॥सूत उवाच॥
विश्वास-प्रस्तुतिः
सप्त मेधावतां श्रेष्ठाः स्वर्गे पितृगणाः स्मृताः।
चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्त्तयः।
तेषां लोकविसर्गन्तु कीर्त्तयिष्ये निबोधत ॥ ११.१ ॥
मूलम्

या वै दुहितरस्तेषां दोहित्राश्चैव ये स्मृताः।
धर्ममूर्त्तिधरास्तेषां ये त्रयः परमा गणाः ॥ ११.२ ॥

नामानि लोकसर्गञ्च तेषां वक्ष्ये समासतः।
लोका विरजसो नाम्ना यत्र तिष्ठन्ति भास्वराः ॥ ११.३ ॥

अमूर्त्तयः पितृगणाः पुत्रास्ते वै प्रजापतेः।
विरजस्य द्विजाः श्रेष्ठा वैराजा इति विश्रुताः ।
एष वै प्रथमः कल्पो वैराजानां प्रकीर्त्तितः ॥ ११.४ ॥

तेषान्तु मानसी कन्या मेना नाम महागिरेः।
पत्नी हिमवतः शुभ्र यस्यां मैनाक उच्यते ॥ ११.५ ॥

जातः सर्वैषधिधरः सर्वरत्नाकरात्मवान्।
पर्वतः प्रवरः पुण्यः क्रौञ्चस्तस्यात्मजोऽभवत् ॥ ११.६ ॥

तिस्रः कन्यास्तु मेनायां जनयामास शैलराट्।
अपर्णामेकपर्णाञ्च तृतीयामेकपाटलाम् ॥ ११.७ ॥

आश्रिते द्वे ह्यपर्णा तु अनिकेता तपोऽचरत्।
न्यग्रोधमेकपर्णी तु पाटलामेकपाटला।
शतं वर्षसहस्राणि दुश्चरं देवदानवैः ष॥ ११.८ ॥

आहारमेकपर्णेन एकपर्णी समाचरत्।
पाटलेनैव चैकेन विदध्यादेकपाटला ॥ ११.९ ॥
मूलम्
आहारमेकपर्णेन एकपर्णी समाचरत्।
पाटलेनैव चैकेन विदध्यादेकपाटला ॥ ११.९ ॥
विश्वास-प्रस्तुतिः
पूर्णे पूर्णे सहस्रे द्वे आहारं वै प्रजक्रतुः ।
एका तत्र निराहारा तां माता प्रत्यभाषत ॥ ११.१० ॥

निषेधयन्ती ह्युमेति माता स्रेहेन दुःखिता।
सा तथोक्ततया देवी मात्रा दुश्चरचारिणी ॥ ११.११ ॥

उमेति सा महाभागा त्रिषु लोकेषु विश्रुता ।
तथेति नाम्ना तेनासौ निरुक्ता कर्मणा शुभा ॥ ११.१२ ॥

एतत्तु त्रिकुमारीकं जगत्स्यास्यति शाश्वतम्।
एतासां तपसा दृप्तं यावद्भूमिद्धरिष्यति ॥ ११.१३ ॥

तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः।
देव्यस्ताः सुमहाभागाः सर्वाश्च स्थिरयौवनाः ॥ ११.१४ ॥

सर्वाश्च ब्रह्मवादिन्यः सर्वा श्चैवोर्ध्वरेतसः।
उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ॥ ११.१५ ॥

महायोगबलोपेता महादेवमुपस्थिता।
दन्तकाण्वोशना तस्याः पुत्रो वै भृगु नन्दनः ॥ ११.१६ ॥

असितस्यैकपर्णी तु पत्नी साध्वी दृढव्रता।
दत्ता हिमवता तस्मै योगाचार्याय धीमते।
देवलं सुषुवे सा तु ब्रह्मिष्ठं मानसं सुतम् ॥ ११.१७ ॥

या चैतासां कुमारीणां तृतीया त्वेकपाटला।
पुत्रं शतशिलाकस्य जैगीषव्यमुपस्थिता ॥ ११.१८ ॥

तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ।
इत्येता वै महाभागाः कन्या हिमवतः शुभाः ॥ ११.१९ ॥

रुद्राणी सा तु प्रवरा स्वगुणैरतिरिच्यते।
अन्योन्यप्रीतिरनयोरुमाशङ्करयोर्यथा ॥ ११.२० ॥

श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा।
ताभ्यां मैथुनसक्ताभ्यामपत्योद्भवभीरुणा।
तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ॥ ११.२१ ॥

