बृहस्पतिरुवाच॥
विश्वास-प्रस्तुतिः
पालाशं ब्रह्मगवर्चस्यमश्वत्थे राज्यभावना।
सर्वभूताधिपत्यं च प्लक्षे नित्यमुदाहृतम् ॥ १३.१ ॥
मूलम्

पुष्टिकामं च न्यग्रोधं बुद्धिं प्रज्ञां धृतिं स्मृतिम्।
रक्षोघ्नं च यशस्यं च काश्मर्यं पात्रमुच्यते ॥ १३.२ ॥

सौभाग्यमुत्तमं लोके मधुके समुदाहृतम्।
फल्गुपात्रे च कुर्वाणः सर्वान्कामानवाप्नुयात् ॥ १३.३ ॥

परा द्युतिरथो कर्त्तुः प्राकाश्यं च विशेषतः ।
बिल्वे लक्ष्मीस्तथा मेधा नित्यमायुष्यमेव च ॥ १३.४ ॥

क्षेत्रारामतडागेषु सर्वसस्येषु चैव हि।
वर्षेदजस्रं पर्जन्यो वेणुपात्रेषु कुर्वतः ॥ १३.५ ॥

एतेष्वेव सुपात्रेषु ये चैवाग्रयणं ददुः।
सकृदप्यत्र यज्ञानां सर्वेषां फलमुच्यते ॥ १३.६ ॥

पितृभ्यो यस्तु माल्यानि सुगन्धीनि च सर्वशः ।
सदा दद्याच्छ्रिया युक्तः स विभाति दिवाकरः ॥ १३.७ ॥

गुग्गुलादींस्तथा धूपान् पितृभ्यो यः प्रयच्छति।
संयुक्तान्मधुसर्पिर्भ्यां सोऽश्वमेधफलं लभेत् ॥ १३.८ ॥

धूपं गन्धगुणोपेतं कान्तं पितृपरायणम्।
लभते स्त्रीष्वपत्यानि इह चामुत्र चोभयोः।
दद्यादेव पितृभ्यस्तु नित्यमेव ह्यतन्द्रितः ॥ १३.९ ॥

दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति।
स लोकेऽप्रतिमं चक्षुः सदा च लभते शूभम् ॥ १३.१० ॥

तेजसा यशमा चैव कान्त्या चैव बलेन च।
भुवि प्रकाशो भवति भ्राजते च त्रिविष्टपे।
अप्सरोभिः परिवृतो विमानाग्रे स मोदते ॥ १३.११ ॥

गन्धान्पुष्पाणि धूपांश्च दद्यादाज्यादुतीश्च वै।
फलमूलनमस्कारैः पिदॄणां प्रयतः शुचिः।
पूर्व कृत्वा द्विजान्पश्वात्पूजयेदन्नसम्पदा ॥ १३.१२ ॥

श्राद्धकाले तु सततं वायुभूताः पितामहाः।
आविशन्ति द्विजान्दृष्ट्वा तस्मादेतद्ब्रवीमि ते ॥ १३.१३ ॥

वस्त्रैरन्नैः प्रदानैस्तैर्भक्ष्यपेयैस्तथैव च।
गोभिरश्वैस्तथा ग्रामैः पूजयित्वा द्विजोत्तमान् ॥ १३.१४ ॥

भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु।
तस्मादन्नेन विधिवत् पूजयेद्द्विजसत्तमान् ॥ १३.१५ ॥

सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः।
प्रोक्षणञ्च तथा कुर्याच्छ्राद्धकर्मण्यतन्द्रितः ॥ १३.१६ ॥

दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च।
गन्धदानमलङ्कारमेकैकं निर्वपेद्वुधः ॥ १३.१७ ॥

पोषयित्वा जनं सम्यग्वैश्वः स्यादुत्तरो द्विजः।
अभ्यङ्ग दर्भपिञ्जालैस्त्रिभिः कुर्याद्यथाविधि ॥ १३.१८ ॥

अपसव्यं पितृभ्यश्च दद्यादन्नमनुत्तमम्।
तमुच्चार्याथ सर्वेषां वस्त्रार्थं सूत्रमेव च ॥ १३.१९ ॥

खण्डनं पोषणं चैव तथैवोल्लेखनं तथा।
सकृदेव हि देवानां पितॄणां त्रिभिरुच्यते ॥ १३.२० ॥

एकं पवित्रं हस्तेन पितॄन्सर्वान्सकृत्सकृत्।
चैलमन्त्रेण पिण्डेभ्यो दत्त्वा दर्शनजं हितम् ॥ १३.२१ ॥

सदा सर्पिस्तिलैर्युक्तां स्त्रीन् पिण्डान्निर्वपेद्भुवि।
जानुं कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥ १३.२२ ॥

पितॄन् पितामहांश्चैव तथैव प्रपितामहान्।
आहूय च पितॄन् प्राञ्चान् पितृतीर्थेन यत्नतः।
पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ॥ १३.२३ ॥

