०१४

॥सूत उवाच।.

विश्वास-प्रस्तुतिः

देवाश्च पितरश्चैव तेभ्योऽन्ये पितरस्तथा।
आथर्वणविधिर्ह्येष प्रत्युवाच बृहस्पतिः ॥ १४.१ ॥

मूलम्

पूजयेच्च पितृन् पूर्वं देवाश्चापि विशेषतः।
देवेभ्योऽपि पितृन् पूर्वमर्चयन्तीह यत्नतः ॥ १४.२ ॥

दक्षस्य दुहिता ख्याता लोके विश्वेति नामतः।
विधिना सा तु धर्मज्ञ दत्ता धर्माय धर्मतः।
तस्याः पुत्रा महात्मानो विश्वेदेवा इति श्रुतिः ॥ १४.३ ॥

प्रख्यातास्त्रिषु लोकेषु सर्वलोकनमस्कृताः।
समस्तास्ते महात्मानश्वेरुरुग्रं महत्तपः ॥ १४.४ ॥

हिमवच्छिखरे रम्ये देवगन्धर्वसेविते।
सर्वाप्सरोभिश्चरितं देवगन्धर्वसेवितम् ॥ १४.५ ॥

शुद्धेन मनसा प्रीताः पितरस्तानथाब्रुवन्।
वरं वृणीध्वं प्रीताःस्म कं कामं करवामहे ॥ १४.६ ॥

एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः।
प्रजानामधिपो ब्रह्मा विशवानितीदमब्रवीत् ॥ १४.७ ॥

॥ब्रह्मोवाच॥

विश्वास-प्रस्तुतिः

महातेजा महादेवस्तपसा तैस्तु तापितः।
तपसा तेन सुप्रीतः कं कामं विदधामि वः ॥ १४.८ ॥

एवमुक्तास्तदा विश्वे ब्रह्मणा लोककर्तृणा।
ऊचुस्ते सहिताः सर्वे ब्रह्माणं लोकभाविनम् ॥ १४.९ ॥

श्राद्धेऽस्माकं भवेदंशो ह्येष नः काङ्क्षितो वरः ।
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदिवपूजितान् ॥ १४.१० ॥

भविष्यत्येवमेवेति काङ्क्षितो वो वरस्तु यः।
पितृभिस्तु तथेत्युक्त्वा एवमेतन्न संशयः ॥ १४.११ ॥

सहास्माभिस्तु वो भाव्यं यत्किञ्चित् क्रियते त्विह।
अस्माकं कल्पिते श्राद्धे युष्मानग्रासनं ह वै ॥ १४.१२ ॥

भविष्यति मनुष्येषु सत्यमेतद्ब्रवीमि ते।
माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेर्जयिष्यति ॥ १४.१३ ॥

प्रदाता चेति युष्माकमस्माकं दास्यते ततः।
विसर्जनमथास्माकं पूर्वं पश्चात्तु देवताः ॥ १४.१४ ॥

रक्षणञ्चैव श्राद्धस्य आतिथ्यञ्च विधिद्वयम्।
भूतानां देवतानाञ्च पितॄणां श्राद्ध कर्मणि।
एवं विधिकृतः सम्यक् सर्वमेतद्भविष्यति ॥ १४.१५ ॥

एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह॥
भूतानुग्रहकृद्देवः सञ्चचार यथासुखम् ॥ १४.१६ ॥

विश्वास-प्रस्तुतिः

वेदे पञ्च महायज्ञा नराणां समुदाहृताः ।
एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः ॥ १४.१७ ॥

यत्र यास्यन्ति दातारः संस्थानं वै निभोधत।
निर्भयं निरहङ्कारं निःशोकं निर्व्यथक्लमम्।
ब्रह्मस्थानमवाप्नोति सर्वकामपुरस्कृतम् ॥ १४.१८ ॥

शूद्रेणापि प्रकर्त्तव्याः पञ्चैते मन्त्रवर्जिताः।
अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ॥ १४.१९ ॥

ऋणञ्च भुङ्क्ते पापात्मा यः पचेदात्मकारणात्।
तस्मान्निर्वर्त्तयेत्पञ्च महायज्ञान्सदा बुधः ॥ १४.२० ॥