अनयो रतिविघ्नञ्च त्वमाचर हुताशन।
सर्वत्र गत एव त्वं न दोषो विद्यते तदा ॥ ११.२२ ॥

इत्येवमुक्ते तु तथा वह्निना च तथा कृतम्।
उमादेहं समुत्सृज्य शुक्रं भूमौ विसर्जितम् ॥ ११.२३ ॥

ततो रुषितया देव्या शप्तोऽग्निः शांशपायन।
इदं चोक्तवती वह्निं रोषगद्घदया गिरा ॥ ११.२४ ॥

यस्मान्मय्यवितृप्तायां रतिविघ्नं हुताशन।
कृतवानस्यकर्त्तव्यं तस्मात्त्वमसि दुर्मते ॥ ११.२५ ॥

यदेवं विभृतं गर्भं रौद्रं शुक्रं महाप्रभम्।
गर्भं त्वं धारयस्वैवमेषा ते दण्डधारणा ॥ ११.२६ ॥

स शापरोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः।
बहून्वर्षगणान् गर्भं धारयामास वै द्विजाः ॥ ११.२७ ॥

स गङ्गामुपगम्याह श्रूयतां सरिदुत्तमे।
सुमहान् परिखेदो मे गर्भधारणकारणात् ॥ ११.२८ ॥

मद्धितार्थमिमं गर्भमतो धारय निम्नगे।
मत्प्रसादाच्च खेदो वै मन्दस्तव भविष्यति ॥ ११.२९ ॥

तथेत्युक्त्वा तदा सा तु सम्प्रहृष्ट महानदी।
तं गर्भं धारयामास दह्यमानेन चेतसा ॥ ११.३० ॥

सापि कृच्छ्रेण महता खिद्यमाना महानदी।
कालं प्रकृष्टं सुमहद्घर्भधारणतत्परा ॥ ११.३१ ॥

तया परिगतं गर्भं कुक्षौ हिमवतः शुभे।
शुभं शरवणं नाम चित्रं पुष्पितपादपम्।
तत्र तं व्यसृजद्गर्भं दीप्यमानामिवानलम् ॥ ११.३२ ॥

रुद्राग्निगङ्गातनयस्तत्र जातोऽरुणप्रभः ।
आदित्यशतसङ्काशो महातेजाः प्रतापवान् ॥ ११.३३ ॥

तस्मिञ्जाते महाभागे कुमारे जाह्नवीसुते।
विमानयानैराकाशं पतत्रिभिरिवावृतम् ॥ ११.३४ ॥

देवदुन्दुभयो नेदुराकाशे मधुरस्वराः।
मुमुचुः पुष्पवर्षञ्च खचराः सिद्धचारणाः ॥ ११.३५ ॥

जगुर्गन्धर्वमुख्याश्च सर्वशस्तत्र तत्र ह।
यक्षा विद्याधराः सिद्धाः किन्नराश्चैव सर्वशः ॥ ११.३६ ॥

महानाग सहस्राणि प्रवराश्च पतत्रिणः ।
उपतस्थुर्महाभागमाग्नेयं शङ्करात्मजम्।
प्रभावेण तदा तेन दैत्यदानवराक्षसाः ॥ ११.३७ ॥

सह सप्तर्षिभार्याभिरादावे वाग्निसम्भवः।
अभिषेकप्रयाताभिर्दृष्टो वर्ज्य त्वरुन्धतीम् ॥ ११.३८ ॥

ताभिः स बालार्कनिभो रौद्रः परिवृतः प्रभुः ।
स्निह्यमानाभिरत्यर्थं स्वकाभिरिव मातृभिः ॥ ११.३९ ॥

युगपत्सर्वदेवीर्हि दिदृक्षुर्जाह्नवीसुतः।
षप्मुखो व्यसृजच्छ्रीमांस्तासां प्रीत्या महाद्युतिः ॥ ११.४० ॥

श्रीमान् कमलपत्राक्षस्तरुणादित्य सन्निभः।
येन जातेन लोकानामाक्षेपस्तेजसा कृतः ॥ ११.४१ ॥

तेन जातेन महता देवानामसहिष्णवः।
स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान् ॥ ११.४२ ॥

कृत्तिकाभिस्तु यस्मात् संवर्द्धितः स पुरातनः।
कार्त्तिकेय इति ख्यातस्तस्मादसुरसूदनः ॥ ११.४३ ॥

जृम्भतस्तस्य दैत्यारेर्ज्वालामालाकुलात्तदा।
मुखाद्विनिर्गता तस्य स्वशक्तिरपराजिता ॥ ११.४४ ॥