अन्नेनाद्भिश्च पुष्पैश्च भक्ष्यैश्चैव पृथग्विधैः।
पृथग् मातामहानान्तु केचिदिच्छन्ति मानवाः ॥ १३.२४ ॥

त्रीन् पिण्डानानुपूर्व्येण साङ्गुष्ठान्पुष्टिवर्द्धनान् ।
जान्वन्तराभ्यां यत्नेन पिण्डान् दद्याद्यथाक्रमम् ॥ १३.२५ ॥

सव्योत्तराभ्यां पाणिभ्यां धर्मे मन्त्रे च पर्ययः।
नमो वः पितरः सूक्ष्मैः सदा ह्येवमतन्द्रितः ॥ १३.२६ ॥

दक्षिणस्यान्तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत्।
नमो वः पितरः सौम्याः पठन्नित्यमतन्द्रितः ॥ १३.२७ ॥

सव्योत्तराभ्यां पाणिभ्यां धर्मे सर्वमतन्द्रितः।
उलूखलस्य लेखाया मुदपात्राच्च सेवनम् ॥ १३.२८ ॥

क्षौमसूत्रं नवं दद्याच्छोणं कार्पासिकं तथा।
पत्रोर्णं पितृसूत्रञ्च कौशेयं परिवर्जयेत् ॥ १३.२९ ॥

वर्जयेत्तद्दशां यज्ञे यदप्यहतवस्त्रजाम्।
न प्रीणन्ति तथैतानि दातुराप्यायतो भवेत् ॥ १३.३० ॥

श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च।
कृष्णेभ्यश्च तिलेभ्यश्च यत्तैलं परिरक्षितम् ॥ १३.३१ ॥

चन्दनागुरुणी चोभे तमालोशीरपझकम्।
धूपं च गुग्गुलश्रेष्ठं तुरुष्कं धूपमेव च ॥ १३.३२ ॥

शुक्लाः सुमनसः श्रेष्ठास्तथा पझोत्पलानि च।
गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ॥ १३.३३ ॥

जवासुमनसो भण्डीरूपकामकुरण्डकाः।
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥ १३.३४ ॥

यानि गन्धादपेतानि उपगन्धीनि यानि च।
वर्जनीयानि पुष्पाणि भूतिमन्विच्छता तदा ॥ १३.३५ ॥

द्विजातयस्तथान्विष्ठा नियताः स्युरुदङ्मुखाः।
पूजयेद्यजमानस्तु विधिवद्दक्षिणामुखः ॥ १३.३६ ॥

तेषामभिमुखो दद्याद्दर्भान्पिण्डांश्च यत्नतः।
अनेन विधिना साक्षादर्च्चयेत् स्वान् पितामहान् ॥ १३.३७ ॥

हरिता वै सपिञ्जल्याः पुष्पस्निग्धाः समाहिताः।
रत्निमात्रप्रदानेन पितृतीर्थेन संस्थिताः ॥ १३.३८ ॥

उपमूले तथा नीलाः प्रस्तराद्यकुलोद्यमाः ।
तथा श्मामाकनीवारा दुर्वाराः समुदाहृताः ॥ १३.३९ ॥

पूर्वङ्कीर्त्तितवाञ्छ्रेष्ठो बभूवाथ प्रजापतिः ।
तस्य वाला निपतिता भूमौ चाकाशमार्गतः ॥ १३.४० ॥

तस्मान्मेध्या समाकाशाः श्राद्धकर्मणि पूजिताः ।
पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता ॥ १३.४१ ॥

प्रजापुष्टिर्द्युतिः कीर्त्तिः प्रजाकान्तिसमन्विता।
भवन्ति रुचिरा नित्यं विपाप्मानोऽघवर्जिताः ॥ १३.४२ ॥

सकृदेवास्तरेद्दर्भान् पिण्डार्थं दक्षिणामुखः।
प्राग्दक्षिणाग्रनियतो विधिञ्चाप्यनुवक्ष्यति ॥ १३.४३ ॥

न दीनो वापि वा क्रुद्धो न चैवान्यमना नरः।
एकाग्रमाधाय मनः श्राद्धं कुर्यात्सदा बुधः ॥ १३.४४ ॥

निहन्मि सर्वं यदमेध्यवद्भवेद् हताश्च सर्वे सुरदानवा मया।
रक्षांसि यक्षाश्च पिशाचसङ्घा हता मया यातुधानाश्च सर्वे ॥ १३.४५ ॥

एवं पित्रे दृष्टमन्नं हि यस्य तस्यासुरा वर्जयन्तीह सर्वे।
यस्मिन्देशे पठ्यते एष मन्त्रस्तं वै देशं राक्षसा वर्जयन्ति ॥ १३.४६ ॥

