८० ॥

देव्यालये तपस्तप्त्वा एकपादेन ईश्वरः।
नीहारश्च युगं दिव्यमुमातुङ्गे स्थितं जलम् ॥ १५.८१ ॥

उमा तुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये।
काद्रवत्यां च शाण्डिल्यां गुहायां वामनस्य च ॥ १५.८२ ॥

गत्वा चैतानि पूतः स्याच्छ्राद्धमक्षयमेव च।
जपो होमस्तथा ध्यानं यत्किचित्सुकृतं भवेत् ॥ १५.८३ ॥

ब्रह्मचर्यं यजन्ते वै गुरुभक्ताः शतं समाः ।
एवमादीनि सद्यस्तां स्नात्वा प्राप्नोति सत्फल्म् ॥ १५.८४ ॥

कुमारधारा तत्रैव दृष्टा पापप्रणाशनी।
यानासनं च तत्रैव सद्यः स्याद्यत् प्रदृश्यते ॥ १५.८५ ॥

शैलकीर्त्तिपुराभ्याशे कामानाप्नोति पुष्कलान्।
अदृश्यः सर्वभूतानां देववच्चरते महीम् ॥ १५.८५ ॥

काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम्।
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥ १५.८६ ॥

तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥ १५.८७ ॥

अक्षयं तु भवेच्छ्राद्धं शालग्रामसमन्ततः।
दृष्ट्या न दृश्यते तत्र प्रत्यक्षमकृतात्मना ॥ १५.८८ ॥

प्रत्यादेशो ह्यशिष्टानां शिष्टानां च निवेशनम् ।
तत्र चैव ह्रदे पुण्ये दिव्यो वै नागराड् यतः ॥ १५.८९ ॥

पिण्डं गृह्णाति हिसतां न गृह्णात्यसतां हि सः।
अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते ॥ १५.९० ॥

प्रत्यक्षं दृश्यते धर्मस्तीर्थयोरनयोर्द्वयोः।
देवदारुवने चापि चारयेस्तं निदर्शनम् ॥ १५.९१ ॥

विधूतानि तु पापानि दृश्यन्ते सुकृतात्मना ।
भागीरथ्यां प्रयागे च नित्यमक्षय्यमुच्यते ॥ १५.९२ ॥

कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले।
वाराणस्यां नगर्यां तु देयं श्राद्धं तु यत्नतः ॥ १५.९३ ॥

तस्यां योगेश्वरो नित्यं तत्तस्यां दत्तमक्षयम्।
दत्त्वा चैतेषु पूतः स्याच्छ्राद्धमानन्त्यमेव च ॥ १५.९४ ॥

तपो होमस्तथा ध्यानं यत् किञ्चित्सुकृतं भवेत्।
लौहित्ये वैतरण्यां वै स्वर्णवेद्यां तथैव च ॥ १५.९५ ॥

सकृदेव समुद्रान्ते दृश्यते पुण्यकर्मभिः।
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा ॥ १५.९६ ॥

गयायां गृध्रकूटे च श्राद्धं दत्तं महाफलम्।
हिमञ्च पतते तत्र समन्तात् पञ्चयोजनम् ॥ १५.९७ ॥

भरतस्याश्रमे पुण्येऽरण्यं पुण्यतमं स्मृतम् ।
मतङ्गस्य पदं तत्र दृश्यते मांस चक्षुषा ॥ १५.९८ ॥

ख्यापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम्।
एवं पञ्चवनं पुण्यं पुण्यकृद्भिर्निषेवितम्।
यस्मिन्पाण्डुविशालेति तीर्थं सद्यो निदर्शनम् ॥ १५.९९ ॥

तुलामानैस्तथा चापैः शास्त्रैश्च विविधैस्तथा।
उन्मज्जन्ति तथा लग्ने ये वै पापकृतो जनाः ॥ १५.१०० ॥

तृतीयायां तथा पादे निःस्वरे पावमण्डले।
महाह्रदे वै कौशिक्यां दत्तं श्राद्धं महाफलम् ॥ १५.१०१ ॥

मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता।
बहून्दवेयुगांस्तप्त्वा तपस्तीव्रं सुदुश्चरम् ॥ १५.१०२ ॥

अल्पेनाप्यत्र कालेन नरो धर्मपरायणः।
पाप्मानमुत्सृजत्याशु जीर्णत्वचमिवोरगः ॥ १५.१०३ ॥

सिद्धानां प्रीतिजननैः पापा नाञ्च भयङ्करैः।
लेलिहानैर्महाभोगै रक्षितन्तु दिवानिशम् ॥ १५.१०४ ॥

नाम्ना कनकनन्दीति तीर्थं त्रैलोक्यविश्रुतम्।
उदीच्यां मुण्डपृष्ठस्य देवर्षि गणसेवितम्।
तत्र स्रात्वा दिवं यान्ति कामचारा विहङ्गमाः ॥ १५.१०५ ॥

दत्तं चापि तथा श्राद्धमक्षयं समुदाहृतम्।
ऋणैस्त्रिभिस्तदा स्नात्वा निक्षिणोति नरोत्तमः ॥ १५.१०६ ॥

तीरे तु सरसस्तत्र देवस्यायतनं महत्।
आरुह्य तज्जपंस्तत्र सिद्धो याति दिवं ततः ॥ १५.१०७ ॥

उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ।
तत्र गत्वा पुरश्रेष्ठं दृश्यते महदद्भुतम् ॥ १५.१०८ ॥