क्रीडार्थञ्चैव स्कन्दस्य विष्णुना प्रभविष्णुना।
गरुडादिति सृष्टौ हि पक्षिणौ हि प्रभद्रकौ ॥ ११.४५ ॥

मयूरः कुक्कुटश्चैव पताका चैव वायुना।
यस्य दत्ता सरस्वत्या महावीणा महास्वना।
अजः स्वयम्भुवा दत्तो मेषो दत्तश्च शम्भुना ॥ ११.४६ ॥

माया विहरणे विप्रा गिरौ क्रौञ्चे निपातिते।
तारके चासुरवरे समुदीर्णे निपातिते ॥ ११.४७ ॥

सेन्द्रोपेन्द्रैर्महाभागैर्देवरैग्निसुतः प्रभुः ।
सेनापत्येन दैत्यारिरभिषिक्तः प्रतापवान् ॥ ११.४८ ॥

देवसेनापतिस्त्वेवं पठ्यते नरनायकः।
देवारिस्कन्दनः स्कन्दः सर्वलोकेश्वरः प्रभुः ॥ ११.४९ ॥

प्रमथैर्विविधैर्दवैस्तथा भूत गणैरपि ।
मातृभिर्विविधाभिश्च विनायकगणैस्तथा ॥ ११.५० ॥

सा त्वपश्यद्विमानानि पतन्ती सा दिवश्च्युता ।
त्रसरेणुप्रमाणानि तेष्वपश्यच्च्युतान् पितॄन् ॥ ११.५१ ॥

सुसूक्ष्मानपरित्यक्तानग्नीनग्निष्विवाहितान्।
त्रायध्वमित्युवाचाथ पतन्ती तानवाक्शिराः ॥ ११.५२ ॥

तैरुक्ता सा तु माभैषीरित्युक्ताधिष्ठिताभवत्।
ततः प्रासादयत्सा वै पितॄंस्तान् दीनया गिरा ॥ ११.५३ ॥

ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात्।
भ्रष्टैश्वर्या स्वदोषेण तपसि त्वं शुचिस्मिते ॥ ११.५४ ॥

यैः क्रियन्ते च कर्माणि शरीरैरिह दैवतैः ।
तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ॥ ११.५५ ॥

सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे।
तस्मादमावस्वपत्यत्वं प्रेत्य प्राप्स्यसे फलम् ॥ ११.५६ ॥

इत्युक्त्या वै पितरः पुनस्ते तु प्रसादिताः।
ध्यात्वा प्रसादं सञ्चक्रुस्तस्यास्ते त्वनुकम्पया ॥ ११.५७ ॥

अवश्यम्भाविनं दृष्ट्वा ह्यर्थमूचुस्ततः सुराः ।
सोमपाः पितरः कन्यां राज्ञश्चैव ह्यमावसोः ॥ ११.५८ ॥

उत्पन्नस्य पृथिव्यां तु मानुषत्वे महात्मनः।
कन्या भूत्वा त्विमाल्ँलोकान्पुनः प्राप्स्यसि स्वानिति ॥ ११.५९ ॥

अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा।
अस्यैव राज्ञो दुहिता अद्रिकायां ह्यमावसोः ॥ ११.६० ॥

पराशरस्य दायादं ऋषेस्त्वं जनयिष्यसि।
स वेदमेकं विप्रर्षिश्चतुर्धा वै करिष्यति ॥ ११.६१ ॥

महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्त्तिवर्द्धनौ।
विचित्रवीर्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि ॥ ११.६२ ॥

चित्राङ्गदं चराजानं तेजोबलगुणान्वितम्।
एतानुत्पाद्य पुत्रं स्वं पुनर्लोकानवाप्स्यसि ॥ ११.६३ ॥

व्यतिक्रमात्पितॄणां त्वं प्राप्स्यसे जन्म कुत्सितम्।
तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि ॥ ११.६४ ॥

कन्या भूत्वा ततश्च त्वमिमान् लोकानवाप्स्यसि।
एवमुक्ता तु दाशेयी जाता सत्यवती तु सा ॥ ११.६५ ॥

अद्रिकायां सुता मत्स्यां सुता जाता ह्यमावसोः।
अद्रि कामत्स्यसम्भूता गङ्गायामनुसङ्गमे ॥ ११.६६ ॥

तस्य राज्ञो हि सा कन्या राज्ञो वीर्ये सदैव हि।
विरजा नाम ते लोका दिवि रोचन्ति ते गणाः ॥ ११.६७ ॥

अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्वरप्रभाः ।
तान्दानवगणा यक्षा रक्षोगन्धर्वकिन्नराः।
भूतसर्पपिशाचाश्च भावयन्ति फलार्थिनः ॥ ११.६८ ॥

एते पुत्राः समाख्याताः पुलहस्य प्रजापतेः।
त्रय एते गणाः प्रोक्ता धर्ममूर्तिधराः शुभाः ॥ ११.६९ ॥

एतेषां मानसी कन्या पीवरी नाम विश्रुता।
योगिनी योगपत्नी च योगमाता तथैव च ॥ ११.७० ॥

भविता द्वापरं प्राप्य अष्टाविंशन्तु दैवतम्।
पराशरकुलोद्भूतः शुको नाम महातपाः ॥ ११.७१ ॥

श्रीमान्योगी महायोगी योगस्तस्माद्द्विजोत्तमः।
व्यासादरण्यां सम्भूतो विधूम इव पावकः ॥ ११.७२ ॥

स तस्यां पितृकन्यायां योगाचार्यान्परिश्रुतान् ।
कृष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं ववौ ॥ ११.७३ ॥

कन्यां कीर्त्तिमतीञ्चैव योगिनीं योगमातरम् ।
ब्रह्मदत्तस्य जननी महिषी त्वणुहस्य तु ॥ ११.७४ ॥

एतानुत्पाद्य धर्मात्मा पुत्रान्योगमवाप्य च।
महायोगतपाश्चैव अपरावर्त्तिनीं गतिम् ॥ ११.७५ ॥

आदित्यकिरणोपेतं त्वपुनर्भावमास्थितः।
सर्वव्यापि विनिर्मुक्तो भविष्यति महामुनिः ॥ ११.७६ ॥

अमूर्त्तिमन्तः पितरो धर्ममूर्त्तिधरास्तु ये।
त्रय एते गणास्तेषां चत्वारोऽन्ये निबोधत ॥ ११.७७ ॥

यान्वक्ष्यामि द्विजश्रेष्ठा मूर्त्तिमन्तो महाप्रभाः।
उत्पन्नास्ते स्वधायास्तु कन्या ह्यग्नेः कवेः सुताः ॥ ११.७८ ॥

पितरो देवलोकेषु ज्योतिर्भासिषु भास्वराः।
सर्वकामसमृद्धेषु द्विजा स्तान्भावयन्त्युत ॥ ११.७९ ॥

एतेषां मानसी कन्या गौर्नाम दिवि विश्रुता।
दत्तसेना कुमारेण शुक्रस्य महिषी प्रिया ॥ ११.८० ॥

एकत्रिंशच्च विख्याता भृगूणां कीर्त्तिवर्द्धनाः।
मरीचिगर्भास्ते लोकाः समावृत्य दिवि स्थिताः ॥ ११.८१ ॥

एते ह्यङ्गिरसः पुत्राः साध्यैः सह विवर्द्धिताः।
उपहूताः स्मृतास्ते तु पितरो भास्वरा दिवि।
तान्क्षत्रियगणान्दृष्ट्वा भावयन्ति फलार्थिनः ॥ ११.८२ ॥

एतेषां मानसी कन्या यशोदा नाम विश्रुता।
पत्नी सा विश्वमहतः स्नुषा वै विश्वशर्मिणः ॥ ११.८३ ॥

राजर्षेर्जननी देवी खट्वाङ्गस्य महात्मनः।
यस्य यज्ञे पुरा गीता गाथा गीतैर्महर्षिभिः ॥ ११.८४ ॥

अग्नेर्जन्म तथा दृष्ट्वा शाण्डिल्यस्य महात्मनः।
यजमानं दिलीपं ये पश्यन्ति सुसमाहिताः।
सत्यव्रतं महात्मानं ते स्वर्गजयिनोऽमराः ॥ ११.८५ ॥

आज्यपा नाम पितरः कर्दमस्य प्रजापतेः ।
समुत्पन्नस्य पुलहादुत्पन्नास्तस्य वै पुनः ॥ ११.८६ ॥

लोकेष्वेतेषु वर्त्तन्ते कामगेषु विहङ्गमाः ।
एतान्वैश्यगणाः श्राद्धे भावयन्ति फलार्थिनः ॥ ११.८७ ॥

एतेषां मानसी सन्या विरजा नाम विश्रुता ।
ययातेर्जननी साध्वी पत्नी सा नहुषस्य तु ॥ ११.८८ ॥

सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः ।
हिरण्यगर्भस्य सुताः शूद्रास्तान्बावयन्त्युत ॥ ११.८९ ॥