अनेन विधिना नित्यं श्राद्धं कुर्याद्द्विजः सदा।
मनसा काङ्क्षितं यद्यत्तत्तद्दद्युः पितामहाः ॥ १३.४७ ॥

पितरो हृष्टमनसो रक्षांसि विमनांसि च।
भवन्त्येव कृते श्राद्धे नित्यमेव प्रयत्नतः ॥ १३.४८ ॥

शूद्राः श्राद्धे क्षीरवाशु बल्वजास्तरवस्तथा।
वारणाश्च लवाश्चैव लववर्षाश्च नित्यशः।
एवमादीन्यथान्यानि तृणानि परिवर्जयेत् ॥ १३.४९ ॥

अञ्जनाभ्यञ्जनागन्धामानुप्रलयनं तथा ।
काशैः पुनर्भवैः कार्यं सर्वमेव फलं भवेत् ॥ १३.५० ॥

काशाः पुनर्भवा ये च बर्हणा उपबर्हणाः।
अथ ते पितरो देवा देवाश्च पितरः पुनः ॥ १३.५१ ॥

पुष्पगन्धादिधूपानामेष मन्त्र उदाहृतः।
आहृत्य दक्षिणायान्तु होमार्थे विप्रयत्नतः ॥ १३.५२ ॥

सोमाय वै पितृमते स्वधा अङ्गिरसे नमः।
अस्वर्ग्यं लौकिकं वापि जुहुयात्कर्मसिद्धये ॥ १३.५३ ॥

अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः।
यमाय चैवाङ्गिरसे स्वधा नम इति ब्रुवन् ॥ १३.५५ ॥

इत्येते वै होममन्त्रा मन्त्राणामनु पूर्वशः।
दक्षिणातोऽग्नये नित्यं सोमायान्तरतस्तथा ॥ १३.५६ ॥

एतयोरन्तरं नित्यं जुहुयाद्वै विवस्वते।
उपचारं स्वधाकारं तथैवोल्लेखनञ्च यत् ॥ १३.५७ ॥

होमजप्ये नमस्कारः प्रोक्षणञ्च विशेषतः।
अञ्जनाभ्यञ्जने चैव पिण्डसंवपनं तथा ॥ १३.५८ ॥

अश्वमेधफलेनैव तत्स्मृतं मन्त्रपूर्वकम्।
क्रियाः सर्वा यथो द्दिष्टाः प्रयत्नेन समाचरेत् ॥ १३.५९ ॥

बहुहव्यत्वमेवाग्नौ सुसमिद्धे विशेषतः।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥ १३.६० ॥

अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने।
यजमानो भवेदन्धः सोऽपुत्र इति नः श्रुतम् ॥ १३.६१ ॥

अल्पेन्धनो वा रूक्षो वा विस्फुलिङ्गश्च सर्वशः ।
ज्वाला धूमोपसेव्यश्च स तु वह्निर्न सिद्धये ॥ १३.६२ ॥

दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः।
भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥ १३.६३ ॥

अर्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसम्भवः।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥ १३.६४ ॥

नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम्।
अक्षयाः पूजितास्तेन भवन्ति पितरोऽव्ययाः ॥ १३.६५ ॥

स्थाल्युदुम्बरपात्राणि फलानि समिधस्तथा।
श्राद्धे चातिपवित्राणि मेध्यानीति विशेषतः ॥ १३.६६ ॥

पवित्रं वा द्विजश्रेष्ठ शुद्धये जन्मकर्मसु।
पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ॥ १३.६७ ॥

तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम्।
कृत्वा समाहितं चित्तमग्रये वै करोम्यहम् ॥ १३.६८ ॥

अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः।
पत्नीमादाय पुत्रांश्च जुहुयाद्धव्यवाहनम् ॥ १३.६९ ॥

समानप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः।
उदुम्बरास्तथा बिल्वचन्दना यज्ञियाश्च ते ॥ १३.७० ॥

सरलो देवदारुश्च शालश्च खदिरस्तथा।
समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥ १३.७१ ॥

ग्राम्याः कण्टकिनश्चैव यज्ञिया येन केन च।
पूजिताः समिदर्थे तु पितॄणां वचनं तथा ॥ १३.७२ ॥

समिद्भिः कल्कलेयाभिर्ज्जुहुयाद्यो हुताशनम् ।
फलं यत् कर्मणस्तस्य तन्मे निगदतः श्रृणु ॥ १३.७३ ॥

आयसं सर्वकामीयमश्वमेधफलं हि तत्।
श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस्तथा ॥ १३.७४ ॥

नीपो विभी तकश्चैव वल्लीभिश्च तथैव च।
शकुनानां निवासश्च वर्जयेच्च महीरुहान्।
अयज्ञीयाः स्मृता ये च वृक्षांश्चैव तु वर्जयेत् ॥ १३.७५ ॥

स्वधेति चैव मन्त्रान्ते पितॄणां वचनं तथा।
स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ॥ १३.७६ ॥