तस्मिन्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम्।
कामान् स लभते दिव्यान् मोक्षोपायं च नित्यशः ॥ १५.१०९ ॥

मानसे सरसि श्रेष्ठे दृश्यते महदद्भुतम्।
दिवश्च्युता महाभागा ह्यन्तरिक्षे विराजते ॥ १५.११० ॥

गङ्गा त्रिपथगा देवी सोमपादाच्च्युता भुवि।
आकाशे दृश्यते तत्र तोरणं सूर्यसन्निभम् ॥ १५.१११ ॥

जाम्बूनदमयं दिव्यं स्वर्गद्वारमिवायतम्।
यतः प्रवर्त्तते भूयः पूर्वसागरमन्तिमम् ॥ १५.११२ ॥

पावनी सर्वभूतानां धर्मज्ञानां विशेषतः।
चन्द्रभागा च सिन्धुश्च उभौ मानससन्निभौ।
सागरं पश्चिमं याति दिव्यसिन्धुर्नदीवरः ॥ १५.११३ ॥

पर्वतो हिमवान्नाम नानाधातुविभूषितः।
योजनानां सहस्राणि आयतोऽशीतिरुच्यते ॥ १५.११४ ॥

सिद्धचारणसङ्कीर्णः सिद्धचारणसेवितः।
तत्र पुष्करिणी रम्या सुषुम्ना नाम विश्रुता ॥ १५.११५ ॥

दशवर्षसहस्राणि तत्र जातस्तु जीवति।
श्राद्धं भवति चानन्त्यं तस्यां दत्तं महोदयम्।
तारयेच्च यदा श्राद्धं दशपूर्वान्दशापरान् ॥ १५.११६ ॥

सर्वं पुण्यं हिमवतो गङ्गा पुण्या च सर्वतः।
समुद्रगाः समुद्राश्च सर्वे पुण्याः समन्ततः ॥ १५.११७ ॥

एवमादिषु सर्वेषु श्राद्धं निर्वर्त्तयेद्बुधः ।
पूतो भवति स्नात्वा नु दत्त्वा दत्त्वा तथैव च ॥ १५.११८ ॥

शैलसानुषु तुङ्गेषु कन्दरेषु गुहासु च।
उपह्वरनितम्बेषु तथा प्रस्रवणेषु च ॥ १५.११९ ॥

पुलिनेष्वापगानां च तथैव प्रभवे युगे।
महोदधौ गवां गोष्ठे सङ्गमेषु वनेषु च ॥ १५.१२० ॥

असंसृष्टोपलिप्तासु हृद्यासु सुरभीषु च।
गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ॥ १५.१२१ ॥

कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि।
प्रदक्षिणं दिशं गत्वा सर्वकामचिकीर्षवः ॥ १५.१२२ ॥

एवमेतेषु सर्वेषु श्राद्धं कुर्यादतन्द्रितः।
एवमेव तु मेधावी ब्राह्मीं सिद्धिमवाप्नुयात् ॥ १५.१२३ ॥

त्रैवर्ण्ये विहिते स्थाने धर्मवर्णाश्रमे तथा।
कोपस्थानस्य सन्त्यागात्प्राप्यते पितृपूजनम् ॥ १५.१२४ ॥

तीर्थान्यनुसरन् धीरः श्रद्दधानो जितेन्द्रियः।
कृतपापश्च शुद्ध्येत किं पुनः शुभकर्मकृत् ॥ १५.१२५ ॥

तिर्यग्योनिं न गच्छेच्च कुदेशे न च जायते।
स्वर्गी भवति वै विप्रो मोक्षोपायं च विन्दति ॥ १५.१२६ ॥

अश्रद्दधानाः पाप्मानो नास्तिकाः स्थितसंशयाः।
हेतुद्रष्टा च पञ्चैते न तीर्थफलमश्र्नुते ॥ १५.१२७ ॥

गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम् ।
ध्यानं तीर्थपरं तस्माद्ब्रह्मतीर्थं सनातनम् ॥ १५.१२८ ॥

उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम्।
उपवासनिबद्धा हि प्राणैरिह पुनः पुनः ॥ १५.१२९ ॥

प्राणापानौ समौ कृत्वा विषयाणीन्द्रियाणि च ।
बुद्धिं मनसि संयम्य सर्वेषां तु निवर्त्तनम् ॥ १५.१३० ॥

प्रत्याहारं पुनर्विद्धि मोक्षोपायमसंशयम्।
इन्द्रियाणां मनो घोरं बुद्ध्यादीनां प्रवर्त्तनम् ॥ १५.१३१ ॥

अनाहारात्क्षयं याति विद्यादनशनं तपः।
निग्रहाद्बुद्धिमनसो रम्या बुद्धिस्तु जायते ॥ १५.१३२ ॥

क्षीणेषु सर्वपापेषु क्षीणेष्वेवेन्द्रियेषु च।
परिनिर्वाति शुद्धात्मा यथा वह्निर्निरिन्धनः ॥ १५.१३३ ॥

कारणेभ्यो गुणेभ्योऽथ व्यक्ताव्यक्तस्य कृत्स्नशः।
वियोजयति क्षेत्रज्ञं तेभ्यो योगेन योगवित् ॥ १५.१३४ ॥

तस्य नास्ति गतिस्थानं व्यक्ताव्यक्तं न संशयः।
आसन्नः सदसन्नैव नैव किञ्चित् स्थित इति ॥ १५.१३५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे तीर्थयात्रा नाम पञ्चदशोऽध्यायः ॥ १५ ॥ *