नैवेद्यं केचिदिच्छन्ति जीवत्यपि प्रयत्नतः।
उदक्पूर्वं बलिं कुर्यादुदकुम्भं तथैव च ॥ १४.२१ ॥

बलिं सुविदितं कुर्यादुच्चादुच्चतरं क्षिपेत् ।
परश्रृङ्गगवां पूर्व बलिं सूक्ष्मं समुत्क्षिपेत् ॥ १४.२२ ॥

न विनेद्यो भवेत् पिण्डः पितॄणां यस्तु जीवति।
इष्टेनान्नेन भक्ष्यैश्च भोजयेत यथाविधि।
विधानं वेदविहितमेतद्वक्ष्यामि यत्नतः ॥ १४.२३ ॥

देवदेवा महात्मानो ह्येतेपि पितरो ह्युत।
इच्छन्ति किञ्चिदाचार्याः पश्चात् पिण्डनिवेदनम् ॥ १४.२४ ॥

पूजनञ्चैव विप्राणां सर्वमेव हि नित्यशः।
तद्धि धर्मार्थकुशलानित्युवाच बृहस्पतिः ॥ १४.२५ ॥

पूर्वं निवेदयेत्पिण्डं पश्चाद्विप्रांश्च भोजयेत्।
योगात्मानो महात्मानः पितरो योग सम्भवाः।
सोममाप्याययन्त्येते पितरो योगमास्थिताः ॥ १४.२६ ॥

तस्माद्दद्याच्‌छुचिः पिण्डान् योगिभ्यस्तत्परायणः ।
पितॄणां हि भवेदेतत्साक्षादिव हुतं हविः ॥ १४.२७ ॥

ब्राह्मणानां सहस्रेभ्यो योगी चाग्रासने यदि।
यजमानञ्च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ॥ १४.२८ ॥

असतां प्रग्रहो यत्र सताञ्चैव विमानना।
दण्डो देवकृतस्तत्र सद्यः पतति तारुणः ॥ १४.२९ ॥

हित्वागमं सधर्माणं बालिशं यत्र भोजयेत्।
आदिकर्म समुत्सृज्य दाता तत्र विनश्यति ॥ १४.३० ॥

पिण्डमग्नौ सदा दद्याद्भोगार्थी तु प्रयत्नतः ।
प्रजार्थी पत (त्न)ये दद्यान्मध्यमं तत्र पूर्वकम् ॥ १४.३१ ॥

उत्तमां द्युतिमन्विच्छन् गोषु नित्यं प्रयच्छति।
प्रज्ञां पूजां यशः कीर्त्तिं गोषु नित्यं प्रयच्छति ॥ १४.३२ ॥

प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति।
सौकुमार्यमथान्विच्छन् कुक्कुटेभ्यः प्रयच्छति ॥ १४.३३ ॥

एवमेतत्समुद्दिष्टं पिण्डनिर्वपणात् फलम्।
आकाशं शमयेद्वापि स्थितौ सुदक्षिणामुखः।
पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भवेत् ॥ १४.३४ ॥

एकं विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः।
अनुज्ञाते तु तैर्विप्रैर्वानमुद्वियतामिति ॥ १४.३५ ॥

पुष्पाणां चफलानां च भक्ष्याणामन्नतस्तथा।
अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ॥ १४.३६ ॥

भक्ष्यमन्नं तथा पेयमनुत्तमफलानि च।
हुत्वा चाग्नौ ततः पिण्डान्निर्वपेद्दक्षिणामुखः ॥ १४.३७ ॥

स्निग्धैर्भक्ष्यैः सुगन्धैश्च तर्पयेत रसैस्तथा।
एकाग्रः पर्युपासीत प्रयतः प्राञ्जलिः स्थितः।
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ॥ १४.३८ ॥

अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं सत्कृतञ्च यत्।
ततो यज्ञञ्च दानञ्च प्रयच्छन्ति पितामहाः ॥ १४.३९ ॥

अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु।
आनुपूर्व्येण विधिना तन्मे निगदतः श्रृणु ॥ १४.४० ॥

प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः।
ततोऽत्र विकिरं कुर्यात् विधिदृष्टेन कर्मणा ॥ १४.४१ ॥

स्वधां वाच्य ततो विप्रा विधिवद्भूरि दक्षिणान्।
अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् ।
प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ॥ १४.४२ ॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम चतुर्दशोऽध्यायः ॥ १४ ॥ *