०१२

॥बृहस्पतिरुवाच॥

विश्वास-प्रस्तुतिः

सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते।
रजतं रजताक्तं वा पितॄणां पात्रमुच्यते ॥ १२.१ ॥

मूलम्

रजतस्य तथा चापि दर्शनं दानमेव च।
अनन्तमक्षयं स्वर्ग्यं पितॄणां दानमुच्यते।
पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥ १२.२ ॥

राजते हि स्वधा दुग्धा पात्रेऽस्मिन्पितृभिः पुरा।
स्वधादायार्थिभिस्तात तस्मिन्दत्ते तदक्षयम् ॥ १२.३ ॥

कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव वा।
रक्षोघ्नं ब्रह्मवर्च्चस्यं पितॄंस्तत्तद्वितारयेत् ॥ १२.४ ॥

काञ्चनं राजतं ताम्रं दौहित्रं कुतपस्तिलाः।
वस्त्रञ्च पावनीयानि त्रिदण्डो योगमेव च ॥ १२.५ ॥

श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्यः सनातनः।
आयुः कीर्त्तिः प्रजाश्चैव प्रज्ञासन्ततिवर्द्धनः ॥ १२.६ ॥

दिशि दक्षिणपूर्वस्यां विदिकूस्थानं विशेषतः।
सर्वतोरत्निमात्रन्तु चतुरस्रं सुसंहितम् ॥ १२.७ ॥

वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासनात्।
धन्यमारोग्यमायुष्यं बलवर्णविवर्द्धनम् ॥ १२.८ ॥

तत्र गर्त्तास्त्रयः कार्यास्त्रयो दण्डाश्च खादिराः।
रत्निमात्रास्तु ते कार्या रजतेन विभूषिताः।
तेवितस्त्यायताः कार्याः सर्वतश्चतुरङ्गुलाः ॥ १२.९ ॥

प्राग्दक्षिणमुखान्भूमौ स्थितानसुषिरंस्तथा।
अद्भिः पवित्रपूताभिः प्लावयेत्सततं शुचिः ॥ १२.१० ॥

पयसा ह्याजगव्येन शोधनं वाग्भिरेव तु।
तर्पणात्सततं ह्येवं तृप्तिर्भवति शाश्वती ॥ १२.११ ॥

इह चामुत्र च श्रीमान्सर्वकर्मसमन्वितः।
एवं त्रिषवणस्नातो योऽर्चयेत पितॄन्सदा ।
मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत् ॥ १२.१२ ॥

तत्स्थापयेदमावास्यां गर्त्ते भूचतुरङ्गुले ।
त्रिःसप्तसञ्ज्ञास्ते यज्ञास्त्रैलोक्यं धार्यते तु वै ॥ १२.१३ ॥

तस्य पुष्टिरथैश्वर्यमायुः सन्ततिरेव च।
विचित्रा भजते लक्ष्मीर्मोक्षं च लभते क्रमात् ॥ १२.१४ ॥

पाप्मापहं पावनीयमश्वमेधफलं तथा।
अश्वमेधफलं ह्येतद्द्विजैः सत्कृत्य पूजितम्।
मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ॥ १२.१५ ॥

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च।
नमः स्वधायै स्वाहायै नित्यमेव भवन्त्युत ॥ १२.१६ ॥

आद्यावसाने श्राद्धस्य त्रिरावर्त्तं जपेत्सदा।
पिण्डनिर्वपणे चैव जपेदेतत्समाहितः।
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ १२.१७ ॥

पितॄंस्तत्र्त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत।
पठ्यमानः सदा श्राद्धे नियतं ब्रह्‌मवादिभिः ॥ १२.१८ ॥

राज्यकामो जपेदेनं सदा मन्त्रमतन्द्रितः।
वीर्यशौचार्थसत्त्वञ्च श्रीरायुर्बलवर्द्धनम् ॥ १२.१९ ॥

प्रीयन्ते पितरो येन जप्येन नियमेन च।
सप्तार्च्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ १२.२० ॥

अमूर्तानां समूर्तानां पितॄणां दीप्त तेजसाम्।
नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगचक्षुषा ॥ १२.२१ ॥

इन्द्रादीनां जनयितारो भृगुमारीचयोस्तथा।
सप्तर्षीणां पितॄणाञ्च तान्नमस्यामि कामदान् ॥ १२.२२ ॥

मन्वादीनां सुरेशानां सूर्याचन्द्रमसोस्तथा।
तान्नमस्कृत्य सर्वान्वै पितॄन्कुशलदायकान् ॥ १२.२३ ॥

नक्षत्राणां चरादीनां पितॄनथ पितामहान्।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ १२.२४ ॥

देवर्षीणाञ्जनयितॄंश्च सर्वलोकनमस्कृतान्।
अभयस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः ॥ १२.२५ ॥

प्रजा पतेः कश्यपाय सोमाय वरुणाय च।
योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥ १२.२६ ॥

पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु।
स्वयम्भुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥ १२.२७ ॥

एतदुक्तं ससप्तर्षिब्रह्मर्षिगणपूजितम् ।
पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥ १२.२८ ॥

अनेन विधिना युक्तस्त्रीन्वरान् लभते नरः।
अन्नमायुः सुतांश्चैव ददते पितरो भुवि ॥ १२.२९ ॥

भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः।
सप्तार्च्चिषं जपेद्यस्तु नित्यमेव समाहितः।
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ॥ १२.३० ॥

यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव च।
अनिवेद्य न भोक्तव्यं तस्मिन्नायतने सदा ॥ १२.३१ ॥

क्रमशः कीर्त्तयिष्यामि बलिपात्राण्यतः परम्।
येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रृणु ॥ १२.३२ ॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम द्वादशोऽध्यायः ॥ १२ ॥ *