मानसा नाम ते लोका वहन्ते यत्र ते दिवि।
एतेषां मानसी कन्या नर्मदा सरितां वरा ॥ ११.९० ॥

सा भावयति भूतानि दक्षिणापथगामिनी ।
जननी त्रसद्दस्योर्हि पुरुकुत्सपरिग्रहः ॥ ११.९१ ॥

एतेषामभ्युपगमान्मातुर्मन्वन्तरेश्वरः ।
मन्वन्त रादौ श्राद्धानि प्रवर्त्तयति सर्वशः ॥ ११.९२ ॥

पिदॄणामानुपूर्व्येण सर्वेषां द्विजसत्तमाः ।
तस्मादिह स्वधर्मेण श्राद्धं देयन्तु श्रद्धया ॥ ११.९३ ॥

सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः।
दत्तं स्वधां पुरोधाय तथा प्रीणाति वै पितॄन् ॥ ११.९४ ॥

सोमस्याप्यायनं कृत्वा ह्यग्नेर्वैवस्वतस्य च।
उद गायनञ्चाग्नौ च अश्वमेधं तदामुयात् ॥ ११.९५ ॥

पितॄन् प्रीणाति वै भक्त्या पितरः प्रीणयन्ति तम्।
पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः।
पुष्टिं प्रजां च स्वर्गं प्रयच्छन्ति न संशयः ॥ ११.९६ ॥

देवकार्यादपि सदा पितृकार्यं विशिष्यते।
देवताभ्यः पितॄणां हि पूर्वमाप्यायनं स्मृतम् ॥ ११.९७ ॥

न हि योगगतिः सूक्ष्मा पितॄणामपि तृप्तयः।
तपसा हि प्रसिद्धेन दृश्यन्ते मांसचक्षुषा ॥ ११.९८ ॥

इत्येते पितरश्चैव लोका दुहितरश्च वै।
दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति तान् ॥ ११.९९ ॥

चत्वारो मूर्त्तिमन्तश्च त्रयस्तेषाममूर्त्तयः।
तेभ्यः श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः ॥ ११.१०० ॥

भक्ताः प्राञ्जलयः सर्वे सेन्द्रास्तद्घतमानसाः।
विश्वे च सिकताश्चैव पृश्निजाः श्रृङ्गिणस्तथा ॥ ११.१०१ ॥

कृष्णाः श्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत।
प्रजास्ता वातरशना दिवाकीर्त्त्यास्तथैव च ॥ ११.१०२ ॥

लेखाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः।
अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व एव च ॥ ११.१०३ ॥

यक्षा नागाः सुपर्णाश्च किन्नरा राक्षसैः सह।
पितॄंस्त्वपूजयन्सर्वे नित्यमेव फलार्थिनः ॥ ११.१०४ ॥

एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः।
सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ॥ ११.१०५ ॥

हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा।
मोक्षं योगमयैश्वर्यं प्रयच्छन्ति पितामहाः ॥ ११.१०६ ॥

मोक्षोपायमथैश्वर्यं सूक्ष्मदेहाश्च देवताः।
कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ॥ ११.१०७ ॥

ऐश्वर्यं विहितं योगमैश्वर्यं वित्तमुत्तमम्।
योगैश्वर्यदृते मोक्षः कथञ्चिन्नोपपद्यते ॥ ११.१०८ ॥

अपक्षस्यैव गमनं गगने पक्षिणो यथा ।
वरिष्ठः सर्वधर्माणां मोक्षो धर्मः सनातनः ॥ ११.१०९ ॥

विमानानां सहस्राणि युक्तान्यप्सरसाङ्गणैः।
सर्वकामप्रसिद्धानि प्रयच्छन्ति पितामहाः ॥ ११.११० ॥

प्रज्ञा पुष्टिः स्मृतिर्मेधा राज्यमारोग्यमेव च।
पितॄणां हि प्रसादेन प्राप्यते सुमहात्मना ॥ ११.१११ ॥

मुक्तावैढूर्यवासांसि वाजिनागायुतानि च।
कोटिशश्चापि रत्नानि प्रयच्छन्ति पितामहाः ॥ ११.११२ ॥

हंसबर्हिणयुक्तानि मुक्तावैढूर्यवन्ति च।
किङ्किणीजालनद्धानि सदा पुष्पफलानि च।
प्रीत्या नित्यं प्रयच्छन्ति मनुष्याणां पितामहाः ॥ ११.११३ ॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नामैकादशोऽध्यायः ॥ ११ ॥ *